Digital Sanskrit Buddhist Canon

द्वितीय अध्यायः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīya adhyāyaḥ

द्वितीय अध्यायः

पूजाफलवर्णनो नाम



अथ धीमान् महासत्त्वो मैत्रेयः स जिनात्मजः।

भगवन्तं पुनर्नत्वा साञ्जलिरेवमब्रवीत्॥१॥



भगवच्छ्रोतुमिच्छामि स्वयम्भूत्पत्ति सत्कथां।

तद्भवान्समुपाख्यातुं लोकानां संप्रवोधने॥२॥



इति संप्रार्थितं तेन मैत्रेयेण सुधीमता।

भगवान्स्तान् सभालोकान् सम्पश्यन्नेवमादिशत्॥३॥



साधु मैत्रेय सर्वेऽपि सभालोकाः समादरात्।

शृणुध्वं संप्रवक्षामि स्वयम्भूत्पत्तिसत्कथां॥४॥



तद्यथा निर्वृतिं याते विपश्विनि मुनीश्वरे।

चिरकालान्तरेणात्र जगच्छास्ताभवत् पुनः॥५॥



शिखि नाम मुनीन्द्रोऽर्हन् धर्मराजस्तथागतः।

सर्वज्ञः सुगतः सर्वविद्याधिपो विनायकः॥६॥



तदा सप्ततिवर्षाणां सहस्रार्युनृणामभूत्।

अहं क्षेमंकरो नाम बोधिसत्त्वो भवं किल॥७॥



यदा स भगवाञ्छास्ता शिखिधर्माधिपो जिनः।

अरुणाख्यपुरोपान्ते व्यहरत् सौगताश्रमे॥८॥



तदा सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः।

शिखिनस्तस्य शास्तुः संप्राभजन् समुपस्थिताः।

अहमपि तथा तस्य शिखिनस्त्रिजगद्गुरोः॥९॥



शरणे समुपस्थाय प्राभजं सर्वदा मुदा।

तत्रैक समये सोऽर्हन् भगवान् सर्वविच्छिखी॥१०॥



सद्धर्म समुपादेष्टुं सभासने समाश्रयेत्।

तद्वीक्ष्य भिक्षवः सर्वे श्रावका ब्रह्मचारिणः॥११॥



भिक्षुण्यो व्रतिनः सर्वे उपासका उपासिकाः।

तत्सद्धर्मामृतं पातुं समुपागत्य तं मुनिं॥१२॥



नत्वा साञ्जलयस्तत्र परिवृत्य समाश्रयेत्।

तदा ब्रह्मामरेन्द्रादि त्रिदशाः सर्वे आगताः॥१३॥



सर्वे लोकाधिपाश्चापि धर्म श्रोतुं समागताः।

सिद्धा विद्याधरा साध्या यक्षगन्धर्वकिन्नराः॥१४॥



गरुडा राक्षसेन्द्राश्च दैत्या नागाधिपा अपि।

ऋषयो ब्राह्मणाश्चापि तीर्थिकाश्चापि तपस्विनः॥१५॥



यतयो योगिनश्चापि निर्ग्रन्थाश्च दिगम्बराः।

राजानो क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः॥१६॥



शिल्पिनो वणिजः सार्थवाहादयो महाजनाः।

पौरा जानपदा ग्राम्यास्तथान्यदेशवासिनः॥१७॥



तत्सद्धर्मामृतं पातुं संहर्षिताः समागताः।

तत्र ते समुपागत्य समीक्ष्य तं मुनीश्वरं॥१८॥



यथाक्रमं समभ्यर्च्य कृत्वा चापि प्रदक्षिणां।

कृत्वाञ्जलि पुटो नत्वा परिवृत्य समन्ततः॥१९॥



पुरस्कृत्य समुद्वीक्ष्य समादरादुपाश्रयन्।

तान् सर्वान् समुपासीनां दृष्ट्वा स भगवाञ्छिखी॥२०॥



आदिमध्यान्तकल्याणं सद्धर्म समुपादिशत्।

तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः॥२१॥



