Digital Sanskrit Buddhist Canon

३७ रुद्रायणावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

37 rudrāyaṇāvadānam

३७ रुद्रायणावदानम्।



बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे। द्वे महानगरे पाटलिपुत्रं रोरुकं च। यदा पाटलिपुत्रं संवर्तते, तदा रोरुकं विवर्तते। रोरुके महानगरे रुद्रायणो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। सदापुष्पफलवृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। तस्य चन्द्रप्रभा नाम देवी, शिखण्डी पुत्रः कुमारः, हिरुर्भिरुस्तस्याग्रामात्यौ। राजगृहे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। तस्य वैदेही महादेवी, अजातशत्रुः पुत्रः कुमारः, वर्षकारो ब्राह्मणो मगधमहामात्योऽग्रामात्यः। सदापुष्पफलवृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। राजगृहाद्वणिजः पण्यमादाय रोरुकमनुप्राप्ताः। अथ राजा रुद्रायणोऽमात्यगणपरिवृतोऽमात्यानामन्त्रयते-भवन्तः, अस्ति कस्यचिदन्यस्यापि राज्ञ एवंविधा जनपदा ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्च आकीर्णबहुजनमनुष्याश्च ? सदा पुष्पफलवृक्षाः ? देव कालेन कालं सम्यग्वारिधारामनुप्रयच्छति ? अतीव शस्यसंपत्तिर्भवति ? ते वणिजः कथयन्ति-अस्ति देव पूर्वदेशे राजगृहं नगरम्। तत्र राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। तस्यापि सदापुष्पफलवृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। तस्य सहस्रवणादेव तस्यान्तिकेऽनुनय उत्पन्नः। सोऽमात्यानामन्त्रयते-किं भवन्तस्तस्य राज्ञो दुर्लभम् ? ते कथयन्ति-देवो रत्नाधिपतिः, स राजा वस्त्राधिपतिः। तस्य रत्नानि दुर्लभानि। तेन तस्य रत्नानां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तः- प्रियवयस्य, त्वं ममादृष्टसखा। यदि तव किंचिद रोरुके नगरे करणीयं भवति, मम लेखो दातव्यः। सर्वं तत् परिप्रापयिष्यामि। ते तं प्राभृतमादाय येन राजगृहं तेन प्रक्रान्ताः। अनुपूर्वेण राजगृहमनुप्राप्ताः। तैः सा रत्नपेटा राज्ञो बिम्बिसारस्योपनामिता लेखश्च। राजा बिम्बिसारो लेखं वाचयित्वा अमात्यानामन्त्रयते-किं भवन्तस्तद्राज्ञो दुर्लभम् ? अमात्याः कथयन्ति-देवो वस्त्राधिपतिः स राजा रत्नाधिपतिः। तस्य वस्त्राणि दुर्लभानि। तेन तस्य मह्रार्हणां वस्त्राणां पेटां पूरयित्वा प्राभृतमनुप्रेषितं लेखश्च दत्तः-प्रियवयस्य, त्वं ममादृष्टसखा। यत्किंचित्तव राजगृहे प्रयोजनं भवति, मम लेखो दातव्यः। तत्सर्वं परिप्रापयिष्यामि। ते तं प्राभृतमादाय येन रोरुकं तेन प्रक्रान्ताः। अनुपूर्वेण रोरुकमनुप्राप्ताः। तैः सा वस्त्रपेटा राज्ञो रुद्रायणस्योपनामिता लेखश्च। स दूतः प्रत्यागतः। अथापरेण समयेन राजा रुद्रायणोऽमात्यगणपरिवृतः। सोऽमात्यानामन्त्रयते-भवन्तः कीदृशस्तस्य राज्ञो आनाहपरिणाहः ? ते कथयन्ति- यादृश एव देवस्य, अपि तु स राजा स्वयं प्रहर्ता। प्रातिसीमैः कीदृशं राजभिः सार्धं संग्रामयति ? रुद्रायणस्य राज्ञो मणिवर्म पञ्चाङ्गेपेतोशीतं उष्णसंस्पर्शमुष्णे शीतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकं च। तेन तस्य तं प्राभृतमनुप्रेषितं लेखश्च दत्तः-प्रियवयस्य, इदं मया च तव मणिवर्म प्राभृतमनुप्रेषितं पञ्चाङ्गोपेतं शीते उष्णसंस्पर्शमुष्णे शीतसंस्पर्शं दुश्छेदं दुर्भेदं विषघ्नमवभासात्मकम्। न त्वयैतत्कस्यचिद्दातव्यम्। स दूतस्तन्मणिवर्म आदाय लेखं च, येन राजगृहं तेन प्रक्रान्तः। अनुपूर्वेण राजगृहमनुप्राप्तः। तेन तन्मणिवर्म राज्ञो बिम्बिसारस्योपनीतं लेखश्च। राजा बिम्बिसारस्तं दृष्ट्वा विस्मयमापन्नः। तेन रत्नपरीक्षका आहूताः -मूल्यमस्य कुरुत। ते कथयन्ति-देव, एकैकरत्नमनर्घोऽयम्। धर्मता खलु यस्य न शक्यते मूल्यं कर्तुम्, तस्यैकैकस्य कोटिमूल्यं क्रियते। राजा बिम्बिसारो व्यथितः कथयति-किं मया तस्य प्राभृतमनुप्रेषितव्यं भविष्यति ? स संलक्षयति-अयं बुद्धो भगवान्। स राज्ञः सर्वदस्यानुत्तरज्ञानज्ञो वशिप्राप्तः। गच्छामि, बुद्धं भगवन्तं पृच्छामि। स तमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। राजा बिम्बिसारो भगवन्तमिदमवोचत्-रोरुके भदन्त नगरे राजा रुद्रायणो नाम प्रतिवसति ममादृष्टसखा। तेन मम पज़्न्चाङ्गोपेतमणिवर्म प्राभृतमनुप्रेषितम्। अहं तस्य किं प्राभृतमनुप्रषेयामि ? भगवानाह-तथागतप्रतिमां पटे लिखापयित्वा प्राभृतमनुप्रेषय। तेन चित्रकरा आहूयोक्ताः-तथागतप्रतिमां पटे चित्रयथ। दुरासदा बुद्धा भगवन्तः। ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्। ते कथयन्ति-यदि देवो भगवन्तमन्तर्गृहे भोजयेत्, एवं स्वयं संज्ञापय भगवतो निमित्तमुद्ग्रहीतुम्। राज्ञा बिम्बिसारेण भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः। असेचनकदर्शना बुद्धा भगवन्तः। ते यमेवावयवं भगवतः पश्यन्ति, तमेव पश्यन्तो न तृप्तिं गच्छन्ति। ते न शक्नुवन्ति भगवतो निमित्तमुद्ग्रहीतुम्। भगवानाह-महाराज, खेदमापत्स्यन्ते, न शक्यते तथागतस्य निमित्तमुद्ग्रहीतुम्। अपि तु पटकमानय। तेन पटक आनीतः। तत्र भगवता छाया उत्सृष्टा, उक्ताश्च-रङ्गैः पूरयत। तस्याधस्ताच्छरणगमनशिक्षापदानि लिखितव्यानि। अनुलोमप्रतिलोमद्वादशाङ्गः प्रतीत्यसमुत्पादो लिखितव्यः। गाथाद्वयं च लिखितव्यम्-



