Digital Sanskrit Buddhist Canon

तृतीय अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīya adhyāyaḥ

तृतीय अध्यायः

महाह्रदशोषणधर्मधातुपद्मगिरि सम्प्रतिष्ठापन्नो नाम



अथाशोको महीपालः साञ्जलिःपुर आश्रितः।

तमर्हन्तं यतिं नत्वा प्रार्थयेदेवमादरात्॥१॥



भदन्त श्रोतुमिच्छामि तद् भूमि सत्कथां।

तत्सम्यक् समुपादिश्य संबोधयितुं नो भवान्॥२॥



इति संप्रार्थिते राज्ञा सोऽर्हन्यतिर्महामतिः।

उपगुप्तो नरेन्द्रं तं सम्पश्यन्नेवमादिशत्॥३॥



साधु शृणु महाराज यथा मे गुरुणोदितं।

तथाहं ते प्रवक्ष्यामि सर्वलोकाभिवोधने॥४॥



तद्यथाथ महासत्त्वो मैत्रेयः स जिनात्मजः।

भगवन्तं पुनर्नत्वा सांजलिरेवमब्रवीत्॥५॥



भगवन्नावासोसौमहा जलाश्रयो ह्रदः।

कदा भूमि प्रदेशोऽत्र कथं जलाश्रयो भवेत्॥६॥



कस्य च समये देशाग्रामादयः प्रवर्त्तिताः।

तत्सर्वं समुपादिश्यन्सर्वानस्मान्प्रवोधयन्॥७॥



इति संप्रार्थिते तेन मैत्रेयेन सः सर्ववित्।

भगवान्स्तं महासत्त्वं सम्पश्यन्नैवमादिशत्॥८॥



साधु शृणु महासत्त्वं यदत्राभूत् महीतले।

तत्प्रवृत्तिं समाख्यामि सर्वलोकाभिबोधने॥९॥



तद्यथा भूविलोकानां वर्ष षष्टी सहस्रका।

पुराभूत् भगवाञ्छास्ता विश्वभूर्न्नामसर्ववित्॥१०॥



धर्मराजो मुनीन्द्रोऽर्हस्तथागतो विनायकः।

सर्व विद्याधिपस्तापी संबुद्ध सुगतो जिनः॥११॥



सोऽनुपमानाम पूर्यां उपकण्ठे जिनाश्रमे।

सर्वसत्त्व हितार्थेन विजहार ससांधिकः॥१२॥



मैत्रेयोऽहं तदा भूवं विश्वभू उपासकः।

पर्वताख्यो महासत्त्वो बोधिसत्त्वो हितार्थभृत्॥१३॥



तत्र स भगवाञ्छास्ता संभासयं सुधाशुवत।

सद्धर्म्म समुपादेष्टुं सभासने सभाश्रयत्॥१४॥



तं दृष्टा भिक्षवो सर्वे श्रावकाः ब्रह्मचारिणः।

प्रत्येक सुगताश्चापि बोधिसत्त्वाश्चचैलकाः॥१५॥



भिक्षुण्या ब्रह्मचारिण्योयतयोऽयोगिनो पिच।

त्रिरत्न भजनारक्ता उपासक उपासिकाः॥१६॥



एवं मन्येपि लोकाश्च सद्धर्म्म गुणलालसाः।

भद्रश्री सभाणारक्ता संबुद्ध दर्शणोत्सुका॥१७॥



तत्सुधर्म्मामृतं पातुं समत्येन मुनीश्वरं।

यथाक्रमं समभ्यर्च्य नत्वा साञ्जलाय मुदा॥१८॥



परिवृत्य पुरस्कृत्य समुद्विक्ष्य समादरात्।

तत्सभायां समाश्रित्य संनिषेदु समाहिताः॥१९॥



एवं ब्रह्मादयः सर्वे ऋषयो ब्रह्मचारिणः।

तीर्थिका अपि सर्वे तत्सद्धर्मं श्रोतुमागताः॥२०॥



शक्रादयोयिदावाश्च सर्वलोकाधिपा अपि।

ग्रहास्तारागणाः सिद्धाः साध्या विद्याधरा अपि॥२१॥



सर्वेऽपि ते ससागत्य भगवन्तं यथाक्रमं।

समभ्यर्च्य प्रणत्वा तत सभायां समुपाश्रयत्॥२२॥



एवं च ब्राह्मणा विज्ञा राजान क्षत्रिया अपि।

वैश्याश्च मन्त्रिणोऽमात्या गृहस्थाश्च महाजनाः॥२३॥



शिल्पिनो वणिजश्चापि सार्थवाहाश्च पौरिकाः।

ग्राम्या जानपदाश्चापि तथा न्ये देशवासिनः॥२४॥



सर्वे ते समुपागत्य भगवन्त यथाक्रमं।

समभ्यर्च्य प्रणत्वा च कृत्वा प्रदक्षिणान्यपि॥२५॥