सद्धर्मसाधनोद्युक्ता वभूवु बोधिभागिनः।

तस्मिन्नेव समये तत्र पुण्यजलाश्रये ह्रदे॥२२॥



मणिनालं महद्दीप्तिहीरकेशरमुत्तम।

पञ्चरत्नमयं दिव्यसरोजराजकर्ण्णिकं॥२३॥



प्रादुर्भूतं महापद्‍मं सहस्रदलकाशितं।

तस्य रत्नसरोजस्य कर्ण्णिकामध्यमण्डले॥२४॥



स्वयम्भूत्समुत्पन्नो धर्म्मधातुर्जिनालयः।

एकहस्तप्रमाणांशुः शुभ्ररत्नमयोज्ज्वलः॥२५॥



सम्बोधिश्रीगुणाधारः सर्वलक्षणमण्डितः।

ज्योतिरूपो जगज्जेष्ठ पञ्चतथागताश्रयः॥२६॥



जगदीशो जगत् वन्द्यो जगत्पूज्यो जगत्प्रभुः।

अनादिनिधनोऽजीर्ण्णो मान्यः सर्वशुभार्थभृत्॥२७॥



समन्तभद्ररूपोऽग्रः श्रेष्ठः सद्धर्मरत्नभृत्।

त्रैलोक्यसद्‍गुणाधीशश्चतुर्वर्ग्गफलप्रदः॥२८॥



तस्मिंश्चैत्ये समुत्पन्ने साव्धिनगा रसाचलत्॥२९॥



दिव्यसुगन्धिपुष्पाणि संनिपेतुः सुरालयात्।

सुरदुन्दुभयो नेदुः दिशः सर्वाः प्रसेदिरे॥३०॥



वह्नयो दक्षिणावर्त्ता भद्राभाः संप्रजह्वलः।

सुशीतलाः सुगन्ध्याद्या धीरं ववुः समीरणाः॥३१॥



ववर्षुः सुरसाम्बूनि मेघा गम्भीरनिस्वनाः।

ग्रह तारेन्दुचन्द्राभाः सभासिता विरेजिरे॥३२॥



स्तुतिमङ्गलसंगीतिशब्दा व्योम्नि प्रचेरिरे।

सर्वत्रापि सुमाङ्गल्यमहोत्साहं निरन्तरं॥३३॥



सुभिक्षं श्रीगुणोर्भावं सद्धर्म भद्रसाधनं।

निरुत्पातं शुभाचारं प्रावर्त्तत समन्ततः॥३४॥



तमेवं स्वयम्भूत्पन्नं धर्म्मधातुं जिनालयं।

समीक्ष्येशादयः सर्वे आरुप्य भुवनाश्रिताः॥३५॥



योगध्यान महानन्द सौख्येऽपि विरतोत्सवाः।

स्वयम्भुवं तमीशानं वन्दितुं समुपाचरन्॥३६॥



तथा ब्रह्मादयः सर्वे मुनयो ब्रह्मचारिणः।

एवं स्वयम्भुवं द्रष्टुं मुदिता समुपाचरन्॥३७॥



एवं शक्रादयः सर्वे त्रिदशाः साप्सरो गणाः।

पूजाङ्गानि समादाय द्रष्टुमेनं मुदा ययुः॥३८॥



तथाग्निधर्मराजोऽपि नैऋतो वरुणो मरुत्।

श्रीदो भूताधिपश्चैवं सर्वे लोकाधिपा अपि॥३९॥



स्वस्वपरिजनैः सार्द्ध महोत्साहैः प्रमोदिताः।

एवं स्वयम्भुवं चैत्यं संद्रष्टुं समुपाययुः॥४०॥



धृतराष्ट्रो महाराजो गन्धर्वैः सह मोदितः।

संगीतिवादनोत्साहैः सहैनं द्रष्टुमाययुः॥४१॥



विरुढको महाराजः कुम्भाण्डसहिता मुदा।

स्वयम्भुवं तमालोक्य मुदा वन्दितुमाययुः॥४२॥



विरुपाक्षोऽपि नागेन्द्रैः सर्वै नागाधिपैः सह।

रत्नपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः॥४३॥



कुवेरो यक्षराजोऽपि यक्षणीभिः समन्वितः।

नानाद्रव्योपहाराणि धृत्वैनं द्रष्टुमाययुः॥४४॥



वज्रपाणिश्च गुह्येन्द्रसर्वगुह्यकसंयुतः।

दिव्यभोग्यापहाराणि धृत्वैनं द्रष्टुमाययुः॥४५॥



