Digital Sanskrit Buddhist Canon

३८ मैत्रकन्यकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

38 maitrakanyakāvadānam

३८ मैत्रकन्यकावदानम्।



मातर्यपकारिणः प्राणिन इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीयाः। तद्यथानुश्रूयते-विकसितसितकुमुदेन्दुकुन्दकुसुमावलीगुणगणविभूषितः पूर्वजन्मान्तरोपात्ताप्रमेयानवद्यविपुलसकलसंभारो धनदसमनरत्नाश्रयः स्वजनकृपणवनीकभुज्यमानोदारविभवसारनिचयो मित्रो नाम सार्थवाहो बभूव।



परोपकारैकरसाभिरामा

विभूतयः स्फीततरा बभूवुः।

तस्यार्यसत्त्वस्य नभस्यरात्रे

करा नवेन्दो कुमुदावदाताः॥१॥



तृष्णानिलः शोकशिखाप्रचण्डै-

श्चित्तानि दग्धाणि बहुप्रकारम्।

आशावतां सप्रणयाभिरामै-

र्दानाम्बुषेकैः शमयांभूव॥२॥



दृष्ट्वा लोकमिमं धनक्षयभयात् संत्यक्तदानोत्सवं

लोकक्लेशपिशाचिकावशतया संदूषिताध्याशयम्।

कारुण्यात् स ददावनाथकृपणक्लिबातुरेभ्यो धनं

मत्वा च प्रहतार्णवोर्मिचपलं स्वं जीवितं भूयसा॥ ३॥



येषु व्यासज्जचेता भुजगवरवधूभोगभीमेषु लब्धा

गाहन्ते पापगर्तं स्फुटदहनशिखाभीमपर्यन्तरन्ध्रम्।

वाताघातप्रनृत्तप्रवरनवधुनेत्रपक्ष्माग्रलोलान्

तानर्थानर्थिदुःखव्युपशमपटुभिः प्रोत्ससर्ज प्रदानैः॥४॥



तस्मात् पुत्रधनत्वात् पुत्राभिलाषिणो यदा मनोरथशतैरसकृदुन्मिषितोन्मिषिताः पुत्रश्रियः प्रसह्य स्फीततरवैरभारेन्धनवह्निनैव विगतनिखिलप्रतीकारदारुणप्रभावमहता सुकृतान्तलयैकपरायणाः क्रियन्ते स्म, यदासौ लोकप्रवादमात्रयापि पन्थानं समवतीर्य धनदवरुणकुबेरशंकरजनार्दनपितामहादीन् देवताविशेषान् पुत्रार्थं याचितुमारेभे।



यस्मिन् यस्मिंस्तनयसरसि स्वच्छपूर्णाम्बुपूर्णे

वने(जाते) वृद्धिः समुदितमहावंशलक्ष्म्यम्बुजस्य।

तत्तत्तस्य प्रबलविरसं याति तीक्ष्णांशुमालैः

शोषं मन्ये रविरिव जलं भागधेयार्कबिम्बम्॥५॥



रुद्रं नैककपालशेखरधरं चक्रायुधं वज्रिणं

स्रष्टारं मकरध्वजं गिरिसुतापुत्रं मयूरासनम्।

गङ्गाशङ्खदलावदातसलिलांस्तांस्तांश्च देवानसौ

पुत्रार्थी शरणं ययौ बहु पुनर्दानं द्विजेभ्यो ददौ॥६॥



यद्यज्जनो मङ्गलदेशनाभि-

र्व्रतोपवासाधिगतैश्च दुःखैः।

पुत्रार्थसंसिद्धिनिमग्नबुद्धि-

र्विक्षिप्य खेदं स चकार तांस्तान्॥७॥



एवमनेकप्रकारकायचेतसोरायासकारिभिरपि व्रतोपवासमङ्गलैर्यदा नैव कदाचित् कालेऽस्य पुत्रा जीविनो बभूवुः, तदैनमतिविपुले प्रगाढशोकापगाम्भसि निमज्जन्तं कश्चित् साधुपुरुषोऽब्रवीत्-



कर्माण्येवावलम्बन्ति देहिनां सर्वसंपदः।

भूतानां तुङ्गशृङ्गाद्वा विनिपातो न भूतये॥८॥



संक्लेशं बहवः प्राप्ताः पुत्रतृष्णार्तबुद्धिना।

न च तेऽद्यापि जीवन्ति तत्र किं परिखिद्यसे॥९॥



कर्माणि निर्मुच्य कथं भवेभ्यः।

स्वर्गौकसस्तुष्टिवशादिहेयुः।

ये यैर्विना नात्मभवं लभन्ते

ते तैर्विना जन्म कथं भजेरन्॥१०॥



ये सांसारिकनैकदुःखदहनज्वालालतालिङ्गिता-

स्ते वाञ्छन्ति नरामरोरगसुखं प्रायेण दानादिभिः।

त्व केनापि विडम्बसे जडमतिः पुत्राशयोन्मत्तको

यस्त्वं द्यामधिगन्तुमिच्छसि बृहत्सोपानमालाश्रयात्॥१२॥



विधिमपरमहं ते बोधयामि प्रसिद्ध्यै

त्वमपि च कुरु तावत् संप्रसिद्ध्यै कदाचित्।

यदि भवति सुतस्ते कन्यकानाम तस्य

सकलजनपदेऽस्मिन् ख्यापयस्व प्रसिद्ध्या॥१३॥



अथ तस्य कालान्तरे गगनतलमंशुमालीव स्वकीरणनिकरैर्विराजमानं स्ववंशलक्ष्मीः पुत्रं जनयांबभूव। स च -