गुरु कृत्य पुरस्कृत्य परिवृत्य समन्ततः।

तत्सधर्म्मामृतं पातुमुपतस्थुः समाहिताः॥२६॥



तान्दृष्ट्वा समुपासीनान् विश्वभूर्भगवांजिनः।

आदि मध्यान्त कल्याणं सद्धर्म समुपादिशत्॥२७॥



तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः सभाश्रिताः।

धर्म्मविशेषमाज्ञाय प्राप्यनन्द प्रवोधिताः॥२८॥



तस्मिन्क्षणे मही सर्वा च चारद्धि सपर्वताः।

सुप्रसन्ना दिशः सर्वा रेजुरवीन्द्र वह्न्यः॥२९॥



सुरदुन्दुभयो नेन्दुर्निपेतुः पुष्पवृष्टयः।

निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः॥३०॥



तद् विलोक्य सभालोकाः सर्वे ते विस्मयान्विताः।

श्रोतुं तद्धेतु सर्वज्ञमुद्वीक्ष्य तस्थुरादिताः॥३१॥



तदा गगनगञ्जाख्यो बोधिसत्त्वः समुत्थितः।

उद्धहन्नुत्तरासंग पुरतः समुपाश्रित॥३२॥



सर्वज्ञं तं महाभिज्ञं धर्म्मराजं विनायकं।

विश्वभुवं मुनिन्नत्वा सांजलिरेवमब्रवीत्॥३३॥



भगवन्तद्रनैमित्यं कस्येदं जायतेऽधुना।

तद्‍भवान्समुपादिश्य संबोधयतु नो गुरोः॥३४॥



इति संप्रार्थिते तेन भगवान्स मुनीश्वरः।

गगनगंजमालोक्य तं सभाचैवमब्रवीत्॥३५॥



कुलपुत्र महद् भद्र निमित्तमिदमाचरत्।

तदहं सप्रवक्षामि शृणुध्वं यूयमादरात्॥३६॥



तद्यथा त्रिगुणाभिज्ञा मञ्जुश्रीः सुगतात्मजः।

उत्तरस्यां महाचीने विहरति नगाश्रमे॥३७॥



तस्य भार्या उभेज्येष्टाकेशिनी श्रीवरप्रदा।

विद्या सद्‍गुण संभर्त्री द्वितीयाः चोपकेशिनी॥३८॥



एकस्मिन् समये तत्र मंजुश्रीः सद्‍गुणोदधिः।

लोकं संदर्शन नाम समाधिं विदधे मुदा॥३९॥



ध्यान दृष्टा ददर्शात्र महाह्रदसरोरुहे।

रत्नमयं समुत्पन्नं धर्म्मधातुं जिनालयं॥४०॥



स्वयंभुवं तमालोक्य मंजुदेवं सुसन्मतिः।

संहर्षितः पुर्नध्यात्वा मनसैवं व्यचिन्तयेत्॥४१॥



अहो स्वयं समुद्‍भूतो धर्म्मधातु जिनालयः।

निर्जने जलमये ज्योतिरूपः संभाषयन् स्थितः॥४२॥



तत् तथाहं करिष्यामि गत्वा तत्र महाह्रदे।

शोषयित्वा तदम्भान्सि यथा पृथ्वीतलोऽभवत्॥४३॥



तदा तत्र महीभूत्रे निर्जले सुप्रतिष्ठिते।

शिलोच्चये प्रतिष्ठाप्य भजिष्यामि तमीश्वरं॥४४॥



तथा तत्र महीभूते ग्रामादि वसतिर्भवेत।

तदा सर्वेऽपि लोकाश्यः भजेयुस्तं जिनालयं॥४५॥



तथा तत् पुण्य भावेन सर्वदा तत्र मंगलं।

निरुत्पातं भवेन्नूनं लोकाश्च स्यूः सुभाविनः॥४६॥



ततस्ते मानवाः सर्वे तस्यैव शरणाश्रिताः।

यथाशक्ति महोत्साहैः प्रभजेयुः सदा मुदा॥४७॥



ततस्तत्पुण्यशुद्धास्ते सद्धर्म गुणलालसाः।

बोधिसत्त्वा महासत्त्वाश्चरेयुर्बोधिसंवरं॥४८॥



ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं।

त्रिविधां विधिमासाद्य निवृतिपदमाप्नुयुः॥४९॥



एवं कृत्वा महत्पुण्यं प्राप्याहं त्रिजगत्स्वपि।

कृत्वा धर्म्ममयं बोधिप्राप्य निवृत्तिपदमाप्नुयां॥५०॥



इति ध्यात्वा विनिश्चित्य मञ्जुश्रीः सजिनात्मजः।