द्रुमः किन्नरराजोऽपि सर्वैः सह ह्याननैः।

तूर्यसंघोषणोत्साहैः सहिनं द्रष्टुमाययुः॥४६॥



तथा सर्वार्थसिद्धाख्यः सर्वविद्याधराधिपः।

दिव्यपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः॥४७॥



गरुडः पक्षिराजोऽपि सर्वैः पक्षिगणैः सह।

स्वस्वर्द्धिश्रीमहोत्साहैरेनं संद्रष्टुमाययुः॥४८॥



एवं सिद्धाश्च साध्याश्च वसवश्च ग्रहा अपि।

सर्वास्तारागनाश्चापि सर्वाश्चाप्यप्सरोगणाः॥४९॥



एवं दैत्याधिपाः सर्वे स्वस्वपरिजनैः सह।

महासमृद्धिप्रात्साहैः सहसा समुपाचरन्॥५०॥



एवं लोकाधिपाः सर्वे दशदिक्षु व्यवस्थिताः।

दृष्ट्वा तं स्वयम्भूत्पन्नं वन्दितुं सहसाचरन्॥५१॥



सर्वेऽपि ते समागत्य दृष्ट्वा तं जगदीश्वरं।

संहर्षिताशया दूरात् प्रणत्वा समुपाचरन्॥५२॥



ततस्ते जगन्नाथ सर्वेऽभ्यर्च्य यथाक्रमं।

अष्टांगैः प्रणतिं कृत्वा प्राभजन्त समादरात्॥५३॥



केचिद्दव्यसुगन्धैस्तं प्राभिलिप्याभजन् मुदा।

केचिन्नानाविधैः पुष्पैः केचिद्धूपैर्मनोहरैः॥५४॥



केचिच्च पुष्पमालाभिः केचिच्च दिव्यचीवरैः।

केचिच्च दीपमालाभिः केचिदारतिदीपनैः॥५५॥



केचिद्दिव्यामृतैः भोग्यैः केचिद्दिव्यौषधैरपि।

केचिन्नानाविधैर्दिव्यरत्नालंकाराभूषणैः॥५६॥



केचिच्छत्रध्वजैवलिव्यजनैश्च वितानकैः।

केचित् संगीतिसंवाद्यैर्मृदङ्गमुरजादिभिः॥५७॥



केचित् तौर्यत्रिकै वंशैः शंखैः शृगैश्च केचन।

काहारैश्च तथा केचित् वीणादीततवादनैः॥५८॥



तालादिघनवाद्यैश्च भेर्यानकमर्दलैः।

तथा नानाविधैर्मड्डुर्डिण्डिमझर्झरादिभिः॥५९॥



केचित्‌नृत्यैश्च गीतैश्च हाहाकारैश्च केचन।

एवं नानाविधोत्साहैः प्राभजन्स्तं जिनालयं॥६०॥



केचित् प्रदक्षिणान्येव कृत्वा भजन् सहस्रशः।

केचिच्च धारणीविद्याजपस्तोत्रादिभिर्मुदा॥६१॥



एवं नानाप्रकारैस्ते सर्वे लोका द्विजादयः।

श्रद्धया समुपाश्रित्य प्राभजन्स्तं स्वयम्भुवं॥६२॥



एतद्दिव्यमहोत्साहैः संप्रवृत्तिं प्रसारितां।

श्रुत्वा सर्वे सभालोका विस्मयं समुपाययुः॥६३॥



तत् समीक्ष्य महासत्त्वा रत्नपाणिः पुरोगतः।

शिखिनं तं मुनिं नत्वा साञ्जलिरेवमब्रवीत्॥६४॥



भगवन् यत्मही सर्वा कम्पिता दिव्यमुत्सवं।

प्रसारितं च कस्येदं हेतु तत् समुपादिश॥६५॥



इति संप्रार्थितं तेन सुधिया रत्नपाणिना।

स शिखि भगवान् पश्यन् रत्नपाणिं तमब्रवीत्॥६६॥



साधु शृणु महासत्त्व यत् सर्वा चलिता मही।

दिव्योत्साहैः प्रवृत्तं च तद्धेतुं संनिगद्यते॥६७॥



तद्यथात्रास्ति भूलोक उत्तरस्यां हिमालये।

अष्टाङ्गगुणसम्पन्नपुण्यजलाश्रयो ह्रदः॥६८॥



तत्र रत्नमये पद्‍मे सरोजराजकर्ण्णिके।

