Digital Sanskrit Buddhist Canon

महासत्त्वमणिचूडमहाराजबोधिसत्त्वावदानम्

Technical Details
महासत्त्वमणिचूडमहाराजबोधिसत्त्वावदानम्

अथाशोको महीपालः पुरोगतः कृताञ्जलिः
उपगुप्तं तम् अर्हन्तं नत्वैवं प्रार्थयत् पुनः १

भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं
भगवतो ऽवदानं यत् तत् समादेष्टुम् अर्हति २

इति संप्रार्थितं राज्ञा श्रुत्वा सोऽर्हन् यतिः सुधीः
तम् अशोकं महीपालं समामन्त्र्यैवम् आदिशत् ३

साधु शृणु महाराज यथा मे गुरुणोदितं
तथा ते ऽहं प्रवक्ष्यामि श्रुत्वानुमोदयादरात् ४

तद्यथासौ महासत्वः शुभकृत्स्ने महासुखं
भुक्त्वापि ब्रह्मणा सार्धं विना दानं मुमोद न ५

तत्रस्थो ऽसौ महासत्वो दानधर्मसमुत्सुकः
किं प्रवृत्तिर् महीलोके इति ध्यात्वा व्यलोकयत् ६

तदा तु मनुजाः सर्वे सत्यधर्मनिरादराः
ईर्ष्यामात्सर्यसंक्लिष्ता मदमानप्रमादिताः ७

ब्राह्मणा अपि दुःशीलाः स्वकुलाचारवर्जिताः
कृपणा दुरितासक्ताः सद्धर्मपरिभाषिणः ८

नृपा अपि तथा सर्वे सामात्यभृत्यपौरिणह्
क्लेशमदाभिमानान्धा दशाकुशलचारिणः ९

एवं सर्वे ऽपि ते मर्त्या महापातकचारिणः
नूनं क्लेशाग्निसंतपता मृता यास्यन्ति नारके १०

तेषां यन् नास्ति धर्मात्मा शास्ता कश् चिद् धितार्थदिक्
तत् सर्वे मानवा मूढाश् चरन्ति पातकेष्व् अपि ११

तेन तेषां हितार्थे ऽहम् इतश् च्युत्वा महीतले
नृपराजकुले जन्म लब्ध्वा भवेयं भूपतिः १२

तत्राहं सर्वदार्थिभ्यः कृत्वा दानं यथेप्सितं
सर्वान् सत्वान् सुसंवृत्तौ चारयेयं समन्ततः १३

ततस् ते मानवाः सर्वे सत्यधर्मगुणारताः
बोधिचर्याव्रतं धृत्वा संचरेरन् सदा शुभे १४

ततस् ते विमलाचाराः परिशुद्धत्रिमण्डलाः
बोधिसत्वा महासत्वा भवेयुर् ब्रह्मचारिणः १५

एतद्धेतोर् इतो गत्वा जन्मासाद्य महीतले
सर्वलोकाधिपो भूत्वा चारयेयं जगच् चुभे १६

एवं ध्यात्वा स धर्मार्थी बोधिसत्वो वृषोत्सुकः
तदा ससाञ्जलिर् नत्वा पश्यन्न् एवं न्यवेदयत् १७

देवेदानीं महीलोके दुर्वृत्तिः संप्रचारिता
तत् ते सर्वे नरा दुष्टा दशाकुशलसंरताः १८

तद् गत्वाहं महीलोके सर्वलोकाधिपो भवन्
बोधयंस् तान् नरान् सर्वान् संवृत्तौ चारयाण्य् अपि १९

तद् अनुज्ञां भवान् दत्वा कृपया मे प्रसीदतु
बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते २०

इति संप्रार्थितं तेन काश्यपः स निशम्य सः
चिरं ध्यात्वा प्रसन्नात्मा गच्छेति तम् अचोदयत् २१

ततः स बोधिसत्वस् तत् प्राप्यानुज्ञां प्रसादितः
तत्रस्थो भूतले शुद्धं जन्मस्थानं व्यलोकयत् २२

तदा तर्त महीलोके साकेतनगरं महत्
ऋद्धं स्फीतं सदोत्साहं सुभिक्षं निरुपद्रवं २३

प्रशान्तकलिदुर्वृत्तिडिम्बडमरतस्करं
साधुप्राढ्यजनाकीर्णं स्वर्गैकखण्डवद् बभौ २४

तत्र लोकाधिपो राजा ब्रह्मदत्तः समृद्धिमान्
सर्वांल् लोकान् यथाधर्मं पुत्रवत् पर्यपालयत् २५

तस्याग्रमहिषी देवी कान्तिमती रमोपमा
शुद्धशीला सुभद्राण्गी स्वामिधर्मानुचारिणी २६

यदा सा महिषी रक्ता राजापि सो ऽनुरागितः
तया तदा स राजेन्द्रः सार्धं रेमे यथेच्छया २७

तद् दृष्ट्वा स महासत्वो बोधिसत्वो दिवश् च्युतः
तत्रागत्य शुभे तस्या महिष्या गर्भम् आविशत् २८

यदा सापन्नसत्वाभूत् तदारभ्य सुभाषिणी
सर्वार्थिभ्यो यथाकामं संप्रदातुं समैच्छत २९

ततः सा महिषी देवी सर्वार्थिदानवाञ्चिनी
भर्तुः पादाम्बुजे नत्वा संप्रार्थयत् समादरात् ३०

स्वामिन् यद् अहम् इच्छामि यदि तेऽस्ति कृपा मयि
तथा संपूरयिष्यामि तद् अनुज्ञां प्रदेहि मे ३१

इति संप्रार्थिते देव्या भार्यया स नराधिपः
सुप्रियां तां समालोक्य संस्मित एवम् अब्रवीत् ३२

अयि किं ते मनोवाञ्चा सर्वम् अपि समीथितं
तथा संपूरयिष्यामि तत् सत्यं मे पुरो वद ३३

इत्य् एवं प्रभुनादिष्टे महिषी सा प्रमोदिता
भर्तारं तं महाराजं सम्पश्यन्त्यैवम् अब्रवीत् ३४

स्वामिन्न् अहं महद्धेमराशौ स्थित्वा यथेप्सितं
श्रमणब्राह्मणादिभ्यस् तत् सर्वं दातुम् उत्सहे ३५

इति भार्यासमाख्यातं निशम्य स नराधिपः
प्रविस्मितो निमित्तज्ञम् पप्रच्छैतन् निवेदयन् ३६

तन् निवेदितम् आकर्ण्य निमित्तज्ञः स सन्मतिः
तन् निमित्तं समीक्ष्यैवं नृपस्याग्रे न्यवेदयत् ३७

राजञ् जानीहि ते भार्या गर्भिणी भवति ध्रुवं
यो गर्भसंप्रविष्टो ऽस्या अनुभावो ऽस्य खल्व् अयं ३८

नूनम् अयं महासत्वस् तव पुत्रो भवेत् सुधीः
तत् प्रसीद महाराज यत् ते स्याच् छ्रीसुभद्रता ३९

इति तेनोदितं श्रुत्वा नृपतिः संप्रमोदितः
सत्कृत्य तं निमित्तज्ञं तत् कारयितुम् ऐच्छत ४०

ततः स नृपतिर् भार्यां समुपेत्य प्रसादयन्
यथेच्छसि तथा सर्वं कुरुष्वेति समादिशत् ४१

इति भर्त्रा समादिष्टं श्रुत्वा सा महिषी मुदा
लब्धानुज्ञा पते राज्ञस् तथा कर्तुं समारभत् ४२

ततः सा महिषी हेममहद्राशिसमाश्रिता
श्रमणब्राह्मणार्थिभ्यो ददौ हेम यथेप्सितं ४३

ततः सा महिषी भूय आहारैः षड्रसान्वितैः
संतृप्तान् सकलान् कृत्वा लोकान् द्रष्टुं समैहत ४४

ततो राज्ञे निवेद्यासौ महिषी संप्रमोदिता
लब्धानुज्ञा प्रभोर् एवं कृत्वा द्रष्टुम् समारभत् ४५

ततः सा सकलान् लोकान् समामन्त्र्य समादरात्
सत्कृत्य षड्रसाहारैः संतोषितान् अकारयत् ४६

तान् एवं सकलान् लोकान् अर्थिणः कृपणान् अपि
षड्रसाहारसंतुष्टान् पश्यन्ती मुदम् आययौ ४७

ततश् चासौ सती राज्ञी महत्सिंहासनस्थिता
सद्धर्मं सर्वलोकेभ्यः समुपादेष्टुम् ऐहत ४८

तथा रज्ञे निवेद्यासौ लब्धानुज्ञा प्रभोस् ततः
सर्वान् लोकान् समामन्त्र्य धर्मं देष्टुं मुदाचरत् ४९

ततस् तथा नरेन्द्रेण पृष्टा नैमित्तिकाश् च ते
समीक्ष्य नृपतेर् अग्रे पुनर् एवं न्यवेदयन् ५०

महिष्या देव गर्भे ते प्रविष्टः पुरुषो महान्
नूनम् अस्यानुभावो ऽयं यद् इयं धर्मम् आदिशेत् ५१

तद् इयं महिषि देव सर्वसत्वहितार्थिनी
सद्धर्मं सर्वलोकेभ्यो देशयतु यथेच्छया ५२

इति तैः समुपादिष्टं निशम्य स नराधिपः
मुदितः शोधयित्वाशु प्रासादं समशोभयत् ५३

तत्र सुवर्णरत्नाढ्यसिंहासनं महत्तरं
प्रज्ञप्य दुष्यचीनांशुबितानैर् अभ्यमण्डयत् ५४

ततः स नृपती राजा घण्टावघोषकारिणः
जनान् आमन्त्र्य तान् सर्वान् संपश्यन्न् एवम् आदिशत् ५५

भवन्तो यद् इयं देवी धर्मम् आदेष्टुम् इच्छति
तद् अत्र सकलान् लोकान् आमन्त्रयत सत्वरं ५६

इति राज्ञा समादिष्टं श्रुत्वा सर्वे ऽपि ते जनाः
तथेति तं नृपं नत्वा तथा कर्तुं मुदाचरन् ५७

तत्र ते नगरे घण्टाम् अवघोष्य समन्ततः
यथादिष्टं नरेन्द्रेण तथा लोकान् अचोदयन् ५८

शृण्वन्तु पौरिकाः सर्वे नृपादिष्टम् इदं ध्रुवं
यद् राज्ञी महिषी धर्मं समुपादेष्टुम् इच्छति ५९

तद् इदं धर्मम् औदार्यं श्रोतुम् इच्छन्ति ये मुदा
ते सर्वे समुपागत्य शृण्वन्तु सद्गुणार्थिणः ६०

इत्य् एवम् घोषणं श्रुत्वा सर्वे पौराः सविस्मयाः
तद्धर्मदेशनां श्रोतुं राजकुले मुदा ययुः ६१

तदा कान्तिमती देवी सर्वालंकारभूषिता
सिंहासनं समारुह्य सभामध्ये समाश्रयत् ६२

तां देवीं श्रीप्रभासन्तीं दृष्ट्वा ते पौरिका मुदा
नत्वा सादरम् ईक्षन्तः पुरस्कृत्य समाश्रयन् ६३

तदा सा जनकाये ऽस्मिन् सन्निषण्णे समन्ततः
दृष्त्वा कान्तिमती सर्वांल् लोकांस् तस्थौ समाहिता ६४

ततः सा गभजातस्य बोधिसत्वस्य सन्मतेः
अनुभावाद् इमा गाथास् सद्धर्मार्थास् समादिशत् ६५

धर्मस्थितो याति गुणैर् विवृद्धिं
प्राप्नोति तुष्टिं परमां यशश् च
प्राप्ते च दुःखे न विषादम् एति
परत्र चाप्नोति सुखं सुभद्रं ६६

धर्मो हि वै रक्षति धर्मयुक्तं
पिता यथा पुत्रम् उदारवृत्तं
तस्माद् बुधो ज्ञानबलोपपन्नो
यावच् चिरं धर्मम् अतः प्रकुर्यात् ६७

धर्मो हि वै रक्षति धर्मयुक्तं
चत्रं यथा वर्षति वर्षकाले
धर्मानुशंसा सुगतेन शस्ता
न दुर्गतिं गच्छति धर्मचारी ६८

अधर्मचारी तु नरः प्रमत्तो
यां यां गतिं गच्छति मूढदृष्टिः
निहत्य धर्मं चरितः स एव
बद्धो यथाकृष्णमृगो गृहीतः ६९

न ह्य् अधर्मश् च धर्मस् ताव्
उभौ समविपाकिनौ
अधर्मान् नरकं यान्ति
धर्मात् प्रयान्ति सद्गतिं ७०

इति मत्वा सदाधर्मं त्यक्त्वा सत्सौख्यवाञ्चिनः
सद्धर्मं श्रद्धया श्रुत्वा संचरन्तां सुसंवरं ७१

इति देव्या समादिष्टं श्रुत्वा सर्वे प्रबोधिताः
सद्धर्मसाधनारक्ताः संवऋत्तौ संप्रचेरिरे ७२

ततश् चासौ महाराज्ञी द्रष्टुम् उद्यानम् ऐच्छत
स्वामिनः समुपासृत्य तदर्थं संन्यवेदयत् ७३

तन्निवेदितम् आकर्ण्य राजा स नृपतिस् ततः
शोधयित्वा पुरं सर्वं मण्डयित्वा च सर्वतः ७४

शोधयित्वात्यलंकृत्य तदुद्यानं सरांस्य् अपि
ततस् तां सुप्रियां भार्यां परिवारसमन्वितां
रथ आरोय सोत्साहं उद्यानं प्रैषयच् चनैः ७५

तत्र सा समुपासाद्य पश्यन्ती तं मनोरमं
उद्यानम् अवतीर्याशु रथात् तत्र मुदाचरत् ७६

सम्पश्यन्ती तद् उद्यानं सर्वर्तुपुष्पमण्डितं
सर्वफलसमापन्नं नन्दनम् इव शोभितं ७७

सरान्स्य् अपि च अष्ताण्गगुणयुक्तशुभाम्बुभिः
पद्मोत्पलादिसत्पुष्पैः पूर्णानि विहगैर् अपि ७८

महामोदसमुत्साहसंहर्षानन्दिताशया
सर्वत्र विभ्रमित्वापि संपस्यन्ती मुदाचरत् ७९

तत्र सा सुचिरं दृष्ट्वा संचरन्ती यथेच्छया
तरुच्छायां समाश्रित्य सरस्तीर उपाश्रयत् ८०

तत्र स्थित्वा तम् आरामं सर्वर्तुपुष्पमण्डितं
सरस् तच् चापि पस्यन्ती महानन्दं समाययौ ८१

ततश् चासौ महासत्वा दृष्ट्वा स्पृष्ट्वा च रोगिनः
सर्वान् संस्वास्थितान् कर्तुम् ऐच्छत् स्वयम् उपस्थिता ८२

तच् च राज्ञो निवेद्यासौ लब्धानुज्ञा पतेस् तथा
सर्वान् आलोक्य संस्पृष्ट्वा रोगिनः स्वास्थितान् व्यधात् ८३

ततश् चासौ महाभिज्ञा सर्वान् दीनान् दरिद्रितान्
दत्वाभिवाञ्छितं द्रव्यं कर्तुम् ऐच्छत् समृद्धितान् ८४

तच् च निवेद्य राज्ञो ऽग्रे लब्धानुज्ञा तथापि सा
दत्वाभिलषितं सर्वान् दरिद्रान् धनिनो व्यधात् ८५

ततश् चासौ महावीर्या कुशीदान् कातराशयान्
तान् आश्वास्य सुसंवृत्तौ सर्वाणि योक्तुम् ऐच्छत ८६

तच् च निवेद्य राज्ञो ऽसौ लब्धानुज्ञा प्रमोदिता
सर्वान् दीनान् समाश्वास्य संवृत्तौ संन्ययोजयत् ८७

ततो ऽसौ च सुभद्रांशा सर्वाञ् छ्रमणवाडवान्
भोजयित्वा नवैर् दुष्यैर् आच्छादयितुम् ऐहत ८८

तच् च निवेद्य राज्ञो ऽसौ सर्वाञ् छ्रमणवाडवान्
भोजयित्वा नवैर् दुष्यैः सर्वान् आच्छादयन् मुद ८९

एवं सा महिषी देवि महासत्वानुभाविनी
यथाभिवाञ्छितं सर्वं धर्मार्थं प्राकरोत् तथा ९०

तथा सा दोहदापन्ना यथाभिवाञ्चितं मुदा
सर्वं दानादिसत्कर्म कृत्वाचरञ् चुभे रता ९१

तदा तद्विषये रम्ये भद्रोत्साहं समन्ततः
प्रावर्तत सुभिक्षं च निरुत्पातं निरीतिकं ९२

एको ऽपि न तदा तत्र दरिद्रो दुरितारतः
दीनो ऽर्थी कृपणो लुब्धो मत्सरी मानमत्तकः ९३

सर्वे प्राढ्याः शुभाचारा दातारः सद्गुणार्थिनः
सद्धर्मसाधनोत्साहा बभूवुर् ब्रह्मचारिणः ९४

एवं सा महिषी बोधिसत्वापन्नसुगर्भिणी
सधर्मसाधनारक्ता चचार बोधिसम्वरं ९५

ततः सा समये ऽसूत दारकं अभिरूपकं
दिव्यातिसुन्दरं कान्तं सर्वाण्गलक्षणान्वितं ९६

पुष्टं प्रासादिकं सौम्यं सर्वलोकमनोहरं
आत्मरूढमहारत्नव्यञ्जितोष्णीषमण्डलं ९७

तन्मणेर् रश्मयो दिव्या निश्चरन्तः प्रसारिताः
तत्रावभास्य सर्वत्र दिनीचक्रुर् निशाम् अपि ९८

तदवभासम् आलोक्य सर्वे ऽपि पौरिका जनाः
कस्येयं भासती कान्तिर् इत्य् ऊचुर् विस्मयान्विताः ९९

तं संप्रजातं आकर्ण्य जनकः संप्रमोदितः
श्रमणब्राह्मणादिभ्यो ददौ दानं यथेप्सितं १००

तत्र तम् आत्मजं द्रष्टुं जनकः स समुत्सुकः
गुरुमित्रजनैः सार्धं सहर्षं समुपाचरत् १०१

तत्र स समुपासृत्य संददर्श तम् आत्मजं
दिव्यातिसुन्दरं कान्तं भद्रलक्षणमण्डितं १०२

शुद्धोष्णीषमहारत्नदिव्यकान्तिप्रभास्वरं
दृष्ट्वाभिनन्दितः पश्यन्न् एनं तस्थौ चिरं मुदा १०३

तदा स बालको दृष्ट्वा मातरं जनकं च तं
सगुरुबन्धुसन्मित्रं सम्पश्यन्न् एवम् अब्रवीत् १०४

इदं शिरोरुहं रत्नं दिव्यं भद्रगुणान्वितं
शीते उष्णकरो दीप्तं उष्णे शीतकरो ज्वलन् १०५

सर्वव्याध्युपसर्गाणाम् संशान्तिकरणं वरं
सर्वतः शमनं सर्वदुष्टकर्मविनाशनं १०६

एतत्प्रक्षालनाम्भोऽपि सर्वविषं विनाशयेत्
सर्वधातुश् च तत्स्पृष्टे भवेद् अपि सुकाञ्चनं १०७

यच् चैतत् क्षरद् अम्भो ऽपि लोहं वापि यदा स्पृशेत्
तदा तल्लोहम् अप्य् एवं भवेद् अपि सुहाटकं १०८

मत्वेत्य् एतन्महारत्नक्षरत्प्रक्षालनाम्बुना
संसिञ्च्य सर्वधातूनि कृत्वा हेमानि सर्वशः १०९

तानि सर्वाणि हेमानि दत्वार्थिभ्यो समादरात्
त्रिरत्नभजनं कृत्वा संचरध्वं शुभे सदा ११०

ईति तेन समादिष्टं श्रुत्वा स सगुरुः पिता
किम् एतद् धि भवेत् सत्यम् इति द्रष्टुं तथैच्छत १११

ततः स जनकस् तस्य मणेः क्षरज् जलं मुदा
आदाय तेन लोहस्य राशिं कृत्वाभ्यसिञ्चयत् ११२

तत्स्पृष्टो लोहराशिः स हेमराशिर् अभूद् द्रुतं
तद् दृष्ट्वा विस्मिताह् सर्वे संजहर्षुर् नृपादयः ११३

तत् सुवर्णं समादाय राजा स संप्रमोदितः
अर्थिभ्यो ब्राह्मणादिभ्यः प्रादापयद् यथेप्सितं ११४

दारकं संप्रजातं तं दृष्ट्वा सर्वे सुरा अपि
संहर्षानन्दितात्मानस् तदुपरि खम् आश्रिताः ११५

दिव्यध्वजपताकादीन् समुच्छ्रायात्यशोभ्यन्
दिव्यवाद्यानि सर्वाणि पराहत्यात्यमोदयन् ११६

दिव्यपुष्पाणि सर्वाणि प्रावर्षयन् समन्ततः
सप्तापि च सुरत्नानि प्रावर्षयण्स् तदालये ११७

तदुपरि खम् आश्रित्य देवताः संप्रहर्षिताः
दिव्यरात्नमयं छत्रं धृत्वा तं समशोभ्यन् ११८

एवं सर्वत्र लोकेषु तज्जातसमनन्तरं
निरुत्पातं शुभोत्साहं प्रवर्तता समन्ततः ११९

तदा महात्मनस् तस्य यशसा पूरितं जगत्
सर्वलोकाधिपाश् चापि तं दृष्ट्वा संप्रसेदिरे १२०

चत्वारो लोकपालाश् च ग्रहा विद्याधरा अपि
सगणा मातृकाश् चापि दृष्ट्वा तम् अभ्यपालयन् १२१

मुनयो यतयः सर्वे योगिनश् च तपस्विनः
तं प्रजातं परिज्ञाय भद्राशिषाभ्ययोजयन् १२२

अर्हन्तो बोधिसत्वाश् च सर्वदिक्षु समाश्रिताः
सम्बुद्धा अपि तं दृष्ट्वा प्रारक्षण् संप्रसादिताः १२३

एवं सर्वे ऽपि लोकाश् च देवा दैत्याश् च मानवाः
तं संप्रजातं आकर्ण्य दृष्ट्वा तद्भद्रकोत्सवं
बालकं तं महासत्वं द्रष्टुम् आसन् समुत्सुकाः १२४

एवं स बालको जातमात्रो ऽपि संप्रभासयन्
सर्वत्र भद्रकोत्साहं कृत्वात्यमोदयज् जगत् १२५

ततो जातिमहं कृत्वा पुरोहितो यथाविधि
ज्ञातिबन्धुसुहृन्मित्रं समामन्त्र्यैवम् आदिशत् १२६

यद् अस्योष्णीषसंजातमहामणिर् विराजते
मणिचूड इति ख्यातम् अभिधानं प्रसिध्यतु
रत्नचूड इति प्रोक्त्वा कैश् चित् संचारितं भुवि १२७

तन्नाम्ना प्रथितो लोके सर्वत्राभूत् स बालकः
तन्मणिकान्तिभद्राभो विराजितः सुधांशुवत् १२८

ततो धात्रीभिर् अष्टाभिः प्रतिसंपालितो मुदा
क्रमात् प्रवर्धितः पुष्टः सरःस्थपद्मवद् बभौ १२९

ततः स श्रीसमापन्नः परिपुष्टेन्द्रियाश्रयः
संवर्धितः कुमारत्वं प्राप्तो ऽरमद् धितार्थभृत् १३०

ततो विद्यागुणोत्साही लिपिशालां समाश्रयन्
गुरोर् आराधनं कृत्वा समाशिक्षंल् लिपीः क्रमात् १३१

ततः स बुद्धिमान् आशु लिपीनां पारं आगतः
प्रक्रियाकोशसत्काव्यशास्त्रादीन् समशिक्षत १३२

क्रमेणाधीत्य धीमान् स सर्वविद्याः समुद्यतः
आशु सर्वान्तम् आसाद्य व्यजयत् परवादिनः १३३