मञ्जुदेवाभिधाचार्यरूपं धृत्वा महर्द्धिमान्॥५१॥



केशिनी वरदा नाम मोक्षदाख्योऽपकेशिनी।

भूत्वानेकैः महासत्त्वैः सहसर्वेऽपिनेचरत्॥५२॥



ततश्चरन् सभार्यासौ मञ्जुदेवः ससांधिकः।

सर्वत्र भद्रतां कृत्वा महोत्सार्हैः समाचरत्॥५३॥



तत्र ते समुपागत्य दूरतः संप्रभास्वरं।

महाह्रदाव्जमध्यस्थं ददृशुस्तं जिनालयं॥५४॥



तत्र ते तं समालोक्य ज्योतिरूपं समुज्वलं।

प्रणत्वा सहसोपेत्यः कृत्वा प्रदक्षिणानि च॥५५॥



तत्तीरे पर्वते रम्ये सर्वेऽपि ते समाश्रिताः।

तं चैत्यमेव संवीक्ष्य न्यवसन्त प्रमोदिताः॥५६॥



ततः प्रातः समुत्थाय मञ्जुदेवः स ऋद्धिमान्।

भक्तया परमयास्तौषिज्जिनालयं स्वयंभुवं॥५७॥



ज्योतिरूपाय चैतन्यरूपाय भवते नमः।

अनादि निधनाय श्रीदात्रे प्रणवरूपिणे॥५८॥



विश्वतोमुख रूपाय स्वाहास्वधारूपिणे।

पृथ्व्यादिभूतनिर्मात्रे महामहस्वरूपिणे॥५९॥



जगत्‌स्रष्टे जगत्पात्रे जगद् धर्त्रे नमो नमः।

जगत् वंद्याय जगतमाराधाय च ते नमः॥६०॥



अतिस्थूलाय सूक्ष्माय विकाराय विकारिणे।

निराकृतिकृते तुभ्यं सच्चिदानंदमूर्त्तयै॥६१॥



वषट्‍कार स्वरूपाय हुतभुजे स्वयं नमः।

होत्रे हवन रूपाय होमद्रव्याय ते नमः॥६२॥



भक्तिलभ्याय सोम्याय भक्तवत्सलाय ते नमः।

ध्यानगम्याय ध्येयाय चतुवर्गप्रदायिने॥६३॥



अग्ररत्नाय निःसीममहिम्ने सर्वदा नमः।

गुणातीताय योगाय योगिने च सदा नमः॥६४॥



एवं स्तुत्वा मञ्जुदेवः पुनः क्षमार्थतां व्यधात्।

प्रसीद भगवन् यदहं हदं संशोषितुं यते॥६५॥



इत्युक्त्वा चन्द्रहासं स सज्जीकृत्य समं ततः।

त्रिधा प्रदक्षिणीकृत्य समन्ततो व्यलोकयत्॥६६॥



विलोक्य स महासत्त्वो याम्य दिशावृतं नगं।

चन्द्रहासेन खड्गेन छित्वा जलाश्रयं व्यधात्॥६७॥



तच्छिन्नशैलमार्गेण तज्जलानि समन्ततः।

प्रनिर्गत्याशु सर्वाणि गंगासंगममाययुः॥६८॥



तदारभ्य नदा नद्यो बभूवुर्भूतले ह्रदाः।

दिग्विदिक्षु मलांभोभिस्तद् द्वीपैः परिपूरिताः॥६९॥



तत्र निरुध्य येऽम्वुनि यत्र ये शिलाः स्थिताः।

तत्र तत्र सतान्सर्वाश्छित्वा स्वूनिच चारयेत्॥७०॥



एवं स सर्वतः छित्वा कृत्वा तज्जलनिर्गमं।

त्रिरात्रेणापि न जलानि सर्वाणि निरचारयेत्॥७१॥



तज्जला धानमेकन्तु ह्रदं धनादहाभिधं।

कर्क्कोटकनागस्य समस्थाप यदाश्रमं॥७२॥



सिंहेनोपद्रुता यद् वद गजेन्द्रोभय विह्वलाः।

महारावै रुदन्तो वै विद्रवन्तो दिशो दशः॥७३॥



एवं तज्जलसंघातश्चन्द्रहासासिछेदनात्।

मार्गान्तरान्निरगमत पंकशेषं यथाभवत्॥७४॥



तज्जलाधानमेकेन्तु ह्रदं धराद्रहाभिधं।

कर्क्कोतकस्य नागस्य समस्थापयदाश्रयं॥७५॥



ततस्तस्मिन् जले शुष्केयदाधारसरोरुहं।

तदेव पर्वताभूय धर्मधातोर्व्यवस्थितः॥७६॥



मञ्जुदेवानुभावेन स सर्वपर्वतोक्तमः।

अभेद्या वज्रवक्तेन वज्रकूट इति स्मृतः॥७७॥



तदासौ भूतलोरम्यः समन्ततो नगावृतः।

उपछन्दोह इत्याख्या हिमाल योऽपिचोच्यते॥७८॥