स्वयमेव समुत्पन्नो धर्मधातुजिनालयः॥६९॥



तदुत्पन्ने मही सर्वा रचिता संप्रमोदिताः।

सर्वत्रापि शुभोत्साहं प्राव्रर्त्तते भवालय॥७०॥



तं समीक्ष्य महेशानब्रह्माशक्रादयोऽमराः।

ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि॥७१॥



महर्षश्च सर्वेऽपि सविस्मयप्रमोदिताः।

सर्वे लोकाधिपाश्चापि दैत्या नागाः खगेश्वराः॥७२॥



यक्षकिन्नरगन्धर्व्वगुह्यकराक्षसा अपिः।

एतत्प्रभृतयः सर्वे समीक्ष्य तं स्वयंभुवं॥७३॥



संहर्षिताः समागत्य प्रभजन्ते महोत्सवैः।

एतत्पूजामहोत्साहसंप्रवृत्तिः प्रसारित॥७४॥



एतस्येदं महद्भनिमित्तं संप्रजायते।

इत्यादिष्टं मुनीन्द्रेण शिखिना संनिसंम्य सः॥७५॥



रत्नपाणिमहासत्त्वाः सविस्मयप्रमोदितः।

सुप्रबुद्धमुखाम्भोजा महासंहर्षिताशयः॥७६॥



भूयस्तं शिखिनं नत्वा साञ्जलिरेवब्रवीत्।

भगवन् तद्धिजानीयाद्यन्मनो मे समीच्छते॥७७॥



तदनुज्ञां प्रदत्वात्र संप्रसादयतुमर्हति॥

अहमपि जगच्छास्तः स्वयम्भुवं तमीश्वरं॥७८॥



श्रद्धया समुपाश्रित्य प्रभजामि महोत्सवैः॥

इति संप्रार्थिते तेन श्रुत्वा स भगवाञ्छिखि॥७९॥



रत्नपाणिं महासत्त्वं संपश्यन्नेवमादिशत्॥

कुलपुत्र प्रयाहि त्वं यद्याशु बोधिमिच्छसि॥८०॥



श्रद्धया समुपाश्रित्य प्रभज तं जिनालयं।

ये तत्र समुपाश्रित्य भजेयुः श्रद्धया मुदा॥८१॥



तेआशु प्राप्य संबोधिं सम्बुद्धपदमाप्नुयुः।

इत्यादिष्टं मुनीन्द्रेण रत्नपाणि निशम्य सः॥८२॥



साञ्जलिस्तं मुनिं नत्वा मुदितः प्राचरत् ततः।

ततस्तेन सहानेके बोधिसत्त्वा जिनात्मजाः॥८३॥



श्रावका भिक्षवश्चापि भिक्षुण्यश्चाप्युपासिकाः।

उपासका भक्तिमन्तो व्रतिनः पुण्यलालसाः॥८४॥



ऋषयो ब्राह्मणाश्चापि यतयो योगिनोऽपि च।

तीर्थिकास्तापसाश्चापि निर्ग्रन्था ब्रह्मचारिणः॥८५॥



राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः।

शिल्पिनो वणिजः सार्थवाहाश्चापि महाजनाः॥८६॥



पौरा जानपदा ग्राम्यस्तथान्यदेशवासिनः।

एवमन्येपि लोकाश्च सद्धर्मगुणवाञ्छिनः॥८७॥



सर्वे तत्र महोत्साहैस्तेन सार्द्ध मुदा चरत्।

एवं स रत्नपाणिस्तैः सर्वैः लोकै समन्वितः॥८८॥



पूजाङ्गानि समादाय महोत्साहै मुदाचरत्।

एवं स प्रवरञ्छ्रीमान् सर्वांल्लोकान् विनोदयन्॥८९॥



सहसा तत्र प्रागत्य ददर्शेमं जिनालयं।

दृष्ट्वैनं स महासत्त्वः मुदितः समुपासरन्॥९०॥



यथाविधि समभ्यर्च्य प्रणत्वा प्राभजन्मुदा।

एवं सर्वेऽपि ते लोकाः सहायास्तस्यमहर्षयः॥९१॥



यथाविधि समभ्यर्च्य महोत्साहै मुदाभजन्।

एवं ते सकला लोका स्तुत्वा जप्त्वा च धारणी॥९२॥



प्रदक्षिणानि कृत्वोष्ट प्रणत्वा प्राभजन् मुदाः।