ततश् चासौ महाबुद्धिः सर्वशास्त्रविचक्षणः
चतुःषष्टिकलाविद्या अपि सर्वा अशिक्षत १३४

तासाम् अप्य् आशु सर्वासां विद्यानां पारम् आप्तवान्
जित्वा हि मानिनः सर्वान् सर्वविद्याधिपो ऽभवत् १३५

एवं स सद्गुणाधारः शीसम्पत्सद्गुणाश्रयः
श्राद्धो भद्राशयो धीरः स्वपरात्महितोद्यतः १३६

कारुणिको महासत्वो दयालुर् लोकवत्सलः
बोधिसत्वो महात्यागी धर्मकायो जितेन्द्रियः १३७

सर्वस्वसंप्रदाने ऽपि समुत्साहसमुद्यतः
निरपेक्षः स्वदेहे ऽपि दानधर्मातिलालसः १३८

यथाभिवाञ्चितं द्रव्यं सर्वार्थिभ्यः समादरात्
दत्वानन्दमहत्सौख्यं भुक्त्वा रमन् समाचरत् १३९

तस्यातिदानसंरागं श्रुत्वा सर्वे ऽर्थिनो मुदा
सर्वदिग्भ्यः समायातास् तं द्रष्टुं समुपाचरन् १४०

तान् सर्वान् समुपायातान् दृष्ट्वा स मुदिताशयः
वाञ्चिताभ्यधिकं दत्वा संतोषानन्दितान् व्यधात् १४१

ततः श्रीमान् कुमारो ऽपि सर्वसत्वहितार्थभृत्
मणिचूडो महाराज इति प्रख्यापितो ऽर्थिभिः १४२

ततश् चासौ महासत्वो दानशालां महत्तरीं
कारयित्वा सुदुष्यादिमण्डनैः समशोभयत् १४३

तत्र द्रव्याणि सर्वाणि प्रतिष्ठाप्य समन्ततः
पाद्यस्नानार्घशुद्धाम्बुसुगन्धितैलचूर्णकान् १४४

दुष्यादिसर्ववस्त्राणि सकण्टचीवराण्य् अपि
सुगन्धिधूपदीपानि सर्वर्तुकुसुमानि च १४५

सखाद्यभोज्यलेह्यानि पेयानि षड्रसान्य् अपि
मूलस्कन्धदलस्तम्बसारप्रसववल्कलं १४६

पुष्पाणि विविधान्य् एवं जलजस्थलजान्य् अपि
पक्वसुरसपथ्यानि फलानि विविधान्य् अपि १४७

मोदकादीनी सर्वाणि भोग्यानि विविधान्य् अपि
सर्वाणि व्रीहिशस्यानि बीजानि विविधानि च १४८

रसपथ्यगुणापन्नमहोषधिरसायनं
उपानद्धामलछत्रवितानव्यञ्जनान्य् अपि १४९

सखट्वातूलशय्यादिविविधान्य् आसनानि च
सर्वालंकारवस्तूनि नानारत्नमयानि च १५०

सर्वेषाम् अपि धातूनां राशीश् च महतीस् तथा
सुवर्णरत्नराशीश् च रथान् अश्वांश् च गा गजान् १५१

कुमारिकाश् च भद्राण्गास् सर्वालंकारभूषिताः
दासीदासजनास् चापि प्रतिष्ठाप्य समन्ततः १५२

एवम् अन्यानि वस्तूनि सर्वोपकरणान्य् अपि
तत्र तानि च सर्वाणि संस्थाप्य समशोभयत् १५३

तद् दृष्ट्वा स महासत्वो बोधिसत्वो समागतान्
सर्वांस् तान् अर्थिनः पश्यन् महानन्दं समाययौ १५४

ततस् तान् अर्थिनः सर्वान् समभ्यर्च्य यथाक्रमं
यथाभिवाञ्छितैर् द्रव्यैः संतोषितान् अकारयत् १५५

संतुष्टांस् तान् सकलान् कृत्वा सम्पश्यन् स प्रमोदितः
भूयो ऽपि समुपामन्त्र्य सादरम् एवम् आदिशत् १५६

भवन्तो ऽत्र सदागत्य यद् यत् कार्यार्थम् ईप्सितं
तत् तन् मत्तः समादाय संचरन्तां सदा शुभे १५७

विरम्य दशपापेभ्यः सम्बोधिनिहितशयाः
त्रिरत्नभजनं कृत्वा संचरन्तां जगद्धिते १५८

एवं स नृपराजेन्द्रस् सर्वांल् लोकान् प्रबोधयन्
यथाभिवाञ्छितं द्रव्यं दत्वा धर्मे न्ययोजयत् १५९

तदा सर्वे ऽर्थिनो लोकास् तत्प्रदत्तं प्रसादिताः
द्रव्यम् आदाय भुञ्जानाः प्राचरन् सर्वदा शुभे १६०

एवं ते सकला लोकाः सद्धर्मगुणलालसाः
त्रिरत्नभजनं कृत्वा महोत्साहं समाचरन् १६१

तदा सर्वत्र लोकानां सर्वेषां भद्रचारिणां
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः १६२

तद् दृष्ट्वा स महासत्वो बोधिसत्वो जगत्सुहृत्
महानन्दं सुखं भुक्त्वा संप्रचेरे जगद्धिते १६३

ततश् चासौ महासत्वः संप्रदानातिलालसः
सदेहराज्यसर्वस्वम् अपि दातुं समैच्छत १६४

तस्य भद्रगिरिर् नाम गजेन्द्रो ऽभून् महाकृतिः
योजनशतगामी य एकाहेन महाबली १६५

अश्वराजो ऽप्य् अभूच् छ्रीमान् आजानेयो महाजवी
योजनशतगामी य एकाहेन महाकृतिः १६६

ताव् अपि दातुम् इच्छन् स बोधिसत्वो ऽतिदानभृत्
तदर्थिनो द्विजान् द्रष्टुं संपश्यन् प्राचरत् पुरे १६७

तत्प्रदानातिसंरक्तं मनस् तस्य पुरोहितः
विज्ञाय ब्रह्मदत्तस्य पितुर् अग्रे न्यवेदयत् १६८

राजन् भवान् विजानीयान् मणिचूडो यद् अर्थिभृत्
जयश्रीमूर्तिमन्तौ यौ ताव् अपि दातुम् इच्छति १६९

तद्दत्ते नापि ते राज्ये जयश्रीर् निवसेत् क्व चित्
यस्य राज्ये गताव् एतौ जयश्रीमान् स एव हि १७०

इति मत्वा महाराज जयश्रियं यदीच्छसि
बोधयंस् तं महासत्वं तत्प्रदाने निवारय १७१

यदि त्वया महात्मा स वार्यते न प्रयत्नतः
नूनम् एतौ गजाश्वेन्द्राव् अप्य् अर्थिने प्रदास्यति १७२

तदा तु ते महाराज जयश्रीर् निवसेन् न हि
जयश्रीरहिते ऽत्रापि महोत्पातं भवेत् खलु १७३

कथं वापि भवेद् अत्र मया ह्य् एतन् न मन्यते
विचारय महाराज त्वम् एव हि प्रमाणिकः १७४

इति निवेदितं तेन पुरोहितेन शासिना
श्रुत्वाभूज् जनको राजा ब्रह्मदत्तो विषादितः १७५

ततः स जनको राजा मणिचूडं तम् आत्मजं
सहसा समुपामन्त्र्य पुर एवं समादिशत् १७६

शृणु वत्स कुमार त्वं हितार्थं ते मयोच्यते
यद् अर्थिभ्यो यथाकामं ददासि तद् धितं तव १७७

यौ जयश्रीस्वरूपांशौ गजाश्वेन्द्रौ शुभाकृती
ताव् अपि त्वं किम् अर्थिभ्यः संप्रदातुम् समिच्छसे १७८

यद्य् अर्थिभ्यो ददासि त्वम् एतौ भद्रांशिकाव् अपि
जयश्रीस् ते तदा राज्ये न तिष्ठेन् निश्चरेद् अपि १७९

यस्य हस्ते गताव् एतौ गजाश्वेन्द्रौ शुभांशिकौ
स एव नृपराजेन्द्रः सर्वलोकाधिपो भवेत् १८०

तदा त्वं भ्रंशितो राज्यात् परित्यक्तो जयश्रिया
निर्गतिनिर्जने ऽरण्ये तपस्वीव कथं चरेः १८१

सर्वार्थिभ्यो यथाकामं दत्वा द्रव्यं यथेप्सितं
कुलधर्मपरिभ्रष्टः कथं वने ऽर्थिवच् चरेत् १८२

इति मत्वा मया ख्यातं हितार्थं ते निशम्य तत्
अतिदाने मनो रक्तं मा कृथा हि त्वम् आत्मज १८३

अतिदानाद् बलिर् बद्धो रावणो ऽप्य् अतिगर्वतः
अतिरूपे हृता सीता सर्वत्रातिं विवर्जयेत् १८४

इति विज्ञाय वत्स त्वं देहि देयं यथेप्सितं
अदेयं मा प्रयच्छस्व किञ्चिद् वा कस्यचित् क्वचित् १८५

मयैवम् उच्यमानो ऽपि त्वम् अश्रुत्वा वचो मम
अदेयम् अपि यद् रत्नं दातुं यदि समीहसे १८६

गृहाश्रमं परित्यज्य तपस्वीव वने वसन्
यथाभिलषितं द्रव्यं दत्वार्थिभ्यस् तपश् चर १८७

यज्जयश्रीपरित्यक्तो राज्यभ्रष्टो भवेर् अपि
तदा शत्रुभिर् आक्रम्य राज्यं तु परिभोक्ष्यते १८८

तदावश्यं परिभूय त्वां निबध्य रुषारयः
बन्धने वा प्रतिष्ठाप्य हनिष्यन्ति प्रयत्नतः १८९

तदास्मान् अपि सर्वांश् च निबध्य बन्धने ऽपि वा
प्रतिष्ठाप्य हनिष्यन्ति परिभूयारयो रुषा १९०

तदा ते ते ऽर्थिनः सर्वे सुहृदो ऽपि हितार्थिनः
किं करिष्यन्ति दृष्ट्वैव चरिष्यन्ति निराशिताः १९१

तथास्मान् सकलान् बन्धून् विघात्य त्वं स्वयं हतः
निपात्य नरके सर्वान् पतितो विभ्रमिष्यसि १९२

तदा किं नो भविष्यन्ति मिथ्याशीर्वचसार्थिनः
दुःखान्य् एव वयं तत्र प्रभुञ्जन्तश् चरेमहि १९३

इति प्रोक्तं मया वत्स हितार्थं ते निशम्य तत्
देयवस्तूनि दत्वा तु सुखं भुक्त्वा शुभे चरन् १९४

सर्वलोकहितं कृत्वा स्वपरात्मशुभार्थभृत्
कुलधर्मसमाचारो राज्याश्रमे सुखं वस १९५

नो चेद् एवम् अवश्यं त्वं दुःखानि परिभोक्ष्यसे
तद् वने निवसन् ध्यात्वा तपस्वीव सुखं चर १९६

इति पित्रोदितं श्रुत्वा मणिचूडः स मोदितः
तथेति प्रतिविज्ञप्य वने गन्तुं समुद्यतः १९७

ततः पादौ पितुर् नत्वा मातुश् चापि पुरोगतः
निवेद्यैतत्प्रवृत्तान्तम् अनुज्ञां समयाचत १९८

तन् निशम्य परिष्वज्य माता तं स्वात्मजं प्रियं
स्नेहदुःखाग्निसंतप्ता विलपन्त्यैवम् अब्रवीत् १९९

हा पुत्र मां परित्यज्य कुत्रैकाकी वने चरेः
यद्य् अस्ति ते महद् दुःखं तथापि तत् सह क्षणं २००

किं चापि अपरो नास्ति ममात्मजस् त्वम् एव हि
तद् अत्र को वहेद् राज्यं त्यक्त्वा कथं वने चरेः २०१

किं चापि त्वं कुमारो ऽसि तत् कायस् ते सुकोमलः
शीतवातातपादीनि दुःखान्य् अपि सहेत् कथं २०२

अनेकजन्तुसंचारे तस्करदुर्जनाश्रये
निःसंगः कथम् एकान्ते एकाकी निवसेर् वने २०३

इति मे वचनं श्रुत्वा मत्वा दुःखं महद् वने
मा गा राज्याश्रमं त्यक्त्वा निर्जने दुर्गमे वने २०४

देयवस्तूनि दत्वात्र सर्वार्थिभ्यो यथेप्सितं
यथाकामं सुखं भुक्त्वा रमन् धर्मे समावस २०५

इति मात्रोदितं श्रुत्वा मणिचूडः स आत्मजः
अबोधितो विषण्णात्मा शोकागारे स्थितो ऽवसत् २०६

तत्र च मन्त्रिणो ऽमात्याः सचिवाः सुहृदो जनाः
तं चरितुं समिच्छन्तं वने मत्वा न्यवारयन् २०७

तैः सर्वैस् त्रासयित्वापि बोधयित्वा च यत्नतः
वने निवार्यमाणः स तस्थौ योगीव तन्मनाः २०८

एवं स्थितं तम् आलोक्य नूनं वने व्रजेद् अयं
इति मत्वा विषण्णास् ते सर्वे ऽचिरात् ततो ऽचरन् २०९

ततः स निशि संसुप्ते पश्यन् निद्राकुलाञ् जनान्
स्वयम् एव समुत्थाय सत्वरं निर्ययौ गृहात् २१०

तत्र स नगरे पश्यन् सहसा निश्चरन् पुरात्
संप्रस्थितो वने ऽरण्ये एकाकि निर्भयो ऽचरत् २११

तत्र तं सहसायातं समीक्ष्य वनदेवता
अन्वाहृत्याभिरक्षन्ती प्रापयद् गौतमाश्रमं २१२

तत्र स समुपासृत्य दृष्ट्वा रम्यं तपोवनं
अश्वत्थवृक्षम् आश्रित्य तस्थौ ध्यानसमाहितः २१३

तत्रैवं तं समासीनं समीक्ष्य गौतमो मुनिः
सहसा समुपासृत्य ददर्श तं विरोचितं २१४

मणिचूडं महासत्वं तं मत्वा स मुनिर् द्रुतं
समेत्य स्वाशिषं दत्वा पप्रच्छागतिकारणं २१५

किमर्थं त्वं वयस्यात्र प्रायासि निशि साम्प्रतं
तन् ममाग्रे समाख्याहि प्रियो ऽस्मि ते सुहृद् यदि २१६

इति तेनोदितं श्रुत्वा मणिचूडः कुमारकः
गौतमं तं समानम्य संपश्यन्न् एवम् अब्रवीत् २१७

साधु शृणु वयस्य त्वं यदर्थे ऽहम् इहाव्रजे
तत् प्रवक्ष्ये भवदग्रे भवान् इष्टो हि मे सुहृत् २१८

सर्वे लोका इमे कामक्लेशभोगपरायणाः
कृत्वा पुण्यानि पापानि गच्छन्ति दिवि नारके २१९

स्वर्गे ते विविधान् भोगान् भुक्त्वा कामविमोहिताः
पुण्यैश् चानुपरिक्षीणा भवन्ति नरकोन्मुखाः २२०

नरके वेदनां तीव्रां संप्राप्य चानुतापिताः
धर्मानुसरणं गत्वा गच्छन्ति सुगतिं पुनः २२१

इत्य् एवं विविधं दुःखं भवे विज्ञाय पण्डितः
गार्हस्थ्यं विषवत् त्यक्त्वा याति योगी तपोवने २२२

इत्य् अहं मनसा ध्यात्वा संसारभोगनिःस्पृहः
तपोवनव्रतं धृत्वा रमितुम् आव्रजे मुदा २२३

इति तेन समाख्यातं श्रुत्वा स गौतमो द्विजः
तस्य भावं परिज्ञातुं दर्शयन् भयम् अब्रवीत् २२४

कुमारेह महारण्ये नानादुष्टभयाकुले
निवासे राक्षसादीनां कथं संस्थातुम् इच्छसि २२५

अनपेक्ष्य स्वजीवे ऽपि कौमार्ये यत् प्रव्रजता
चापल्यम् इव खल्व् इदं त्वयानुवर्तितं प्रभो २२६

आराध्यते सत्प्रतिपत्तिमद्भिर्
धर्मो यदायं भवने वने वा
श्रीमन्ति हित्वा भवनान्य् अपि त्वं
कस्माद् अरण्ये ऽत्र मतिं करोषि २२७

परप्रसादार्जितभैक्षवृत्तिर्
अगण्यमानः खलवज् जनेन
कुच्लभृद् बन्धुसुहृद्विहीनो
वनान्तभूमौ निवसेः कथं नु २२८

मूर्तं दरिद्रत्वम् इवोपगुह्य
कथं नु शोकस्य वशं प्रयासि
इमाम् अवस्थां हि तवेक्षमाणा
द्विषो ऽपि बाष्पापिहितेक्षणाः स्युः २२९

तद् गच्छ राज्यं स्वजनानुकूलं
दीनातुरं पालय नाथ नित्यं
संपादयेथा निवसन् स्वगेहे
धर्मञ् च सल्लोकमनोरथं च २३०

परकर्मकरस्यापि स्वे निपानसुखा गृहाः
किं पुनः सुखसंप्राप्ताः समृद्धिज्वलितश्रियः २३१

तदुक्तम् इति स श्रुत्वा बोधिसत्वो ऽविनोदितः
विरक्तकामसंभोगस् तं पश्यन्न् एवम् अब्रवीत् २३२

इदं स्नेहोद्गतत्वात् ते कामम् अल्पात्ययं वचः
सुखसंज्ञां तु मा कार्षीः कदा चिद् गृहाचारके २३३

गार्हस्थ्यं महद् अस्वास्थ्यं सधनस्याधनस्य च
एकस्य रक्षणायासाद् इतरस्यार्जनश्रमात् २३४

यत्र नाम सुखं नैव सधनस्याधनस्य च
तत्राभिर्तिसंमोहः पापस्यैव फलोदयः २३५

नियतार्जनरक्षणादिदुःखे
वधबन्धनव्यसनैकलक्ष्यभूते
नृपतेर् अपि यत्र नास्ति तृप्तिर्
विभवैस् तोयनिधेर् इवाम्बुवर्षैः २३६

सुखम् अत्र कुतः कथं कदा वा
परिकल्परणयं न चेद् उपैति
विषयोपनिवेशने ऽपि मोहाद्
व्रणकण्डूयनवत् सुखाभिमानः २३७

प्रायः समृद्ध्या मदम् एति गेहे
मानं कुलेनापि मदेन दर्पं
दुःखेन रोषं व्यसनेन दैन्यं
तस्ंइं कदा स्यात् प्रशमावकाशः २३८

मदमानमोहभुजगोपलयं
प्रशमाभिरामसुखविप्रलयं
क इवाश्रयेद् अहिमुखं विलयं
बहुतीव्रदुःखनिलयं निलयं २३९

संतुष्टजनगेहे तु प्रविविक्तसुखे वने
प्रसीदति यथा चेतस् त्रिदिवे ऽपि तथा कुतः २४०

परप्रसादार्जितवृत्तिर् अप्य् अतो
रमे वनान्ते ऽत्र कुचेलसंवृतः
अधर्ममिश्रं तु सुखं न कामये
विषेन संपृक्तम् इवान्नम् आत्मवान् २४१

इति तदुक्तम् आकर्ण्य गौतमः संप्रबोधितः
महासत्वं समालोक्य संराधयंस् तम् अब्रवीत् २४२

साधु साधु महासत्व त्वम् एव विज्ञ सन्मतिः
स्थातुम् अत्र समर्थो ऽसि वस ध्यानाभिसंरतः २४३

इति तत्समुपादिष्टे मणिचूडः प्रसादितः
योगध्यानसमारक्तो व्यहरद् बोधिमानसः २४४

स तत्र निःसंगमनो दयालुः
प्रज्ञावदातेन शमेन नित्यं
प्रत्यादिदेशेव कुकार्यसंगात्
कामाभिरक्तं सकलं नृलोकं २४५

मैत्रीमयेन प्रशमेन तस्य
विस्यन्दिनेवानुपरीतचित्ताः
परस्परद्रोहनिवृत्तभावास्
तपस्विवद् ध्य् अत्र मृगा विचेरुः २४६

आचारशुद्ध्या निभृतेन्द्रियत्वात्
संतोषयोगात् करुणागुणाच् च
असंस्तुतस्यापि जनस्य लोके
सो ऽभूत् प्रियस् तस्य यथैव लोके २४७

अल्पेच्छभावात् कुहनानभिज्ञस्
त्यक्तस्पृहो लाभयशःसुखेषु
स देवतानाम् अपि मानसानि
प्रसादभक्तिप्रवणानि चक्रे २४८

दृष्ट्वाथ तं प्रव्रजितं वनस्था
गुणैस् तदीयैर् अवबद्धचित्ताः
गुरुं विभाव्य श्रवणाय धर्मं
तच्छिष्यतां सिद्धिम् इवोपजग्मुः २४९

शीलशुचाव् इन्द्रियभावनायां
स्मृत्यप्रमोषे प्रविविक्ततायां
मैत्र्यादिके चैव मनःसमाधौ
यथाबलं सो ऽनुशशास शिष्यान् २५०

शृण्वन्तु धर्मं कथितं समासान्
मया भवन्तः परिपालनीयाः
धर्मो हि रक्षा परमे विपत्तौ
शुद्धाशयो मैत्रतत्रो ऽनुगामी २५१

यत् संप्रयोगा विरहावसानाः
समुच्छ्रयाः पातविरूपनिष्ठाः
विद्युल्लताभण्गुरलोलम् आयुस्
तेनैव कार्यो दृढम् अप्रमादः २५२

दानेन शीलाभरणेन तस्मात्
पुण्यानि संवर्धयितुं यतध्वं
विवर्तमानस्य हि जन्मदुर्गे
लोकस्य पुण्यानि परा प्रतिष्ठा २५३

तारागणानाम् अभिभूय लक्ष्मीं
विभाति यत् कान्तिगुणेन सोमः
ज्योतींषि चाक्रम्य सहस्ररश्मिर्
यद् दीप्यते पुण्यगुणोच्छ्रयः सः २५४

दृप्तस्वभावाः सचिवा नृपाश् च
पुण्यप्रभावात् पृथिवीश्वराणां
सदश्ववृत्त्या हतसर्वगर्वाः
प्रीता इवाज्ञधुरम् उद्वहन्ति २५५
पुण्यैर् विहीनान् अनुयात्य् अलक्ष्मीर्
विस्पन्दमानान् अपि नीतिमार्गे
पुण्याधिकैः सा ह्य् अवभत्स्यमाना
पर्येत्य् अमर्षाद् इव तद्विपक्षान् २५६

दुःखप्रतिष्ठाद् अयशोऽनुबद्धाद्
अपुण्यमार्गाद् उपरम्य तस्मात्
श्रीमत्सु सौख्योदयसाधनेषु
पुण्यप्रसंगेषु मतिं कुरुध्वं २५७

इत्य् अनुशासनं तस्य श्रुत्वा सर्वे ऽपि ते मुदा
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः २५८

ततस् ते तं महाविज्ञं कृत्वा प्रदक्षिणं त्रिधा
नत्वा सादरम् आमन्त्र्य स्वस्वालयं समाचरन् २५९

सो ऽपि धीमान् महासत्वः परिशुद्धत्रिमण्डलः
सम्बुद्धस्मृतिम् आधाय तस्थौ ध्यानसमाहितः २६०

एवं श्रीमान् स तत्रापि दत्वार्थिभ्यो यथेप्सितं
बोधिचर्याव्रतं धृत्वा प्रचचार जगद्धिते २६१

सदा तेन वयस्येन गौतमेन सहारतः
सद्धर्मगुणसांकथ्यं कृत्वारमत् तपोवने २६२

तदा चर्षिर् महाभिज्ञो भवभूत्यभिधः सुधीः
हिमवत्प्रस्थम् आश्रित्य विजहार तपश् चरन् २६३

स एकस्मिन् दिने तस्मान् मानसाख्ये सरोवरे
स्नानसंध्यार्चनं कर्तुं प्रातर् उत्थाय प्राचरत् २६४