सुदुर्जया स्वरूपाभूः प्रज्ञा ज्ञानानुभाविनी।

हेरुकमण्डलाकारा भूत्वा समवतिष्ठते॥७९॥



तत्रापि च प्रधाना श्री महादेवी खगानना।

धर्म्मोदया समुहुता संतिष्ठते जगद्धिते॥८०॥



तं दृष्ट्वा स महाचर्या मञ्जुदेवो महर्द्धिमान।

बोधिसत्त्वो महासत्त्वः प्रत्यत्यानन्दितोऽभवत्॥८१॥



ततः स तां महादेवी समालोक्य प्रमोदितः।

उरसा शिरसा दृष्टया वचसा मनसा तथा॥८२॥



पद्‍भ्यां कराभ्यां जानुभ्यां अष्टांगोऽपि इति स्मृतः।

अष्टांगै प्रणीता कृत्वा सांजलिः समुपाश्रयन्॥८३॥



सुप्रसन्न मुखाम्भोजः सुप्रबुद्धो शयाम्बुजः।

संपश्यस्तां महादेवीं स्तोत्रैरेवं मुदाभजं॥८४॥



भगवति महादेवी भवत्याः शरणं व्रजे।

वन्दे पादाम्वुजे नित्यं भजामि तन्प्रसीदतु॥८५॥



जननी सर्वबुद्धानां त्वमेव बोधिदायिनी।

सर्वेषां बोधिसत्त्वानां माताहितानुपालिनी॥८६॥



सर्वहितार्थ संभक्ति सर्वपापविशोधनी।

दुष्ट मारगणाक्षोभ महानन्द सुखप्रदा॥८७॥



सद्धर्म्मसाधनोत्साहवलवीर्य गुणप्रदा।

निःक्लेशस्तिमितेध्यान समाधि सुखदायिनी॥८८॥



प्रज्ञागुण महारत्न श्री समृद्धि प्रदायिनी।

तद् भक्त्याः पदाम्भोज शरणस्थो भजाम्यहम्॥८९॥



इति संप्रार्थ्य स प्राज्ञो मञ्जुदेव स सम्वरी।

तस्या भक्ती प्रसन्नात्मा समाराधितुमैच्छत्॥९०॥



अथ तत्र स आचार्यः सगणः संप्रमोदितः।

मार्ग शीर्षैशितैः पक्षै नवम्यां रविवासरे॥९१॥



प्रातः स्नात्वा विशुद्धात्मा शुचिवस्त्रावृतः सुधीः।

पोषधसम्वरं धृत्वा देवीमाराधयं स्थितः॥९२॥



रात्रौ जागरणं कृत्वा धारणी मन्त्रजल्पनैः।

स्तुतिभिश्च समाराध्यं प्राभजतां जिनेश्वरीं॥९३॥



ततः प्रातः दशम्यां स स्नात्वा गन्धोदकैर्मुदा।

दत्वा दानं यथाकामं परिशुद्धत्रिमण्डलः॥९४॥



यथाविधिसमभ्यर्च्य तां देवीं परमेश्वरीं।

महोत्साहैः स्तुतिं कृत्वा त्रिधा प्रदक्षिणानि च॥९५॥



सुप्रसन्न मुखाम्भोजः सद्धर्मगुणमानसः।

भूयोऽष्टांगैः प्रणत्वैवं प्रार्थयात्सांजलिमुद्रा॥९६॥



प्रसीदतु जगन्मातर्भवत्याः समुपाश्रितः।

संबोधि साधनोत्सौ भजामि सर्वदा मुदां॥९७॥



इति संप्रार्थ्य संप्राज्ञौ नत्वाष्टांगैर्मुदा च तां।

तत्पद्‍मामृतमादाय त्रिध्यमञ्जुलिना पिवेत्॥९८॥



तदमृतं निपीयासौ संविशुद्धत्रिमण्डलं।

अष्टाक्षणविनिर्मुक्तः संबुद्धक्षणमाप्नुवान्॥९९॥



एवं कृत्वा स आचार्य देव्या भक्तिपरायणः।

संबुद्धक्षणमासाद्य सर्व धर्म्माधिपोऽभवत्॥१००॥



ततः श्रीमान् स आचार्यो बोधिसत्त्व जगद्धिते।

स संघान्यवसत् तत्र धर्मधातौरूपाश्रमैः॥१०१॥



तत्समभ्यषितत्वात् संप्रदेशः श्री मनोहरः

स्यात्सर्वत्रापि मञ्जुश्रीपर्वत इति विश्रुतः॥१०२॥



तत्र श्रितः सदाप्यस्प धर्म्मधातोरूपासकः।

सर्वसत्त्व हितार्थेन प्राभजन्स जिनात्मजः॥१०३॥



तत्समीक्षामला सर्वेब्रह्मेन्द्रप्रमुखा‍अपि।

सर्वेलोकाधिपाश्चापि मुदा तत्र समागताः॥१०४॥