एवमन्ये महासत्त्वा बोधिसत्त्वा जिनात्मजाः॥९३॥



दशदिग्भ्यः समागत्य प्राभजन्निममीश्वरं।

अहमपि तदा तेन सहेत्य रत्नपाणिना॥९४॥



श्रद्धया समुपाश्रित्य प्राभजनिममीश्वरं।

एतत्पुण्यानुभावेन बोधिं प्राप्य कलावपि॥९५॥



जित्वा मारगणान् सर्वान् धर्माधिपो भवाम्यहं॥

ये येस्य समुपाश्रित्य भजेयुः श्रद्धया मुदा॥९६॥



ते ते सर्वेऽपि संबोधिं प्राप्य स्युः सुगता द्रुतं॥

एवं महत्तरं पुण्यस्य सेवासमुद्भवं॥९७॥



भद्रश्रीसद्गुणापन्नं सम्बोधिज्ञानसाधनं।

इति सर्वै मुनीन्द्रैश्च समाख्यातं समन्ततः॥९८॥



यूयमपि परिज्ञाय भजतास्य समादरात्।

मुनीन्द्रा अपि सर्वेऽस्य चतुःसन्ध्यं दिवानिशं॥९९॥



दृष्ट्वा ध्यात्वा स्मृतिं धृत्वा प्राभजन्तं समादरात्।

भजन्ति साम्प्रतं सर्वे बुद्धाः सर्वे दिगाश्रिताः॥१००॥



अनागताश्च सर्वेऽपि भजिष्यन्ति तथा सदा।

अस्य दर्शनमात्रेण प्रदुष्टा अपि पापिनः॥१०१॥



निर्मुक्त पातका ह्याशु भवेयु निर्मलेन्द्रियाः।

ततस्ते निर्मलात्मानो निःक्लेशो ब्रह्मचारिणः॥१०२॥



दुर्गति नैव गच्छेयुः कुत्रापि हि कदाचन॥

सङ्गतावेव संजाता भद्रश्रीसद्‍गुणाश्रयाः॥१०३॥



बोधिसत्त्वा महासत्त्वा भवेयुः सुगतात्मजाः।

ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं॥१०४॥



त्रिविधां बोधिमासाद्य निर्वृतिं पदमाप्नुयुः।

इति नत्वा सदाप्यस्य कृत्वा दर्शनमादरात्॥१०५॥



अनुमोद्याभ्यनुस्मृत्वा ध्यात्वानुभाव्य सर्वदा।

नामापि च समुच्चार्य श्रद्धया बोधिवाछिभिः॥१०६॥



यथाशक्ति प्रकर्त्तव्या भक्तिसेवा सदादरात्।

इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते॥१०७॥



मैत्रेयप्रमुखाः सर्वे सभालोकाः प्रबोधिताः।

तथेत्यभ्यनुमोदन्तो धर्म्मधातो स्वयम्भुवः॥१०८॥



श्रद्धया समुपाश्रित्य संभजितुं समीच्छिरे।

अथ सर्व्वे सभालोका धर्म्मधातोः स्वयम्भुवः॥१०९॥



पूजाफलविशेषाणि संश्रोतुं पुनरीच्छिरेः।

तन्मत्वा स महासत्त्वो मैत्रेयः सुगतात्मज॥११०॥



भगवन्तं मुनीन्द्रन्तं प्रार्थयदेवमानतः।

भगवन्नस्य पूजाया विशेषफलविस्तरं॥१११॥



सर्व्वे इमे सभालोकाः श्रोतुमिच्छन्ति साम्प्रतं।

तद्‍भगवान् समुपादिश्य पूजाफलविशेषतां॥११२॥



इमां सर्वान् सभासीनां संबोधयितुमर्हति।

इति संप्रार्थितं तेन मैत्रेयेण निशम्य सः॥११३॥



भगवान्स्तान् सभालोकान् सम्पश्यनैवमादिशत्।

शृणुध्वं सकला लोका अस्य पूजाफलं महत्॥११४॥



विशेषेण प्रवक्ष्यामि सर्वे लोकाभिबोधने।

पञ्चामृतैः सहाम्भोभिः संशोभितसुनिर्म्मलैः॥११५॥



ये मुदा स्नापयन्तिमं धर्म्मधातुं जिनालयं।