तदा तस्मिन् महापद्मे संजाता दिव्यसुन्दरी
केनापि हेतुना बाला रुरोदाव्यक्तभाषिणी २६५

तद्विरावं समाकर्ण्य भवभूतिः स सन्मतिः
कस्येदं रोदनारावम् इत्य् अद्राक्षीत् समन्ततः २६६

तत्र दृष्ट्वा महापद्मे सहस्रपत्र-आश्रितां
दारिकां स ऋषिः पश्यन् तां समादातुम् ऐच्छत २६७

तत्र स गृध्ररूपेण गत्वा तां वीक्ष्य मानवीं
संपश्यन् स्वयम् आदाय स्वाश्रमं सहसा ययौ २६८

तत्र स तां समालोक्य सुभद्रलक्षणान्वितां
विस्मितो ऽभिप्रसन्नात्मा तस्या जातिमहं व्यधात् २६९

यद् इयं पद्मसंजाता नाम्ना पद्मावतीत्य् अतः
भवतु लोक-म्-आख्याता तस्या नाम व्यधाद् इति २७०

ततः स तां सुभद्रांगीं स्वात्मजाम् इव पालयन्
पथ्याहारैः प्रयत्नेन पोषयाम् आस सादरं २७१

एवं संपाल्यमाना सा परिपुष्टाण्गिका क्रमात्
दिने दिने प्रवृद्धाभूद् ध्रदस्थं पण्कजं यथा २७२

ततः सा परिवृद्धाण्गी कुमारी भद्रिका सती
लिपीः क्रमाद् अधीत्याशु सर्वविद्यान्तम् आययौ २७३

ततः सा यौवनी प्रौढा रतिरागसमाकुला
सखीभिः सह संरन्तुम् उद्याने समुपाचरत् २७४

तत्र सा रमणि कान्ता पश्यन्ती कौसुमं रजः
मकरन्दं समास्वाद्य रेमे रागाकुलाशया २७५

दृष्ट्वा च भ्रमरान् मत्तान् भ्रमतः कुसुमं प्रति
नानापक्षिविरावाणि श्रुत्वाभूद् रतिसंरता २७६

तदैका रयणावती विद्याधरी व्यच्चरी
तां दिव्यसुन्दरीं दृष्ट्वा क्षणं तस्थौ सविस्मया २७७

ततः सा तां सुभद्राण्गीं समिच्छन्ती समीक्षितुं
आकाशाद् अवतीर्याशु तदन्तिकम् उपाययौ २७८

तत्र सा तां समालोक्य दिव्यकान्तां मनोहरीं
तत्सौन्दर्यगुणाकृष्टचित्ताभूद् अनुरागिणी २७९

ततस् तस्या उपाश्रित्य संपृष्ट्वा कौशलं मुदा
निजप्रवृत्तिम् आख्याय सखीत्वं समुपाययौ २८०

सापि पद्मावती दृष्ट्वा तां कान्ताम् अभिरूपिणीं
कौशलम् अभितः पृष्ट्वा तत्सण्गतिं समाययौ २८१

ततस् ते स्नेहसंबद्धे कृत्वा संभाषणां मुदा
सुहृन्मैत्रीसमाचारे बभूवतुर् हिताशये २८२

ततः पद्मावतीं दृष्ट्वा सा सखी रयणावती
यौवनीम् अभिरूपाण्गीं रतिरागानुभाविनीं २८३

तरुच्छायाम् उपाश्रित्य कृत्वा संमोदिनीं कथां
माधवीं तत्सखीं साध्वीं समालोक्यैवम् अब्रवीत् २८४

अहं सर्वत्र लोकेषु चरित्वात्र समागता
दुर्लभं पृथिवीलोके समीक्ष्य दिव्यसुन्दरं २८५

एतत् तदुक्तम् आकर्ण्य माधवी विस्मयान्विता
पद्मावतीं समालोक्य विहसन्त्य् एवम् अब्रवीत् २८६

पद्मावति वयं मर्त्याः पापिन्य ऋद्धिवर्जिताः
लोकान् द्रष्टुं यद् आकाशे चरितुं न सहामहे २८७

इत्य् उक्त्वा माधवी सा तां समीक्ष्य रयणावतीं
पद्मावतीञ् च पश्यन्ति विस्मितैवम् अभाषत २८८

किं वस्तु दुर्लभं दृष्टं च रयणावति त्वया
तद् अत्र त्वं समाख्याय सत्यं नौ परिबोधय २८९

इति तयोदितं श्रुत्वा सखी सा रयणावती
पद्मावतीं समालोक्य माधवीं चैवम् अब्रवीत् २९०

किम् एव कथ्यते तस्य सौन्दर्यरूपसद्गुणं
यं दृष्ट्वा विस्मयाक्रान्तहृदयाहम् इहागता २९१

माधवी उवाच.
को ऽसौ दृष्टस् त्वया भद्रे त्रैलोक्ये यो ऽतिसुन्दरः
काम एव जगल्लोके सुन्दरः किं स दृश्यते २९२

अथवा दृश्यते चन्द्रः सुधांशुः संप्रसादितः
ताव् एवातुल्यरूपाण्गौ तदन्यः को ऽतिसुन्दरः २९३

इति तयोदितं श्रुत्वा सा कान्ता रयणावती
माधवीं तां समालोक्य पुनर् एवम् अभाषत २९४

किम् असौ कामदेवो यो रुद्रकोपाग्निदग्धितः
चन्द्रो वापि किम् एवासाव् अतुल्यो यो कलण्कितः २९५

तच् छ्रुत्वा माधवी प्राह तदन्यः को ऽतिसुन्दरः
यो ऽतुल्यरूपवान् दृष्टस् त्वयासौ कथ्यताम् इति २९६

इति तया समाख्यातं श्रुत्वा सा रयणावती
पद्मावतीं समालोक्य माधवीं चैवम् अब्रवीत् २९७

शृणुतं सादरं सख्यौ सत्यम् एव मयोच्यते
यो ऽसव् अतुल्यसौन्दर्यरूपवान् पुरुषोत्तमः २९८

साकेतनगरे राज्ञो ब्रह्मदत्तस्य नन्दनः
कान्तिमत्या महिष्या यो मणिचूडाभिधः सुतः २९९

स कुमारो महेशाख्यो ऽतुलसौन्दर्यरूपवान्
दिव्यातिशुद्धवर्ण्णाभो भद्रलक्षणमण्डितः ३००

चिन्तामणियुतोष्णीषः शुद्धेन्द्रियः समाश्रयः
सर्वार्थीच्छितसंभर्ता सर्वलोकहितार्थभृत् ३०१

शुद्धशीलो विशुद्धात्मा परिशुद्धत्रिमण्डलः
स्वपरात्महितोत्साही चतुर्ब्रह्माविहारिकः ३०२

सद्धर्मसाधनोद्योगी सुवीरो दुष्टजिद् बली
अप्रधृष्यः सुधीर् धीरः क्लेशारिजिज् जितेन्द्रियः ३०३

त्रिरत्नस्मृतिसंरक्त ईर्ष्याध्यानसमाहितः
सर्वशास्त्रकलाविद्याविशारदो विचक्षणः ३०४

प्रज्ञो नानाविधानज्ञो विज्ञो विज्ञानवादिजित्
सर्वसत्वहिताधानसम्बोधिगुणलालसः ३०५

दुर्दान्तदमको नेता सर्वलोकाधिपः प्रभुः
सर्वविद्याधिपः शास्ता सुज्ञो मन्त्री सुनीतिवित् ३०६

विनीतो नाथ आत्मज्ञः सत्यवाग् विनयी कृती
बोधिसत्वो महासत्वो धर्मिष्ठो धर्मभाणकः ३०७

किम् एवं बहुनोक्तेन साक्षाद् धर्म इवाण्गभृत्
सत्यधर्मगुणोत्साहसमृद्धिसिद्धिभाग्यवान् ३०८

ईदृक् श्रीगुणसम्पन्नः पुरुषो ऽसौ नृपात्मजः
दृष्टः सत्यं मया ख्यातं न तु मिथ्या कदा चन ३०९

पद्मावति त्वम् अप्य् एवं सद्गुणश्रीसमन्विता
स्त्रीरत्नं श्रीस्वरूपासि न ते काचित् समा क्वचित् ३१०

नृरत्नं पुरुषो सो ऽपि महासत्वो महर्द्धिकः
युवयोर् यदि संयोगः स्यात् स्रष्टुः सृष्टिसाफलं ३११

तद् अहं तं महाभागं वशीकृत्य प्रयत्नतः
आनीत्वा ते प्रदास्यामि भर्तारम् अनुमोदय ३१२

इति तदुक्तम् आकर्ण्य पद्मावत्य् अभिलज्जिता
गलदश्रुविरुक्षाक्षी प्राहैवं रयणावतीं ३१३

आ अ भासिनि निर्लज्जे उपहास्य ब्रवीषि किं
ईदृक्सद्गुणसम्पन्नो विद्येत पुरुषः कुह ३१४

इत्य् आक्षिप्य तया ख्यातं श्रुत्वा सा रयणावती
पद्मावतीं समालोक्य माधवीं चैवम् अब्रवीत् ३१५

यदीच्छति महादेवि भवती तं नरोत्तमं
सर्वथाहं समानीय समर्पयाणि ते ऽधुना ३१६

इति तदुक्तम् आकर्ण्य माधवी प्रतिविस्मिता
पद्मावतीं समालोक्य प्राहैवं रयणावतीं ३१७

यदि शक्नोषि तं भद्रे समानयितुम् आत्मना
आनीयास्यै सुभागिन्यै समर्पयितुम् अर्हति ३१८

इति तया समाख्यातं श्रुत्वा सा रयणावती
पद्मावतीं समालोक्य माधवीं चैवम् अब्रवीत् ३१९

पश्यतं तं युवां सख्यौ प्रतिज्ञातं मया यथा
तथाहं समुपानीय दास्याम्य् अस्यै पतिं वरं ३२०

इत्य् उक्त्वा सा महाभिज्ञा यानम् आरुह्य पुष्पकं
प्रचरन्ती खमार्गेण साकेतसंमुखाचरत् ३२१

तत्र याता विमानात् सा दृष्ट्वावतीर्य खेचरी
कान्तिमत्याह् पुरो गत्वा पश्यन्ती समुपाश्रयत् ३२२

दृष्ट्वा तां खात् समायातां विद्याधरीम् उपाश्रितां
कान्तिमती समालोक्य स्वासने समुपाश्रयत् ३२३

ततः सा महिषी रज्ञी पश्यन्ती रयणावतीं
पृष्ट्वा कौशल्यवृत्तान्तं सादरम् एवम् अब्रवीत् ३२४

अयि विद्यागुणाधारे भवती सर्वभूचरी
तद् योग्या मम पुत्राय कुमारी विद्यते कुह ३२५

इति तया समापृष्टं श्रुत्वा सा रयणावती
कान्तिमतीं समालोक्य सादरम् एवम् अब्रवीत् ३२६

अस्ति देवि मया दृष्टा कान्ता दिव्यातिसुन्दरी
हिमगिराव् ऋषेः कन्या भवभूतेः सुलक्षणा ३२७

अयोनिसंभवा पद्मसंजाता दिव्यरूपिणी
कान्ता पद्मावती नाम योग्यैषा ते सुताय हि ३२८

इति तया समाख्यातं श्रुत्वा कान्तिमती मुदा
तां रयणावतीं प्रेक्ष्य सादरम् एवम् अब्रवीत् ३२९

सा कीदृक्सुन्दरी कान्ता कन्या पद्मावती मुनेः
तन्मूर्तिं मे समालिख्य संदर्शयितुम् अर्हति ३३०

इत्य् उक्ते सा समालिख्य तन्मूर्तिं हेमपट्टिके
पद्मावतीसमाकारां कान्तिमतीम् अदर्शयत् ३३१

तन्मूर्तिं लिखितां कान्तां पद्मावतीसमाकृतिं
दृष्ट्वा कान्तिमती देवी प्राभ्यनन्दत् प्रमोदिता ३३२

ततः कान्तिमती माता स्मृत्वात्मजं वनाश्रितं
गलदश्रुमुखा ध्यात्वा तस्थौ तद्युक्तिचिन्तया ३३३

गलदश्रुविरुक्षाक्षां तां दृष्ट्वा रयणावती
कान्तिमतीं विषादत्वं पप्रच्छैवं समादरात् ३३४

किं ते दुःखं महादेवि यद् अश्रूणि विमुञ्चसि
तद् वदस्व ममाग्रे ऽपि निःशेषं शमयेय हि ३३५

इति तया समाख्यातं कान्तिमति निशम्य सा
तां रयणावतीं वीक्ष्य विनिश्वस्यैवम् अब्रवीत् ३३६

रयणावति पुत्रो मे कुमारो ऽसौ विरागितः
गौतमस्याश्रमे गत्वा चरति तापसं व्रतं ३३७

कः पुमांस् तं महासत्वं विनीय परिबोधयन्
गृहाश्रमे प्रतिष्ठाप्य कौलव्रतं प्रचारयेत् ३३८

इति तस्या वचः श्रुत्वा सा सखी रयणावती
कान्तिमतीं समाश्वास्य संपश्यन्त्य् ऐवम् अब्रवीत् ३३९

तदर्थे ऽत्र महादेवि मा कृथास् त्वं विषादतां
तत्प्रयत्नं करिष्यामि यथासौ गृहम् आश्रयेत् ३४०

एतयोः सदृशीं मूर्तिं समालिख्य यथाविधि
कृत्वा वैवाहिकं कर्म कुर्यां सम्बन्धताम् इह ३४१

एतद् वैवाहिकं सूत्रं प्रेषयित्वा तयोर् अपि
गलयोः प्रतिबन्धित्वा कर्तव्यं सन्धिबन्धनं ३४२

एवं कर्मणि वैवाहे कृते दैवानुयोगतः
जायापती भवेतां तौ पश्यैतद् वचनं मम ३४३

इति तया समाख्यातं कान्तिमती निशम्य सा
तथेत्य् अभ्यनुमोदित्वा कर्तुम् एवं समैच्छत ३४४

ततः सैतत्प्रवृत्तान्तं निवेद्य स्वामिनः पुरः
तथादेशं समासाद्य तद्विवाहं व्यधापयत् ३४५

ततः सा कुन्तलां चेटीं समाहूय समादरात्
तत् सूत्रं सादरं दत्वा प्रैषयद् गौतमे मुनौ ३४६

तत्र सा सहसा गत्वा समुपासृत्य साञ्जलिः
गौतमं तं महाभिज्ञं प्रणत्वैवं न्यवेदयत् ३४७

महर्षे यद् विजानीयाः कान्तिमती नृपाज्ञया
करोति मूर्तिवैवाहं पद्मावतीकुमारयोः ३४८

तद् वैवाहम् इदं सूत्रं समर्प्य प्रेषितास्म्य् अहं
भवान् एतं समादाय कुमाराय प्रयच्छतु ३४९

इति निवेद्य सा चेटी गौतमस्य मुनेः पुरः
सूत्रं वैवाहिकं स्थाप्य शतभेदिं समार्पयत् ३५०

दृष्ट्वा तत् सूत्रम् आदाय गौतम ऋषिर् आदरात्
मणिचूडं कुमारं तं समामन्त्र्येदम् अब्रवीत् ३५१

कुमार तव मात्रेदं दत्वेयं प्रेषिता त्वयि
तद् एतं त्वं समादाय गले बन्धितुम् अर्हसि ३५२

इत्य् उक्त्वा गौतमस् तस्मै मणिचूडाय सादरं
दत्वा भद्राशिषं सूत्रं समर्पयन् ददौ स्वयं ३५३

दृष्ट्वा स मणिचूडस् तत् सूत्रं प्रविस्मिताशयः
कथं कृतं विवाहं मे पितृभ्याम् इत्य् अचिन्तयत् ३५४

ततः स सुचिरं ध्यात्वा कामसंभोगनिःस्पृहः
गौतमं तं समालोक्य निःश्वसन्न् इदम् अब्रवीत् ३५५

महर्षे यद् गृहं त्यक्त्वा भवदाश्रमं आगतः
सम्बोधिनिहितात्मात्र ब्रह्मचर्यं समाचरे ३५६

तत् कथम् इदम् उज्झित्वा पुनर् गृहाश्रमे गतः
प्रमदारतिसंरक्तश् चरेयं किं व्रतं सुखं ३५७

पापालये क्लेशमहारिसंगे
नानाभयाग्निप्रतिदग्धसौख्ये
ईर्ष्यामदोन्मानविघातधर्मे
गृहे ऽभिरन्तुं कथम् उत्सहेयं ३५८

तन् नैव वाञ्छामि गृहे ऽभिरन्तुम्
इहैव देहं परिमोक्तुम् ईहे
तत् सूत्रम् एतं न परिग्रहीतुम्
इच्छामि प्राणं तु विहातुम् एव ३५९

एतत् तेन समाख्यातं श्रुत्वा स गौतमो मुनिः
मणिचूडं महासत्वं तं पश्यन्न् इदम् अब्रवीत् ३६०

भो कुमार गृहे धर्मं चरितुं न यदिच्छसि
बिभर्षि यद् इमं देहं किमर्थं तद् वदस्व मे ३६१

इति तदुक्तम् आकर्ण्य मणिचूडो महामतिः
गौतमं तं वयस्यं च संपश्यन्न् इदम् अब्रवीत् ३६२

शृणु साधु वयस्य त्वं बिभर्मि यद् इदं वपुः
तद् अर्थं ते प्रवक्ष्यामि श्रुत्वानुपरिबुध्यतां ३६३

अनेकश्रुतवन्तो ऽपि सर्वविद्याविचक्षणाः
गृहे कामगुणारक्ता भवन्ति क्लेशतापिताः ३६४

ततस् ते क्लेशदुःखाग्निसंतापदाहिताशयाः
स्वकुलधर्ममर्यादं त्यक्त्वा चरन्ति दुर्वृतौ ३६५

ततस् ते विकलात्मानो दशाकुशलसंरताः
भ्रष्टाचारा महादुष्टाः सद्धर्मगुणनिन्दकाः ३६६

दारुणेस्व् अपि पापेषु प्रचरन्तो यथेच्छया
तीव्रक्लेशाग्निसंतप्ताश् चरन्ति तीव्रपातके ३६७

ततस् ते मूढिता भूतपिशाचा इव दुर्भगाः
सदा दुःखाग्नितप्ताण्गा मृता गच्छन्ति नारके ३६८

गत्वा ते नारके भुक्त्वा स्वदुष्कृतफलं सदा
असह्यदुःखसंदग्धा भ्रमन्ति सर्वदा भवं ३६९

इति मत्वात्र संसारे पापदुःखालयं गृहं
विहाय सज्जना धीरा वसन्ति सत्सुखे वने ३७०

स्थित्वा वने समाधाय निःक्लेशा विमलेन्द्रियाः
समाधिनिहितात्मानः साधयन्ति सुसंवरं ३७१

एवम् अहम् अपीहस्थो वने सम्बोधिमानसः
समाधिसत्सुखानन्दं भुक्त्वा वसेय सर्वदा ३७२

नाहं गत्वा पुनर् गेहे कुलधर्मं चरेय हि
दत्वार्थिभ्य इमं देहं यास्यामि निर्वृतिं वरं ३७३

इति तेन समाख्यातं श्रुत्वा सा कुन्तला ततः
गत्वैतत्सर्ववृत्तान्तं कान्तिमत्याः पुरो ऽवदत् ३७४

एतत् तत् कथितं श्रुत्वा कान्तिमती विषादिता
स्वात्मजस्नेहदुःखार्ता प्रमोदितापतद् भुवि ३७५

विलोक्य निपतन्तीं ताम् राज्ञीं सा रयणावती
आलिण्ग्य सहसोत्थाप्य समाश्वास्येदं अब्रवीत् ३७६

देवि धैर्यं समालम्ब्य तिष्ठ मात्र विषीद हि
यत्नं करोमि येनासौ कुमारो गृहम् आश्रयेत् ३७७

इति प्रोक्त्वा समालोक्य देविं सा रयणावती
ततः संप्रस्थिता तत्र गौतमस्याश्रमे ऽचरत् ३७८

तत्र शवासिनीरूपं धृत्वा सा रयणावती
मणिचूडं कुमारं तं समुपेत्यैवम् अब्रवीत् ३७९

कुमार त्वं महात्यागी सर्वार्थिवाञ्छितार्थभृत्
यथा त्वया प्रतिज्ञातं तं मे दत्वाभिपूर्यतां ३८०

इति तत्प्रार्थितं श्रुत्वा मणिचूडः प्रसादितः
प्रेताशिनीं बिभत्साण्गीं संपश्यन्न् एवम् अब्रवीत् ३८१

पिशाचि प्रेच्छसि त्वं यत् तत् ते दास्याम्य् अहं ध्रुवं
प्रार्थयस्व यथाकामं मात्र शण्का विधीयतां ३८२

इति तेन समाख्यातं श्रुत्वा सा शवभक्षिणी
तम् कुमारं महासत्वं संपश्यन्त्य् ऐवम् अब्रवीत् ३८३

कुमार यदि नेच्छा ते संसारसुखभोजने
तत् किमर्थम् इमं देहं देहि मे भक्षयाम्य् अहं ३८४

इति तयार्थितं श्रुत्वा मणिचूडो ऽनुमोदितः
दास्यामीमं वपुस् ते ऽहं यथाकामं प्रसाधय ३८५

इति तेन समाख्यातं श्रुत्वा स गौतमो रुषा
मायाप्रेताशिनीरूपां तां स्त्रियम् एवम् अब्रवीत् ३८६

अरे रे पापिनि मायारूपिणी राक्षसी यथा
त्रैलोक्यदुर्लभं कान्तं कुमारं भोक्तुम् इच्छसि ३८७

व्रजेतः सहसा दूरं न चेत् त्वं ताडयाम्य् अहं
इत्य् उक्त्वा दण्डम् उद्दाम्य ताडितुं ताम् रुषा ययौ ३८८

तं दृष्ट्वा दण्डम् उद्दाम्य तां प्रताडितुम् उद्यतं
मणिचूडः पुरो गत्वा संनिवार्यैवम् अब्रवीत् ३८९

महर्षे मा कृथा रोषं प्रसीदात्र हिते मम
यद् बोधिरत्नसम्प्राप्त्यै दित्सामि देहम् आत्मनः ३९०

तन् ममात्र महाद्दाने न विघ्नं कर्तुम् अर्हति
अनुमोद्य प्रसीदात्र तेन बोधिं लभेर् अपि ३९१

यद्य् अत्र विघ्नतां कुर्याद् भ्रष्टः सद्धर्ममार्गतः
भवक्लेशाग्नितप्तात्मा दुःखभाङ् नरके पतेः ३९२

इति मत्वा भवान् अत्र सद्धर्मसाधने मम
अनुमोद्य सहायत्वे समाचरितुम् अर्हति ३९३

तेनैतद् गदितं श्रुत्वा गौतमः स विषादितः
स्नेहरागाग्नितप्तात्मा पश्यंस् तस्थौ विमोहितः ३९४

ततश् चासौ महासत्वो मणिचूडः समुत्सुकः
शवाशिनीं पिशाचीं तां समामन्त्र्यैवं अब्रवीत् ३९५

भो स्त्रि ददाम्य् अहं तुभ्यं श्रद्धयेमां तनुं मम
प्रतिगृह्य यथाकामं योजय धर्मसाधने ३९६

भुक्त्वा वापि समाधाय सम्बोधिनिहिताशया
कृत्वा लोकाहितर्थानि संचरस्व सदा शुभे ३९७

इत्य् उक्त्वा स महात्मा स्वं देहं श्रद्धः समर्पयन्
प्रेताशिन्यै स्त्रियै तस्यै सुप्रसन्नाशयो ददौ ३९८

तद्दत्तं देहम् आधाय सा प्रसन्नाशया मुदा
त्यक्त्वा शवाशिनीरूपं विद्याधरीवपुर् ददौ ३९९

तां दृष्ट्वा स महासत्वो मणिचूडो ऽत्विस्मितः
सुचिरं संनिरीक्ष्यैव तस्थौ निश्चलिताशयः ४००