निर्वान्तामलहेमशैलशिरसः प्रच्छेदगौरद्युतिः

संपूर्णामलचन्द्रमण्डलसमच्छत्रोरुभास्वछिराः।

मत्तैरावणचारुपुष्करकरव्यालम्बबाहुद्वयो

भिन्नेन्दीवरफुल्लपत्रनिचयश्यामारुणान्तेक्षणः॥१४॥



भूयः कल्पसहस्रसंचितमहापुण्यप्रभावोद्भवैः

प्रव्यक्तस्फुरितेन्द्रचापरुचिरैः प्रल्हादिभिर्लक्षणैः।

मूर्तिस्तस्य रराज चारुशिखराद्धेमं यथा भूच्युतं

प्रोद्गीर्णस्वमयूखजालजटिलै रत्नाङ्कुरैर्वेष्टितम्॥१५॥



भ्रमरचमरपङ्क्तिश्यामकेशाभिरामं

समविपुलललाटं श्रीमदुत्तुङ्गनासम्।

तनयमुदितचेता मैत्रकन्याभिधानं

दशदिवसपरेण ख्यापयामास लोके॥१६॥



शरीरिणां वृद्धिकरैः समृद्धै-

र्विशेषयुक्तैर्विविधान्नपानैः।

सुधावदातैः स्फुटचन्द्रपादैः

पयोधिवेलेव ययौ समृद्धिम्॥१७॥



धात्रीभिः स समुन्नीतः क्षीरैश्च सर्पिमण्डकैः।

पुपोष सुन्दरं देहं ह्रदस्थमिव पङ्कजम्॥१८॥



अथ तस्य पिता मित्रः सार्थवाहो वणिग्जनैः।

द्रव्यैर्नहनमारोप्य जगाहे चोदधिं मुदा॥१९॥



तिमिंगिलक्ष्भविवर्धितोर्मि-

पयोदधौ मीनविपन्नपात्रे।

पितर्यतीते जननीं जगाद

चकार किं कर्म पिता ममेति॥२०॥



ततोऽस्य जननी पतिवियोगशोकग्लपितहृदया चिन्तामापेदे।

आशापाशशताकृष्टो जनो मृत्युं न पश्यति।

विषयास्वादकृपणो वारणस्येव बन्धनम्॥२१॥



यद्यपि कथयिष्यामि पितरं यानपात्रिकम्।

एषोऽपि मम मन्दाया नाशमेष्यति तोयधौ॥२२॥



यावच्चायं जनपदमिमं तस्य वृत्तिं न भूतां

पृच्छत्यस्मै कथयति न वा सर्व एवैष लोकः।

तावद्युक्तं मम सुतमिम मृत्युवक्त्रान्तरालं

नानादुःखव्यसनगहनं व्याधिषक्तं निषेद्धुम्॥२३॥



परोऽपि यः साधुजनानुजुष्टं

विहाय मार्गं श्रयते विमार्गम्।

निवारणीयः स स्वमताज्जनेन

प्रयत्नतः किं पुनरेव पुत्रः॥२४॥



ततो जननी कथयांचक्रे-

पुत्र औकरिकत्वेन पिता ते मामपूपुषत्।

यद्यहं शुखिता कार्या कार्षीरौकारिभूषणम्॥२५॥



अथ मैत्रकन्यको बोधिसत्त्वो मातुर्वचनं कुसुममालामिव शिरसा समभिवन्द्य अन्यस्मिन्नहनि औकरिकापणं प्रससार।



पुण्यसंभारमहतस्तस्य सत्त्वदयावतः।

प्रथमेऽहनि संपन्नं चतुःकार्षापणं धनम्॥२६॥



स्वगर्भसंधारणदुःखितायै

ददौ स तस्यै मुदितो जनन्यै।

दारिद्र्यदुःखव्यसनच्छिदायै

धनं महाभोगफलप्रसूत्यै॥२७॥



अथ ये तस्मिन् पुरवरे चिरंतना औकरिकाः, ते तस्य तामभिवर्धमानां क्रयविक्रयलोकमविषमव्यवहारनीत्या प्रकृतिप्रेमपेशलतया चावर्जितमनसस्तस्मिन् महासत्त्वे व्यवहारार्थमापतन्तमवलोक्य तं तस्मात्कर्मणो विनिवर्तनार्थमाहुः-



गान्धिकापणिकः श्रेष्ठी पितैतस्मिन् पुरे पुरा।

स त्वं तां वृत्तिमुज्झित्वा श्रयसेऽन्यां कया धिया॥२८॥



अथ बोधिसत्त्वस्तामपि जीविकामपहाय गान्धिकापणं चकार-

यस्मिन्नेव दिने चक्रे स साधुर्गान्धिकापणम्।

कार्षापणाष्टकं तस्य तस्मिन्नेवोपपद्यते॥२९॥



तमपि मात्रे प्रतिपादितवान्। अथ गान्धिकापणिकाः पुरुषाः समेत्यागत्य च तं महासत्त्वं विच्छन्दयामासुः-



गान्धापणं क्लीबजनाभिपन्नं

पिता न वै माद्य पुरे (?) चकार।

तत्रैव हैरण्यिकतां स कृत्वा

धनानि भूयांसि समाप साधो॥३०॥



अथ मैत्रकन्यको बोधिसत्त्वस्तामपि जीविकामपहाय हैरण्यिकापणं चकार।

तयापि तस्मिन् व्यवहारनीत्या

हैरण्यिकांस्तानभिभूय सर्वान्।

लेभे दिने स प्रथमे महार्हः

कार्षापणान् षोडश तान् ददौ च॥३१॥



दिने द्वितीये द्वात्रिंशत् कार्षापणमुपार्ज्य सः।

दक्षिणीयविशेषायै मात्रे तानपि दत्तवान्॥३२॥



अथ हैरण्यिकापणिकाः पुरुषा समेत्यागत्य च तं तस्मात्कर्मनो विनिवर्तनार्थमाहुः-

शरच्चन्द्रांशुधवले लब्ध्वा जन्म कुले कथम्।

कृपणां जीविकाहेतोर्वृत्तिमाश्रयते भवान्॥ ३३॥



प्रभञ्जनोद्धूतशिखाकराले

हुताशने विस्फुरितस्फुलिङ्गे।

विवर्तितं श्लाघ्यमतीव पुंसां

न तु स्ववृत्तेश्च्यवनं प्रवृत्तम्॥३४॥



महोरगाश्वासस्विघूर्णितोऽग्रै-

स्तरंगभङ्गैर्विषमं पयोधिम्।

अगाधपातालविलग्नमूलं

पिता विगाह्यार्जितवान् धनं ते॥३५॥



यदाश्रितं कर्म जनानुवर्तिना

त्वया विदग्धेन धनेप्सुनाधुना।

कथं न संप्राप्स्यसि भाग्यसंपदं

पितुर्व्यतीतेऽपि विशालिनीं श्रियम्॥३६॥



वित्तेश्वरोऽप्यर्थविभूतिविस्तरै-

र्नाशां सदर्था विबभार यस्य।

तस्या महेन्द्रामलतुल्यकीर्तेः

सूनुः कथं त्वं न बिभर्षि लज्जाम्॥३७॥



ये मृत्युं गणयन्ति नैव विपदि ग्रासं भजन्तेऽनघ

गेहे बन्धुषु सूनुस्षु व्यपगतस्नेहात्मनोद्योगिनः।

ये नीत्वा जलधीनगाधसलिलानावर्तभीमान् बुधाः

प्राप्यार्थान् गजदन्तभङ्गसितयासिन्वन्त कीर्त्या जगत्॥३८॥



अथ मैत्रकन्यको बोधिसत्त्वस्तेभ्योऽपि तथानुगुणिनीं कथामवधार्य समुद्रावतरणकृतव्यवसायो मातरमुपसृत्योवाच-अम्ब, सार्थवाहः किलास्माकं पिता पुरा। तदनुज्ञां प्रयच्छ, यदहमपि महासमुद्रमवतरिष्यामीति। सा पूर्वमेव भर्तृमरणदुःखेन विगतजीविताशा स्वस्य तनयस्य तेनासंलक्षितदारुणेन वियोगशोकशस्त्रेण भृशतरं प्रविदार्यमाणहृदयेव स्वतनयमाह-