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥



अस्मिन् यो धर्मविनये ह्यप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥



यदि कथयति-किमिदम् ? वक्तव्यम्-इयमभ्युपपत्तिरियं शिक्षा इयं लोकसंवृतिरियमत्युत्साहता। तैर्यथासंदिष्टं सर्वमभिलिखितम्। भगवता राजा बिम्बिसार उक्तः-महाराज, रुद्रायणस्य लेखमनुप्रयच्छ-प्रियवयस्य, इदं ते मया त्रैलोक्यप्रतिविशिष्टं प्राभृतमनुप्रेषितम्। अस्य त्वया अर्धतृतीयानि योजनानि मार्गशोभा कर्तव्या। स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्। विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां सत्कारं कृत्वोद्धाटयितव्यम्। ततस्ते महतः पुण्यस्यावाप्तिर्भविष्यतीति। राज्ञा बिम्बिसारेण यथासंदिष्टं लेखो लिखित्वा संप्रेषितः। राज्ञो रुद्रायणस्य लेख उपनामितः। तेन वाचितः। तस्यामर्ष उत्पन्नः। सोऽमात्यानां कथयति- भवन्तः कीदृशं मम तेन प्राभृतमनुप्रेषितं यस्य मयैवंविधः सत्कारः कर्तव्यो भविष्यति ? संनाहयत चतुरङ्गबलकायम्। राष्ट्रापमर्दनमस्य करिष्यामः। अमात्याः कथयन्ति-देव, महात्मासौ राजा श्रूयते। न शक्यं तेन यद्वा तद्वा प्रतिप्राभृतमनुप्रेषयितुम्। आनुपूर्वी तावत्क्रियताम्। यदि देवस्य न चित्तपरितोषो भविष्यति, तत्र कालज्ञा भविष्यामः। एवं क्रियताम्। तेनार्धतृतीयानि योजनानि मार्गशोभा कृता। स्वयमेव चतुरङ्गबलकायेन प्रत्युद्गम्य प्रवेशितः। विस्तीर्णावकाशे प्रदेशे स्थापयित्वा महतीं पूजां कृत्वोद्धाटिता। मध्यदेशाद्वणिजः पण्यमादाय तत्रानुप्राप्ताः। तैर्बुद्धप्रतिमां दृष्ट्वा एकरवेण नादो मुक्तः-नमो बुद्धायेति। तस्य बुद्ध इत्यश्रुतपूर्वं घोषं श्रुत्वा सर्वरोमकूपाण्याहृष्टानि। स कथयति-क एष भवन्तो बुद्धो नाम ? ते कथयन्ति-देव, शक्यानां कुमार उत्पन्नोऽस्ति हिमवत्पार्श्वे नद्या भागीरथ्यास्तीरे कपिलस्य ऋषेराश्रमपदस्य नातिदूरे। स ब्राह्मणनैर्नैमित्तिकैर्विपश्चिकैर्व्याकृतः। सचेद्गृही अगारमध्यावसिष्यति, राजा भविष्यति चक्रवर्ती चतुरङ्गैर्विजेता धार्मिको धर्मराजः सप्तरत्नसमन्वागतः। तस्येमान्येवंरूपाणि सप्तरत्नानि भवन्ति, तद्यथा-चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमामेव समुद्रपर्यन्तां महापृथ्वीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण शमेनाभिनिर्जित्य अध्यावसिष्यति। सचेत् केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यति, तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके। स एष बुद्धो नाम। तस्यैषा प्रतिमा। इदं किम् ? अभ्युपपत्तिः। इदं किम् ? शिक्षापदम्। इदं किम्? लोकस्य प्रवृत्तिनिवृत्ती। इदं किम् ? अत्युत्साहना। तेन प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः सुगृहीतः कृतः॥