ततो विद्याधरी सा तं मणिचूडं महामतिं
सुप्रसन्नमुखाम्भोजं संपश्यन्तीदम् अब्रवीत् ४०१

भो कुमार त्वयात्मानं मह्यं दत्वा समर्पितं
तद् इदानीं वषे स्थित्वा चरितुं मे समर्हसि ४०२

तावद् वाक्यं मम श्रुत्वा यथा मया यद् उच्यते
तथा तच् छ्रद्धया कार्यं संसाधयन् समाचर ४०३

इति तयोक्तम् आकर्ण्य मणिचूडः प्रबोधितः
तथा हीति प्रतिज्ञाय तत्कार्यसाधको ऽभवत् ४०४

ततो दृढप्रतिज्ञं तं विनीय रयणावती
महर्षिं गौतमं दृष्ट्वा समामन्त्र्यैवम् अब्रवीत् ४०५

महर्षे यद् अयं राजकुमारो दिव्यसुन्दरः
तस्मात् पद्मावतीं देवीम् अस्मै दातुं समुत्सहे ४०६

तद् भवान् अपि यत् कार्यं संसाधयितुम् अर्हति
यद् एनं नेतुम् इच्छामि पद्मावत्या गृहे गिरौ ४०७

तद् अनेन कुमारेण सार्धं तत्र हिमालये
आश्रमो भवभूतेर् यो भवान् आगन्तुम् अर्हति ४०८

इति तयोदितं श्रुत्वा गौतमः सो ऽनुमोदितः
तथा हिमालये गन्तुं समैच्छत तया सह ४०९

ततः सा यानं आरुह्य कुमारगौतमान्विता
आकाशात् संचरन्त्य् आशु हिमालये समाययौ ४१०

तत्र साश्रमम् आगत्य समवतीर्य यानतः
पद्मावतीं समागन्तुम् उद्याने समुपाचरत् ४११

तदा पद्मावतीं तत्र मणिचूडानुरागिनीं
कामाग्नितापदग्धाण्गीं विषदिग्धां विमोहितां ४१२

चन्द्रकान्तिशिलायां ताम् अधिष्ठाप्य समादरात्
माधवी सूपचारेण परिचर्य समाश्रयत् ४१३

तां दृष्ट्वा समुपेत्याशु तत्र सा रयणावती
माधवीं ताम् उपासीनां समीक्ष्यैवम् अपृच्छत ४१४

माधवीयं किमर्थे ऽत्र पद्मावती निषीदति
किं वा रोगान्विता देवी तत् समाख्याहि मे ऽग्रतः ४१५

इति पृष्टे तया सख्या माधवी सा विलोक्य तां
सखीम् ऋषिकुमाराभ्यां समेताम् एवम् अब्रवीत् ४१६

रयणावति-म्-आयासि समेह्य् अत्र समाश्रय
यदर्थे ऽत्र निषीदामि देव्या सह वदे शृणु ४१७

यदा त्वं मणिचूडस्य रूपगुणम् अवर्णयः
तदारभ्य कुमारे ऽस्याश् चित्तं रागानुरागितं ४१८

तद्रागाग्न्यनुदग्धाण्गा विषदिग्धेव मोहिता
तज्ज्वरशान्तये ह्य् अत्र शिलायां स्थापिता मया ४१९

तद् भवती समालोक्य यद् अस्या ज्वरशान्तये
उपायं तत् समाधाय सर्वथा कर्तुम् अर्हति ४२०

इति तया समाख्यातम् श्रुत्वा सा रयणावती
पद्मावतीं समाश्वास्य माधवीं चैवम् अब्रवीत् ४२१

देवि धैर्यं समालम्ब्य तिष्ठ त्यज विषादतां
त्वत्तापशमनोपायं दत्वोपचारयाण्य् अहं ४२२

इत्य् उक्त्वा सा समाश्वास्य पद्मावतीं समाधवीं
मणिचूडं कुमारं तं समामन्त्र्यैवम् अब्रवीत् ४२३

कुमार यत् त्वया प्रोक्तं कुर्यां सर्वहितं भवे
इति सत्यं समाधाय तत् प्रतिज्ञां प्रपूरय ४२४

यत् सा पद्मावती देवी रागाग्नितापितातुरा
तद् अस्य रोगशान्त्यर्थं उपाचरितुम् अर्हति ४२५

इति तयोक्तम् आकर्ण्य मणिचूडो हि लज्जया
पद्मावत्या मुखं द्रष्टुम् अपि नैवात्यवाञ्छत ४२६

ततो विद्याधरी सा तं मणिचूडम् अनोदितं
विनीय बहुधाख्यानैर् बोधयित्वात्यचोदयत् ४२७

ततो ऽसौ मणिचूडस् तद्वाक्यं श्रुत्वाभिबोधितः
गत्वा पद्मावतीं पस्यंस् तस्थौ कारुण्यमानसः ४२८

ततो धीमान् कुमारस् स प्रक्षाल्य स्वशिरोमणिं
तज्जलेनापि सर्वाङ्गं पद्मावत्या असिञ्चयत् ४२९

तेन तस्या बहिः काये तापः प्रशमम् आययौ
तस्य संदर्शनाद् भूयो रागाग्निस् तु प्रदीप्तितः ४३०

ततो रागाग्निसंतप्तचित्ता सा परिमूर्छिता
भूयो ऽतिविषदिग्धेव नैव स्वास्थ्यं समाययौ ४३१

तद् दृष्ट्वा सो ऽम्बुना भूयः प्रक्षाल्य स्वशिरोमणिं
पद्मावत्या मुखे ऽम्भस् तत् संप्रदत्वा न्यवेशयत् ४३२

तज् जलं सा निपीयाशु चित्तस्वास्थ्यं समाययौ
ततस् तस्या मनःसौख्यम् अवाप तद्गुणोत्सुकं ४३३

ततस् तयोर् अभूच् चित्तं स्नेहसंबद्धितं मिथः
क्रिडाभोजनसंलापदर्शनहसनादिषु ४३४

तदारभ्य समेतौ तौ विस्रम्भागूढभाषिणौ
निर्लज्जारागसंबद्धौ दम्पतीव प्रचेरतुः ४३५

ताव् एवं स्नेहसंबद्धौ दृष्ट्वा सा रयणावती
गौतमं माधवीं चापि समेत्येदं मुदावदत् ४३६

महर्षे सिद्ध्यते कार्यं यद् यत्नं क्रियते मया
यद् एतौ स्नेहसंबद्धौ चरतो दम्पती यथा ४३७

तद् भवान् एनम् आराग्य कुमारं परिबोधयन्
कृत्वा वैवाहिकं कर्म चारयतु गृहाश्रमे ४३८

माधवि त्वं समाराग्य पद्मावतीं विनोदय
यथैतौ रागसंबद्धौ राज्याश्रमे चरिष्यतः ४३९

इति तयोदितं श्रुत्वा माधवी सानुमोदिता
पद्मावतीं समाराध्य वैवाहे पर्यबोधयत् ४४०

तया संबोध्यमाना सा पद्मावती नतानना
लज्जाहर्षविभिन्नास्या तस्थौ रागाहताशया ४४१

गौतमो ऽपि कुमारं तं समाराग्य प्रबोधयन्
कर्तुं वैवाहिकं कर्म पद्मावत्या सहारभत् ४४२

तत् समीक्ष्य कुमारः स मणिचूडो विरागितः
राज्याश्रमनिराकाण्क्षी गत्वोद्यानसमाश्रितः ४४३

सद्धर्मसाधनाकाङ्क्षी सन् क्लेशधर्मनिःस्पृहः
बोधिचित्तं समाधाय तस्थौ ध्यानसमाहितः ४४४

तम् उद्याने समाश्रित्य समाधिध्यानसंस्थितं
विज्ञाय गौतमस् तत्र समेत्य पर्यबोधयत् ४४५

तेन नानाविधानेन बुध्यमानो ऽप्य् अबोधितः
स महात्मा तथा ध्यात्वा तस्थौ निश्चलितेन्द्रियः ४४६

भवभूतिस् तदादृष्ट्वा पद्मावतीम् अनुस्मरन्
रुदन्न् अन्वेषितुं तत्र विलोकयन्न् उपाचरत् ४४७

तद्विलापरवं श्रुत्वा सखी सा रयणावती
निःसृत्य सहसा तत्र विलोक्य तम् अपश्यत ४४८

तं दृष्ट्वा सहसोपेत्य महर्षिं सा कृताञ्जलिः
अष्ताङ्गैः प्रणतिं कृत्वा पश्यन्ती समुपाश्रयत् ४४९

भवभूतिर् महर्षिः स पश्यंस् तां रयणावतीं
गलदश्रुविरुक्षाक्षः पप्रच्छैवं समादरात् ४५०

पद्मावती गृहे नास्ति क्व गता रयणावति
बहुदिनान् न पश्यामि तत्प्रवृत्तिं वदस्व मे ४५१

इति महर्षिणा पृष्टं श्रुत्वा सा रयणावती
भवभूतिं तम् आलोक्य सादरम् एवम् अब्रवीत् ४५२

महर्षे ऽस्ति भवत्पुत्री पद्मावतीह संस्थिता
चन्द्रमणिशिलायां सा सहास्माभिर् निषीदति ४५३

इति तयोदितं श्रुत्वा भवभूतिः प्रबोधितः
तत्र पद्मावतीं द्रष्टुं सहसा समुपासरत् ४५४

तत्र तं समुपायातं दृष्ट्वा पद्मावती मुदा
सहसोत्थाय तत्पादे साञ्जलिः प्रणतिं व्यधात् ४५५

ततः सा माधवी चापि दृष्ट्वैनं सहसोत्थिता
साञ्जलिः प्रणतिं कृत्वा मुदासनम् उपाहरत् ४५६

गौतमो ऽपि समालोक्य भवभूतिं समागतं
सहसोत्थाय संपश्यन् प्रणन्तुं समुपाचरत् ४५७

भवभूतिस् तम् आयातं गौतमं संविलोकयन्
प्रणत्वा कौशलं पृष्ट्वा पप्रच्छागतिकारणं ४५८

गौतमो ऽपि प्रणत्वा तं पृष्ट्वा च कौशलं मुदा
एतत् सर्वं प्रवृत्तान्तं निवेद्य समबोध्यत् ४५९

तच् छ्रुत्वा भवभूतिः सो ऽनुमोद्य संप्रहर्षितः
विवाहसमयं पुत्र्या दृष्ट्वानन्दत् प्रसादितः ४६०

पद्मावतीं प्रसन्नास्यां विलोक्य नवयौवनीं
मणिचूडाय योग्यां च संप्रदातुं समैच्छत ४६१

ततः पद्मावतीं कन्यां समादाय स नन्दितः
भवभूतिः पिता तत्र मणिचूडान्तिके ययौ ४६२

तत्र ध्यात्वा समासीनं तं कुमारं समीक्ष्य सः
भवभूतिः प्रसन्नात्मा समामन्त्र्यैवम् अब्रवीत् ४६३

कुमारास्तु सदा भद्रं सिद्ध्यतु ते समीहितं
उत्तिष्ठ शृणु मे वाक्यम् उपदेक्ष्यामि ते हितं ४६४

इति तेनोदितं श्रुत्वा मणिचूडो विलोक्य तं
भवभूतिं समुत्थाय साञ्जलिः प्रणतिं व्यधात् ४६५

तं पश्यन् मणिचूडं स भवभूतिः प्रमोदितः
सादरं समुपामन्त्र्य रहसीदम् अभाषत ४६६

कुमार यद् भवान् विज्ञो दिव्यातिसुन्दरः कृती
तन् मम वचनं श्रुत्वा धर्मे चरितुम् अर्हति ४६७

यद् इमां त्वद्गुणाकाण्क्षीं पद्मावतीं सरोजजां
तद् गृहीत्वानया सार्धं कुलधर्मे समाचर ४६८

इति तेन समाख्यातं श्रुत्वैव सो ऽप्रबोधितः
अधोमुखो ऽप्रसन्नास्यो नैव प्रत्युत्तरं ददौ ४६९

भूयो ऽपि भवभूतिः स मणिचूडं विलोकयन्
बोधयितुं समामन्त्र्य विहसन्न् इदम् अब्रवीत् ४७०

कुमार त्वं महासत्वस् तत् किं त्यक्त्वा गृहाश्रमं
वानप्रस्थ इहाश्रित्य विरक्तश् चरसे तपः ४७१

यत् त्वं सर्वहितार्थेन दत्वार्थिभ्यो यथेप्सितं
दानचर्याव्रतं धृत्वा प्राचरो बोधिसंवरं ४७२

इदानीं किम् इहाश्रित्य संसारधर्मनिःस्पृहः
बोधिचर्याव्रतं त्यक्त्वा भिक्षुर् इवाचरेः कथं ४७३

यत् प्राहुः सर्वधर्माणाम् राजधर्मं वरं भवे
येन संपालिताः सर्वे लोका धर्मे प्रतिष्ठिताः ४७४

विनात्र नृपतिं सत्वाः सर्वे क्लेशाकुलाशयाः
दुर्दान्ता इव मत्तेभाः प्रचरेयुर् यथेच्छया ४७५

यथाकामं प्रभुञ्जानाः कृत्वापि प्रमदाः कलिं
हृत्वा परस्परं युद्धं कृत्वा चरेयुर् एनसे ४७६

ततस् ते दुर्भगा दुष्टा महापातकचारिणः
दुःखाग्नितापितात्मानो मृता यायुश् च दुर्गतौ ४७७

दुर्गतौ निपतन्तस् ते क्षुत्तृष्णातापिताशयाः
असह्यवेदनाक्रान्ता भ्रमेयुर् नारकेष्व् अपि ४७८

तथा ते नारकासीनाः सदा दुःखाग्नितापिताः
मूढात्मानः स्मृतिभ्रष्टा नेयुर् मुक्तिपथं क्वचित् ४७९

इति मत्वा कुमारास्ति सत्वेषु ते कृपा यदि
कृपया पालयन् सर्वान् सत्वान् संभर्तुम् अर्हति ४८०

यदि सत्वान् बिभर्षि त्वं दत्वा द्रव्यं यथेप्सितं
तदा सर्वे ऽपि सत्वास् ते संचरेरन् सदा वृषे ४८१

ततस् ते सुखसम्पन्नाः स्वस्वकुलवृषारताः
निःक्लेशा विमलात्मानः संप्रयायुः सुरालयं ४८२

एवं विज्ञाय सत्वेषु यद्य् अस्ति ते दयामतिः
तद् इमां पद्मजां लक्ष्मीं समाग्रःईतुम् अर्हति ४८३

अनया सह संरक्तो राज्याश्रमे समाश्रितः
सदा यज्ञादिसत्कर्मं कृत्वा सद्धर्मम् अर्जय ४८४

दर्वार्थिभ्यो यथाकामं सर्वसत्वहितार्थभृत्
बोधिचर्याव्रतं धृत्वा संचरस्व गृहे सुखं ४८५

एवं चरन् महाधर्मे सर्वान् सत्वान् प्रचारयन्
सर्वत्र मंगलं कृत्वा संप्रयायाः सुरालयं ४८६

इति सत्यं मयाख्यातं श्रुत्वेमां पद्मजां रमां
परिणीय यथाकामं भुक्त्वा राज्यवृषे चर ४८७

ततः सन्ततिम् उत्पाद्य विनीय नीतिसद्वृषे
बोधिमार्गे प्रतिष्ठाप्य चारयेत् तावद् आत्मजं ४८८

ततो विनीय तं पुत्रं प्रतिष्ठाप्य नृपासने
सर्वलोकाधिपं कृत्वा ततो वनाश्रमे चरेः ४८९

एतत् संसारसद्धर्मं मत्वा स्थित्वा गृहाश्रमे
बोधिचर्याव्रतं धृत्वा चर बोधिं यदीच्छसि ४९०

इति तदुक्तम् आकर्ण्य स धीमान् अनुमोदितः
भवभूतिं पुरस्थं तं द्रष्टुम् अपि ववाञ्च न ४९१

कथं गेहे पुनर् गत्वा क्लेशव्याकुलमानसः
चरेयम् इति संचिन्त्य तस्थौ ध्यानसमाहितः ४९२

एवं तेनर्षिणा भूयो नानाविधिनिदर्शनैः
बुध्यमानो ऽपि नैवासौ महासत्वो ऽन्वमोदत ४९३

द्विधा त्रिधापि तेनैवम् ऋषिणा संनिदर्शनैः
बुध्यमानो ऽपि नैवासौ तद् वाक्यं श्रोतुम् ऐच्छत ४९४

ततः स भवभूतिस् तम् अप्रबोधितमानसं
दृष्ट्वेर्ष्याग्निप्रदग्धात्मा तर्जयन्न् एवम् अब्रवीत् ४९५

अनेन दुर्मते वाक्यं ममापि न श्रुतं त्वया
चिताम् आरोप्य धक्ष्यामि सुताम् इमां सहात्मना ४९६

इति तेनोदितं श्रुत्वा मणिचूडो दयाकुलः
तं क्रोधाग्निप्रतप्तं स दृष्ट्वैवं पर्यचिन्तयत् ४९७

कथं ब्रह्मचरिं त्यक्त्वा राज्याश्रमे समाश्रितः
प्रमदा सह संरक्तश् चरेयं क्लेशिताशयः ४९८

हाहं नष्टः परिभ्रष्टः सम्बुद्धपुरसत्पथात्
दुष्टमारगणासण्गश् चरेयं क्लेशनिघ्नितः ४९९

इति चिन्ताविषण्णात्मा कुमाद्रः स विमोहितः
कथंचिद् धैर्यम् आलम्ब्य तस्थौ ध्यानसमाहितः ५००

तथा स्थितं कुमारं तं दृष्ट्वा स गौतमः सुहृत्
संपश्यन् समुपासृत्य समामन्त्र्यैवम् अब्रवीत् ५०१

कुमार त्वं सुधीर् विज्ञः सर्वविद्याविचक्षणः
तद् अत्र किं कथं कुर्याः संपरीक्ष्य वदस्व मे ५०२

यदीमां त्वं न गृह्णीया अयम् ऋषिः प्ररोषितः
नूनं चितां समारोप्य धक्ष्यत्य् एनां सहात्मना ५०३

तदा त्वयात्र कर्तव्यं किं कथं तद् विचिन्त्यतां
यद् एतत् ते महापापं संजायेताधुना खलु ५०४

यत् क्रोधाग्निप्रदग्धात्मा नूनम् अयम् ऋषी रुषा
चितायां स्वयम् आरुह्य स्वात्मानम् अपि धक्ष्यते ५०५

तद् अत्र ते महत्पापं स्त्रीब्रह्मदहनोधवं
जायेत दारुणं घोरं सर्वपापातिदारुणं ५०६

एतत्पापाभिलिप्तात्मा महादुःखाग्नितापितः
असह्यवेदनाक्रान्तो निपतेर् नारके ध्रुवं ५०७

तदा तत्र न ते कश् चित् त्रातानुशासकः सुहृत्
सर्वे दुष्टा महाक्रूराः प्रहरेयुस् समन्ततः ५०८

एवं दुःखानि भुञ्जानः सर्वेषु नरकेष्व् अपि
भ्रमत् तीव्रातिदुःखार्तश् चरेत् सततम् आभवं ५०९

इति मत्वा महाविज्ञ विचारय समाहितः
सत्यम् एतन् मया ख्यातं नान्य्था परिमाणय ५१०

स्वपरात्महिताधानं सद्धर्मं यदि वाञ्छसि
तथा मे वचनं श्रुत्वा घृहाणेमां रमोपमां ५११

परिणीयानया सार्धं राज्याश्रमे समाश्रितः
सर्वसत्वहितं कृत्वा संचरस्व सदा शुभे ५१२

एवं कृत्वा यथाकामं दत्वार्थिभ्यः समाहितः
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ५१३

तथा ते मण्गलं नित्यं सर्वत्रापि भवेद् ध्रुवं
यथाभिवाञ्चितं सौख्यं भुक्त्वा यायाः सुरालयं ५१४

स्वर्गे ऽपि सर्वदा सौख्यं भुक्त्वा संबोधिमानसः
स्वपरात्महितं कृत्वा संचरेथाः सदा शुभे ५१५

ततस् त्वं नरके क्वापि गमिष्यसि कदा चन
सर्वदा सद्गतौ यातः सद्धर्मे एव प्राचरेः ५१६

एवं विज्ञाय विज्ञात्र संपरीक्ष्य विचारयन्
यत्राभिवाञ्छ्यते तत्र संचरस्व समाहितः ५१७

इति तेन सुमित्रेण समादिष्टं निशम्य सः
मणिचूडो महासत्वो विचार्यैवं व्यचिन्तयत् ५१८

सत्यम् एव समाख्यातं मित्रेणानेन सद्धिया
तथास्य वचनं श्रुत्वा कुर्यां सद्धर्मसाधनं ५१९

इति निश्चित्य विज्ञो ऽसौ मणिचूडो ऽभिबोधितः
तथेत्य् अत्यनुमोदित्वा गौतमं समलोकयत् ५२०

तदीङ्गितं परिज्ञाय गौतमः संप्रसादितः
भवभूतिं समामन्त्र्य संपश्यन्न् एवम् अब्रवीत् ५२१

महर्षे तत् प्रसीदात्र मा कृथा हृदि रोषतां
यद् अयं बोधितो राजधर्मे चरितुम् इच्छति ५२२

तद् इमाम् पद्मजां देवीं श्रद्धयास्मै समर्पयन्
विधिनोपयमं कृत्वा साधर्मम् अनयोः कुरु ५२३

इति तेन समादिष्टं भवभूतिर् निशम्य सः
तथेति प्रतिभाषित्वा सुप्रसन्नाशयो ऽचरत् ५२४

ततः स ऋषिर् आदाय पद्मावतीं स्वयं मुदा
सहसेत्य कुमारस्य पुरतः समुपाचरत् ५२५

तत्र स तं महासत्वं कुमारं दिव्यसुन्दरं
उपनीयात्मजां कन्यां दर्शयन्न् एवम् अब्रवीत् ५२६

कुमारेमां सुभद्राङ्गीं पद्मावतीं सरोजजां
भार्यार्थे ते प्रयच्छामि समन्वाहर्तुम् अर्हति ५२७

अनया दीक्षितः सार्धं कुर्या यज्ञानि सर्वदा
यद् एतत् पुण्यम् उद्भूतं तन् मे प्रदातुम् अर्हति ५२८

इति तेनोदितं श्रुत्वा मणिचूडः कुमारः सः
महासत्वं समालोक्य तम् ऋषिम् एवम् अब्रवीत् ५२९

महर्षे परसंतानं न हि संक्रामति क्वचित्
पुण्यं वापुण्यम् अप्य् एवं यस्य तेनैव भुज्यते ५३०

अथ ते रोचते ह्य् एवं तत् पुण्यं यन् मयार्जितं
स्थित्वा तयात्र वै यज्ञं त्वाम् उद्दिश्य कराण्य् अपि ५३१

एतत् समुत्थितं पुण्यं सर्वं दास्यामि ते खलु
त्य् उक्त्वा तां समालोक्य समन्वाहर्तुम् ऐच्छत ५३२

अथर्षिः स प्रसन्नात्मा भवभूतिः समर्पयन्
पद्मावातीं कुमाराय संप्रदत्वाश्रमं ययौ ५३३

ततः श्रीमान् कुमारो ऽसौ परिणीय यथाविधि
पद्मावतीं समादाय स्वाश्रमे समुपाश्रयत् ५३४

कञ्चित् कालं तया सार्धं पद्मावत्या समारतः
यथाकामं सुखं भुक्त्वा रेमे तत्र प्रमोदितः ५३५

एतद् वृत्तान्तम् आकर्ण्य ब्रह्मदत्तो नराधिपः
मुदात्मजं कुमारं तं पुर आनेतुम् ऐच्छत ५३६

ततः स जनको राजा समन्त्रिजनपौरिकः
गौतमस्याश्रमे तत्र महोत्साहैः सहाचरत् ५३७

तम् आयातं समालोक्य सकुमारः स गौतमः
सहसा प्रचरंस् तत्र प्रत्युज्जगाम सन्नतः ५३८

तत्र तं जनकं दृष्ट्वा कुमारो लज्जिताननः
पादाब्जे प्रणतिं कृत्वा पितुः पृष्टे उपाचरत् ५३९