तत्रैवो पोषढं धृत्वा कृत्वा जागरणं निशि।

उषित्वा धारणी मन्त्रः ध्यात्वा तां श्री जिनेश्वरीं॥१०५॥



यथाविधि समभ्यर्च्य कृत्वा प्रदक्षिणानि च।

कृत्वाष्टांग प्रणामानि स्तुतिभिश्चा भजं मुदा॥१०६॥



एवं तस्यामहादेव्याः सर्वे तै शरणाश्रिताः

धर्मश्रीगुणसंपत्ति महर्द्धिसिद्धिमाप्नुवन्॥१०७॥



ततस्ते चामराः सर्वे सेन्द्र ब्रह्मादयाधिपाः।

वज्रकूटं नगाव्जं तं समीक्ष्यन्ते जिनालयं॥१०८॥



अनुमोद्याभिनन्दन्ते स्तस्यापि शरणे गताः।

महोत्साहैः समभ्यर्च्य प्रभजन्त समादरं॥१०९॥



ततः सर्वेऽमरास्तैच सर्वैलोकाधिपाश्च ते।

अस्यापि मञ्जुदेवस्य वज्राचार्यस्य सद्‍गुरोः॥११०॥



शरणे समुपासृत्य दिव्य पूजोपहारकैः।

समभ्यर्च्य महोत्साहैः प्राभजन्त प्रमोदिताः॥१११॥



एवं मन्वादयः सर्वे मनुयोपियःमहर्षयः।

यतयोगिनश्चापि भिक्षवो ब्रह्मचारिणः॥११२॥



चैलका बोधिसत्त्वाश्च महासत्त्वा जिनात्मजाः।

ते सर्वे समुपागत्य तस्या देव्या उपासकाः॥११३॥



यथाविधि समभ्यर्च्य प्राभजन्त प्रमोदिताः।

ततस्ते धर्म्मधातौश्च सर्वेऽपि शरणाश्रिताः॥११४॥



समभ्यर्च्य महोत्साहैः नत्वा कृत्वा प्रदक्षिणां।

सुप्रसन्न मुखाम्भोजान्त प्रमोदितनः॥११५॥



ततस्ते च महासत्त्व मञ्जुदेवं महद्धिंकिम्।

आचार्य समुत्साहैः समर्चयं प्रमोदिताः॥११६॥



प्रत्येक सुगताश्चापि सर्वे तत्र समागताः।

तां देवी धर्म्मधातुं तमाचार्यं च समार्चयं॥११७॥



सर्वे तथागताश्चापि पूजामेघसर्जनैः।

तां देवीं धर्मधातुं तमाचार्यं च समाचर्यं॥११८॥



एवंमन्येपि लोकाश्च प्रदुष्ट्वा समुपागताः।

तां देवीं धर्मधातुं च तमाचार्यं च प्राभजन्॥११९॥



एतत्पुण्यानुभावेन चलिता साव्धिनगा मही।

पुष्पवृष्टिः शुभोत्साहं प्रवर्त्तते समन्ततः॥१२०॥



इत्यादिष्ट मुनीन्द्रेण विश्वभूवा निशम्यते।

सर्वे समाश्रिता लोका विस्मयं समुपाययुः॥१२१॥



ततः सर्वेऽपि ते लोकास्तां देवीं श्रीमहेश्वरी।

धर्म्मधातुतमाचार्यं द्रष्टुमभिव वाञ्छिरे॥१२२॥



तदाशयं परिज्ञायः गगणगञ्ज उत्थितः।

भगवन्तन्तमानस्पश्यन्नेवमव्रवीत्॥१२३॥



भगवन् सर्वमिच्छन्ति द्रष्टुंतां सुगेश्वरीं।

धर्म्मधातुं तमाचार्यं तदनुज्ञां ददातु नः॥१२४॥



इति संप्रार्थितं तेन भगवान्स मुनीश्वरः।

गगणगञ्जमात्मज्ञ तं पश्यन्नेवमादिशत्॥१२५॥



साधु साध्यामहादेवीं खगाननाजिनेश्वरीं।

धर्मधातुं तमाचार्यमपिर्दष्टुं यदीच्छथ॥१२६॥



तत्र हिमालये गत्वा तां श्री देवीं खगाननां।

धर्मधातुं तमाचार्यं संभजध्वं यथा विधि॥१२७॥



इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्यते।

सर्वे लोका महोत्साहै रत्राययुः प्रमोदिताः॥१२८॥



अहमपि मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः।

तैःसार्द्धं प्रस्थितौ दूरात्पश्यन्निमंमाययौ॥१२९॥



अत्र प्राप्नोऽहं समालोक्य धर्म्मधातुन्निमं मुदा।

समभ्यर्च्य महोत्साहैस्तै लोकैः प्राभजं सह॥१३०॥