वत्स केन तवाख्यातं विनाकारणशत्रुना।

जीवितं कस्य तेऽनिष्टं त्वया क्रीडां करोति कः॥३९॥



दैवात् कथंचित्संप्राप्तं चक्षुरेकं त्वमद्य मे।

पुत्रक्लेशभागिन्या मृत्युना ह्रियसेऽधुना॥४०॥



न यावदेवं मम दुःखशल्यं

प्रयाति नाशं प्रविदार्य शोकम्।

कथं नु तस्योपरि मे द्वितीयं

निपात्यते पापमयैरमित्रैः॥ ४१॥



येषां चेतो विविधविरसायासदुःखाप्रकम्प्यं

यैः संत्यक्तं कृपणहृदयैर्जीवितं भोगलुब्धैः।

ते संत्यक्त्वा नयनगलिताश्रुप्रवाहार्द्रवक्त्रान्

बन्धूनज्ञा मकरनिलये मृत्यवे यान्ति नाशम्॥४२॥



तन्मामनाथां प्रतिपालनीयां

त्वज्जीविताशैकनिबन्धजीवाम्।

संत्यज्य यातुं कथमुद्यमस्ते

मा सा कथा मा नु वचो मदीयम् (?)॥४३॥



स्वप्राणसंदेहकरीमवस्थां

प्रविश्य नैकान्तसुखं प्रसाध्यम्।

संपत्तयो येन वणिग्जनस्य

ततोऽहमेवं सुत वारयामि॥४४॥



स तस्या हितार्थं मधुराण्यपि वचनकुसुमानि तृणमिवावधूय सप्रगल्भतया समवलम्बितविकत्थाशोभं कींचिदीदृशं प्रत्याह-



वरं नैव तु जायेरन् ये जाता निर्धना जनाः।

जातस्य यदि दुःखानि वरं मृत्युर्न जीवितम्॥४५॥



आशया गृहमागत्य दीनदीनास्तपस्विनः।

अर्थिनो मम पापस्य यान्ति निःश्वस्य दुर्मनाः॥४६॥



ये शक्तिहीना विभवार्जनादौ

ते देहिनो दुःखशतं सहन्ते।

लोकं पुनर्दुःखशतोपतप्तं

द्रष्टुं न शक्नोमि चिरायमाणः॥४७॥



तस्माद्विलङ्घामि वचस्त्वदीयं

यास्यामि तं त्वं प्रजहीहि शोकम्।

तत्रैव यायां निधनं समुद्रे

छिन्नं मया वा व्यसनं जनस्य॥४८॥



अथ मैत्रकन्यको बोधिसत्त्वो मातरमप्रमाणिकृत्य निर्गत्य गृहाद्वाराणस्यां पुर्यामात्मानं सार्थवाहमित्युद्धोषयामास।

अस्यामेव पुरा पुरंदरपुरीप्रतिस्पर्धिपुर्यां वणिक्

मित्रो नाम बभूव यत्सुरनरप्रख्यातकीर्तिध्वजः।

पुत्रस्तस्य महासमुद्रमचिराद्यास्यत्युमुष्मिन्दिने

यातुं ये वणिजः कृतोपकरणास्ते सन्तु सज्जा इति॥४९॥



अथ मैत्रकन्यको बिधिसत्त्वो विविधोपकरणसंभारसाधनानां समागृहीतपुण्याहप्रस्थानभद्राणामुपहृतमङ्गलविविधानां वणिजां पञ्चमिः शतैः कृतपरिवारः प्रससार। माता चैनं गच्छतीति श्रुत्वाह-ममैकपुत्रक, क्क यास्यसीति करुणकरुणाक्रन्दितमात्रपरायणा कोमलविमलकमलदलविलासालसाभ्यां पाणिकमलाभ्यां रुचिरकनकघटितघटविकटपयोधरवरोरुभासुरमुरः प्रगाढमभिताडयति। बाष्पसलिलधारापरंपरोद्भवोपरुध्यमानकण्ठी अनिलबलाकुलितगलितसजलजलपटलावलीमलिनकेशपाशा सत्वरत्वरमभिगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य पादयोः परिष्वज्यैवमाह-मा मां पुत्रक परित्यज्य यासीति।



अनर्थरागग्रहमुढबुद्धयो

नरा हि पश्यन्ति न केवलं हितम्।

सतां हिताधानविधानचेतसां

गिरोऽपि शृण्वन्ति व भूतवादिनाम्॥ ५०॥



मैत्रकन्यकोऽपि -



धरणि ( तल)निमग्नां मातरं शोकवश्यां

शिरसि कुपितचित्तः पादवज्रेण हत्वा।

मुहुरुपचितशोकः कर्मणा प्रेर्यमाणः

त्वरितमतिरभूत् संप्रयातुं वणिग्भिः॥५१॥



ततः सा माता समुत्थायाह-पुत्रक,

मयि गमननिवृत्तिं कर्तुमत्युद्यतायां

यदुपचितमपुण्यं मच्छिरस्ताडनात्ते।

व्यसनफलमनन्तं मा तु भूत् कर्मणोऽस्य

पुनरपि गुरुवाक्यं मातिगाः स्वप्नतोऽपि॥५२॥



अथ मैत्रकन्यको बोधिसत्त्वो विविधविहारायतनपर्वतोपवनगह्वरसरित्तडागारामरमणीयतराननेकनगरनिगमकर्वटग्रामादीननुविचरन् क्रमेण समुद्रतीरं संप्राप्य सज्जीकृतयानपात्रो भुजगपतिवदनविसृतश्वसनचपलबलविलुलितविपुलविमलसलिलमरिणतरुणकिरणनिकररिचिरपद्मरागपुञ्चप्रभारागरञ्जितोर्मिमाला-जलमसुरस्वरसमसुरपरसुरेश्वरकरोदरस्फुरितहुतवहशिखावलीकरालवज्रपतनभयनिलीनधरणीधरशिखरपराहतजलोद्धतोत्तुङ्गतरंगभङ्गरौद्रं समुद्रमवततार।