गौतमो ऽपि तम् आलोक्य दत्वा भद्राशिषं मुदा
स्वाश्रमे समुपानीय शुद्धासने न्यवेशयत् ५४०

गौतमं तं प्रणत्वा स ब्रह्मदत्तो नराधिपः
समन्त्रिजनपौरो ऽपि तत्रासने समाश्रयत् ५४१

तत्र पद्मावती सापि श्वसुरस्य पदाम्बुजे
नतानना प्रणत्वैव स्वालयं सहसा ययौ ५४२

ततः स गौतमस् तस्य ब्रह्मदत्तस्य भूपतेः
पुरः सर्वप्रवृत्तान्तं विस्तरं संन्यवेदयत् ५४३

तच् छ्रुत्वा स पिता राजा सानन्दविस्मिताशयः
स्वात्मजं तं समालोक्य गौतमं चैवम् अब्रवीत् ५४४

महर्षे त्वत्प्रयत्नेन पुत्रो ऽयं मे नृपो भवेत्
भवतैतन् महत्कार्यं कृतं संसीद्ध्यते ऽधुना ५४५

तद् इदानीं प्रसीदात्र भवन्तं प्रार्थयाम्य् अहं
तन् ममानुग्रहं कृत्वा साफल्यं कर्तुम् अर्हति ५४६

आत्मजो मे यद् एको ऽयं कुर्याम् एनं नराधिपं
तत्र राज्याश्रमे नेतुम् इच्चामि तत् सम ५४७

यच् चापि प्रददौ मां ते भवभूतिः पिता यदा
तदा भवान् प्रतिगृह्य सत्यम् एवं वचो ऽब्रवीत् ५४८

नाहं त्वया विना प्राणं क्षणं संधारयेय हि
तत् कथम् अन्यथाभूतं वचनं ते ऽधुना प्रभो ५४९

यद् वापि त्वं महाराजः क्षत्रियो ऽसि नराधिपः
भार्यां धूर्तहृतां पश्यन्न् एव तिष्ठसि तत् कथं ५५०

तद् उत्तिष्थ महावीर यद्य् अस्ति ते दया वृष
सर्वथा मां परित्राय समन्वाहर्तुम् अर्हसि ५५१

इति तया रुदत्यैवं संप्रार्थितं निशम्य सः
मणिचूडः समुत्थाय तं किरातं विलोकयन् ५५२

सहसा समुपासृत्य सम्बोधयितुम् आदरात्
सम्पश्यन्न् एनम् आमन्त्र्य संज्ञापयितुम् अब्रवीत् ५५३

अलम् अलं किरातेमां स्त्रियं मापहर त्यज
एषा हि मुनिराजस्य मारीचेः परिचारिका ५५४

यावद् असौ महाभिज्ञो महर्षिर् उग्रतापसः
न जानीते द्रुतं त्यक्त्वा तावद् एनां सतीं व्रज ५५५

मा हैवासौ महाभिज्ञो ज्ञात्वैतां प्रहृतां त्वया
नूनं शापाग्निना दग्ध्वा नरके त्वां निपातयेत् ५५६

तद् गच्छ सहसा मुक्त्वा सतीम् एनां तपस्विनीं
यद्य् एतन् मे वचः श्रुत्वा मुक्त्वा चरेः शुभं तव ५५७

इति तदुक्तम् आकर्ण्य शापभीतः स लुब्धकः
मुक्त्वा पद्मावतीं देवीम् अन्तर्हितस् ततो ययौ ५५८

स धर्मः सहसा गत्वा देवि देवसभाश्रितः
सर्वम् एतत् प्रवृत्तान्तं देवेन्द्रस्य पुरो ऽब्रवीत् ५५९

तदुक्तं सर्वम् आकर्ण्य स शक्रस् त्रिदशाधिपः
सर्वैर् लोकाधिपैः सार्धं साशङ्को विस्मयं ययौ ५६०

ततः पद्मावती देवी किरातभयमुक्तिता
सुचिरं तं महासत्वं समीक्ष्य समुपाचरत् ५६१

तत्रोपेत्य रुदन्ती सा स्वामिनस् तस्य पादयोः
सर्वाङ्गेन निपत्यैवं चक्रन्द स्नेहदुःखिता ५६२

तां पादपतितां धृत्वा बोधिसत्वो दयार्दितः
समुत्थाप्य समाश्वास्य बोधयन्न् एवम् अब्रवीत् ५६३

भद्रे ऽवश्यं वियोगं हि षड्गतिभवचारिणां
कस्य सदा सुहृन्मैत्रसंगतिर् न वियुज्यते ५६४

भवजन्मजराव्याधिमृत्युशोकादिदुःखता
क्लेशमदाभिमानेच्छाविघ्नस्नेहविरोधता ५६५

एवं नानाप्रकाराणि दुःखानि सर्वदा भवे
दृष्ट्वा परिग्रहान् सर्वांस् त्यक्त्वेहाहं समाश्रये ५६६

एतद्दुःखाग्निसंतप्तान् सर्वान् समीक्ष्य मोहितान्
बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजितुं ५६७

त्रिरत्नभजनं कृत्वा सम्बोधिनिहिताशयः
सर्वसत्वहितार्थे ऽत्र संवरं संचरे ऽधुना ५६८

इति विज्ञाय मे वृत्तिं त्वम् अपि बोधिमानसा
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ५६९

इति मे वचनं श्रुत्वा संसारगतिनिःस्पृहा
क्लेशमदाभिमानत्वं विहाय चर संवरं ५७०

इति तत्समुपादिष्टं श्रुत्वा मारो विषादितः
तद्व्रताद् बोधिसत्वं तं प्रच्यावयितुम् ऐहत ५७१

तत्र स मार आगत्य धृत्वा माणवकं वपुः
बोधिसत्वं समामन्त्र्य संपश्यन्न् एवम् अब्रवीत् ५७२

मार्ष पद्मावतीयं ते स्नेहदुःखाग्नितापिता
रूपयौवनसम्पन्ना महद्दुःखी तपस्विनी ५७३

तद् एनां श्रीसमाकारां स्वकुलधर्मचारिणीं
कारुण्यात् त्वं महद्दुःखात् प्रमोचयितुम् अर्हसि ५७४

तद् इमां धर्मिणीं देवीम् आदाय स्वपुरं व्रज
तत्र राज्याश्रमे स्थित्वा चर धर्मं सहानया ५७५

दत्वार्थिभ्यो यथाकामं कृत्वा यज्ञां महत्तरं
सर्वसत्वहितं कृत्वा संचरस्व यथासुखं ५७६

एवं ते सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवं
प्राप्य स्वर्गाधिपत्यं च दिव्यलक्ष्मीम् अवाप्नुयात् ५७७

इति तेनोदितं श्रुत्वा बोधिसत्वः स सन्मतिः
तं मानवकम् आलोक्य ध्यात्वैवं समलक्षयत् ५७८

को ऽयं देवो मनुष्यो वा विहेठितुं मनो मम
केन वा प्रेषितश् चैवं प्रलपंस् तिष्ठते पुरः ५७९

इत्य् एवं मनसालोक्य बोधिसत्वः स सन्मतिः
मारो ऽयम् इति विज्ञाय पुनर् एवं व्यचिन्तयत् ५८०

मारो ऽयम् उपसंक्रान्तो विघ्नं कर्तुं मम व्रते
इति निश्चित्य विज्ञः स तं मारम् एवम् अब्रवीत् ५८१

हे मार किं न जानीषे बोधिसत्वं जगद्धिते
चरन्तं दुष्करे धर्मे यं मोहयितुम् इच्छसि ५८२

अपि विहन्यसे गच्छ मात्र तिष्ठ पुरो मम
सर्वलोकाधिपाश् चात्र विघ्नं कर्तुं न शक्नुयुः ५८३

प्राग् एव त्वं महामोही माम् अस्माद् व्यवसायतः
व्यावर्तयितुम् एकाकी प्रशक्नुयाः कथं वद ५८४

इति तदुक्तम् आकर्ण्य मारो विभिन्नमानसः
जानात्य् अयं महाविज्ञ इत्य् उक्त्वान्तर्हितो ययौ ५८५

ततस् तं निर्गतं मत्वा बोधिसत्वः स सन्मतिः
पद्मावतीं समालोक्य पुनर् एवं व्यबोधयत् ५८६

भद्रे उत्तिष्ठ मा शोकं कार्षीर् अत्र पुरो मम
सुचिरं संप्रयोगो ऽत्र वियोगो ऽपि भवेद् ध्रुवं ५८७

क्षयान्ता निचयाः सर्वे पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितं ५८८

इति विज्ञाय भद्रे त्वं श्रुत्वा च वचनं मम
धैर्यम् आलम्ब्य मारीचेर् महर्षेः समुपस्थिता ५८९

सम्बोधिप्रणिधिं धृत्वा सर्वसत्वहिताशया
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ५९०

एवं पद्मावतीं देवीम् अनुशिष्य स सन्मतिः
मारीचेर् आश्रमं भूयः प्रेषयाम् आस बोध्यन् ५९१

ततः पद्मावती देवी बोधिसत्वस्य पादयोः
निपत्याश्रुविलिप्तास्या संपश्यन्त्य् ऐवम् अब्रवीत् ५९२

हा हा देव जगन्नाथ कथं मां नानुकम्पसे
हा हता मन्दभाग्यास्मि व्रजेयं शरणं कुह ५९३

देव पद्मावती दासी त्वद्वियोगाग्निदग्धिता
त्वन्नामस्मृतिम् आधाय नूनं यायां यमालयं ५९४

इदं ते सर्वथा नाथ पश्चिमं दर्शनं मम
इत्य् उक्त्वा सानुपश्यन्ती प्रणत्वा पादयोर् मुहुः ५९५

परावृत्य समालोक्य स्नेहदुःखाग्नितापिता
कथंचित् सुचिरात् तस्माद् आश्रमान् निर्ययौ शनैः ५९६

ततो गत्वा रुदन्ती सा पद्मावती महामुनेः
मारीचेर् आश्रमं भूयः सहसा समुपासरत् ५९७

तत्र सा समुपासृत्य मारीचेस् तस्य सन्मतेः
पादयोः प्रणिपत्यैव रुदन्ती समुपाश्रयत् ५९८

तां रुदन्तीं समालोक्य मारीचिः स सविस्मयः
किमर्थं रोदसीत्य् एवं पर्यपृच्छत् समादरात् ५९९

ततस् तस्य महर्षेह् सा पद्मावती पुरश् चिरात्
निश्वस्यैतत् प्रवृत्तान्तं सर्वं तस्मै न्यवेदयत् ६००

तन्निवेदितम् आकर्ण्य मारीचिः स समीक्ष्य तां
देवीं कारुण्ययुक्तात्मा संपश्यन्न् एवम् अब्रवीत् ६०१

देवि गच्छ स्वदेशे त्वं अनुज्ञातासि यन् मया
निःशण्का स्वपुरे स्थित्वा सपुत्रा चर संवरं ६०२

इति तेनर्षिणादिष्टं श्रुत्वा पद्मावती मुदा
साञ्जलिर् न्यपतत् तस्य मारीचेः पादयोर् मुनेः ६०३

ततः स मुनिर् उत्थाप्य पद्मावतीं विहायसा
साकेतं नगरं स्वर्द्ध्या प्रेषयाम् आस सत्वरं ६०४

तत्र समेत्य सा देवी पद्मावती प्रमोदिता
अवतीर्याम्बरात् तत्र प्रासादे समुपाविशत् ६०५

तत्र तां समुपायातां पद्मावतीं समीक्ष्य ते
सर्वे मन्त्रिजनामात्या मुदोपेत्य प्रणेमिरे ६०६

पुत्रः पद्मोत्तरश् चापि जननीं तां समागतां
समीक्ष्य साञ्जलिस् तस्याः पादयोर् न्यपतन् मुदा ६०७

तत्र सा जननी दृष्ट्वा पद्मोत्तरं तम् आत्मजं
गलदश्रुमुखालिङ्ग्य सुचिराद् एवम् अब्रवीत् ६०८

कच्चित् ते कौशलं पुत्र सर्वत्रापि समन्ततः
अनुज्ञातर्षिणायामि सहास्थातुं त्वयात्मज ६०९

इत्य् उक्त्वा सा महादेवी सर्वांस् तान् मन्त्रिणो जनान्
पौरांश् च कौशलं पृष्ट्वा संमोदितान् व्यनोदयत् ६१०

ततः साभ्यर्च्यमाना तैः सर्वैर् लोकैः प्रमोदिता
राज्यैश्वर्यसुखं भुक्त्वा सपुत्रा प्राचरच् छुभे ६११

तदनुशासनं धृत्वा सर्वे लोकाः प्रमोदिताः
सद्धर्मसाधनोद्युक्ताः संचेरिरे सदा शुभे ६१२

तदैतत्पुण्यभावेन तत्र सर्वत्र सर्वदा
निरुत्पातं शुभोत्साहं प्रावर्तत निरन्तरं ६१३

तस्मिन्न् अवसरे तत्र दुःप्रसहस्य भूपतेः
विषयेषु महामारी प्रावर्तत समन्ततः ६१४

तदा तत्र महाव्याधिग्रस्ताः सर्वे ऽपि दुःखिताः
हाहाकारं प्रमुञ्चन्तः शय्याश्रिता निषेदिरे ६१५

असाध्यरोगसंग्रस्ता लोकास् ते परिमोहिताः
अनेकप्राणम् उत्सृज्य मृता नित्यं दिवानिशं ६१६

तन् महोत्पातम् आलोक्य प्रावर्तितं समन्ततः
दुःप्रसहः स भूपालः भीत एवं व्यचिन्तयत् ६१७

अहो मे विषये ऽत्रैवं महोत्पातं प्रवर्तते
तत् कुर्यां सर्वथोपायं एतदुत्पातशान्तये ६१८

इति ध्यात्वा स भूमीन्द्रस् तत्प्रशान्तिविचक्षणान्
सोपाध्यायान् द्विजान् सर्वान् समामन्त्र्यैवम् आदिशत् ६१९

भो भवन्तो द्विजाः सर्वे मारी यद् अत्र वर्तते
तच्छान्तिकरणोपायं कुर्वन्तु सहसाधुना ६२०

इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा ते ब्राह्मणास् तथा
तदुत्पातशमोपायं यथाविधि प्रचक्रिरे ६२१

तथापि सा महामारी शमिता नैव सर्वथा
भूयसा परिवृद्धैव प्रावर्तत समन्ततः ६२२

ग्रहपूजाविधानैश् च भूतशान्त्युपचारणैः
सर्ववैद्योपचारैश् च नैव सा शमिता क्वचित् ६२३

तद् दृष्ट्वा स महीपालो महात्रासविषादितः
अमात्यान् मन्त्रिणः सर्वान् समामन्त्र्यैवम् अब्रवीत् ६२४

भवन्तो ऽत्र महोत्पातं सर्वोपायैर् न शाम्यते
तद् अन्यत् किं महोपायं कुर्याम् अत्र प्रवक्ष्यन्तां ६२५

इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो जनाः
सर्वे ऽभिसम्मतं कृत्वा नृपाग्र एवम् अब्रुवन् ६२६

देवास्त्य् ऐतन्महोत्पातप्रशान्तिकरणे विधिः
तद् अनेन विधानेन स्वस्ति सर्वत्र कारय ६२७

यद् असौ नृपतिर् दाता मणिचूडो दयामतिः
सर्वसत्वहितोद्युक्तः सर्वार्थिप्रणयार्थभृत् ६२८

तद् अस्य नृपतेर् दातुर् महामणिः शिरोभवः
सर्वभद्रार्थसंभर्ता सर्वोत्पाताभिशान्तिकृत् ६२९

यद्य् एतच् चुभकृद् रत्नं संप्रार्थ्यानीयते ऽर्थिभिः
नूनं तत्क्षारणाम्भोभिः सर्वोत्पातम् अरं शमेत् ६३०

इति तदुक्तम् आकर्ण्य नृपतिः संप्रबोधितः
अर्थिनो ब्राह्मणान् पञ्च समामन्त्र्यैवम् आदिशत् ६३१

भवन्तः सहसा गत्वा हिमालये महामणिं
मणिचूडस्य संप्रार्थ्य सर्वथा नेतुम् अर्हथ ६३२

इति राज्ञा समादिष्तं श्रुत्वा सर्वे ऽपि ते द्विजाः
तथेति प्रतिविज्ञप्य मुदिता निर्ययुस् ततः ६३३

ततस् ते ब्राह्मणास् तत्र हिमालये समागताः
चरन्तो ऽन्विष्य सर्वत्र तदाश्रमम् उपाययुः ६३४

तदा स बोधिसत्वो ऽपि पद्मावतीं प्रबोधयन्
अतिवाह्य ततो ऽन्यत्र गहने समुपाश्रयत् ६३५

तत्रारण्ये विविक्ते स बोधिसत्वः समाश्रयन्
जगद्धिते समाधाय मनसैवं व्यचिन्तयत् ६३६

कदाहं बोधिसम्भारं परिपूर्यै जगद्धिते
स्वदेहम् अपि दास्यामि याचकेभ्यः स्वयं मुदा ६३७

यथा मे ऽतिवा कारुण्यद्रवीभूतं मनो ऽधुना
अतिदानाभिलाषं च संजायते जगद्धिते ६३८

नूनम् अत्र समायातो मद्देहयाचको ऽधुना
इत्य् एवं मनसि ध्यात्वा सर्वतो व्यवलोकयन् ६३९

तत्र तान् समुपायातान् पञ्च विप्रान् समीक्ष्य सः
बोधिसत्वः प्रसन्नात्मा सहसा समुपाचरत् ६४०

तत्र तान् समुपागम्य सादरं संप्रसादयन्
नीत्वाश्रमे महात्मा स स्वासने समुपाश्रयत् ६४१

तत्र तान् स्वासनासीनान् सर्वान् दृष्ट्वा स मोदितः
फलमूलादिभिर् भोग्यैः संतर्प्य संव्यनोदयत् ६४२

ततस् तान् ब्राह्मणान् सर्वान् विनोदितान् समीक्ष्य सः
बोधिसत्वः प्रसन्नास्यः समामन्त्र्यैवम् अब्रवीत् ६४३

कुतो युयं भवन्तो ऽत्र कान्तारे कथम् आगताः
केन वा कारणेनैतत् सर्वं मे वक्तुं अर्हथ ६४४

इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा मुदा
महासत्वं समालोक्य समामन्त्र्यैवम् अब्रुवन् ६४५

देव भवान् महाभिज्ञो यदर्थे वयम् आगताः
तदर्थं किं न जानाति तथापि कथ्यते शृणु ६४६

देव यद् विषये राज्ञो दुःप्रसहस्य साम्प्रतं
महामारी महोत्पातं प्रवर्तते समन्ततः ६४७

तत्प्रशान्तिविधानानि प्रकृतानि विचक्षणैः
सर्वोपायविधानैर् वा शाम्यते न कुहापि हि ६४८

तद् भवान् करुणासिन्धुः सर्वसत्वहितार्थभृत्
तदुत्पातशमोपायं सहसा दातुम् अर्हति ६४९

यच् चापि त्वं महादाता बोधिसत्वः कृपोदधिः
सर्वप्रद इति ख्यातः सर्वत्र भुवनेष्व् अपि ६५०

इति ते नाम संश्रुत्य वयम् इह समागताः
तद् अस्माकं महत्कार्ये साफल्यं कर्तुम् अर्हसि ६५१

इति संप्रार्थितः सर्वैर् ब्राह्मणैस् तैर् निशम्य सः
बोधिसत्वः प्रसन्नात्मा तान् विप्रान् एवम् अब्रवीत् ६५२

भवन्तो ब्राह्मणाः सर्वे यदर्थम् इह प्रागताः
तद् अहं पूरयिष्यामि सदेहैः सर्ववस्तुभिः ६५३

इति मे सद्गिरं श्रुत्वा सर्वे विश्वसिताशयाः
याचध्वं मच्छरीरे ऽपि यद् यद् वस्तु समिच्छथ ६५४

इति तेन समादिष्टं श्रुत्वा ते ब्राह्मणा मुदा
बोधिसत्वं महासत्वं तं समीक्ष्यैवम् अब्रुवन् ६५५

महाराज वयं राज्ञा दुःप्रसहेन प्रेषिताः
त्वच्छिरोजमहौषध्यं संप्रार्थितुम् इहागताः ६५६

यदि ते ऽस्ति कृपा राज्ञि दुःप्रसहे प्रजास्व् अपि
स्वशिरोजं मणिं दत्वा सहसास्मान् प्रमोदय ६५७

यद् एतत्क्षालनाम्भोभिः सिञ्च्यमानाः सुदारुणाः
अपि सर्वे महोत्पाता व्रजेयुः प्रशमं द्रुतं ६५८

ईतयो ऽपि तथा सर्वे सर्वाणि च विषान्य् अपि
एतन्मण्यम्बुसंसिक्तमात्रे शाम्येयुर् आशु हि ६५९

एतत्पुण्यविपाकेन यद् यत् ते ऽभिसमीहितं
तत् तत् सर्वं प्रसिद्ध्येत सर्वत्रापि भवे सदा ६६०

इति मत्वा महाभाग दत्वा रत्नं जगद्धिते
साफल्यं जन्म संसारे कुरुष्व यदि वाञ्छसि ६६१

इति तदुक्तम् आकर्ण्य बोधिसत्वः प्रमोदितः
सर्वसत्वहिताकाण्क्षी दयात्मैवं व्यचिन्तयत् ६६२

अहो धन्यो ऽहम् अत्रापि यद् इमे याचका मम
विश्वस्तप्रणयोद्युक्ता याचन्ते कायिकान्य् अपि ६६३

स्वाधीनं यद् इदं मे ऽत्र वसतो हि तपोवनं
ईदृशं देयम् एव स्याद् दुर्लभा हीदृगर्थिनः ६६४

अहं खल्व् एकसत्वस्य हितार्थे ऽस्मिण् चरीरके
स्वयम् अपि समुत्कृत्य दद्यां यद् यत् समीप्सितं ६६५

प्राग् एवाहं महालोकहितार्थे स्वशिरोरुहं
मणिमात्रम् इदं दद्याम् एव सम्बोधिमानसः ६६६

अपि च जीवितं रत्नम् इदं देहं च भङ्गुरं
सत्वार्थं सफलं हृद्यं करिष्यामि चिराद् अहं ६६७

महोपसर्गसंसृष्टं कुरुराजं सबान्धवं
महामणिप्रदानेन करिष्ये स्वस्थमानसं ६६८

जनतां कुरुराजस्य तीव्रदुःखव्यथान्वितां
महौषधप्रदानेन करिष्ये विगतज्वरां ६६९

कारुण्याद् दुर्लभं ह्य् एतत् तस्माद् दास्यामि सत्वरं
इदं रत्नं द्विजेभ्यो ऽहं बोधिरत्नाभिकाङ्क्षया ६७०

इत्य् एवं स महासत्वो ऽनुविचिन्त्य प्रमोदितः
पश्यंस् तान् ब्राह्मणान् सर्वान् समाश्वास्यैवम् अब्रवीत् ६७१

ब्राह्मणा अद्य युष्माकं कुरुराजस्य वाञ्छितं
शिरोमणिप्रदानेन पूरयिष्याम्य् अहं ध्रुवं ६७२

युष्मदागमनं ह्य् अद्य करिष्यामीह साफलं
असाराद् विग्रहात् सारं ग्रहीष्यामीह साम्प्रतं ६७३

अद्याहं सर्वसत्वानां महाभयाभितापिनां
महोपसर्गयुक्तानां करिष्यामि सुमङ्गलं ६७४

सर्वसत्वेषु कारुण्यं वर्धयिष्यामि मानसं
सर्वान् मारगणान् दुष्तान् त्रासयिष्यामि मोहितान् ६७५

माराणां भवनान्य् अद्य कम्पयिष्यामि साम्प्रतं
सर्वत्यागिमहाकीर्तिं चारयिष्यामि सर्वतः ६७६

बोधिसत्वमहासत्वशब्दं संचारयाम्य् अहं
दानपारमितापारं यास्यामि साम्प्रतं ध्रुवं ६७७