श्रद्धया शरणं गत्वा कृत्वा चैनं प्रदक्षिणां।

स्तुत्वाष्टांगैः प्रणत्वा च प्रार्थयं बोधिसम्वरं॥१३१॥



ततोऽहं मञ्जुदेवाख्यं तमाचार्य समीक्ष्य च।

समभ्यर्च्य महोत्साहैः प्राभजध्वं सहानुजैः॥१३२॥



ततस्तस्योपदेश तां श्रीदेवीं खगाननां।

यथाविधि समाराध्य महोत्साहैः समर्चयं॥१३३॥



कृत्वा प्रदक्षिणां चापि नत्वाष्टाङ्गैः प्रमोदितः।

स्तुत्वा ध्यात्वा च संबोधिं संप्रार्थय जगद्धिते॥१३४॥



एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः।

अष्टाक्षण विनिर्मुक्तो बोधिसत्त्वो भवं कृती॥१३५॥



ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमं।

जित्वा मारगणान् अर्हन् कलावपि जिनोभवे॥१३६॥



एवमस्या महादेव्याः ये ये शरण आश्रिताः।

यथाविधि समाराध्य भजेयु बोधिमानसाः॥१३७॥



ते ते सर्वे महासत्त्वाः परिशुद्ध त्रिमण्डलाः।

बोधिसत्त्वा महाभिज्ञा भवेयु स्त्रिगुणाधिपाः॥१३८॥



कुत्रापि ते नगच्छेत् दुर्ग्गतिञ्च कदाचन।

सदासङ्गतिसंजात भवेयुः श्री गुणाश्रयाः॥१३९॥



यथाभिवाच्छितं द्रव्यं दत्वार्थिभ्यो समादरात्।

यथाकामं सुखं भुक्त्वा सञ्चरेरञ्जगद्धिते॥१४०॥



ततो विशुद्धशीलास्ते चतुर्ब्रह्म विहारिणः।

बोधिसत्त्वसम्वरमाधाय संचरेरन् सदा शुभे॥१४१॥



ततस्ते स्यु र्महासत्त्वाः सद्धर्म्म सुखलालसाः।

स्वपरात्महिताधारक्षान्तिव्रतसमारताः॥१४२॥



ततस्ते सद्‍गुणाधारा वीर्यवन्तो विचक्षणाः।

सद्धर्म्म साधनोद्युक्ता भवेयु स्त्रिगुणाधिपाः॥१४३॥



ततस्ते सुधियो धीरा निःक्लेशा विजितेन्द्रियाः।

समाधि गुणसम्पन्ना भवेयुबोधियोगिनः॥१४४॥



ततस्ते विमलात्मानः सर्वविद्या गुणाधिपाः।

प्रज्ञाश्री रत्न संप्राप्तो भवेयुः सुगतात्मजाः॥१४५॥



ततश्च ते सहासत्त्वाः सर्वे सत्त्वा हितोत्सुकाः।

सर्वापाय विधि प्राज्ञा भवेयुश्त्रिगुणाधिपाः॥१४६॥



ततस्ते बोधिसंभार प्रणिधिरत्नसागराः।

सर्वसत्त्वहितं कृत्वा संचरेरं सदाशुभे॥१४७॥



ततश्च ते महाभिज्ञाः भद्रश्री सत्गुणान्विताः।

वलिष्ठा दुष्ट जेतारो भवेयु स्त्रिभवेश्वराः॥१४८॥



ततस्ते त्रिविधां बोधिमासाद्य भद्रचारिणः।

सम्बोधिज्ञानसद्रन्तसमृद्धाः स्यु र्मुनीश्वराः॥१४९॥



ततस्ते सुगताः बुद्धाः दशभूमीश्वराजिनाः।

बोधिमार्गे प्रतिष्ठाप्य कूर्युः सर्वान्सुधर्म्मिणः॥१५०॥



एवं धर्ममयं कृत्वा सर्वत्र भुवनेष्वपि।

सुनिवृर्तिपदं प्राप्य संप्रयायुर्जिनालयं॥१५१॥



एवमस्या महादेव्या भजनो हूतमुक्तमं।

पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं॥१५२॥



इति सत्यं समाख्यातं सर्वै रपि मुनीश्वरैः।

विज्ञायास्या महादेव्या भजध्वं शरणे स्थिता॥१५३॥



अस्यापि धर्म धातौश्च भजनोद्‍भूतमुक्तमं।

पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं॥१५४॥



अस्यापि मञ्जुदेवस्यः भजनोद् भूतमुक्तमं

पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं॥१५५॥



मत्वेति यदि वो वांच्छा विद्यते सौगते पदे।

सर्वे यूयं समाधाय भजतान्त्र जिनालये॥१५६॥



खगाननास्याया महादेव्याः शरणे च समाश्रिताः।

ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवं॥१५७॥



य एषां शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहिताः।

नामापि समुदाहृत्य भजन्ति सर्वदाभवे॥१५८॥



ते सभद्रा नगच्छन्ति दुर्ग्गतिं च कदाचन।

सदा सद्‍गति संजाता भवेयुः श्री गुणाश्रयाः॥१५९॥



बोधिसत्त्वा महासत्त्वा सद्धर्म बोधि चारिणः।

सर्वसत्त्व हितोद्युक्ता भवेयुः सुगतात्मजाः॥१६०॥



एवन्तेषां महत्सौख्यं भद्रश्री सद्‍गुणान्वितं।

सर्वदापि निरुत्पातं प्रवर्क्तते समाहितः॥१६१॥



दैवोत्पातभयन्तेषांत विद्यते समन्ततः।

यक्तान्दृष्ट्वा सुराः सर्वे रक्षन्तीन्द्रादयोमुदा॥१६२॥



अग्न्युत्पातंभयं तेषां विद्यते न कदाचन।

यत् तान्दृष्ट्‍वा प्रसीदन्तो रक्षेयुर्वह्नयः सदा॥१६३॥



अकाल मरणाद् भीतिस्तेषान्नविद्यते क्वचित्।

यद्यमोपि समलोक्य रक्षति तां प्रसादितः॥१६४॥



राक्षसस्याभयं तेषां विद्यते न समन्ततः।

यद् वायवोऽपि ता वीज्य रक्षेयुः सर्वदानुगाः॥१६५॥



यक्षस्यापि भयं तेषां विद्यते न सदा क्वचित्।

यक्षा समीक्ष्य रक्षेयुः सर्वे यक्षाधिपा अपि॥१६६॥



भूतेभ्योऽपि भयन्तेषां विद्यते न समन्ततः।

यदीशानोपि तान्पश्य संरक्षेत्संप्रमोदिताः॥१६७॥



गन्धर्वोत्पति तो भीतिस्तेषान्नविद्यते क्वचित्।

धृतराष्टोऽपि तान्पश्यत् संरक्षेत्सं प्रसादितः॥१६८॥



कुम्भाण्डेभ्योऽपि नास्त्येवं भयन्तेषां कदाचन।

विरुढकोहितान् पश्यनभिरक्षन् प्रसादतः॥१६९॥



नागेभ्योऽपि भयन्तेषां विद्यते न सदा क्वचित।

विरुपाक्षो हि सम्यश्यन्तान्रक्षन्सम्प्रसादितः॥१७०॥



यक्षेभ्योऽपि सदा तेषां विद्यते न भयं क्वचित।

कुवेरो हि समालोक्य संरक्षस्तान् प्रसादितः॥१७१॥



भयं न किन्नरेभ्योपि तेषामस्ति कदाचन।

द्रुमो हितान् महासत्त्वा संवीक्षवत् प्रसादितः॥१७२॥



गुह्यकेभ्योपि नास्त्येव भयन्तेषां सुधर्म्मणां।

वज्रपाणिर्हितान्वीक्ष्य प्रसादिता भवेत् सदा॥१७३॥



तथा विद्याधरेभ्योऽपि भयन्तेषान्न विद्यते।

यतः सर्वार्थसिद्धोऽपि सम्यश्यन्स्तान् वेत्सदा॥१७४॥



ग्रहोत्पात भयन्तेषां विद्यते न कदाचन।

ग्रहाधिपाऽहि सर्वेऽपि समीक्ष्य तानवेत्सदा॥१७५॥



तथा तारागणोत्पातभयं तेषान्नविद्यते।

सर्वास्ता राहि तान्वीक्ष्य सर्वत्रा वेयुराभवं॥१७६॥



सिद्धाः साध्याश्चरुद्राश्च वीक्ष्यावेयुः सदापि तान्।

तत्तेभ्योपि भयं क्वापि तेषां नास्ति कदाचन॥१७७॥



तथा च मातृकोत्पातं भयं नास्ति कदाचन।

सर्वाहि मातृकान् दृष्ट्वा रक्षेयु स्तां प्रसादिताः॥१७८॥



महाकालो गणेश स्कन्दश्च भैरवा अपि।

सर्वदा तान्समालोक्य रक्षेयुः संप्रसादिताः॥१७९॥



प्रेता भूताः पिशाश्चाश्च वेताडा डाकिनीगणाः।