महानिलोत्क्षिप्ततरंगभङ्गैः

समुल्लसद्भिः खमिवोत्पतन्तम्।

सरित्सहस्राम्बुरयप्रवाहै-

र्भुजैर्विलासैरिव गृह्यमाणम्॥५३॥



प्रक्षुब्धशीर्षोरगभीमभोग-

व्यावर्तितोद्वर्तिततोयराशिम्।

तन्न्मूर्ध्नि रत्नोद्गतरश्मिपुञ्जं

ज्वालाकलापोच्छुरितोर्मिचक्रम्॥५४॥



अहिपतिवदनाद्विमुक्ततीव्र-

ज्वलितविषानलदाहभीमशङ्खम्।

तिमिनखकुलिशाग्रदारिताद्रिं

तदचलपादहताम्बुमीनवृन्दम्॥५५॥



तुङ्गतरंगसमुद्गतीरं

तीरनिलीनकलस्वनहंसम्।

हंसनखक्षतदारुणमीनं

मीनविवर्तितकम्पिवेलम्॥५६॥



रत्नलतावृतभासुरशङ्खं

शङ्खसितेन्दुगभस्तिविवृद्धम्।

वृद्धभुजंगमहाभवरौद्रं

रौद्रमहामकराहतचक्रम्॥५७॥



खगपतिसविलासपाणिवज्रं

प्रहतविपाटितदृष्टिमूलरन्ध्रम्।

प्रमुदितजलदन्तिदन्तकोटि-

प्रमथितनैकविलासकल्पवृक्षम्॥५८॥



तदेव स संलक्ष्य तीरपर्यन्तरेखं प्रकटविकटार्तगर्तोदरभ्रमद्भ्रमितझषभुजगकुलमण्डलं नैकविचित्राद्भुताश्चर्यमतिशयमम्भसामालयमतिक्रामतस्तस्य धरणीधरशिखरविपुलात्मभावस्य मकरकरिपतेर्विवर्तमानस्य समुत्थितैरुर्वीधराकारदारुणैः प्रमुक्तकलकलारावरौद्रैर्महद्भिः सलिलनिवहैरुत्पीड्यमानं तद्यानपात्रं मरणभयविषादभ्रश्यमानगात्रैर्दीनरुदिताक्रन्दितमात्रपरायणैः संयानपात्रकैः सह सहैव सलिलविधेरधः प्रवेष्टुमारब्धम्।



उर्वीधराकातरंगतुङ्गै-

रुग्रैर्युगान्तानिलचण्डवेगैः।

तद्यानपात्रं जलधेर्जलौघै-

रास्फाल्यमानं विददार मध्ये॥५९॥



दंष्ट्राकराले झषवक्त्ररन्ध्रे

कश्चिन्ममारार्तरवस्तपस्वी।

केचिज्जलोद्गारनिरुद्धकण्ठा

जग्मुर्निरुच्छवासगिरा व्यसुत्वम्॥६०॥



गत्वापि केचित्फलकैर्महद्भि-

रम्भोनिधेस्तीरमवेक्षमाणाः।

दूराम्बुसंतानपरिश्रमार्ता-

स्त्रासाकुला नेदुरुदीर्णनादाः॥६१॥



अथ मैत्रकन्यको बोधिसत्त्वस्तेन महता व्यसनोपनिपातेनाप्यनापतितभयविषाददैन्यायासमनाः समवलम्ब्य महद्धैर्यपराक्रमं ससंभ्रमं फलकमादाय प्रससार। ततोऽसौ समपवनगमनजवजनितसविलासगतिभिः सलिलप्लवैरितस्ततः समाक्षिप्तमाणो निराहारतया च परिम्लायमाननयनवदनकमलश्चान्यैर्बहुभिरहोरात्रैर्यथाकथंचित्तस्य दुरवगाहसलिलस्य महार्णवस्य दक्षिणं तीरदेशमाससाद।



तीर्त्वा तमम्भोनिधिमप्रगाध-

मासाद्य तीरं फलकं मुमोच।

संस्मृत्य मातुर्वचनं स पाणा

व्यासज्य मूर्धानमिदं जगाद॥६२॥



शृण्वन्ति ये नात्महितं गुरूणां

वाक्यं हितार्थोदयकार्यभद्रम्।

तेषामिमानि व्यसनानि पुंसा-

मावाहयन्ति प्रभवन्ति मूर्ध्नि॥६३॥



तैरेव नैकव्यसनप्रदस्य

तोयेन्दुबिम्बस्थितिभङ्गुरस्य।

प्राप्तं फलं जन्मतरोः सुधीभि-

र्ये मानयन्तीह गिरो गुरूणाम्॥६४॥



मातुर्हितायैव सदोद्यतायाः

प्रोल्लङ्घ्य वाक्यं मम दुष्कृतस्य।

पुष्पं यदीदृग्भरपापदारुणं

प्रान्तं गमिष्यामि कदा फलस्य॥६५॥



हुतवहहतलेखात्यन्तपर्यन्तरौद्रं

गमनपतितमुग्रं विस्मयात्यन्तवज्रम्।

गुरुशिरसि दधानः पादवज्रं खलोऽहं

कथमवनिविदार्यश्वभ्ररन्ध्रे न लग्नः॥६६॥



ये सन्तो हितवादिनां स्फुटधियां संपादयन्ते गिरः

श्रेयस्ते समवाप्नुवन्ति नियतं क्रव्यादपुर्यां यथा।

ये तूत्सृज्य महार्थसारदयितां वाचं श्रयन्तेऽन्यथा

दुस्तारे व्यसनोदधौ निपतिताः शोचन्ति तेऽहं यथा॥६७॥



ततोऽसौ क्रमेण खदिरवरसरलनिचुलबकुलतमालतालनालिकेरद्रुमवनगहनं प्रवारवारणवराहचमरशरभशम्बरमहिषविषाणकर्षणपतितमथितविविधमालुलताजालदुःसंचरं क्कचित्क्षुभितकेसरिनिनादभयचकितवनचरकुलाकीर्णचरणं कथंचिदपि शबरमनुजजनचरणाक्षुण्णपर्यन्तमनुचरन् क्कचित् स्थित्वैवमाह-