अद्य पारं प्रयास्यामि सत्प्रतिज्ञासरित्पतेः
अद्य बोधिं संईपस्थां कारयिष्यामि सर्वतः ६७८

अचिरात् परमां बोधिम् अधिगम्य सुदुर्लभां
अमृतेन जगत् कृत्स्नं तर्पयिष्यामि सर्वथा ६७९

घोरात् संसारदुःखाब्धेः समुद्धृत्य जगद् ध्रुवं
निर्वाणनगरं क्षेमं प्रापयिष्यामि सर्वथा ६८०

अद्याहं तोषयिष्यामि लोकांस् त्रैलोकवासिनः
मोक्षकामान् मणेर् अस्य प्रदानाद् अतिदुष्करात् ६८१

एषो ऽहं तीव्रदुःखार्तं सर्वदा कौरवं जनं
नन्दयिष्यामि रत्नेन सुदुस्त्याजेन भूरिणा ६८२

अद्य बोधिगतं चित्तं वर्धयिष्यामि सारदं
विस्मापयन् सगन्धर्वान् नृयक्षान् असुरान् सुरान् ६८३

सत्वहेतोः स्वकं देहं संत्यक्ष्यामि कदा न्व् अहं
इति मत्प्रार्थितं पूर्वं पूरयिष्यामि साम्प्रतं ६८४

दास्याम्य् अद्य कृपाविष्टः शिरो भित्वा महामणिं
मूर्ध्नि त्रिभागसंरूढम् अनन्तगुणसंयुतं ६८५

अद्य तीव्राणि दुःखानि सन्निगृह्य कृपालबैः
सत्वहेतोः प्रदास्यामि जीवितं मणिना सह ६८६

अद्य सारं ग्रहीष्यामि पूतिकायाद् असारकात्
परित्यजन् महारत्नं परदुःखैककातरः ६८७

अद्य मारबलं सर्वं कम्पयिष्यामि सध्वजं
शिरोमणिप्रदानेन सम्यक्सम्बोधिकाङ्क्षया ६८८

इत्य् उक्त्वा स महासत्वो गृहीत्वाशु कमण्डलुं
ताम् पञ्च ब्राह्मणान् पश्यन् समामन्त्र्यैवम् अब्रवीत् ६८९

एत यूयं महाविप्राश् चिरकालाभिवाञ्छितं
मनोरथं ममाद्यात्र पूरयत जगद्धिते ६९०

एषो ऽहं सर्वसत्वानां हितार्थे सर्वदा भवे
स्वजीवितम् अपि त्यक्त्वा दास्यामि वः समीप्सितं ६९१

सो ऽहम् अनेन दानेन न राज्यं प्रार्थये दिवि
नापि दिव्यमहाभोग्यं नैव लोकाधिपश्रियं ६९२

नापि शक्रमहालक्ष्मीं नापि माराधिपश्रियं
नापि ब्रह्ममहत्सौख्यं तथान्यान् नाभिकामये ६९३

अपि त्व् अनुत्तरां बोधिं समासाद्य भवालये
क्लेशाभिमानिनः सत्वान् बोधयित्वा प्रयत्नतः ६९४

कामपङ्के निमग्नांस् तान् समुद्धृत्य समादरात्
बोधिमार्गे प्रतिष्ठाप्य चारयेयं सुसम्वरं ६९५

अतीर्णांस् तारयन् सर्वान् अमुक्तान् परिमोचयन्
अनाश्वस्तान् समाश्वास्य प्रापयेयं सुनिर्वृतिं ६९६

अनेन सत्यवाक्येन सफलं मे श्रमो ह्य् अयं
दुःप्रसहस्य संकल्पाः समृध्यन्तां प्रजाहिते ६९७

सर्वेषाम् अपि सत्वानां संपूर्यन्तां मनोरथाः
मम चानुत्तरा बोधिः संसिध्यतां जगद्धिते ६९८

इत्य् उक्त्वा स महादाता बोधिसत्वः प्रसन्नधीः
तेषां हस्तेषु विप्राणां वारिधारान्य् अपातयत् ६९९

तदाचलन् मही सर्वा नेन्दुसूर्यौ विरेजतुः
उल्कापाता दिशोदाहा अभवंस् तमसावृताः ७००

देवदुन्दुभयो नेदुर् जलाश्रया विशोषिताः
पुष्पफलविमुक्ताश् च पादपास् त्रासिता मृगाः ७०१

पक्षिणो जन्तवः सर्वे ऽपि विद्रुताः समन्ततः
दुःखक्लेशाग्निसंतप्ताः सर्वे ऽप्य् आसन् नरास् तदा ७०२

सर्वे हिमगिरिस्थाश् च यक्षगन्धर्वकिन्नराः
तीव्रशोकाग्निसंतप्ता भृशम् एवं विलेपिरे ७०३

हा कष्टं मणिचूडस्य सर्वसत्वहितार्थिनः
अनेकगुणरत्नाब्धे राजर्षेर् निधनं भवेत् ७०४

इत्य् एवं विलपन्तस् ते हिमालयनिवासिनः
सर्वे ऽपि तं महात्मानम् अनुस्मृत्वा विचेरिरे ७०५

गगने चाप्य् अनेकानि ब्रह्मेन्द्रप्रमुखान्य् अपि
देवशतसहस्राणि तद् द्रष्टुं समुपाचरन् ७०६

तद् अतिदुष्करं कर्म बोधिसत्वस्य तस्य ते
सर्वे देवा अपि द्रष्टुं तस्थुः खे विस्मयान्विताः ७०७

तदा स बोधिसत्वस् तान् सर्वान् मण्यर्थिनो द्विजान्
संपश्यन् स्वमणिं दातुं सादरम् एवम् अब्रवीत् ७०८

यतो ऽप्य् अयं महाविप्रा मणिर् मम शिरोरुहः
तालुमूलम् अधिष्ठाय यावद् अनुप्रविष्टितः ७०९

तद् इदं स्वयम् उत्कृत्य कपालं परिपाटयन्
स्वहस्तेन भवद्भ्यो ऽहं संप्रदातुं न शक्नुयां ७१०

तद् भवन्तः कपालं मे परिपाट्य प्रयत्नतः
शिरोमणिं समुद्धृत्य स्वयं गृह्णन्तु सत्वरं ७११

इत्य् उक्त्वा स महाशूरः सम्बोधिदृढमानसः
मैत्रचित्तम् उपस्थाप्य समाश्रित्य शिलातले ७१२

पदबन्धं दृढं कृत्वा धैर्यम् आलम्ब्य प्राण्मुखः
जानुद्वयोपरी स्थाप्य निष्कम्पम् अरणिद्वयं ७१३

उभौ गण्डौ स्वहस्ताभ्यां शंखवर्तौ तथा हनू
सुदृधम् अभिनिगृह्य तान् विप्रान् चैवम् अब्रवीत् ७१४

भवन्तो ऽत्र महोत्साहे निर्विघ्नं क्रियतां मम
अहं दृढसमुत्साहो निष्कम्पो हि व्यवस्थितः ७१५

तत् सहसा कपालं मे पाटयित्वा शिरोमंइं
प्रयत्नेन समुद्धृत्य प्रगृह्णीत यथेच्छया ७१६

इत्य् उक्त्वा स महासत्वः सम्बोधिदृढमानसः
निमील्य नयने तूष्णीम् अवतस्थौ समाहितः ७१७

अथ ते ब्राह्मणाः सर्वे श्रुत्वा तस्य वचो मुदा
गृहीत्वाशु सुतीक्ष्णानि शस्त्राणि समुपासरन् ७१८

तस्य कपालम् आलोक्य पाटयितुं समुद्यताः
परिवार्य मणिं हर्तुम् उपतस्थुर् इवारयः ७१९

तान् दृष्ट्वा ब्राह्मणांश् चण्डान् बोधिसत्वं प्रघातितुं
गृहीत्वा तीक्ष्णशस्त्राणि परिवार्य व्यवस्थितान् ७२०

तत्राश्रमे समासीना देवता करुणार्दिता
सहसा समुपाश्रित्य तान् विप्रान् एवम् अब्रवीत् ७२१

हा कष्टं ब्राह्मणाह् केन बोधिसत्वम् इमं यतिं
राजर्षिं भद्रिकं हन्तुं परिवार्य व्यवस्थिताः ७२२

मा मैनं सहसा यूयं घातयत तपस्विनं
बोधिसत्वं महाभिज्ञं सर्वसत्वहितंकरं ७२३

इति तयोक्तम् आकर्ण्य बोधिसत्वः स सन्मतिः
देवतां तां समामन्त्र्य सम्पश्यन्न् एवम् अब्रवीत् ७२४

देवते मा भवतीमान् निवारयितुम् अर्हति
यद् एते ऽपि सहाया मे दाने सम्बोधिसाधने ७२५

देवते मान्तरायं मे कर्तव्यं बोधिसाधने
यद् अत्र त्वं महाकार्यं हत्वा पापं लभेर् बहु ७२६

पुरापि देवते ऽर्थी मे देहं याचितुम् आगतः
देवताभिस् तथा तस्य दानविघ्नः कृतो बलैः ७२७

तदैतत्पातकैः सर्वा देवतास् ताः प्रमादिताः
कृत्वा बहूनि पापानि गच्छन्त्यो नरके भ्रमन् ७२८

यदि ताभिस् तदा दाने नान्तरायः कृतो मम
अचिराद् बोधिम् आसाद्य ह्य् अभविष्यम् अहं जिनः ७२९

अपि च देवते ऽत्रैव भूप्रदेशे सहस्रशः
अर्थिभ्यः श्रद्धया कायपरित्यागः कृतो मया ७३०

तदा न केनचिद् विघ्नः कृतो मे बोधिसम्वरे
तद् इत्य् अहं वदाम्य् अत्र मा विघ्नं कर्तुम् अर्हसि ७३१

इति तदुक्तम् आकर्ण्य देवता सा प्रबोधिता
मत्वा तस्य महर्धित्वं तूष्णीभूत्वा ततो ऽचरत् ७३२

ततस् तान् ब्राह्मणान् सर्वान् उपस्थितान् विलोक्य सः
बोधिसत्वो महावीर्यः समामन्त्र्यैवम् अब्रवीत् ७३३

भो भवन्तो द्विजाह् सर्वे पाटयित्वा शिरो मम
महारत्नं समुद्धृत्य परिगृह्णन्तु सत्वरं ७३४

एवं तदुक्तम् आकर्ण्य ब्राह्मणास् ते प्रमोदिताः
तच्चिरो निशितैः शस्त्रैः पाटयितुं समारभन् ७३५

ततस् तैर् निशितैः शस्त्रैर् हन्यमानो ऽपि मस्तके
दन्तान् आधाय दन्तेषु धैर्यम् आलम्ब्य सुस्थितः ७३६

सुतीव्रवेदनाक्रान्तशिरस्को ऽपि समाहितः
मैत्रचित्तम् उपस्थाप्य तूष्णी भूत्वा स्थितो ऽभवत् ७३७

तदा ते ब्राह्मणा रौद्राश् चण्दालाः क्रूरमानसाः
पाषाणैर् निशितैः शस्त्रैस् तत्कपालम् अपाटयन् ७३८

तस्य तैर् निशितैः शस्त्रैर् घात्यमानस्य मस्तकात्
रक्तधारा अविच्छिन्नाः प्रशुश्रुवुः समन्ततः ७३९

तद् दृष्ट्वा देवताः सर्वा विहायसि समाश्रिताः
कारुण्याभिहतस्वान्ताः प्रविलेपुर् विमोहिताः ७४०

ततः स बोधिसत्वस् तु तत्तीव्रवेदनाहतः
अतिधैर्यं समालम्ब्य मनसैवं व्यचिन्तयत् ७४१

अहो मे धैर्ययुक्तस्य तावद् वीर्यवतो ऽपि हि
इदम् एवं महद्दुःखम् असह्यं जायते ऽधुना ७४२

प्राग् एव नारकस्थानां कातराणां सपापिनां
नानादुःखाभियुक्तानां किम् एवं सह्यते कथं ७४३

इति तेषां महद्दुःखं विदित्वाहं भवोदधेः
स्वयम् उत्तीर्य सत्वांश् च संतारयितुम् उत्सहे ७४४

तद् एतद्दानपुण्येन बोधिं प्राप्याभिबोधयन्
भवोदधेः समुद्धृत्य योजयेयं जगद् वृषे ७४५

इत्य् एवं स महासत्वो नदित्वा बोधयन् मनः
तीव्रदुःखाग्निसंतप्तं स्थापयन्न् एवम् अब्रवीत् ७४६

चिरं त्वया यद् धृदयाभिवाञ्चितं
कदा न्व् असृग्मांसवसास्थिमज्जभिः
हितं प्रकुर्याम् इह देहिनां सदेत्य्
अवेक्षमाणः खलु बोधिम् उत्तमां ७४७

अयं स कालः समुपस्थितो ऽद्य ते
मा मे शरीरं त्वारितं परित्यज
मनोरथं यावद् इहाचिराचितं
करोमि सम्पूर्णफलं सुदुर्लभं ७४८

अपि तु भो मनः कृत्स्नं जगत् त्रातुं सदेच्छसि
तद् इदानीं समीक्ष्यात्र धैर्यं कुरु जगद्धिते ७४९

इत्य् एवं स महावीरः संस्थाप्य हृदयं स्वकं
पुनर् आत्मगतं वाक्यम् उद्गिरन्न् एवम् अब्रवीत् ७५०

अहो दुःखम् अहो कष्टं षड्गतिभवचारिणां
तद् अहं सर्वदुःखानि हितार्थे वोढुम् उत्सहे ७५१

मा कश्चिद् एकसत्वो ऽपि दुःखभागी भवालये
भूयात् सदैव सर्वे ऽपि प्रचरन्तु शुभे सुखं ७५२

इति तेनोक्तमात्रे ऽपि बोधिसत्वस्य तस्य ताः
असह्या वेदनाः सर्वाः सहसाभिशमं ययुः ७५३

यथा यथा च ते चण्डा ब्रह्मणा अपि निर्दयाः
अभितो निशितैः शस्त्रैः प्राहरंस् तस्य मस्तके ७५४

तथा तथा स विप्राणां तेषां दुःप्रसहस्य च
राज्ञो ऽन्तिके सपौरस्य महामैत्रीम् अवर्धयत् ७५५

तद् अतिदुष्करं कर्म दृष्ट्वा ते क्रूरमानसाः
अपि कारुणितात्मानो मिथो दृष्ट्वैवम् ऊचिरे ७५६

भवन्तः पूर्वम् अस्माभिर् यथाश्रुतं तथाधुना
प्रदानशौण्डमाहात्म्यं दृश्यते ऽस्य महात्मनः ७५७

यद् अयं स्वशरीरे ऽपि स्वयम् उत्कृत्य सर्वतः
सास्थित्वग्रुधिरं मांसं अर्थिभ्यः प्रददौ मुदा ७५८

इत्य् अस्य श्रूयते ऽस्माभिर् महात्यागाभुतं यशः
तत् सहस्रगुणोद्भूतं प्रत्यक्षं दृश्यते ऽधुना ७५९

इत्य् उक्त्वा ते द्विजाश् चाण्डा बोधिसत्वस्य मस्तकं
प्रविदार्य शिरोरत्नं समुद्धर्तुं समारभन् ७६०

बोधिसत्वो ऽपि तां तीव्रां वेदनां मरणान्तिकीं
महावीर्यबलेनापि विनिर्जित्याविचारयन् ७६१

त्रिरत्नं स्मृतिम् आधाय सम्बोधिनिहिताशयः
योगीव निर्जितात्मा संतस्थे तूष्णी समाहितः ७६२

ततस् ते निर्दयाश् चण्डा बोधिसत्वस्य मस्तकात्
प्रयत्नान् मणिम् उद्धृत्य प्रजगृहुः समस्तिकं ७६३

तद् दृष्ट्वा स महासत्वः स्वजीवितनिरादरः
अगणय्य व्यथां तीव्रां तां विप्रान् एवम् अब्रवीत् ७६४

भवन्तो ब्राह्मणा यावन् नात्र मुञ्चाम्य् असून् अहं
तावद् एतन् मणिं शीघ्रम् अर्पयत करे मम ७६५

यद् अहं वः स्वहस्तेन मणिम् एनं समर्पयन्
सम्बोधिनिष्ठितं चित्तं प्रसादयेयम् आत्मनः ७६६

इति संप्रार्थितं तेन श्रुत्वा सर्वे ऽपि ते द्विजाः
तथेति तन् मणिं तस्य दक्षहस्ते समार्पयन् ७६७

स्वकरस्थं तम् आलोक्य बोधिसत्वः प्रमोदितः
मणिं संदर्शयंस् तेषां विप्राणाम् एवम् अब्रवीत् ७६८

अद्य मे सफलं जन्म श्रमो ऽपि सफलो ऽधुना
समीपस्था हि सम्बोधिः सम्पूर्णो हि मनोरथः ७६९

पूर्वम् एतन् मया वाचा मनसैव समर्पितं
इदानीं वः स्वहस्तेन ददामि श्रद्धया मुदा ७७०

तद् भवन्तः समादाय मणिम् एनं महद्गुणं
दुःप्रसहाय भूपाय ददन्तु वचसा मम ७७१

यन् मयायं महारत्नः संप्रदत्तो जगद्धिते
तेन तस्य महीपस्य भूयात् सर्वत्र मण्गलं ७७२

इत्य् उक्त्वा स महासत्वः सम्बोधिनिष्ठिताशयः
मुदा तेभ्यो द्विजेभ्यस् तन् मणिं स्वयं समार्पयत् ७७३

प्रतिपाद्य मणिं तेभ्यो द्विजेभ्यः स प्रमोदितः
विस्मापयञ् जगत् सर्वं सर्वसत्वहितोत्सुकः ७७४

मन्यमानः श्रमं सिद्धम् आलम्ब्य बोधिम् उत्तमं
प्रयोगं प्रतिप्रस्रभ्य तस्थौ तूष्णीं मुहार्तकं ७७५

प्रयोगे प्रतिप्रस्रब्धे बोधिसत्वो ऽपि धैर्यवान्
मूर्छितः सहसा भूमौ निपपातासमाहितः ७७६

तदाश्रमनिवासिन्या देवतया महात्मनः
बोधिसत्वस्य सद्धर्ममनोरथप्रपूरणे ७७७

सहसा ते द्विजाः सर्वे ऋद्ध्याकाशात् प्रचोदिताः
दुःप्रसहस्य भूपस्य पुरः क्षणाद् उपाययुः ७७८

तत्र ते ब्राह्मणाः सर्वे दुःप्रसहस्य भूपतेः
तं मणिम् उपसंस्थाप्य पुरतः समुपाश्रयन् ७७९

तं मणिं स नृपो दृष्ट्वा विस्मयान्वितमानसः
ब्राह्मणांस् तान् समामन्त्र्य पप्रच्छैवं विलोकयन् ७८०

ब्राह्मणाः कथम् उद्धृत्य राजर्षेस् तस्य मस्तकात्
यद् युष्माभिर् इदं रत्नं समादत्तं तद् उच्यतां ७८१

अथ तेन कथं दत्तं स्वयम् उद्धृत्य मस्तकात्
एतद् वृत्तान्तम् आख्याय नृपतिं तं व्यबोधयन् ७८३

तच् छ्रुत्वा स महीपालो विस्मयाकुलमानसः
बोधिसत्वस्य सत्वेषु मत्वातिकारुणाशयं ७८४

स्वशरीरे ऽपि निस्संगपरित्यागमहोत्सवं
वैरिष्व् अपि मनःक्षान्तिसौरत्यम् अनुचिन्तयन् ७८५

श्रीमन्तं तं महासत्वं बोधिसत्वं महर्द्धिकं
अनुस्मृत्वा प्रसन्नात्मा संजहर्ष विबोधितः ७८६

ततस् तं मणिम् आदाय प्रणत्वा स नराधिपः
आचार्यस्य करे दत्वा प्राक्षालयच् छुभाम्बुभिः ७८७

तदम्बुभिः स भूपालः सर्वत्र विषये स्वके
गृहे गृहे ऽपि सर्वत्र प्राभिषिञ्च्यात्यशोधयत् ७८८

तदम्बुसिक्तमात्रे ऽपि सर्वत्र विषये तदा
तस्य राज्ञस् तद् उत्पातं सहसाभिशमं ययौ ७८९

ततस् तस्य महीभर्तुः सर्वत्र विषये तदा
निरुत्पातं महोत्साहं प्रावर्तत समन्ततः ७९०

तद् दृष्ट्वा स महीपालः समन्त्रिजनपौरिकः
महानन्दसुखं प्राप्य प्रात्यनन्दत् प्रसादितः ७९१

तदा तं पतितं भूमौ बोधिसत्वं विलोक्य ते
गगनस्थाः सुराः सर्वे तीव्रशोकाग्नितापिताः ७९२

हा हा कष्टं महात्मायं प्रघातितो दुरात्मभिः
इत्य् एवम् एकनादेन विलपन्तो विचेरिरे ७९३

तदैतन्महदुत्पातनिमित्तानि समन्ततः
मारीचिर् ऋषिर् आलोक्य विस्मयाकुलिताशयः ७९४

किम् एवं हि महोत्पातनिमित्तं जायते ऽधुना
इति चिन्ताविषण्णात्मास् तस्थौ पश्यन् समन्ततः ७९५

तदा तस्य महर्षेर् या देवताश्रमवासिनी
सैतत् प्रकरणं सर्वं विस्तरेण न्यवेदयत् ७९६

एतन् निवेदितं श्रुत्वा मारीचिः शोकतापितः
सहसर्द्ध्या समं शिष्यैर् बोधिसत्वाश्रमे ययौ ७९७

तं विशिरोमणिं भूमौ निपतितं विलोक्य सः
मारीचिः समुपाश्रित्य संलक्ष्यैवं व्यचिन्तयत् ७९८

महात्मा बोधिसत्वो ऽयं नूनं मुनीश्वरो भवेत्
अतः सत्कारपूजार्हः सर्वैर् लोकाधिपैर् अपि ७९९

इति ध्यात्वा महर्षिः स शिष्यैः पञ्चशतैः समं
संपश्यंस् तं महासत्वं तत्रैकान्ते समाश्रयत् ८००

तथा च देवतान्यापि भवभूतेर् ऋषेः पुरः
एतत् प्रकरणं सर्वं विस्तरेण न्यवेदयत् ८०१

तच् छ्रुत्वा भवभूतिः स विस्मयाकुलिताशयः
सहसर्द्ध्या समं शिष्यैः साकेतं नगरं ययौ ८०२

तत्रावतीर्य सो ऽग्रस्थः पद्मावत्याः सुतस्य च
एतत् प्रकरणं सर्वं विस्तरेण न्यवेदयत् ८०३

तच् छ्रुत्वा सा महादेवी पद्मावती शुचान्विता
पद्मोत्तरः कुमारो ऽपि शोकाग्नितापितो ऽभवत् ८०४

ततः स भवभूतिस् तां देवीं पद्मावतीं सुतं
पद्मोत्तरं कुमारं च समन्त्रिजनपौरिकं ८०५

सान्तःपुरजनामात्यभटबलाग्रसैन्यकं
गृहीत्वा सहसाकाशाद् ऋद्ध्या ययौ हिमालये ८०६

तत्र स तं महासत्वं निपतन्तं महीतले
विलोक्य सहसोपेत्य पश्यन्न् एकान्तम् आश्रयत् ८०७

पद्मोत्तरः कुमारो ऽपि मात्रा सह जनैर् अपि
जनकं तं समालोक्य सहसा समुपाचरत् ८०८

तत्र स प्ररुदंस् तस्य जनकस्य पदाब्जयोः
नत्वा मात्रा सहैकान्ते तस्थौ पश्यन् विषादितः ८०९

ततः शक्रस् तम् आलोक्य निपतन्तं महीतले
विमणिं वेदनाक्रान्तं देहं कारुण्यचोदितः ८१०

मा हैवायं महासत्वः कृत्वा भद्रमयं जगत्
असह्यवेदनाक्रान्तः सहसासून् परित्यजेत् ८११