मन्दाकिन्यां सदा स्नात्वा ते विशुद्धत्रिमण्डलाः॥११६॥



दिव्यसुखानि भुंजानो प्रान्ते यानि जिनालयं।

सौरभ्य द्रव्यसंयुक्ति यत्र चैत्यै स्वयम्भुवि॥११७॥



मोदयन्तो जगच्चित्तं धूपयन्ति मुदा सदाः।

ते सुगंधितसौम्याङ्गा मान्या देवा सुरैरपि॥११८॥



श्रीमन्तः सुस्वसंपन्ना भवन्ति रत्नसन्निभाः।

पञ्चगन्धैर्मुदा यत्र धर्म्मधातो जिनालये॥११९॥



लिप्ताराध्य समाश्रित्य प्रभजन्ति सदादरात्।

सप्तरत्नसमेतास्ते भद्रश्रीसद्‍गुणाश्रयाः॥१२०॥



सर्व्वे लोका हितोद्युक्ता भवन्ति क्षितिपाधिपाः।

ये चात्र मुनिराजेन्द्रा विचित्र चीवराम्बरैः॥१२१॥



प्रवार्य श्रद्धया भक्त्या संभजन्ते समादरात्॥

ते दिव्यदृष्य कौशेय रत्नाभरणभूषिताः॥१२२॥



सुज्ञा धर्माधिपाः सन्तो भवन्ति भद्रचारिणः।

ये चैमं कुसुमैः सर्व्वै जलजै स्थलजैरपि॥१२३॥



अर्च्चयित्वा समाश्रित्य संभजन्ते प्रमोदिताः।

महीन्द्रश्रीसमृद्धास्ते शक्राधिकप्रभान्विताः॥१२४॥



भद्रश्रीसुखसंपन्ना भवन्ति बोधिभागिनः।

यचैनं पुष्पमालाभि रचिताभिर्मनोहरैः॥१२५॥



सर्व्वपुष्पैः प्रलम्बाभिः शोभयित्वा भजन्ति च।

भवन्ति श्रीसमृद्धास्ते धर्म्मकामाः सुरधिपाः॥१२६॥



सत्कीर्त्तिर्गुणसंरक्ताः शुभगा बोधिचारिणः।

ये च पुष्पाणि सर्वाणि मुदात्र सुगतालये॥१२७॥



अवकीर्य समाराध्य भजन्ति शरणाश्रिताः।

तेऽपि देवाधिपा स्वर्गे गता मह्यां नृपाधिपाः॥१२८॥



महच्छ्रीगुणसम्पन्ना भवन्ति बोधिभागिनः।

धृतसुगन्धितैलादिसंप्रदीप्तां तमोपहां॥१२९॥



ज्वालयन्ति मुदा येऽस्मिं धर्म्मधातौ जिनालये।

सुदुष्टयः सुरुपास्ते ज्ञानदीपतमोपहाः॥१३०॥



भूपार्चितपदाम्भोजा भवन्ति बोधिभागिनः।

प्रणीतं सुरसंभोज्यं वल्भगन्धसमन्वितं॥१३१॥



ये चास्मिन्नुपढौकित्वा प्रभजन्ति समादरात्।

ऋद्धिमन्तो नृपेंद्रास्ते सप्तरत्नसमन्विता॥१३२॥



स्वर्ग्गे देवाधिपाश्चापि भवन्ति बोधिभागिनः।

ये चास्मिं सुरसंपानं सुवर्ण्णगन्धसंयुतं॥१३३॥



उपढौक्य समाराध्य प्रभजन्ते समाहिताः।

ते वलिष्ठा महीपेन्द्राः श्रीसमृद्धा निरोगिणः॥१३४॥



स्वर्गे गताश्च देवेन्द्रा भवन्ति बोधिभागिनः।

ये चास्मिं स्कन्दमूलानि बीजपत्रफलानि च॥१३५॥



श्रद्धया समुपस्थाप्य संभजन्ते समाश्रिताः।

ते प्रभुक्त्वा यथाकामं भोग्यानि विविधान्यपि॥१३६॥



सद्धर्म्मसाधना रक्ताः संयान्त्यन्ते जिनालयं।

ये चास्मिं सुगताधारे पथ्यौषधगणान्यपि॥१३७॥



समर्प्य श्रद्धया नित्यं प्रसेव्यन्ते समादरात्।

ते वलिष्ठा सुपुष्टाङ्गाः सौम्येन्द्रिया निरामयाः॥१३८॥



राज्यश्रीसुखमाभुज्य संयात्यन्ते सुखावती।