एते दाडिमपुष्पलोहितमुखाः प्रोन्मुक्तकोलाहला

हासादर्शितदन्तपङ्क्तिविरसाः शाखामृगा निर्भयाः।

सर्पान् भीमविषानलस्फुरदुरुज्वालाकरालस्फुटान्

हत्वा पाणितलैः प्रयान्ति विवशाः फूत्कारभीताः पुनः॥६८॥



रम्ये कुङ्कुमशाखिनामविरलच्छायाकुथाशीतले

मूले कोमलनीलशाद्वलवति प्रव्यक्तपुष्पोत्करे।

वंशैस्तालरवैः सगीतमधुरैः प्रच्छेदसंपादिभिः

संगीताहितचेतसः प्रमुदिता गायन्त्यमी किन्नराः॥६९॥



ततो नातिदूरमतिसृत्य महीधरवराकारं पर्वतं ददर्श।

क्कचिदुग्रतरचारुमणिप्रभया

सुरभीकृतभीमगुहाविवरम्।

क्कचिदुद्धतकिन्नरगीतरवं

प्रतिबुद्धससंभ्रमनागकुलम्॥७०॥



चपलानिलवेल्लितपुष्पतरुं

तरुमन्दिरमूर्ध्नि चलद्भ्रमरम्।

भ्रमरध्वनिपूर्णगुहाकुहरं

कुहरस्थितरौद्रभुजंगकुलम्॥७१॥



पक्षिविराजितपर्वतशृङ्गं

शृङ्गशिलातलसंस्थितसिद्धम्।

सिद्धवधूजनरम्यनिकुञ्जं

कुञ्ननिसेवितमत्तशकुन्तम्॥७२॥



मत्तशिखण्डिकलस्वररम्यं

रम्यगुहामुखनिर्गतसिंहम्।

सिंहनिनादभयाकुलनागं

नागमदाम्बुसुगन्धिसमीरम्॥७३॥



व्कचिदुपचितवारणदन्तशिखाशनिदारितशिखरततं प्रविरूढविलासशिखागरुवृक्षवनम्। क्कचिदुपरिपयोधरभारतलध्वनिरञ्जितशिखिकुलाविष्कृतपिच्छकलापविचित्रतचारुतटम्। क्कचिदनिलविकम्पितपुष्पतरुंस्खलितोज्ज्वलसुरभिबलंकुसुमप्रबलप्रतिवासितसानुशिखम्॥७४॥



तथापरं ददर्श-

लिखन्तं करालैर्नभः शृङ्गजालैः

क्षिपन्तं मयूखैस्तमः सागराणाम्।

वहन्तं समभ्राम्बरामद्रिगुर्वी

क्षरन्तं क्कचित् काञ्चनाम्भःप्रवाहम्॥७५॥



फलितामलकासनकल्पतरुं

तरुखण्डविराजितसानुशिखम्।

शिखरस्थितदेववधूमिथुनं

मिथुनैर्दहतां वयसा मधुरम्॥७६॥



व्कचिदर्कमहारथचक्रनिपातविखण्डितमयूखकलापकरालितनैकमहामणि-

पल्लवसंचयं मौलिभरावनतोन्नतभासुरवज्रधरम्।

क्कचिदिन्द्रकरीन्द्रविमर्दतरंगनयभ्रमितप्रचलत्कलहंसकुलावलिहार-

नभस्सरिदम्बुविधौतशिलम्।

व्कचिदण्डजराजविलाससमुच्छ्रितयक्षमहाभुजवज्रविपाटितसागर-

वारितलोद्धृतपन्नगभोगधरम्।

क्कचिदेव सुरासुरसंयुगशस्त्रविपन्नमहासुरविद्रुत-

शोणितरङ्गमहावलयम्॥७७॥



दृष्ट्वैवमाह-

एते पर्वतशृङ्गवन्दनतरुच्छायास्थलं संसृताः।

कर्णप्रावरणं नवारुणकरच्छायासमानश्रियः।

प्रेक्षन्ते मदवारिलोप्लमधुलिट्प्रोल्लीढगण्डस्थलं

दर्पात् केसरिणो बलेन महता प्रोन्मथ्यमाना गजम्॥७८॥



इत्येवमसावतिकान्तारदुर्गं सलिलफलाहारमात्रपरायणः परिभ्रमन्नज्ञानतमःपटलावगुण्ठितमिव जगत् संसारपङ्के त्रिभुवनस्वामीवोदयद् रमणकं नाम नगरं ददर्श।



समुच्छ्रितोत्तुङ्गचलत्पताकैः

पतत्पतत्रिस्वनवावदूकैः।

सुवर्णसालैर्मणिहेमशृङ्गै-

र्महीधराकारगृहैः सुगुप्तैः॥७९॥



निलीनपद्मालिकुलालिपद्मैः

समुन्मिषत्पद्मरजःपिशङ्गः।

कलप्रलापाण्डजरावरम्यै-

र्मन्दानिलैरावसथीकृतं सदा॥८०॥



सुरकरिकरजघ्नकल्पवृक्षै-

र्मरकतरत्नतृणैः शुकांशुनीलैः।

मणिकनकलतानिबद्धशाखैः

क्कचिदुरुभिस्तरुभिः प्रकामहारि॥८१॥



विकसितनवकर्णिकारगौरैः

कनकगृहैर्बहुरत्नशृङ्गचित्रैः।

स्वकिरणरुचिरोरुरत्नसानो-

रचलपतेः सकलश्रियं दधानम्॥८२॥



क्कचिदमरविलासिनीकराग्र-

प्रहतमहामुरजस्वनाभिरामम्।

क्कचिदुपरिपयोदतूर्यनाद-

प्रमुदितमत्तशिखण्डिवृन्दकीर्णम्॥८३॥



ततस्तद्दर्शनात् समुत्पन्नजीविताशोऽसौ रमणं नगरमुपससर्प। तस्मान्नगराद्विनिःसृत्य चतस्रोऽप्सरसः द्रवितनवकनकरसरागावदातमूर्तयः प्रविकसिताम्बुजकुसुमरुचकरुचिनयनयुगलोत्पलविलासाः व्कणद्रुचिरविविधमणिमेखलापभा(प्राग्भा)रमन्दविलासगतयः कनककलशाकारपृथुतरपयोधरभरावनमिततनुमध्या दिवसकरकरस्पर्शविबोधिताम्लानकमलपलाशभासुराधरकिसलया विविधविभूषणशता निरामयदर्शनाः शिरसि विरचितोभयकमलाञ्जलयो मौत्रकन्यस्य बोधिसत्त्वय पादयोर्विन्यसितशिरसः प्राहुः-