इति चिन्ताभीदग्धात्मा सहसा समुपागतः
सद्योबलौषधीभिस् तच्छरीरे समलेपयत् ८१२

ततस् तल्लिप्तमात्रे स संशान्तवेदनातुरः
सुखं सुप्त इवोत्सृज्य निःश्वासं समलोकयत् ८१३

तद् दृष्ट्वा खेचराः सर्वे देवा दिव्याङ्गना अपि
गन्धर्वाः किन्नरा यक्षाः सिद्धविद्याधरा अपि ८१४

साध्या ग्रहाश् च ताराश् च तथान्ये ऽपि महर्द्धिकाः
संजीवितो महात्मायम् इति संहर्षम् आययुः ८१५

ततस् ते नन्दिताः सर्वे सर्वाणि कुसुमान्य् अपि
सर्वाण्य् अपि सुगन्धीनि प्रावर्षयन् समन्ततः ८१६

सर्वाण्य् अपि च वाद्यानि प्रावादयन् प्रमोदिताः
दिव्यान्य् अपि च चैलानि प्राक्षिपन्त महोत्सवाः ८१७

तदैव स महासत्वो धैर्यवीर्यबलान्वितः
संज्ञां लब्ध्वा समुत्थाय सर्वत्र समलोकयत् ८१८

तत्र तां पर्षदं सर्वावतीं पुर उपस्थितां
विलोक्य स महासत्वो विस्मयाकुलमानसः ८१९

किम् इदं मे मनो भ्रान्तं स्वप्नो वा दृश्यते मया
इति ध्यात्वा समाधाय तस्थौ चित्तं विनोदयन् ८२०

अथाभिलब्धसंज्ञं तं बोधिसत्वं समीक्ष्य सः
मारीचिः समुपासृत्य सम्पश्यन्न् एवम् अब्रवीत् ८२१

राजर्षे किम् इदं कर्म प्रारब्धं भवताद्भुतं
तत् समाख्याय नः सर्वान् संबोधयितुम् अर्हति ८२२

इति तदुक्तम् आकर्ण्य बोधिसत्वः स सन्मतिः
मारीचिं तं महाभिज्ञं सम्पश्यन्न् एवम् अब्रवीत् ८२३

महर्षे ऽनुत्तरज्ञानप्राप्तये बोधिचारिणां
सम्यक्प्रविष्टदीक्षाणाम् एतद् विचेष्टितं खलु ८२४

एतच् छ्रुत्वा महात्मा स मारीचिर् विस्मयान्वितः
भूयो ऽपि तं महासत्वं सम्पश्यन्न् एवम् अब्रवीत् ८२५

राजर्षे न त एतेशां वधकानां दुरात्मनां
रौद्रातिक्रूरचित्तानां निर्घृणपापकारिणां ८२६

तीक्ष्णैः शस्त्रैः कपाले ऽपि पाटयतां किलान्तिके
आघातचित्तम् उत्पन्नम् एतत् सत्यं भवेद् अपि ८२७

इति तदुक्तम् आकर्ण्य बोधिसत्वो महामतिः
मारीचिं तं समालोक्य पुनर् एवं मुदाब्रवीत् ८२८

कथम् एशां सुमित्राणां बोधिचर्यासहायिनां
वाञ्छितार्थप्रदत्तानां दूषयेयान्तिके मनः ८२९

अप्य् आत्मानम् अहं द्रुह्यां ज्ञातिबन्धुसुःऋत्स्व् अपि
न त्व् एषां धर्ममित्राणां कुर्यां कदापि विप्रियं ८३०

आत्मानम् अपि हन्तृणाम् अपराधान् क्षमामि हि
अपराधं न सत्वेषु किञ्चिद् अपि करोम्य् अहं ८३१

यान् आराध्य महर्द्धिः स्याद् विराध्य च विपत्तिभाक्
अपि प्राणपरित्यागैः कुर्यां तेषां हितं सदा ८३२

यान् एव संप्रसाद्यात्र संसिद्धिं समवाप्नुयात्
सिद्धिक्षेत्रम् अतः सत्वे नान्यद् अस्ति जगत्स्व् अपि ८३३

एते सर्वे ऽपि सत्वा हि सद्धर्मगुणदायकाः
सर्वार्थसिद्धिदाश् चिन्तामणयः कामधेनवः ८३४

भद्रघटा मनोवाञ्छापूरकाः कल्पपादपाः
तस्माद् आराधनीया मे गुरुवद् देववत् सदा ८३५

एषां भद्रसुखार्थे ऽहं महद्वीर्यबलान्वितः
स्थातुं कल्पसहस्राणि नरकाग्नौ समुत्सहे ८३६

इति तेनोदितं श्रुत्वा मारीचिः स प्रसादितः
बोधिसत्वं महासत्वं तं पश्यंश् चैवम् अब्रवीत् ८३७

साधु साधु महासत्व यत् ते धैर्यं महत्तरं
अहो दृढप्रतिज्ञा ते सर्वसत्वहितार्थिनः ८३८

अहो ते स्वशरीरे ऽपि निःसंगत्यागलालसं
अहो सत्वेषु कारुण्यम् अहो दानाभिलाषिता ८३९

यत्रेदानीं भवान् एवं कारुण्यात् स्वशिरोरुहं
महारत्नं समुद्धृत्य द्विजेभ्यः संप्रयच्छति ८४०

तत् साधु यद् अनेन त्वं दानेन यत् समीप्ससि
तत् पुरो मे तथा सत्यं समुपादेश्टुम् अर्हसि ८४१

इति तदुक्तम् आकर्ण्य बोधिसत्वः प्रसादितः
मारीचिं तं महाविज्ञं संपश्यन्न् एवम् आह च ८४२

काश्यपानेन दानेन सम्प्राप्य बोधिम् उत्तमां
सद्धर्मश्रीमहारत्नैस् तर्पयेयं जगद् भवे ८४३

भवोदधेः समुद्धृत्य बोधयित्वा प्रयत्नतः
बोधिमार्गे प्रतिष्ठाप्य चारयेयं सुसम्वरं ८४४

बोधिसत्वान् महासत्वान् समन्तभद्रचारिणः
सर्वान् बुद्धात्मजान् कृत्वा चारयेयं जगद्धिते ८४५

इत्य् एवं हि महर्षे ऽत्र त्रिधातुकहितोत्सुकः
सम्बोधिप्रार्थनाम् एव कृत्वा दानं करोम्य् अहं ८४६

इति तेन समाख्यातं निशम्य स महामतिः
मारीचिस् तं महासत्वं सम्पश्यन्न् एवम् अब्रवीत् ८४७

कथम् एतन् महाभाग ज्ञायते यद् भवान् इदं
दानं दत्वा महाबोधिं संप्राप्स्यति जगद्धिते ८४८

इति तेनोदितं श्रुत्वा बोधिसत्वो मुहूर्तकं
तूष्णिं भूत्वा समालोक्य तम् ऋषिम् एवम् अब्रवीत् ८४९

महर्षे यन् मया दत्तम् इदं रत्नं जगद्धिते
तत् सत्यसमधिष्ठानं करोमि सांप्रतं शृणु ८५०

इत्य् उक्त्वा स उपस्थाप्य सत्वेसु मैत्रमानसं
सम्बोधिप्रणिधिं धृत्वा गाथा इमा अभाषत ८५१

यथा स्वदेहं हि ममाद्य दत्वा
कृपावशाद् बोधिपरायणस्य
नाभून् मनो विप्रतिसारजातं
मात्सर्यदीनत्वविवर्जितं च ८५२

अनेन सत्येन सुभाषितेन
पुण्यानुभावेन च मे शरीरं
यथैव पौराणं अभूत् तथैव
भवत्व् इदं सम्परिपूर्णशोभं ८५३

इत्य् उक्ते ऽनन्तरं तस्य बोधिसत्वस्य सत्यतः
यथापौराणिकं देहं तथाभूत् सहसोत्तमं ८५४

तथा चास्य महारत्नं मूर्ध्नि तद्द्विगुणोत्तमं
उष्णीषवत् समुद्भूतं सत्यधर्मानुभावतः ८५५

तद् दृष्ट्वा पृथिवी सर्वा साब्धिशैला प्रमोदिता
विस्मयानन्दसम्पन्नहृदयेवात्यकम्पत ८५६

वायोवो ऽपि ववुः पुष्पसौरभ्यशीतलाः शनैः
दिशह् सर्वाः प्रसन्नाश् च रवीन्दू च विरेजतुः ८५७

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात खात्
सर्वत्रापि शुभोत्साहं प्रावर्तत निरन्तरं ८५८

दृष्त्वा तद् अद्भुतं देवा गगनस्थाः प्रमोदिताः
हाहाकारं विमुञ्चन्तस् तदाकाशे प्रचेरिरे ८५९

पुष्पाणि प्राक्षिपन् केचित् केचिद् दिव्याम्बराणि च
केचिद् दिव्यगुणोद्भासनानालंकरणानि च ८६०

केचित् प्रावादयन् दिव्यवाद्यानि विविधान्य् अपि
केचित् पुष्पाभिसम्मिश्रं दिव्यरत्नम् अवर्षयन् ८६१

जाम्बुद्वीपस् तदा दिव्यै रत्नैः संछादितो बभौ
महानन्दसुखापन्नाः सर्वे सत्वाः प्रचेरिरे ८६२

तां दिव्याम् अद्भुताचिन्त्यां विभूतिं विक्ष्य सामराः
ऋषयो लोकपालाश् च सर्वे ऽप्य् एवं मुदावदन् ८६३

अहो सद्धर्ममाहात्म्यम् अहो सत्यप्रभावतां
यद् ईदृग् महद् आश्चर्यं सत्यं न दृश्यते क्व चित् ८६४

इत्य् एवं ते ऽमराः सर्वे लोकाधिपाश् च सर्षयः
सर्वे लोकाश् च सानन्दं प्रवदन्तः प्रचेरिरे ८६५

तत ऋषिः स मारीचिर् बोधिसत्वं सुकायितं
दृष्ट्वा तं विस्मयोत्फुल्ललोचनः संप्रमोदितः ८६६

साञ्जलिः समुपाश्रित्य प्रोत्साहयंस् तदाशयं
संराध्यन् समामन्त्र्य संपश्यन्न् एवम् अब्रवीत् ८६७

साधु साधु महर्षे हि सुनिश्चिता मतिस् तव
प्रणिधिश् चाप्रकम्पस् ते सत्वेसु महती कृपा ८६८

यत्रैवं त्वं महादाने त्रासकरेषु धर्मिषु
विशारदो ह्य् असंक्षुब्धो बोधिसत्वो ऽविखेदितः ८६९

तद् अनेन सुवीर्येण सर्वान् मारान् विनिर्जयन्
सहसानुत्तरां बोधिं प्राप्य धर्माधिपो भवेः ८७०

इत्य् एवं तं समाराध्य मारीचिः स महर्द्धिकः
पञ्चशिष्यशतैः सार्धं सहसा स्वाश्रमं ययौ ८७१

तथा स भवभूतिः स्वशिष्यसंघसमन्वितः
बोधिसत्वं तम् आराध्य मुदितः स्वाश्रमं ययौ ८७२

ततो ब्रह्मसुरेन्द्राद्याः सर्वे लोकाधिपा अपि
बोधिसत्वं तम् आराध्य मुदा स्वस्वाश्रमं ययुः ८७३

अथ पद्मोत्तरो राजा नत्वा पादाब्जयोः पितुः
सजनो ऽश्रुविलिप्तास्यः साञ्जलिर् एवम् अब्रवीत् ८७४

प्रसीदा देव मा त्याक्षीर् अनाथान् नः शुचातुरान्
तद् आगच्छ पुनाराज्यं भुक्त्वा सर्वाः प्रजा अपि ८७५

तदन्यथा वयं सर्वे शोकक्लेशाग्निदाहिताः
इहैव निधनं नूनं गच्चेमहि निराशिताः ८७६

इति पुत्रोदितं श्रुत्वा बोधिसत्वो दयार्दितः
तथेति नगरे गन्तुम् अध्युवास प्रबोधितः ८७७

तदा प्रत्येकबुद्धास् ते चत्वारः समुपागताः
बोधिसत्वं तम् आमन्त्र्य पश्यन्त एवम् अब्रुवन् ८७८

साधु साधु महाराज शोभनं ते कृतं न्व् इदं
यद् राज्याश्रम आश्रित्य लोकान् पातुं समिच्छसि ८७९

यदि राजन् पुरे गन्तुं त्वया नैवाधिवासितं
पद्मोत्तरः कुमारो ऽपि मात्रा सह निराशया ८८०

सर्वो ऽपि जनकायश् च विषये ते निवासिकः
छर्दित्वा रुधिरं नूनम् अभविष्यद् गतात्ययः ८८१

तद् आगच्छ सहास्माभिर् गत्वा राज्याश्रमे स्थितः
सर्वांल् लोकांश् च धर्मेण संपालयन् समाचर ८८२

इति प्रत्येकबुद्धास् ते समादिश्य प्रबोधितं
बोधिसत्वं तम् आदाय पुत्रदेवीजनान्वितं ८८३

ऋद्ध्याकाशाच् चरन्तस् ते सुगताः सुमहर्द्धिकाः
साकेतं नगरं रम्यं सहसा समुपाययुः ८८४

तत्रावतीर्य ते बुद्धा बोधीसत्वं सनन्दनं
सदेवीजनसंघं तं पुरे स्थाप्य ततो ऽचरन् ८८५

तान् दृष्ट्वा खे गतान् सर्वान् बोधिसत्वः स सात्मजः
प्रणत्वा साञ्जलिः पश्यंस् तस्थौ तद्गतमानसः ८८६

ततस् ते सुगताः सर्वे सहसर्द्ध्या विहायसा
भासयन्तो जगल्लोकं स्वाश्रमं समुपाययुः ८८७

बोधिसत्वं तम् आयातं देवीपुत्रजनान्वितं
दृष्ट्वा सर्वे ऽपि पौरास् ते प्रानन्दिताः प्रणेमिरे ८८८

तान् दृष्ट्वा नन्दितान् सर्वान् बोधिसत्वो ऽपि नन्दितः
सर्वेषां कुशलं पृष्ट्वा चित्तानि प्रोदसाहयत् ८८९

ततः स स्वात्मजो राजा जनकं तं नृपाधिपं
नृपासने प्रतिष्ठाप्य प्रासेवीत् समुपस्थितः ८९०

तत्र स बोधिसत्वो ऽपि राज्याश्रमप्रतिष्ठितः
सर्वसत्वहितं कृत्वा प्राचरद् बोधिसम्वरं ८९१

एतद् वृत्तान्तम् आकर्ण्य दुःप्रसहः स भूपतिः
विस्मयसमुपाक्रान्तस् स्वान्त एवं व्यचिन्तयत् ८९२

अहो सद्धर्ममाहात्म्यम् अहो चित्तस्य वीर्यता
अहो सम्बोधिकामस्य बोधिसत्वस्य धैर्यता ८९३

यद् असौ हि महाभिज्ञो बोधिसत्वो हितार्थभृत्
सर्वलोकाधिपो राजा भवेन् नूनं महीतले ८९४

तद् अहं तन्महीन्द्रस्य शरणे समुपस्थितः
सर्वदा भजनं कृत्वा चरेयं पालयन् प्रजाः ८९५

इति निश्चित्य चित्ते स दुःप्रसहो मःईपतिः
चतुरङ्गबलैः सार्धं सहसा तत्रमाचरत् ८९६

तत्र स समुपासृत्य बोधिसत्वस्य पादयोः
प्रणत्वा साञ्जलिस् तस्य शरणं समुपाश्रयत् ८९७

ततः स तं महासत्वं समाराध्य प्रसादयन्
सुप्रसन्नाशयः पश्यन् समामन्त्र्यैवम् अब्रवीत् ८९८

देव भवाञ् जगन्नाथः सर्वसत्वहितार्थभृत्
बोधिसत्वो महाभिज्ञः सर्वधर्माधिपः प्रभुः ८९९

तद् अहं भवतां शास्तर् शरणे समुपाश्रये
यत् किञ्चिद् अपराधं मे तत् क्षन्तुं सर्वथार्हति ९००

भवान् एव महाराजो वयं सर्वे ऽनुयायिनः
तद् आज्ञानुग्रहं कृत्वा संपालयितुम् अर्हति ९०१

इति संप्रार्थितं तेन बोधिसत्वो निशम्य सः
दुःप्रसहं महीपं तं सम्पश्यन्न् एवम् आदिशत् ९०२

सखे भद्र सहायो ऽसि मम सद्धर्मसाधने
तद् सदा संप्रसीदात्र मा विषीद कदा चन ९०३

यदि मे सर्वदा स्नेहसम्बन्धिमित्रसत्प्रियं
वाञ्छसि तत् समाधाय संचरस्व सदा शुभे ९०४

विरम्य दशपापेभ्यो लोकांश् चापि निवारयन्
बोधिमार्गे प्रतिष्ठाप्य चारयस्व स्वयं चरन् ९०५

इति मे वचनं श्रुत्वा यद्य् एवं क्रियते त्वया
सदापि ते मयि स्नेहसम्वन्धिसंस्थितिर् ध्रुवं ९०६

इति तत्समुपादिष्टं श्रुत्वा स कुरुभूपतिः
तथेति प्रतिविज्ञप्य प्रात्यनन्दत् प्रबोधितः ९०७

ततः स बोधिसत्वस् तं दुःप्रसहं नराधिपं
दत्वाभिवाञ्छितं द्रव्यं प्रैषयद् विषयं स्वकं ९०८

ततः स कुरुभूमीन्द्रो बोधिसत्वं प्रणम्य तं
समामन्त्र्य महोत्साहैर् मुदा स्वविषयं ययौ ९०९

तत्र स स्वपुरप्राप्तो बोधिसत्वानुशासनं
उद्वहञ् छिरसा लोकान् पालयन् प्राचरच् छुभे ९१०

तथा सर्वे ऽपि लोकास् तदाज्ञां धृत्वा समाहिताः
विरम्य दशपापेभ्यः सद्धर्मे प्राचरन् सदा ९११

तदैतत्पुण्यभावेन तत्र सर्वत्र सर्वदा
निरुत्पातं शुभोत्साहं प्रावर्तत निरन्तरं ९१२

एवम् अन्ये ऽपि राजानः श्रुत्वा तस्य महद् यशः
बोधिसत्वस्य सद्धर्मं संश्रोतुं सहसाचरन् ९१३

तत्र ते समुपासृत्य समीक्ष्य तं नृपाधिपं
बोधिसत्वं महाभिज्ञं मुदिताः समुपाचरन् ९१४

तत्र सर्वे ऽपि ते तस्य बोधिसत्वस्य पादयोः
प्रणत्वा प्रार्थयन्न् एवं सादरं शरणं गताः ९१५

जय देव महाराज वयं ते शरणाश्रिताः
तद् आज्ञां संप्रदत्वा नः सर्वान् संपातुम् अर्हति ९१६

यथा यद् भवतादिष्टं तथा तत्र चरामहे
इत्य् अस्मत्प्रार्थनां नाथ सफलीकर्तुम् अर्हति ९१७

इति तैः प्रार्थितं श्रुत्वा बोधिसत्वो निशम्य सः
तान् सर्वान् नृपतीन् पश्यन् समामन्त्र्यैवम् आदिशत् ९१८

भवन्तो यदि मे सत्यं शरणे समुपाश्रिताः
तन् मे ऽनुशासनं धृत्वा चर्तुम् अर्हन्ति सर्वदा ९१९

इत्य् एवं तत्समादिष्टं श्रुत्वा सर्वे ऽपि ते नृपाः
बोधिसत्वं तम् आलोक्य पश्यन्तश् चैवम् अब्रुवन् ९२०

सत्यम् एव महाराज भवतां शरणे वयं
स्थित्वाज्ञां शिरसा धृत्वा संचरिष्यामहे ध्रुवं ९२१

इति तदुक्तम् आकर्ण्य बोधिसत्वो ऽभिबोधितः
तान् सर्वान् नृपतीन् पश्यन् समामन्त्र्यैवम् अब्रवीत् ९२२

यद्य् एवं वो वचः सत्यं विरम्य दशपापतः
बोधिचर्याव्रतं धृत्वा संचरध्वं समाहिताः ९२३

लोकान् अपि तथा सर्वान् बोधयित्वा प्रयत्नतः
बोधिमार्गे प्रतिष्ठाप्य चारयत सदा शुभे ९२४

इति मे शासनं धृत्वा यदि चरितुम् इच्छथ
मत्तो द्रव्यं समादाय दत्वा दानं यथेप्सितं ९२५

भुक्त्वा भोग्यं यथाकामं कृत्वा सत्वहितं सदा
त्रिरत्नभजनं कृत्वा संचरध्वं समाहिताः ९२६

एवं चेद् वः सदा भद्रं सर्वत्रापि भवेद् ध्रुवं
निरुत्पातं महोत्साहं प्रान्ते ऽपि सद्गतौ गतिः ९२७

नो चेद् एवं सदा वात्र महोत्पातं भयाकुलं
भवेद् धि विविधं दुःखं प्रान्ते ऽपि दुर्गतौ गतिः ९२८

इति मत्वा समाधाय विरम्य पापमार्गतः
बोधिचर्याव्रतं धृत्वा संचरध्वं जगद्धिते ९२९

इत्य् एवं तत्समादिष्टं श्रुत्वा सर्वे ऽपे ते नृपाः
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ९३०

ततः स बोधिसत्वस् तान् मत्वा सर्वान् प्रबोधितान्
यथाभिलषितैर् द्रव्यैः कृत्वा तुष्टान् न्यसर्जयत् ९३१

ततस् ते भूमिपाः सर्वे सद्धर्मसुखनन्दिताः
बोधिसत्वं समामन्त्र्य नत्वा स्वस्वाश्रमं ययुः ९३२

तथा सर्वे ऽपि ते भूपाः स्वस्वदेशसमाश्रिताः
विरम्य पापमार्गेभ्यो बोधिमार्गसमाश्रिताः ९३३

त्रिरत्नभजनं कृत्वा दत्वार्थिभ्यो यथेप्सितं
यथाकामं सुखं भुक्त्वा महोत्साहं समाचरन् ९३४

एवं ते सकलांल् लोकान् निवार्य पापमार्गतः
बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् सदा शुभे ९३५

तथा सर्वे ऽपि ते लोका विरम्य पापमार्गतः
त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः ९३६

यथाभिवाञ्चितं द्रव्यं दत्वार्थिभ्यः प्रमोदिताः
यथाकामं सुखं भुक्त्वा प्राचरन्त समाहिताः ९३७

तदैतत्पुण्यभावेन निरुत्पातं सुमण्गलं
विषयेषु सदा तेषां सर्वत्राभून् महीभृतां ९३८

एवं स सर्वभूमीन्द्रो बोधिसत्वो नृपाधिपः
बोधयन् सकलांई लोकाञ् जम्बुद्वीपनिवासिनः ९३९

निवार्य दशपापेभ्यो दत्वा द्रव्यं यथेप्सितं
बोधिमार्गे प्रतिष्ठाप्य पालयन् समचारयत् ९४०

तथा ते सकला लोका धृत्वा तस्यानुशासनं
विरम्य दशपापेभ्यष् चतुर्ब्रह्मविहारिणः ९४१

यथाभिलषितं द्रव्यं दत्वार्थिभ्यः प्रमोदिताः
त्रिरत्नभजनं कृत्वा प्राचरन् सर्वदा शुभे ९४२

तदैतत्पुण्यभावेन जम्बुद्वीपे समन्ततः
निरुत्पातं शुभोत्साहं प्रावर्तत निरन्तरं ९४३

तदा कश्चिद् दरिद्रार्थी कृपणो दुर्जनः शठः
क्लेशाभिमानतप्तात्मा नाभूत् सर्वत्र भूतले ९४४

सर्वे ऽपि विगतक्लेशाः सुशीला विमलेन्द्रियाः
दातारो विमलात्मानो बभूवुर् बोधिचारिणः ९४५

एवं स सर्वलोकेन्द्रो बोधिमार्गे स्वयं चरन्
सर्वांई लोकान् प्रतिष्ठाप्य संपालयन् मुदाचरत् ९४६