अथ रुद्रायणो राजा सामात्यः प्रत्यूषसमये सर्वार्थान् सर्वकर्मान्तान् प्रतिप्रस्रभ्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य। स इममेव द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयति, यदुत अस्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते यदुत अविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवति तेनेमं द्वादशाङ्गं प्रतीत्यसमुत्पादमनुलोमप्रतिलोमं व्यवलोकयता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो गाथां भाषते-



भूरत्नेन हि बुद्धेन प्रज्ञाचक्षुर्बिशोधितम्।

नमस्तस्मै सुवैद्याय चिकित्सा यस्य हीदृशी॥३॥



तेन राज्ञो बिम्बिसारस्य संदिष्टम्-प्रियवयस्य, त्वामागम्य मयोद्धृतो नरकतिर्यक्‌प्रेतेभ्यः पादः, प्रतिष्ठापितो देवमनुष्येषु। उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। भिक्षुदर्शनमाकाङ्क्षामि। तदर्हसि भिक्षुं प्रेषयितुम्। अथ स राजा बिम्बिसारो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ श्रिसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो भगवन्तमिदमवोचद्-रुद्रायणेण भदन्त राज्ञा सत्यानि दृष्टानि। तेन मम संदिष्टम्-भिक्षुदर्शनमाकाङ्क्षामीति। भगवान् संलक्षयति-कतमस्य भिक्षो रुद्रायणो राजा सपरिवारो विनेयो रौरुकनिवासी च जनकायः ? कात्यायनस्य भिक्षुः। तत्र भगवानायुष्मन्तं महाकात्यायनमामन्त्रयते-समन्वाहर कात्यायन रौरुके नगरे रूद्रायणं राजानं सपरिवारं रौरुकनिवासिनं च जनकायम्। अधिवासयत्यायुष्मान् महाकात्यायनः। भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः। अथायुष्मान् महाकात्यायनस्तस्या एव रात्र्या अत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्राण्तः परिभुक्तं शयनं प्रतिशाम्य समादाय पात्रचीवरं पञ्चशतपरिवारो येन रौरुकं तेन चारिकां प्रक्रान्तः। राज्ञा बिम्बिसारेण रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितः। प्रियवयस्य, एष ते भिक्षुर्मया शास्तृकल्पो महाश्रावकोऽनुप्रेषितः। अस्य त्वयार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च। स्वयमेव चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यः। पञ्च विहारशतानि कर्तव्यानि। पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दातव्यानि। पञ्च पिण्डशतानि प्रज्ञापयितव्यानि। अतस्ते महतः पुण्यस्यावाप्तिर्भविष्यति। तेनार्धतृतीयानि योजनानि मार्गशोभा कृता, नगरशोभा कृता, पञ्च विहारशतानि, येन एकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महता सत्कारेण रोरुकं नगरं प्रवेशितः। बहिर्नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि, विस्तीर्णावकाशे च पृथिवीप्रदेशे आसनप्रज्ञप्तिः कारिता। आयुष्मान् महाकात्यायनः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अनेकानि प्राणिशतसहस्राणि संनिपतितानि। कानिचित्कुतूहलजातानि, कानिचित्पूर्वकैः कुशलमुलैः संचोद्यमानानि। तत आयुष्मता महाकात्यायनेन तस्याः परिषद आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महाविशेषोऽधिगतः। कैश्चिच्छ्रोतापत्तिफलम्, कैश्चिदनागामिफलम्, कैश्चित्प्रव्रज्य सर्वक्लेश्स्प्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित्प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ। यद्भूयसा सा परिषद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥



रौरुके नगरे तिष्यः पुष्यश्च गृहपती वसतः। तौ येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तौ। उपसंक्रम्य आयुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ। तिष्यपुष्यौ गृहपती आयुष्मन्तं महाकात्यायनमिदमवोचताम्-लभेवहि आर्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेव आर्यमहाकात्यायन भवतोऽन्तिके ब्रह्मचर्यमिति। तावायुष्मता कात्यायनेन प्रव्रजितावुपसंपादितौ, अववादो दत्तः। ताभ्यां युज्यमानाभ्यां व्यायच्छमानाभ्यां घटमानाभ्यामिदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतशः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणदर्हत्त्वं साक्षात्कृतम्। अर्हन्तौ संवृतौ त्रैधातुकवीतरागौ समलोष्टकाञ्चनावाकाशपाणिसमचित्तौ वासीचन्दनकल्पौ विद्याविदारिताण्डकोशौ विद्याभिज्ञाप्रतिसंवित्प्राप्तौ भवलाभलोभसत्कारपराङ्मुखौ। सेन्द्रोपेन्द्राणां देवानां पूज्यौ मान्यावभिवाद्यौ च संवृत्तौ। तौ ज्वलनपतनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ। तयोर्ज्ञातृभिः शरीरपूजां कृत्वा द्वौ स्तूपौ कारितौ-एकस्तिष्यस्य, द्वितीयः पुण्यस्य॥