सुस्वागतं चन्द्रसमाननाय

नारीजनप्रीतिविवर्धनाय।

कृपामृताह्लादितमानसाय

बोधौ चिराबद्धविनिश्चयाय॥८४॥



अद्यैव दुःखानि शमं गतानि

अद्यैव नो जीवितमात्तसारम्।

निरत्ययप्रेमविशेषभद्रा-

ण्यद्यैव सौख्यानि पुरः स्थितानि॥८५॥



इमानि दुःखाङ्कुशखण्डितानि

मनांसि नः शोकपरिक्षतानि।

भवन्तमासाद्य वसन्तकाले

वनान्तराणीव विजृम्भितानि॥८६॥



यान्यर्जितान्यन्यभवान्तरेषु

कर्माणि शुक्लानि शुभोदयानि।

तेषां फलं वीक्षणमेव तेऽलं

सङ्गस्त्वया किं पुनरेव दीर्ध्यम् (र्घ?)॥८७॥



अद्यैव मा बन्धुसुहृद्वियोग-

शोकंकथाः कस्य न सन्त्यपायाः।

दास्यो वयं तेऽप्सरसश्चतस्रः

छाया न ते लङ्घयितुं समर्थाः॥ ८८॥



रत्नानि वासांसि समुज्ज्वलानि

शय्याश्रयाश्चारुतरा वयं च।

संत्यक्तभर्ताः सुरराजयोग्या

शक्तिर्विर्धेनेह(?) सुखं भजस्व॥८९॥



अपि च।

दुःखे महत्यप्रतिकारघोरे

ये वर्तमानाश्चिरमुद्वहन्ति।

ते दुःखभारोपनिपातमूढा-

स्तत्रैव शीघ्रं निधनं प्रयान्ति॥ ९०॥



नित्ये वियोगे मरणात् पुरःस्थिते

शोचन्ति ते देशकृते वियोगे।

संस्मृत्य रोगोपनिपातमूढाः

कामप्रहाराद्विषमं प्रपन्नाः॥९१॥



शब्दायमानवरनूपुरमेखलाभि-

रादिश्यमानभव्नं प्रवराप्सरोभिः।

हैमद्रिशृङ्गमिव तत्पुरमाविशन्तं

नेमुः कृताञ्जलिपुटा बहवोऽपि तत्र॥९२॥



अन्यैश्च पुनः-

किं दीप्तरश्मिर्विनिगूढरश्मिः

किं पुष्पकेतु सहसावतीर्णः।

हा किं विनिक्षिप्य खराग्रवज्रो

नाथः सुराणामिति तर्कितोऽभूत्॥९३॥



तिमिरनिवरलेख्याः श्यामलोपक्ष्मलेख्याः (?)

स्फुटितकनकहारा न्यस्तरत्नोज्वलाङ्गाः।

विपुलभवनमालाजालवातायनस्थाः

प्रमुदितमनसोऽन्याश्चिक्षिपुः स्रस्तकाञ्च्यः॥९४॥



रत्नप्रदीपप्रहतान्धकारं

मुक्ताफलप्ररुचिरोरुहर्म्यम्।

चलत्पताकाग्रविभिन्नमेघं

गेहं विवेशाप्सरसां हि तासाम्॥९५॥



तासां विलासैर्गमनैः सलीलै-

र्हासैः कटाक्षैर्मधुरैः प्रलापैः।

क्रीडन् स कालं न विवेदं यातं

सर्वात्मना रागपरीतचेताः॥९६॥



प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म। सोऽपि यथा यथा निवार्यते, तथा तथा तया दिशा गमनायौत्सुक्यमना बभूव।

यत्रायं वार्यते लोको जनेन हितबुद्धिना।

विपर्यस्तमतिस्तत्र जनः स परिधावति॥९७॥



यदि कुर्यादयं लोके सुहृदां वचनं हितम्।

परैति स्वर्गं पाताले श्वभ्रे वा स्वप्नतोऽपि न॥९८॥



अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसामपरिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीमारुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श। तस्मादपि नगरादष्टाप्सरसः। ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयामासुः। तत्राप्यतिचिरं रतिमनुभूय प्रतिषिद्धमानगमनक्रियस्तेनैव दक्षिणेन पथा गच्छन्नन्दनं नाम नगरं ददर्श। तस्मादपि षोडशाप्सरोभिरभिगम्य सत्कृत्य प्रवेशयामासे। तत्रापि चिरं क्रीडां सेवित्वा तस्मादपि ब्रह्मोत्तरं नाम नगरं प्रययौ। तत्रापि द्वात्रिंशताप्सरोभिः प्रभूतसत्कारं विषयसुखं भुक्त्वा ताः प्राह-



इच्छामि गन्तुं तदहं भवन्त्यो

मा मत्कृते शोकह्रदे शयीध्वम्।

संपातभद्राणि हि कस्य नाम

विश्लेषदुःखानि न सन्ति लोके॥९९॥



स्थित्वापि येनैव चिरं वियोगः

शत्रोः कृतान्ताद्भवितान्तकाले।

तेनैव नेत्राश्रुजलार्द्रगण्डान्

युष्मान् विहायाद्य यियासुरस्मि॥१००॥



वाताहताम्भोधितरंगलोले

ये जीवलोके बहुदुःखभीमे।

विश्लेषदुःखाय रतिं प्रयान्ति

तेषां परो नास्ति विमूढचेताः॥१०१॥



अथाप्सरसस्ताः समस्तास्तद्गमनवियोगशोकरोपितहृदयाः ससंभ्रमाः कमलकुवलयकुङ्भलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः-



अस्मासु ते कर्तुमनिष्टमिष्टं

कथं हि भक्तिप्रणयार्पितासु।

सोऽन्येन एकग्रहणीयरूपः

शरीरदानेन वयोऽग्रहीत्ते॥१०२॥



गत्वा तन्नगरत्रयं यदपि हे स्वामिन्निहाप्यागतः

संप्राप्ता विषयोपभोगमधुराः संपत्तयस्ते चिरम्।

गन्तव्यं न पुनस्त्वया सुबहुना प्रोक्तेन किं यासि चेत्

संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः॥१०३॥



बोधिसत्त्वः प्राह-

यदभ्यासवशान्नृणामुदयः संपदस्थिरा।

कथं तेषु निवार्येरन्निवर्तेरन् कथं नु वा॥१०४॥



नियोजनीयाः सुहृऽदोसुहृद्भिः

यस्मिन् हिते कर्मणि नित्यकालम्।

निवारणं तत्र तु ये प्रकुर्वते

ते शत्रवो मित्रतया भवन्ति॥१०५॥



दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा

आयातोऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम्।

संप्राप्तोऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं

तस्मादागतकस्य यूयमधुना प्रोन्मूलिता भूमयः॥१०६॥



तस्मादतो मे गमनं भवन्त्यो

मा वारयध्वं न हि नोऽस्त्यपायः।

अस्माद्विशेषाणि सुखानि मन्ये

लप्स्येऽहमित्युच्चलितेऽहमद्य॥१०७॥ इति।



अथ मैत्रकन्यको बोधिसत्त्वस्तासामप्सरसां हितमपि वाक्यमहितमिवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गलप्रघटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्यभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितमन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवमायसं नगरम्। तस्य च द्वादशेमुपचक्राम्।