अपि तान्सर्वदालोक्य संरक्षेयुः प्रसादिताः॥१८०॥



तेभ्योऽपि भयन्तेषां विद्यते न कदाचन।

सर्वेऽपि र्तेसहायाः स्यु संवोधि धर्म्मसाधने॥१८१॥



सिंहादि सर्वजन्तुभ्योः पक्षिभ्योऽपि समन्ततः।

सर्पादि कृमिकीटेभ्यो भयन्तेषां सदापि न॥१८२॥



दुष्ट प्रत्यर्थिकेभ्योऽपि तस्करेभ्योपि सर्वतः।

शत्रुभ्योऽपि भयन्तेषां विद्यते न समन्ततः॥१८३॥



यदेतत्पुण्यलिप्तास्तां समीक्ष्य ते प्रसादिताः।

सर्वे मैत्री कृपा स्नेह निवद्धाः स्युहितार्थिनः॥१८४॥



एवं सर्वेऽपि सत्वास्तान्दृष्ट्‍वा संप्रसादिताः।

स्निग्धचिक्ताप्रसन्नास्याः पश्येयु मैत्रीभावतः॥१८५॥



राजानोऽपि च तान्दृष्ट्वा मैत्री स्नेहसभाविताः।

सुप्रसन्नाशयाः प्रीता मानयेयुः सदा मुदा॥१८६॥



मन्त्रीणोऽपि सदा तेषां मैत्रीस्नेह सभाषिताः।

मानयेयुःयथाकामं सद्धर्म्म व्रतसाधनं॥१८७॥



ब्राम्हणा अपि सर्वे च तेषां सद्धर्म्म साधनं।

दृष्ट्‍वानुमोदितात्मानो दधु भद्राशिवं सदा॥१८८॥



ऋषयोऽपि तथा सर्वे तां दृष्ट्‍वा संप्रसादिताः।

पश्यन्तः कृपया दृष्ट्‍वा मोदयेयुः सुभाशिषा॥१८९॥



एवं च योगिनः सिद्धा यतयो ब्रम्हचारिणः।

तीर्थिकास्तापसाश्चापि व्रतिनश्चाप्युपासकाः॥१९०॥



चैरका भिक्षवोश्चापि भिक्षुण्यश्चाप्युपासिकाः।

अपि तां सुदृशालोक्य नन्दयेयुः शुभाशिषाः॥१९१॥



एवं च श्रावकाः सर्वे प्रत्येक सुगता अपि।

बोधिसत्वाश्च सर्वेऽपि तान् दृष्ट्‍वा संप्रसादिताः॥१९२॥



कृपया दृष्टवानुपश्यन्तो मैत्री स्नेहसुभाविनः।

रक्षित्वा बोधिमार्गेषु नियाजेयुः सदा भवं॥१९३॥



एवं सर्वेऽपि संबुद्धा दृष्ट्वा तां संप्रसादिताः।

सर्वदा कृपया रक्ष्युचारयेयुर्ज्जगद्धिते॥१९४॥



एवं तेषां महत्पुण्यं सम्बुद्ध पदसाधनं।

भद्रश्रीगुणसंपत्ति समृद्धि सिद्धिसंप्रदं॥१९५॥



एवं यूयमपि ज्ञात्वा सर्वदा शरणाश्रिताः।

यथाशक्ति समभ्यर्च्य भजतैतांस्त्रिरत्निकान्॥१९६॥



स्मृत्वा ध्यात्वापि नामापि समुच्चार्य सदा मुदा।

एषामेव त्रिरत्नानां भजध्वं शरणे स्थिता॥१९७॥



एतत्पुण्यविलिप्ता ये परिशुद्धत्रिमण्डलाः।

भद्रश्रीगुणसंपन्ना भवेस्ते शुभाशया॥१९८॥



दुर्गतिं ते न गच्छेयुः सदा सद्‍गतिसंभवाः।

बोधिसत्वा महासत्वा भवेर्युभद्रचारिणः॥१९९॥



ततस्ते सर्वसत्वानां हितार्थ साधनोद्यताः।

सुधीरा बोधिसम्भारं पूरयित्वा यथाक्रमं॥२००॥



ततो मारगणाञ्जित्वा निःक्लेशा विजितेन्द्रियाः।

अर्हन्त त्रिविधां बोधिंप्राप्य यायु जिनालयं॥२०१॥



एत्सर्व मया ख्यातं सर्वैरपि मुनीश्वरैः।

श्रुत्वानुमोदनां कृत्वा प्रचरध्वं सदाशुभे॥२०२॥



इत्यादिष्टं मुनीन्द्रेण निशम्यते सभाश्रिताः।

सर्वे तथानुमोदन्तः प्राप्यानन्दत्प्रवोधिताः॥२०३॥



इति श्री स्वयम्भूत्पत्तिसमुद्देश महाह्रद शोषण धर्म्मधातु पद्मगिरिसंप्रस्थापनो नाम तृतीयोऽध्यायः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project