रुद्रायणो राजा दिने दिने आयुष्मतो महाकात्यायनस्यान्तिकाद् धर्मं श्रुत्वा अन्तः-पुरस्यारोचयति-आर्यो महाकात्यायनो मधुरमधुरं धर्मं देशयति क्षौद्रमिव मधुरं प्रप्रीणयतीति। ताः कथयन्ति- देवस्य सफलो बुद्धोत्पादः। कथम् ? येन त्वं धर्मं शृणोषि। यद्येवम्, यूयं कस्मान्न शृणुथ ? देव, ह्रीमन्त्यः। कथं वयं तत्र गत्वा धर्मं शृणुमः ? यद्यार्यो महाकात्यायन इहैवागत्य धर्मं देशयेत्, एवं वयमपि शृणुयाम इति। रुद्रायणेन राज्ञा आयुष्मान् महाकात्यायन उक्तः-मम आर्य सान्तःपुरमिच्छति श्रोतुम्। स कथयति-महाराज, न भिक्षवोऽन्तःपुरं प्रविश्य धर्मं देशयन्ति। प्रतिक्षिप्तो भगवता अन्तः पुरप्रवेशः। आर्य, अत्र कोऽन्तःपुरस्य धर्मं देशयति? महाराज, भिक्षुण्यः। रुद्रायणराज्ञा बिम्बिसारस्य राज्ञो लेखोऽनुप्रेषितः-प्रियवयस्य, अन्तःपुरमिच्छति धर्मं श्रोतुम्। तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुम्। बिम्बिसारो राजा तं लेखं वाचयित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णो राजा बिम्बिसारो भगवन्तमिदमवोचत्-रुद्रायणेन भगवन् राज्ञा लेखोऽनुप्रेषितः-अन्तःपुरमिच्छति धर्मं श्रोतुम्। तदर्हसि कांचिद्भिक्षुणीं प्रेषयितुमिति। तदत्र कथं प्रतिपत्तव्यमिति ? भगवान् संलक्षयति-कतरस्या भिक्षुण्या रुद्रायणस्य राज्ञो अन्तःपुरपरिजनो विनेयो रौरुकनिवासी च स्त्रीजन इति ? पश्यति शैलाया भिक्षुण्याः। तत्र भगवाञ्छैलां भिक्षुणीमामन्त्रयते-समन्वाहर शैले रौरुके नगरे रुद्रायणस्य राज्ञोऽन्तःपुरजनं रौरुकनिवासिनं स्त्रीजनमिति। एवं भदन्तेति शैला भिक्षुणी भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्ता। अथ शैला भिक्षुणी तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्या पश्चाद्भक्तपिण्डपातप्रतिक्रान्ता यथापरिभुक्तं शयनासनं प्रतिसमय्य समादाय पात्रचीवरं पञ्चशतपरिवारा येन रौरुकं नगरं तेन चारिकां प्रक्रान्ता। बिम्बिसारेण च राज्ञा रुद्रायणस्य राज्ञो लेखोऽनुप्रेषितः-प्रियवयस्य, एषा ते मया महाश्राविका शास्त्रानुगता पञ्चशतपरिवारा प्रेषिता। अस्यां त्वयार्थतृतीयानि योजनानि मार्गशोभा कर्तव्या नगरशोभा च। स्वयमेव च चतुरङ्गेन बलकायेन प्रत्युद्गन्तव्यम्। अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारयितव्यानि , पञ्च मञ्चपीठशतानि, वृषिकोच्चबिम्बोपधानचतुरस्रकशतानि दातव्यानि, पञ्च पिण्डपातशतानि प्रज्ञापयितव्यानि। अतस्ते पुण्यस्यावाप्तिर्भविष्यतीति। रुद्रायणेन राज्ञा लेखं वाचयित्वा प्रामोद्यजातेनार्धतृतीयानि योजनानि मार्गशोभा कारिता। अनेकजनसहस्रपरिवारेण च स्वयमेव प्रत्युद्गम्य महताः सत्कारेण रौरुकं नगरं प्रवेशिता। अभ्यन्तरे च नगरस्य पञ्च विहारशतानि कारितानि, पञ्च मञ्चपीठवृषिकोषबिम्बोपधानचतुरस्रकशतानि दापितानि, पञ्च पिण्डपातशतानि प्रज्ञप्तानि। शैला भिक्षुणी रुद्रायणस्य राज्ञोऽन्तःपुरं प्रविश्य दिने दिनै धर्मं देशयति। रुद्रायणो राजा वीणायां कृतावी, चन्द्रप्रभा देवी नृत्ये। यावदपरेण समयेन रुद्रायणो राजा वीणां वादयति, चन्द्रप्रभा देवी नृत्यति। तेन तस्या नृत्यन्त्या विनाशलक्षणं दृष्टम्। स तामितश्चामुतश्च निरीक्ष्य संलक्षयति-सप्ताहस्यात्ययात्कालं करिष्यति। तस्य हस्ताद्वीणा स्रस्ता, भूमौ निपतिता। चन्द्रप्रभा देवी कथयति-देव, मा मय दुर्नृत्यम् ? देवि, न त्वया दुर्नृत्यम्। अपि तु मया तव नृत्यन्त्या विनाशलक्षणं दृष्टम्-सप्तमे दिवसे तव कालक्रिया भवतीति। चन्द्रप्रभा देवी पादयोर्निपत्य कथयति-देव यद्येवम्, कृतोपस्थानाहं देवस्य। यदि देवोऽनुजानीयात्, अहं प्रव्रजेयमिति। स कथयति-चन्द्रप्रभे, समयतोऽनुजानामि। यदि तावत्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करोषि, एष एव ते दुःखान्तः। अथ सावशेषसंयोजना कालं कृत्वा देवेषूपपद्यसे, देवभूतया ते ममोपदर्शयितव्यमिति। सा कथयति-देव, एव भवित्विति। सा रुद्रायणेन राज्ञा शैलाया भिक्षुण्याः समर्पिता-आर्यचन्द्रप्रभा देवी आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुणीभावम्। तदर्हसि तां प्रव्राजयितुमुपसंपादयितुमिति। शैला भिक्षुणी कथयति-एवं भवतु,प्रव्राजयामीति। तयासौ प्रव्राजिता उपसंपादिता च। समन्वाहृत्य चाववादो दत्तः- मरणसंज्ञां भावयेति। चन्द्रप्रभा देवी मरणसंज्ञां भावयितुमारब्धा। सा सप्तमे दिवसे कालगता चातुर्महाराजिकेषु देवेषूपपन्ना। धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य, त्रीणि चित्तान्युत्पद्यन्ते-कुतश्च्युतः. कुत्रोपपन्नः केन कर्मणेति। चन्द्रप्रभा देवकन्या संलक्षयति-कुतोऽहं च्युता ? मनुष्येभ्यः। कुत्रोपपन्ना ? चातुर्मह्याराजिकेषु देवेषु। केन कर्मणा ? भगवतः शासने ब्रह्मचर्यं चरित्वेति। तस्या एतदभवत्- तदप्रतिरूपं स्याद्यदहं पर्युषितपरिवासा भगवन्तं दर्शनायोपसंक्रमितुम्। यन्न्वहमपर्युषितपरिवासैव भगवन्तं दर्शनायोपसंक्रामेयमिति। अथ चन्द्रप्रभा देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री तामेव रात्रीं दिव्यानामुत्पलकुमुदपुण्डरीकमान्दारवाणामुत्सङ्गं पूरयित्वा सर्वं वेणुवनं कलन्दककनिवापमुदारेणावभासेनावभास्य भगवन्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा चन्द्रप्रभया देवकन्यया विंशतिशिखरसमुद्गतंसत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या त्रिरुदानमुदानयति-इदमस्माकं भदन्त न मात्रा कृतं न राज्ञा न देवताभिर्नेष्टैर्न स्वजनबन्धुवर्गैर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिता देवमनुष्येषु। आह च-