संप्राप्तमात्रस्य तु तत्क्षणेन

द्वारं च पुस्फोट कपाटभारम्।

वज्राग्रधारोपरिभिन्नसानो-

र्विन्ध्याचलस्येव नितम्बकुक्षिः॥१०८॥



ततो मैत्रकन्यको बोधिसत्त्वोऽत्र विवेश।

प्रविष्टमात्रस्य तु तत्क्षणेन

द्वारं परिक्षिप्तकपाटयन्त्रम्।

तत्कर्मवायुप्रभवैर्महद्भिः

क्षणाद्भुजाग्रैरिव संजघाट॥१०९॥



अश्रौषीच्च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनमुच्चरन्तम्। श्रुत्वा च द्वारदेशं त्वरितमतिर्ललङ्घ।



प्रविष्टमात्रस्य ततो द्वितीय-

मास्फालितं द्वारमिवापरुद्धम्।

पर्यन्तकालानिलवेगविद्धं

द्वारं सुराणामिव वज्रकल्पम्॥११०॥



ततो मैत्रकन्यको बोधिसत्त्वः प्रविवेश।

प्रविष्टमात्रस्य पुनस्तृतीयं

द्वारं परिक्षिप्तकपाटयन्त्रम्।

क्षाणादभूत्तन्नागरं च सर्वं

भ्रान्तं च कृत्स्नं स ददर्श भीतः॥१११॥



ततो मैत्रकन्यको बोधिसत्त्वः पश्यति स्म तमतिदारुणाकारप्रमाणं क्रूराज्वलनमालालिङ्गितमुदारेण पटुपवनविकीर्यमाणधूमपटलान्धकारदुर्दिनेन स्फुरत्स्फुलिङ्गावलिकरालदर्शनेनायसेन महता भ्रमता चक्रेण दार्विव प्रविदार्यमाणमूर्धानं स्वशिरःप्रविगलितशोणितवसारसाहारमात्रविधृतप्राणशेषम्। समीपं चोपगम्यैनं पर्यपृच्छत्-



किं नागोऽसो सुरोऽसि किन्नरवरो यक्षोऽसि किं मानुषः

किं विद्याधरसैनिकः किमसि वा दैत्यः पिशाचोऽसि वा।

किं वाकारि भवान्तरेषु भवता कर्मातिरौद्रं स्वयं

यास्यामि व्यसनं दुरुत्तरमिदं भुज्यं फलं क्रन्दयत्॥११२॥



पुरुषः प्राह-

नाहं नागो नैव यक्षो न देवो

दैत्यो नाहं नापि गन्धर्वराजः।

रक्षो नाहं नापि विद्याधरोऽपि

जातिस्तुल्या संप्रतीहि त्वया नः॥११३॥



बोधिसत्त्वः प्राह-

किं कर्म भ्रमता त्वया कुमतिना संसारदुर्गे कृतं

येनेदं ज्वलितानलं शिरसि ते चक्रं भ्रमत्यायसम्।



पुरुषः प्राह-

नानादुष्करकारिका भगवती संसारसंदर्शिका

तत्र श्रेयःसुखोपपादनपरा मत्स्नेहबद्धाशया॥११४॥



यां लोके प्रवदन्ति साधुमतयः क्षेत्रं परं प्राणिनां

दैवावेशवशादकार्यगुरुकस्तस्या जनन्या महत्।

साधो प्रास्खलयं शिरःप्रहरणं पादेन पापाशयः

तेनेदं ज्वलितानलं शिरसि मे चक्रं भ्रमत्यायसम्॥११५॥



अथ बोधिसत्त्वस्तस्य पुरुषस्य प्रवचनप्रतोदेन संचोदितहृदयस्तां परजुगुप्सामात्मन्यनुपश्यन्नाह-



अन्यं जुगुप्साम्यहमल्पबुद्धि-

रात्मानमेवाद्य निनिन्द अज्ञः।

येषु स्वयं दोषगुणेषु मग्नः

तैरेव लोकं कथमङ्कयामि॥११६॥



मयापि यन्मातरि दक्षिणीयैः (णायां?)

कृतोऽपराधः पुरुषाधमेन।

तस्यैव पापस्य फलानि भोक्तु-

मुल्लङ्घ्य तोयावलिमागतोऽस्मि॥११७॥ इति।



अथ तस्य वचनानन्तरमेव प्रभिन्ननवकुवलयदलनिर्मलान्नभस्तलात् सजलजलदनिनाद गम्भीरधीरो ध्वनिरुच्चचार-

किं न पश्यति कर्माणि बलवन्ति शरीरिणाम्।

लोकालोकान्तरस्थायी पाशेनेव विकृष्यते॥११८॥



ये बद्धा विषयेण दुःखनिगडेनायासकर्मोत्कटे

ये त्यक्त्वा गुरुवाक्यमन्धमतयः पापाश्रयं कुर्वते।

मुक्ताः कर्मभिरेव दुःखनिगडप्रच्छेदशूरैः शुभैः

मानुष्यं यदवाप्य मूढमतयो दूरे स्थिता जर्मिणः (जन्मिनः ?)॥११९॥



अथ तस्य वचनानन्तरमेव कर्मानिलावेगोत्क्षिप्तमिव तच्चक्रं चिटिचिटायमानदहनकणचयोद्गाररौद्रं तस्य मूर्ध्नः समभ्युगम्य मैत्रकन्यकस्य बोधिसत्त्वस्य शिरः प्रविदारयद् भ्रमितुमारब्धम्॥



क्षणात्स रेजे रुधिरप्रवाहै-

र्मूर्ध्ना च्युतैः स्नातसमस्तमूर्तिः।

प्रभिन्नचक्राग्रविभिन्नमूर्ध्ना

ऐरावणस्येव तनुः पतन्ती॥१२०॥



ततः स पुरुषो हा हेति मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाक्रम्यमाणशरीरकं मैत्रकन्यकं बोधिसत्त्वमाह-