ये चाप्यत्र जिनाधारे धर्म्मधातौ स्वयम्भुवि॥१३९॥



वितत्योच्चै वितानं च ससेव्यन्ते समादरात्॥

धन्यास्ते गुणिनो वंद्याः शुद्धवंशा विचक्षणाः॥१४०॥



सर्व्वार्थसिद्धिसम्पन्नाः प्रयान्त्यन्ते जिनालयं।

ये चास्मिन् सुगतावासे विचित्रानुच्छ्रितान्ध्वजान्॥१४१॥



अवरोप्य महोत्साहैः संभजन्तेऽभिनन्दिता।

श्रीसद्‍गुणसुखधारा भूत्वा भूपाधिपा भुवि॥१४२॥



स्वर्गे देवाधिपाश्चान्ते संप्रयान्ति जिनालयं।

सौवर्ण्णरत्नपुष्पादि छत्राणि विविधानि ये॥१४३॥



आरोप्यत्र महोत्साहैः संभजन्ते प्रमोदिताः।

ते नरेन्द्राः सुरेन्द्राश्च छत्रोपमाः सदा भवे॥१४४॥



महत्सुखानि भुक्त्वान्ते संप्रयान्ति जिनालयं।

ये चास्मिं सुगतावासे पताकाः पञ्चरङ्गिकाः॥१४५॥



समावलंवयित्वापि संभद्रन्ते महोत्सवैः।

ते भूत्वात्र महीपालाः सदा देवाधिपा अपि॥१४६॥



भद्रश्रीसत्सुखं भुक्त्वा संयात्यन्ते जिनालयं।

ये चास्मिन् विविधैर्वाद्यैः संगीतिमुरुजादिभिः॥१४७॥



तौर्यै वंशादिभिश्चापि संसेव्यन्ते महोत्सवैः।

ते मनोज्ञस्वनादिव्यश्रीश्रीश्रीसद्‍गुणाश्रयाः॥१४८॥



सद्धर्म्मसाधनं कृत्वा व्रजन्ति सुगतालयं।

सलाजाक्षतपुष्पाणि ये चास्मिं सुगतालये॥१४९॥



प्रक्षिप्य श्रद्धया भक्त्या संभजन्ते समादरात्।

दुर्गतिन्ते न गच्छन्ति संजाताः सङ्गतौ सदा॥१५०॥



सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालयं।

सधातुद्रव्यरत्नादि दक्षिणान्यत्र ये मुदा॥१५१॥



श्रद्धया परिढौकित्वा संभजन्ते सदादरं।

दिव्यश्रीसुखभुंजाना भद्रश्री सद्‍गुणाश्रयाः॥१५२॥



सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालये।

ये चापि स्तुतिभिस्तथ्यैरेनं बुद्धालयं मुदा॥१५३।



पद्यैर्गद्यमयैश्चापि स्तुत्वा भजन्ति सादरं।

बहुरत्नसमृद्धास्ते सर्व्वविद्याविचक्षणाः॥१५४॥



भूपाः स्वर्गाधिपाश्चापि भूत्वान्ते यान्ति सौगतं।

श्रद्धयैनं जगन्नाथं समाश्रयं स्वयम्भूवं॥१५५॥



नत्वाष्टांगैः प्रसन्ना ये संभजन्ते समादरं।

सप्तरत्नसमेतास्ते नृपाधिपा महर्धिकाः॥१५६॥



सद्धर्म्मसाधनारक्ता भवन्ति बोधिचारिणः।

ये चैनं चैत्यराजेन्द्रमनेकशः प्रदक्षिणां॥१५७॥



कृत्वा ध्यात्वाप्यनुस्मृत्वा नामोच्चार्य भजन्त्यपि।

जातिस्मराश्चिरायुष्का मतिमन्तः सुवर्ण्णिनः॥१५८॥



वन्द्याः पूज्याश्च मान्यास्ते भवेयुर्बोधिचारिणः।

शुद्धाश्च भस्मसंक्षालैः समालिप्य समन्ततः॥१५९॥



समभ्यर्च्यमहोत्साहै ये भजन्त्येनमीश्वरं।

शोकक्लेशाग्निसंतापविवर्जिताश्चिरायुषः॥१६०॥



नीरोगाः सुखिनो देवा भवेयु भूमिपाश्च ते।