तवानुभावात्पिहितः सुघोरो

ह्यपायमार्गो बहुदुःखयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या

निर्वाणमार्गश्च मयोपलब्धः॥४॥



त्वदाश्रयादाप्तमपेतदोषं

ममाद्य शुद्धं सुविशुद्धचक्षुः।

प्राप्तं च शान्तं पदमार्यकान्तं

तीर्णश्च दुःखार्णवपारमस्मि॥५॥



जगति दैत्यनरामरपूजित

विगतजन्मजरामरणामय।

भवसहस्रदुर्लभदर्शन

सहलमद्य मुने तव दर्शनम्॥६॥



अवनम्य ततः प्रलम्बहारा

चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य प्रदक्षिणं जितारिं

सुरलोकाभिमुखी दिवं जगाम॥७॥



अथ चन्द्रप्रभा देवकन्या वणिगिव लब्धलाभः, सस्यसंपन्न इव कर्षकः, शूर इव विजितसंग्रामः, सर्वरोगपरिमुक्त इवातुरः, यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वर्भवनं संप्रस्थिता। तस्या एवतदभवत्-मया रुद्रायणस्य राज्ञः प्रतिज्ञातमुपदर्शयिष्यामीति। अथ चन्द्रप्रभा देवकन्या येन राजा रुद्रायणस्तेनोपसंक्रान्ता। तेन खलु समयेन रुद्रायणो राजा एकाकी गृहस्योपरितलके शयितः। स तया उदारावभासं कृत्वा अच्छटाशब्देन प्रतिबोधितः। स मिद्धावस्थलोचनापरिस्फुटोऽविज्ञातः कथयति-का त्वमिति ? सा कथयति-अहं चन्द्रप्रभेति। राजा कथयति-आगच्छ, परिचारयाम इति। सा कथयति-देव, च्युताहं कालगता चातुर्महाराजिकेषु देवेषूपपन्ना। यदीच्छसि मया सार्धं समागमम्, भगवतोऽन्तिके प्रव्रज। यदि तावद्दृष्टधर्मा सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यसे, स एव तेऽन्तो दुःखस्य। अथ सावशेषसंयोजनः, कालं कृत्वा चातुर्महाराजिकेषु देवेषूपपत्स्यसे। तत्र ते मया सार्धं समागमो भविष्यति। इत्युक्त्वा तत्रैवान्तर्हिता। रुद्रायणो राजा कृत्स्नां रात्रिं प्रव्रज्यामनुविचिन्तयन् काल्यमेवोत्थाय अमात्यानामन्त्रयते-पश्यत भवन्तः, चन्द्रप्रभा देवी क्क तिष्ठतीति ? ते कथयन्ति-देव, कालगतेति। रुद्रायणः संलक्षयति-न मम प्रतिरूपं स्याद्यदहं देवताचोदितोऽहं गृही अगारमध्यावसेयम्। संनिधानी कालपरिभोगेन वा कामान् परिभुञ्जीयम्। यन्न्वहं शिखण्डिनं कुमारं राज़्येऽभिषिच्य केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयमिति। तेन हिरुभिरुकावग्रामात्यौ दूतेनाहूयोक्तौ- भवन्तौ, यादृश एव मम शिखण्डी कुमारः पुत्रः, तादृश एव युवयोः। स युवाभ्यामहितान्निवारयितव्यो हिते च संनियोजयितव्यः। अहं प्रव्रजामि स्वाख्याते धर्मविनये इति। एतौ साश्रुकण्ठौ व्यवस्थितौ। शिखण्ड्यति कुमारोऽभिहितः-पुत्र, यथैव त्वं मम वचनं श्रोतव्यं कर्तव्यं मन्यसे, तथा अनयोरपि हिरुभिरुकयोरग्रामात्ययोर्वचनं श्रोतव्यं कर्तव्यं मन्येथाः। अहं प्रव्रजामि स्वाख्याते धर्मविनये। इति श्रुत्वा सोऽपि साश्रुकण्ठो व्यवस्थितः। ततो रुद्रायणेन राज्ञा रौरुके नगरे घण्टावघोषण ं कारितम्-शृण्वन्तु भवन्तो रौरुकनिवासिनः पौराः नानादेशाभ्यागतश्च जनकायः। अहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिष्यामि। भूयशः-पुत्रमाह-पुत्र, त्वया राज्यं कारयता कस्यचिदपराध्यं न क्षन्तव्यमिति। अनुरक्तपौरजनपदोऽसौ राजा। श्रुत्वा सर्व एव रौरुकनिवासी जनकायोऽन्यश्च नानादेशाभ्यागतः साश्रुकण्ठो व्यवस्थितः। ततो रुद्रायणो राजा शिखण्डिनं कुमारं राज्ये प्रतिष्ठाप्य वन्धुजनं क्षमापयित्वा श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा पुण्याणि कृत्वा एकेन पुरुषेणोपसस्थायकेन राजगृहाभिमुखः (संप्रस्थितः)। ततः शिखण्डी राजा सान्तः-पुरामात्यपौरजनपदोऽन्यश्च नानादेशाभ्यागतो जनकायः