एवं स बोधिसद्धर्मश्रीसमृद्धसुखान्वितः
चिरं सत्वहितं कृत्वा तस्थौ शुभे समाचरन् ९४७

तदा कश्चिन् नरः कालं कृत्वा ययौ न दुर्गतिं
सर्वे ऽपि समये देहं त्यक्त्वा ययुः सुरालयं ९४८

एवं श्रीमन्महाभिज्ञः कृत्वा धर्मरेतं जगत्
त्रिरत्नभजनं कृत्वा चिरं तस्थौ महासुखं ९४९

ततः कालान्तरेणासौ बोधिसत्वो जरान्वितः
वृद्धो भवविरक्तो ऽभूत् सम्बोधिसुस्थिताशयः ९५०

ततः स आत्मजं धिरं पद्मोत्तरं नृपासने
प्रतिष्ठाप्य नृपं कृत्वा सर्वराज्याधिपं व्यधात् ९५१

ततः स बोधिसत्वस् तद्राज्याश्रमं विहाय च
वनाश्रमे समाश्रित्य प्राचरद् योगसम्वरं ९५२

एवं स सुचिरं स्थित्वा ब्रह्मचारी समाहितः
काले कायं परित्यज्य ब्रह्मलोकं समाययु ९५३

तत्रोत्पन्नः स शुद्धात्मा ब्रह्मयोगविदां वरः
सर्वधर्माधिपः शास्ता महाब्रह्माभवत् तदा ९५४

एवं स भगवान् नाथः शास्ता शाक्यमुनिः पुरा
मणिचूडो महादाता बोधिसत्वो नृपो ऽभवत् ९५५

तदैवं स महासत्वो बोधिचर्याव्रतं चरन्
सर्वार्थिभ्यो यथाकामं संप्रददौ जगद्धिते ९५६

स्वकायं स्वयम् उत्कृत्य मुदार्थिभ्यो यथेप्सितं
रक्तमान्सास्थिमज्जादीन् ददौ सम्बोधिमानसः ९५७

पुत्रं भार्यां सतीं कान्तां रत्नं चापि शिरोरुहं
दत्वा दानं यथाकामं सर्वांल् लोकान् प्रबोध्यन् ९५८

निवार्य पापमार्गेभ्यः कृत्वा ब्रह्मविहारिणः
बोधिमार्गे प्रतिष्ठाप्य प्रचारयन्न् सदा शुभे ९५९

जगद् धर्ममयं कृत्वा त्रिरत्नशरणाश्रितः
सम्बोधिप्रणिधिं धृत्वा संप्रचेरे जगद्धिते ९६०

एतत्पुण्यविपाकेन सर्वान् मारगणाञ् जयन्
निःक्लेशो ऽर्हन् कलौ बोधिं संप्राप्य सुगतो ऽभवत् ९६१

यासौ पद्मावती देवी साभूत् सती यशोधरा
यो ऽसौ पद्मोत्तरो राजा राहुलो ऽभूज् जिनात्मजः ९६२

यो ऽसौ ब्रह्मरथो नाम पुरोहितो गुरुर् द्विजः
सो ऽर्हन् भिक्षुर् महाभिज्ञः शारिपुत्रो महासुधीः ९६३

भवभूतिर् ऋषिर् यो ऽसौ स आनन्दो महामतिः
मारीचिर् य ऋषिश् चासौ काश्यपः श्रावकोत्तमः ९६४

ब्रह्मदत्तः पिता यो ऽसौ मणिचूडस्य भूपतेः
शुद्धोदनो महाराजः सम्बुद्धस्य पिता खलु ९६५

मणिचूडस्य या माता देवी कान्तिमती सती
साभून् माया महादेवी भगवतः प्रसूः किल ९६६

यो ऽसौ दूषी तदा मारो मौद्गल्यायन ऋद्धिमान्
रक्षोरूपधरः शक्रो यो ऽग्निकुण्डात् समुत्थितः ९६७

स भिक्षुर् नागिरो नाम तदाभूद् इति मन्यतां
ये तस्य मणिचूडस्य मन्त्रिणो ऽमात्यसांघिकाः ९६८

एतानि भद्रिकादीनि पञ्चशाक्यशतान्य् अपि
यो ऽसौ दुःप्रसहो राजा देवदत्तस् तदाभवत् ९६९

चत्वारो ब्राह्मणा ये के मणिम् उद्धृत्य प्राददुः
कात्यायनो ऽनिरुद्धो ऽमी पूर्णः सुभूतिर् एव हि ९७०

एवं स भगवान् कृत्वा पुरा दानं सुदुष्करं
बोधिचर्याच्रतं धृत्वा समाचरज् जगद्धिते ९७१

तथा पारमिताः सर्वाः पूरयित्वा यथाक्रमं
सर्वसत्वहितार्थेन सम्यक्सम्बोधिम् आययौ ९७२

इति मत्वा जगच्छस्तुः सद्धर्मं श्रद्धया मुदा
श्रोतुम् अर्हन्ति सर्वे ते ये ऽभिवाञ्छन्ति सद्गतिं ९७३

ये शृण्वन्ति जगच्छास्तुः सद्धर्मं श्रद्धया मुदा
दुर्गतिं ते न गच्छन्ति यायुः सदापि सद्गतिं ९७४

सद्गताव् एव ते जाता धर्मश्रीसद्गुणाश्रयाः
बोधिसत्वा महासत्वा भवेयुर् बोधिचारिणः ९७५

ततस् ते बोधिसम्भारं पूरयित्वा यथाक्रमं
त्रिविधां बोधिम् आसाद्य निर्वृतिं समवाप्नुयुः ९७६

इति मत्वा महाराज भगवतः सुभाषितं
स्वयं शृण्वन् सदा लोकान् अपि संश्रावयादरात् ९७७

इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा
तम् अर्हन्तं यतिं नत्वा पप्रच्छैवं कृताञ्जलिः ९७८

किं तेन मणिचूडेन सुकृतं प्रकृतं पुरा
येनासौ नृपती राजा सर्वलोकाधिपो ऽभवत् ९७९

यद् अपि तस्य संजातं महारत्नं च मूर्धनि
तस्मिंश् च संप्रजाते ऽपि दिव्यरत्नं प्रवर्षितं ९८०

दिव्यध्वजपताकाश् च वियत्य् उच्च्रायिताः सुरैः
दिव्यानि चापि वाद्यानि पराहतानि सर्वतः ९८१

दिव्यरत्नमयं छत्रं देवैः संधारितं च खे
सर्वत्रापि च लोकेषु शुभोत्साहं प्रवर्तितं ९८२

यशसापि च सर्वत्र तस्य व्याप्ता दिशोदशः
बोधिसत्वो महादाता सर्वंददाभिधो ऽप्य् अभूत् ९८३

भूयो ऽप्य् अस्य महारत्नम् उष्णीषे समजायत
एतत् सर्वं समाख्याय सर्वान् अस्मान् प्रबोधय ९८४

इति तेन नरेन्द्रेण परिपृष्टे स सन्मतिः
उपगुप्तो नरेन्द्रं तं सम्पश्यन्न् एवम् आदिशत् ९८५

शृणु साधु महाराज मणिचूडेन यत् कृतं
पुरा तत् सुकृतं सर्वं वक्ष्यामि ते समासतः ९८६

तद्यथाभूत् पुरा शस्ता शिखी नाम तथागतः
सम्बुद्धो भगवान् अर्हन् धर्मराजो मुनीश्वरः ९८७

स सर्वज्ञो जगन्नाथः सर्वत्र भुवनेष्व् अपि
सद्धर्मं समुपादिश्य समाचरज् जगद्धिते ९८८

ततः स भगवाञ् चास्ता महारुणवतीं पुरीं
उपाश्रित्यादिशद् धर्मं विजहार ससांघिकः ९८९

तत्र रम्ये महोद्याने विहारे श्रावकैः सह
सर्वसत्वहितं कृत्वा तस्थौ धर्मं प्रकाशयन् ९९०

एवं स भगवान् कृत्वा सर्वधर्ममयं जगत्
समाप्य सौगतं कार्यं निर्वृतिं परमां ययौ ९९१

तद् दृष्ट्वा सो ऽरुणो राजा शास्तुर् देहं यथाविधि
संस्कृत्य विधिनास्थीनि संघृह्य समशोधयत् ९९२

तदस्थीनि स भूमीन्द्रः संस्थाप्य गर्भमण्डले
कृत्वा रत्नमयं स्तूपं महत्तरम् अकारयत् ९९३

ततो ऽसौ नृपती राजा तं स्तूपं विधिना मुदा
प्रतिष्ठाप्य महोत्साहैः प्राभजन् समुपस्थितः ९९४

एवं स नृपतिः कृत्वा सर्वांई लोकांस् तदाश्रितान्
तन् महश् चापि संस्थाप्य सदोत्साहम् अचारयत् ९९५

एवं स नृपती राजा तत्स्तूपसमुपाश्रितः
समन्त्रिजनपौरश् च महोत्साहैस् सदाभजत् ९९६

ततः कालान्तरेणासौ राजा वृद्धो ऽतिजीर्णितः
स्मृत्वा तं सुगतं देहं त्यक्त्वा ययौ सुखावतीं ९९७

ये चापि तं समाश्रित्य प्राभजन् सरवदा मुदा
ते सर्वे समये देहं त्यक्त्वाव्रजन् सुखावतीं ९९८

ततः कालान्तरेणासौ स्तूपो जीर्णो विशीर्णितः
वृष्टिवाताहतभग्नश् चटितः स्फुटितो ऽभवत् ९९९

तत् स्तूपं भग्नितं दृष्ट्वा नृपतिर् अरुणात्मजः
त्रिरत्नगुणमाहात्म्यं स्मृत्वैवं समचिन्तयत् १०००

हा हा स्तूपो विशीर्णो ऽयं धर्मधातुजिनालयः
सद्धर्मश्रीगुणाधारः सम्बोधिज्ञानरत्नभृत् १००१

अस्मिन् हि भग्निते स्तूपे श्रद्धाभक्तिमताम् अपि
सत्वानां भजनोत्साहं विशीर्णभग्नितं भवेत् १००२

तद् एनं प्रतिसंस्कृत्य प्रतिष्ठाप्य यथाविधि
ध्वजछत्रपताकाभिः करिष्यामि प्रशोभितं १००३

तदा सर्वे ऽपि लोकाश् च दृष्ट्वैनं संप्रशोभितं
प्रमुदिता महोत्साहैर् भजेयुः समुपस्थिताः १००४

ततः सर्वे ऽपि ते लोकाः परिशुद्धत्रिमण्डलाः
धर्मश्रीसद्गुणाधारा भवेयुर् बोधिचारिणः १००५

ततस् ते विमलात्मानो निःक्लेशा ब्रह्मचारिणः
अर्हन्तस् त्रिविधां बोधिं प्राप्य यायुः सुनिर्वृतिं १००६

इति विचिन्त्य राजा स सद्धर्मगुणलालसः
तं स्तूपं प्रतिसंस्कृत्य संशोभितम् अकारयत् १००७

तत्र स मुदितो राजा तत्स्तूपोष्णीषमण्डले
स्वं चूडामणिम् उत्पाट्य समारोप्यात्यमण्डयत् १००८

छत्रध्वजपताकाभिर् दिव्याम्बरविभूषणैः
नानकुसुममालाभिर् मण्डयित्वात्यशोभयत् १००९

प्रतिष्ठाप्य महोत्साहैः संपूज्य विधिना मुदा
सर्ववाद्यानि संवाद्य प्राकारयन् महोत्सवं १०१०

सुगन्धतैलसंदीप्ता दीपमालाः प्रदीपयन्
पञ्चघृतप्रदीप्तं च दीपं स्वशिरसा दधे १०११

पद्मैश् चैनं समभ्यर्च्य कृत्वा प्रदक्षिणान्य् अपि
अष्टाण्गैश् च प्रणत्वैवं प्रणिधानं मुदाकरोत् १०१२

अहम् अपीदृशं धर्मगुणं लब्ध्वा जगद्धितं
कृत्वा सम्बोधिम् आसाद्य संप्रयायां सुनिर्वृतिं १०१३

इत्य् एवं प्रणिधिं धृत्वा नृपतिः सो ऽरुणात्मजः
तस्मिन् स्तूपे महोत्साहैः प्राभजत् सर्वदा मुदा १०१४

एवं स भजनं कृत्वा सुचिरं प्राचरत् सुखं
अन्ते बुद्धस्मृतिं धृत्वा संप्रययौ जिनालयं १०१५

यो ऽसौ राजा महासत्वो महीपेन्द्रो ऽरुणात्मजः
एष एआभवद् राजा मणिचुडो नृपाधिपः १०१६

यत् तेन सिखिनः शास्तुः स्तूपं तं प्रतिसंस्कृतं
तत्पुण्येन स लोकेन्द्रो राजा धर्मार्थदो ऽभवत् १०१७

यच् चानेन महच्छत्रं तस्मिन् स्तूपे ऽवरोपितं
एतत्पुण्यविपाकेन तस्य जन्मन्य् अभूच् छुभं १०१८

दिव्यरत्नमयं चत्रं वालव्यजनम् अम्बरे
तदुपरि प्रसन्नाभिर् देवताभिः प्रधारितं १०१९

यच् च ध्वजपताकाभिः स्तूपे ऽनेन समर्चितं
तेन ध्वजपताकास् तज्जाते उच्छ्रायिताः सुरैः १०२०

यच् च चूडामणिस् तेन तदुष्णीषे ऽवरोपितं
तेनानन्तगुणोपेतं संजातं मस्तके मणिं १०२१

यच् च पञ्चघृतोद्दीप्तो दीपो मूर्ध्नि प्रधारितः
तेन तद्द्विगुणोदारं जतं तस्य मणिं च तत् १०२२

इत्य् एवं स महासत्वः स्तूपे ऽस्मिन् शरणाश्रितः
महश् चापि प्रतिष्ठाप्य महोत्साहैः सदाभजत् १०२३

लोकांश् चापि तथा सर्वांस् तस्तूपशरणाश्रितान्
कृत्वा सदा महोत्साहैः प्राभाजयत् समादरात् १०२४

एतत्पुण्यानुभावैः स सर्वलोकाधिपर्द्धिमान्
बोधिसत्वो महासत्वो भद्रश्रीगुणवान् अभूत् १०२५

भूयश् चासौ महासत्वो मणिचूडः पुराभवत्
सार्थवाहो महाधीरः सर्वसत्वहितार्थभृत् १०२६

तदैकसमये सो ऽब्धौ रत्नान्य् आदाय प्राचरत्
सार्थैः सार्धं महोत्साहं चरन् वनान्तरं ययौ १०२७

तत्रैकस्मिन् वनप्रस्थे तरुमूलसमाश्रितं
प्रत्येकबुधम् एकं स ददर्श विषनाशितं १०२८

तं दृष्ट्वा स वणिन्नाथः सहसा समुपासरन्
साञ्जलिः प्रणतिं कृत्वा पप्रच्छैवं समादरात् १०२९

भदन्त किम् भवद्देहे रोगदुःखाभिजायते
यत् ते ऽहं तच् चमीकर्तुम् इच्छे तन् मे समादिश १०३०

इति तेनोदितं श्रुत्वा प्रत्येकसौगतो ऽपि सः
सार्थवाहं तम् आलोक्य शनैर् एवं समादिशत् १०३१

साधो सार्थपते सर्पो ऽदंशत मे पदाङ्गुलिं
तद् विषं मे ऽत्र सर्वाङ्गे तुदति परिसर्पितं १०३२

इति तेनार्हतादिष्टं निशम्य स विचक्षणः
औषधीभिस् तम् आलिप्य सहसा स्वस्थितं व्यधात् १०३३

ततः प्रत्येकबुद्धो ऽसौ स्वस्थीभूतः प्रसादितः
सार्थवाहं तम् आलोक्य भद्राशिषात्यनन्दयत् १०३४

ततः स सार्थवाहस् तं सुगतं संप्रसादितं
प्रणत्वा साञ्जलिश् चैवं प्रणिधानं व्यधात् मुदा १०३५

यन् मयायं मुनीन्द्रो ऽपि विषोपसृष्टविग्रहः
औषधीभिः समालिप्य स्वस्थीकृत्वा प्रसादितः १०३६

अनेन कुशलेनाहं संजातः सर्वजन्मसु
सर्वेषाम् अपि सत्वानां भवेयं रोगशान्तकृत् १०३७

एतत्पुण्यैश् च मे गात्रप्रक्षालनाम्बुना पि ये
स्पृष्टास् ते निरुजाः पुष्टा भवेयुर् विमलेन्द्रियाः १०३८

इत्य् एवं प्रणिधिं कृत्वा स सार्थाधिपतिश् च तं
प्रत्येकं सुगतं नत्वा संमोदितस् ततो ऽचरत् १०३९

ततः स सार्थभृत् सार्धं वणिक्संघैश् चरन् मुदा
सहसा पुरम् आसाद्य स्वगृहं समुपाययौ १०४०

तत्र स भवनप्राप्तो ज्ञातिबन्धुसुहृज्जनैः
सह सम्मोदनं वाक्यं प्रोक्त्वोत्साहं समाचरत् १०४१

ततः स महदैश्वर्यसम्पत्तिश्रीगुणान्वितः
सर्वार्थिभ्यो यथाकामं दत्वाचरत् सदा सुखं १०४२

एवं स सर्वसत्वानां हितं कृत्वा प्रमोदितः
त्रिरत्नभजनं कृत्वा चिरं तस्थौ शुभे चरन् १०४३

ततः स समये मृत्योस् त्रिरत्नस्मृतिमानसः
त्यक्त्वा देहं समाधाय प्रययौ त्रिदशालयं १०४४

तत्रापि स महासत्वः सर्वान् देवान् प्रबोधयन्
त्रिरत्नभजनं कृत्वा प्रचचार सदा शुभे १०४५

ततः काले च्युतस् तस्माद् धितं कर्तुं महीतले
क्षत्रियजन्म आसाद्य मणिचूडो नृपो ऽभवत् १०४६

स एव हि वणिग्भर्ता मणिचूडो नराधिपः
मणिचूडो ऽपि शास्तायम् अभूच् छाक्यमुनिः खलु १०४७

एवं स भगवाञ् छास्ता पुरासंख्येयजन्मसु
नृपकुले जनुः प्रेत्य सर्वलोकाधिपो ऽभवत् १०४८

तदापि स महासत्वः सर्वत्रैतेषु जन्मसु
सर्वार्थिभ्यो यथाकामं ददौ सम्बोधिमानसः १०४९

एवं जन्मस्व् असंख्येयसहस्रेषु सदापि सः
कृत्वा सुदुष्करं कर्म प्राचरद् बोधिमानसः १०५०

एतत्पुण्यविपाकैः स बोधिसत्वः कलाव् अपि
जित्वा मारगणान् सर्वान् निःक्लेशो विमलेन्द्रियः
अर्हन् सम्बोधिम् आसाद्य सम्बुद्धो ऽभून् मुनीश्वरः १०५१

ततः स भगवाञ् छास्ता ससत्वान् प्रबोधयन्
बोधिमार्गे प्रतिष्ठाप्य प्राचारयत् सदा सुभे १०५२

एवं स त्रिजगन्नाथः कृत्वा धर्ममयं जगत्
समाप्य सौगतं कार्यं समाययौ सुनिर्वृतिं १०५३

इति तस्य जगच्छास्तुः सम्बोधिधर्मसाधनं
सुभाषितं मुदा सत्वैः श्रोतव्यं बोधिवाञ्छिभिः १०५४

ये हि भगवतस् तस्य बोधिचर्यासुभाषितं
सत्कृत्य श्रद्धया भक्त्या शृण्वन्तीदं समादरात् १०५५

ते सर्वे विमलात्मानो भद्रश्रीसद्गुणाश्रयाः
बोधिसत्वा महासत्वाश् चतुर्ब्रह्मविहारिणः १०५६

सम्बोधिप्रणिधिं धृत्वा त्र्रत्नशरणाश्रिताः
बोधिचर्याव्रतं धृत्वा प्रचरेयुर् जगद्धिते १०५७

ततः सर्वे ऽपि ते सन्तः परिशुद्धत्रिमण्डलाः
सद्धर्मसाधनोत्साहं चरेयुः सर्वदा भवे १०५८

एवं पारमिताः सर्वाः समासाध्य यथाक्रमं
सर्वत्र भद्रतां कृत्वा संचरेरन् समाहिताः १०५९

ततो निःक्लेशिताः सर्वे ते ऽर्हन्तो ब्रह्मचारिणः
सर्वान् मारगणाञ् जित्वा सम्बोधिं समवाप्नुयुः १०६०

ततस् ते सुगताः सर्वे धर्मराजा मुनीश्वराः
सद्धर्मं समुपादिश्य बोधयेयुर् जगज्जनं १०६१

ततस् ते त्रिजगल्लोकं सद्धर्मगुणसाधने
बोधिमार्गे प्रतिष्ठाप्य चारयेयुर् जगद्धिते १०६२

एवं सर्वे ऽपि ते बुद्धाः कृत्वा धर्ममयं जगत्
समाप्य सर्वकार्याणि संप्रयायुः सुनिर्वृतिं १०६३

एतत् सत्यं समाख्यातं सर्वैर् अपि मुनीश्वरैः
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते १०६४

एवं मत्वा जगच्छास्तुर् बोधिचर्यां सुभाषितं
स्वयं श्रुत्वा जनान् सर्वान् संश्रावयितुम् अर्हसि १०६५

तथा ते सर्वदा भद्रं निरुत्पातं भवेद् ध्रुवं
दुर्गतिगमनं नैव सर्वदा सद्गतौ गतिः १०६६

सर्वदापि शुभोत्साहं भुक्त्वा श्रीसद्गुणाश्रयः
त्रिरत्नस्मृतिम् आधाय प्रान्ते याया जिनालयं १०६७

इति सत्यं परिज्ञाय निशम्येदं सुभाषितं
त्रिरत्नभजनं कुर्वन् बोधिचर्याव्रतं चर १०६८

यच् चापि प्रकृतं कर्म भोक्तव्यं तत् फलं ध्रुवं
इति विज्ञाय संसारे कर्तव्यं सुकृतं सदा १०६९

न नश्यन्ति हि कर्माणि कल्पकोटिशतैर् अपि
सामग्रीं प्राप्य कालं च फलन्ति षड्गतिष्व् अपि १०७०

नाग्निना दह्यते कर्म क्लिद्यते न जलैर् अपि
शुष्यते वायुभिर् नैव क्षीयते च न भूमिषु १०७१

शुक्लकर्मविपाके हि शुक्लतैव सदा भवेत्
कृष्णकर्मविपाके तु कृष्णतैव सदा भवेत्
मिश्रितकर्मपाके ऽपि मिश्रितफलता खलु १०७२

इति विज्ञाय राजेन्द्र कृष्णकर्माणि सर्वथा
मिश्रितान्य् अपि कर्माणि प्रविहाय प्रयत्नतः १०७३

सदैकान्तशुभेष्व् एव कर्मसु बोधिसाधिषु
महोत्साहसमुद्योगं कर्तव्यं भद्रवाञ्छिभिः १०७४

इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा
तथेति संप्रतिज्ञाय प्रात्यनन्दत् स सत्यकः १०७५

शृण्वन्तीदं मुदा ये सुगतगुणरता माणिचूडावदानं
ये च श्रद्धाप्रसन्नाः प्रमुदितमनसः श्रावयन्ति प्रयत्नात्
भाषन्ते ये च भक्त्या जिनगुणमुदिता बोधिसद्धर्मकामाः
ते सर्वे बोधिसत्वास् त्रिमणिशरणगा मारचर्याविमुक्ताः १०७६

भद्रश्रीसद्गुणाढ्याः सुविमलमनसः सर्वसत्वहितोत्काह्
नित्यं कृत्वा शुभानि त्रिमलविरहितधर्मराजानुरागाः
धृत्वा सम्बोधिचर्यां सकलगुणधराः सर्वधर्माधिराजाः
भुक्त्वा श्रीभद्रसौख्यं दशबलनिलये यान्ति प्रान्ते प्रमोदं १०७७

इति श्रीमहज्जातकमालायां श्रीमन्महासत्त्वमणिचूडमहाराजबोधिसत्त्वावदानं समाप्तं
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project