ये च निर्माल्यमाकृष्य शोधयित्वात्र सर्वतः॥१६१॥



श्रमुपाश्रित्य सेव्यन्ते सम्बुद्धभक्तिमानसाः।

निर्मुक्तिक्लेशशोकास्ते दर्शनीयाः शुभेन्द्रियाः॥१६२॥



श्रीमन्तः पुण्डरीकास्या भवेयुर्बोधिचारिणः।

जीर्णे शीर्णे विभग्नेऽस्मिन् प्रतिसंस्कृत्य ये मुदा॥१६३॥



प्रतिष्ठाप्य महोत्साहैः संभजन्ते समादरात्।

सर्वसम्पत्समृद्धास्ते पुष्टेन्द्रिया निरामयाः॥१६४॥



धर्मकामाः शुभाचारा भवेयुर्बोधिचारिणः।

जल्पित्वा यस्य मन्त्राणि धारणीश्च समाहिताः॥१६५॥



ध्यात्वा स्मृत्वा समुच्चार्य नामापि प्रभजन्ति च।

तेऽपि सर्वे महासत्त्वाः परिशुद्धत्रिमण्डलाः॥१६६॥



भद्रश्रीसद्‍गुणाधारा भवेयुर्बोधिचारिणः।

एवं महत्तरं पुण्यमस्मिं धर्म्माधिपालये॥१६७॥



श्रद्धाभजनसंभूतमित्यादिष्टं मुनीश्वरैः।

मयैतत्पुण्यसंक्षिप्तमात्रं तु कथ्यतेऽधुना॥१६८॥



समग्रं विस्तरेनात्र समाख्यातुं न शक्यते।

एवं मत्वास्य सत्कारपूजाफलं महत्तरं॥१६९॥



श्रद्धया शरणं गत्वा कर्तव्यं भजनं सदा।

येप्यस्मिंञ्छरणं गत्वा श्रद्धया समुपाश्रिताः॥१७०॥



सुप्रसन्नाशया भक्त्या भजन्ति बोधिमानसाः।

न ते गच्छन्ति कुत्रापि दुर्गतिं च कदाचन॥१७१॥



संजाताः सद्‍गतिष्वेव भवेयुर्बोधिचारिणः।

सदा ते सुकुले जाता बोधिसत्त्वा विचक्षणाः॥१७२॥



सर्वसत्त्व हिता धानं चरेयुर्व्रतमाभवं।

ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं॥१७३॥



त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः।

न हिचित्त प्रसादस्प स्वल्पाभवति दक्षिणा॥१७४॥



तथागतेषु सद्धर्म्म संबुद्ध श्रावकेष्वपि॥

एवं ह्यचिन्त्याः संबुद्धाः बुद्ध धर्माश्च निर्मलाः॥१७५॥



अचिन्त्योहि प्रसन्नानां विपाकश्च महाफल।

एवं मत्वा त्रिरत्नेषु भक्तिपूजा फलं महत्॥१७६॥



कार्याभक्तिषु सदात्रैव धर्म्मधातौ जिनालये।

इत्यादिष्टं मुनीन्द्रेन श्रुत्वा सर्वे समाश्रिताः॥१७७॥



लोकास्तथेति विज्ञप्य प्रात्यनन्द प्रवोधिताः।

इति मे गुरुणादिष्टं श्रुतमया तथोच्यते॥१७८॥



त्वमप्येवं सदा राजन् भज तत्र जिनालये।

तत्पुण्येन ते भद्रं निरुत्पातं सदाभवेत्॥१७९॥



बोधिचित्त रसं च संप्राप्य बोधिसत्त्वो भवेरपि।

ततः सम्बोधि संभारं पूरयित्वा तथाक्रमं॥१८०॥



मारान्निर्ज्जित्य संबोधि प्राप्य बुद्धपदं लभेः।

इति शास्तार्हता दिष्टं सम्यकनराधिपः॥१८१॥



अशोकः ससभालोकः प्राभ्यनन्दं प्रबोधितः।



इति श्री स्वयम्भूत्पत्ति कथाया श्री स्वयम्भू भट्टारकोद्देश पूजावर्णना नाम द्वीतीयोऽध्याय समाप्त।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project