पृष्ठतः पृष्ठतः समनुबद्धः। सोऽनेकैः प्राणिशतसहस्रैरनुगम्यमानो रौरुकान्नगरान्निष्क्रम्य अन्यतमस्मिन्नुद्याने विविधतरुषण्डमण्डिते नानापुष्पसलिलसंपन्ने हंसक्रोञ्चमयूयशुकसारिकाकोकिलजीवंजीवकनिर्घोषिते मुहूर्तमास्थाय रौरुकं नगरमवलोक्य शिखण्डिनं राजानमामन्त्रयते-पुत्र, मया धर्मेण राज्यं कारितम्, येन मे इयन्ति प्राणिशतसहश्राणि पृष्ठतोऽनुबद्धानि। तत्त्वयापि धर्मेण राज्यं कारयितव्यमिति। सोऽपि जनकायः समाश्वास्योक्तः-भवन्तः, एष युष्माकं राजा समनुयुक्तो मया। निवर्तत, सुखं प्रतिवत्स्यथ, इत्युक्त्वा संप्रस्थितः। राजा शिखण्डी साण्तःपुरकुमारामात्यपौरजनपदोऽश्रुपर्याकुलेक्षणो मुहुर्मुहुर्निवर्त्य निरीक्षमाणो रौरुकं नगरं प्रतिनिवृत्तः। ततो रुद्रायणो राजा अनुपूर्वेण राजगृहं नगरमनुप्राप्तः। तेनोद्याने स्थित्वा स पुरुष उक्तः-गच्छ भोः पुरुष, राज्ञो बिम्बिसारस्य गत्वा निवेदय-रुद्रायणो नाम उद्याने तिष्ठतीति। तेन पुरुषेण गत्वा राज्ञो बिम्बिसारस्य निवेदितम्-देव, रुद्रायणो राजा उद्याने तिष्ठतीति, स राजा श्रुत्वा सहस्रैवोथितः पौरुषानामन्त्रयते- भवन्तः महासाधनो राजा अप्रतिसंविदित एवागतः। न युष्माकं केनचिद्विज्ञात इति ? स कथयति-देव, कुतोऽस्य साधनम् ? आत्मना द्वितीय आगत इति। राजा बिम्बिसारः संलक्षयति-न मम प्रतिरूपं स्याद्यदहं राजानं क्षत्रियं मूर्ध्नाभिषिक्तमेवमेव प्रवेशयेयम्। महता सत्कारेण प्रवेशयामीति विदित्वा मार्गशोभां नगरशोभां च कारयित्वा चतुरङ्गेन बलकायेन प्रत्युद्गतः। कण्ठे परिष्वज्य हस्तिस्कन्धे आरोप्य राजगृहं महानगरं प्रवेशितः। नानागन्धपरिभावितेनोदकेन स्नापितः। राजार्हैर्वस्त्रर्गन्धमाल्यविलेपनैश्च समलंकृत्य भोजितः। मार्गश्रमे प्रतिविनोदिते उक्तः-प्रियवयस्य, स्फीतं राज्यमपास्य अन्तःपुरं कुमारानामात्यान् पौरजनपदान् किमिहागमनप्रयोजनम् ? मा केनचिद्भूम्यन्तरेण राज्ञा राष्ट्रावमर्दनः कृतः ? कुमारेण वा केनचिद्दुष्टामात्यविग्राहितेन राज्याभिनन्दिना पराक्रान्तमिति ? स कथयति-वयस्य, आकाङ्क्षामि स्वाख्याते धर्मविनये पर्व्रज्यामुपसंपदं भिक्षुभावम्। इति श्रुत्वा राजा बिम्बिसार आत्तमनाः प्रव्रकायमभ्युन्नमय्य दक्षिणबाहुमभिप्रसार्योदानमुदानयति-अहो बुद्धः, अहो धर्मः, अहो संघः अहो धर्मस्य स्वाख्यातता, यत्रेदानीमेवंविधाः पुरुषाः स्फीतं राज्यमपहाय स्फीतमन्तःपुरं विस्तीर्णस्वजनबन्धुवर्गं स्फीतानि च कोशकोष्ठागाराण्यपहाय आकाङ्क्षन्ते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। इत्युक्त्वा राजानं रुद्रायणं समादाय येन भगवांस्तेनोपसंक्रान्तः। तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति। अद्राक्षीद्भगवान् राजानं मागधं श्रेण्यं बिम्बिसारं दूरादेव। दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म-एष भिक्षवो राजा बिम्बिसारः सप्राभृत आगच्छति। नास्ति तथागतस्यैवंविधः प्राभृतो यथा विनेयप्राभृतः। इत्युक्त्वा तूष्णीमवस्थितः। राजा बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णो राजा बिम्बिसारो भगवन्तमिदमवोचत्-अयं भदन्त राजा रुद्रायण आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। तं भगवान् प्रव्राजयतु, उपसंपादयतु अनुकम्पामुपादायेति। स भगवता एहिभिक्षुकया आभाषितः-एहि भिक्षो, चर ब्रह्मचर्यमिति। स भगवतो वाचावसाने एव मुण्डः संवृत्तः संघाटीप्रावृतः पात्रकरव्यग्रहस्तो वर्षशतोपसंपन्नश्य भिक्षोरीर्यापथेनावस्थितः॥