दिव्याङ्गनागीतमनोहराणि

चित्तप्रमोदोदयसाधनानि।

संत्यज्य कर्माद पराणि तानि

प्राप्रस्त्विदं स्थानमनन्तदुःखम्॥१२१॥



देवालयं दिव्यसुखोपभोगं

को नाम संप्राप्य शुभैरतुल्यैः

नित्यं ज्वलद्वह्निशिखाकरेण

संप्रार्थयेद्भीममपायगर्तम्॥१२२॥



बोधिसत्त्वः प्राह-

मत्तालिकोलाहलसंकुलानि

वनानि पुष्पोज्ज्वलमस्तकानि।

संत्यज्य नागा व्यसनं सहन्ते

यया तयेच्छालतया गतोऽहम्॥१२३॥



राज्यानि विस्तीर्णधनोज्ज्वलानि

विहाय नारीमुखपङ्कजानि।

युद्धे म्रियन्ते बहवो नरेन्द्रा

यया तयेच्छालतया गतोऽहम्॥१२४॥



समुत्पतत्तुङ्गतरंगरोद्रै

भ्रमज्जलावर्तचिमुक्तनादे।

महोदधौ यान्ति नराः प्रणाशं

यया तयेच्छालतया गतोऽहम्॥१२५॥



निरत्ययात्यन्तिकसौख्यसाधनं

नरामरश्रीसुखसिद्धिमार्गम्।

मुनीश्चराणां व्रतमुत्सृजन्ति

यया तयेच्छालतया गतोऽहम्॥१२६॥



तेषां मुनीनां विगतव्यथानां

देयं कथं पादरजेन मूर्ध्नि।

यैर्लङ्घितास्तीव्रविषप्रचण्डा

आशाप्रपाता बहुदुःखभीमाः॥१२७॥



किं तद्भवेद्दुःखमतीव तीव्रं

का वा विपत्तिर्बहुदुःखयोनिः।

तृष्णाविषाग्निक्षतचित्तवृत्ते-

र्या दूरतः संपरिचर्तिनी स्यात्॥१२८॥



अपि चहे साधो,

कर्मणा परिकृष्टोऽस्मि वर्तमानोऽपि दूरतः।

कर्षति प्राणिनस्तत्र फलं यत्र प्रयच्छति॥१२९॥



अपि च-

कति वर्षसहस्राणि कति वर्षशतानि च।

प्रदीप्तमायसं चक्रं मम मूर्ध्नि भ्रमिष्यति॥१३०॥



पुरुषः प्राह-

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च।

प्रदीप्तमायसं चक्रं तव मूर्ध्नि भ्रमिष्यति॥१३१॥



बोधिसत्त्वः प्राह-

एतद्भासुरवह्निपिङ्गलशिखाज्वालाकलापोज्ज्वलं

कोऽन्योऽवभ्रमितं प्रयास्यति समं छित्त्वा परश्चैष्यति।



पुरुषः प्राह-

यो मातर्यपकारकर्तुमनसः कृत्वा अस्मायास्यति

तस्येदं शिरसि भ्रमिष्यति पुनर्मूर्ध्ना तव प्रच्युतम्॥१३२॥



अथ बोधिसत्त्वस्तेन मूर्ध्ना प्रविदाहजेन तीव्रेण दुःखेन समाकुलहृदयोऽपि सत्त्वेष्वनन्तेषु समुत्पादिततीव्रकारुण्याशयस्तं पुरुषमाबभाषे-



क्षपितसकलरागक्लेशजालान्धकारा

गगनतलनिलीना योगिनो ये नमस्याः।

स्फुरितकटकहाराः प्रज्वलन्मौलयो ये

पुनरमरसमूहास्तेऽपि शृण्वन्तु सन्तः॥१३३॥



कृत्वा दुश्चरितं स्वमातरि जगत्कृत्स्नं यदि प्रोद्वहे-

देतत्प्रज्वलिताग्निरागकपिलं चक्रं बृहन्मूर्धनि।

कल्पं कल्पसमैरहोभिरयुतान् वोढुं चिरायोत्सहे

सत्त्वार्थं प्रतिपद्यमानमस्य हि मे चित्तं न संखिद्यते॥१३४॥



अथ स सर्वसत्त्वप्रियस्य मैत्रकन्यकस्य बोधिसत्त्वस्य वचनानन्तरमेव मूर्ध्ना समुत्पाट्योत्क्षित्पमिव तच्चक्रं सप्ततालोच्छ्रयाच्चक्रं नभस्तलं समुत्पत्यावतस्थे।



रेजे तच्चपलानिलाहतचलज्ज्वालाकलापोज्ज्वलं

चक्रं खे परिवर्तमानमसकृत्प्रोन्मुक्तभीमस्वनम्।

उद्यद्बिम्बमिवारुणस्य सकलप्रोन्मुक्तरश्म्युत्करं

रत्नाद्यैः प्रविलम्बमानममलैर्वैडूर्यभित्त्याश्रयैः॥१३५॥



ततः स्रवन्निर्झरवारिचारिण

समीरणोल्लासितपुष्पशाखिनः।

नभो विचुम्ब्यायतशृङ्गबाहव-

श्चकम्पिरे भूमिभृतो हता इव॥१३६॥



भुजंगविक्षोभसमुद्गतोऽर्मयः

पयोधरध्वानगभीरनादिनः।

जलालया रत्नशिखानिवासिन-

स्तदातिवेलासलिलैर्ललङ्घिरे॥१३७॥



प्रमुक्तनिःशेषमयूखभासुरं

रराज खे मण्डलमंशुमालिनः।

रवेर्मयूखाङ्कुरदन्तुरान्तरा-

द्दिशः समन्ताद्ददृशुः स्फुटश्रियः॥१३८॥



स्फुरत्तडिद्दामविराजितोरसः

सुरेन्द्रचापप्रतिबद्धकङ्कणाः।

पयोमुचः किंचिदवास्रुताम्भसो

वितानवद्व्योमनि ते विरेजिरे॥१३९॥



स्रजो विचित्रा विनिपेतुरम्बरात्

वितुष्टुवुर्हृष्टतरा दिवौकसः।

चिरप्रगाढव्यसना हतार्तयः

क्षणादभूवन् बहवो निरामयाः॥१४०॥



ज्वलति विषमचक्रे प्रान्तदीर्णोर्ध्वकायः

गलितरुधिरधारासिक्तसर्वाङ्गकायः।

भगवति गुणराशौ संप्रसाद्य स्वचित्तं

स्वगृहमिव स साधुर्द्यामयात्तत्क्षणेन॥१४१॥



दानोदकमहत्तीर्थे शीलशौचसुनिर्मले।

क्षमात्सुरभिशीताच्छे वीर्यागाधप्रवाहके॥१४२॥



ध्यानस्तिमितगम्भीरे प्रज्ञापद्मप्रबोधके।

तस्मिन् बोधिमहातीर्थे स्थित्वा बोधिपुरोत्सुकः॥१४३॥



प्रक्षालयेच्छेषपापं तुषितेऽसौ ययौ मुदा।

तत्रस्थोऽप्यचिरं रेमे दृष्ट्वा लोकं कृपान्वितः॥१४४॥



तत्किमिदमुपनीतम् ? एवं हि मातर्यपकारिणः प्राणिनः इहैव व्यसनप्रपातपातालावलम्बिनो भवन्तीति सततसमुपजायमानप्रेमप्रसादबहुमानमानसैः सत्पुरुषैर्मातरः शुश्रूषणीया इति॥



इति श्रीदिव्यावदाने मैत्रकन्यकावदानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project