एहीति चोक्तः स तथागतेन

मुण्डश्च संघाटिपरिवृतदेहः।

सद्यः प्रशान्तेन्द्रिय एव तस्थौ

एवं स्थितो बुद्धो मनोरथेन॥८॥



आयुष्मान् रुद्रायणः पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। स महाजनकायेन दृष्टह्। एष च शब्दो राजगृहे नगरे समन्ततो विसृतः-रुद्रायणो राजा भगवता प्रव्राजितः, स राजगृहं भिक्षार्थी प्रविष्टः। इति श्रुत्वा अनेकानि प्राणिशतसहस्राणि संनिपतितानि। अन्तर्भवनविचारिण्योऽपि योषितो वातायनगवाक्षवेदिकास्ववस्थिता निरीक्षितुमारब्धाः। अमात्यै राज्ञो बिम्बिसारस्य निवेदितम्-देव, रुद्रायणो राजा राजगृहं पिण्डाय प्रविष्टोऽनेकैः प्राणीशतसहस्रैः परिवृतस्तिष्ठतीति। श्रुत्वा च पुना राजा बिम्बिसारो येन रुद्रायणो भिक्षुस्तेनोपसंक्रान्तः। उपसंक्रम्य रुद्रायणं भिक्षुमिदमवोचत्-



भुक्त्वा ग्रामसहस्राणि रौरुकं च नराधिप।

उत्सृष्टं पिण्डमेषाणः कच्चिन्न परितप्यसे॥९॥



भुक्त्वा शतपले पात्रे सौवर्णे राजतेऽथ वा।

भुञ्जानो मृन्मये पात्रे कच्चिन्न परितप्यसे॥१०॥



शालीनामोदनं भुक्त्वा शुचि मांसोपसेवितम्।

भुञ्जानः शुष्ककुल्माषान् कच्चिन्न परितप्यसे॥११॥



हित्वा कौशेयकर्पासान् क्षौमं कौटुम्बकाशिकान्।

धारयन् पांशुकूलानि कच्चिन्न परितप्यसे॥१२॥



कूटागारे शयित्वा त्वं निर्वाते स्पर्शितागते।

आसीनो वृक्षमूलेषु कच्चिन्न परितप्यसे॥१३॥



पर्यङ्केऽवशयित्वा त्वं मृदुके तूलसंनिभे।

तृणसंस्तरे शयानः कच्चिन्नः परितप्यसे॥१४॥



भार्यां सदृशिकां हृद्यामाश्रवां वै प्रियंवदाम्।

रुदन्तीं विप्रहाय त्वं कच्चिन्न परितप्यसे॥१५॥



यानैस्त्वं हस्तिग्रीवाभिरश्वैरपि रथैरपि।

पद्भ्यां परिभ्रमन् भूमौ कच्चिन्न परितप्यसे॥१६॥



कोष्ठागाराणि कोशं च बहुवित्तं प्रहाय वै।

आकिंचन्यमनुप्राप्तः कच्चिन्नः परितप्यसे॥१७॥ इति।



रुद्रायणः प्राह-

अनृद्धिर्दमयत्येनं सचेद्भवति दुर्दमः।

परभोजनभुञ्जानः कथं दमयते युगम्॥१८॥ इति।



राजा बिम्बिसारः प्राह-

किं नु त्वं दुर्मना राजन् किं दीन इव भाषसे।

ददभ्युपार्धराज्यं ते भुङ्क्ष्व भोगपरायण॥१९॥



किंनु त्वं दुर्मना राजन् किं दीन इव भाषसे।

ददामि प्रवरान् भोगान् यान् कांश्चिन्मनसेच्छसि॥२०॥ इति।



रुद्रायणः प्राह-

न राजन् कृपणो लोके धर्मकायेन संस्पृशेत्।

देव त्रिपथनिराशी (?) ध्रुवं तस्य विधीयते॥२१॥



यस्तु धर्मविरागार्थमधर्मे निरतो नृपः।

स राजन् कृपणो ज्ञेयस्तमस्तमःपरायणः॥२२॥



शृणु मे त्वं महाराज धर्मतां देशयाम्यहम्।

श्रुत्वा धर्मं ततो ज्ञेयो यदि त्वं प्रीतिमेष्यसि॥२३॥



निर्गुणस्य शरीरस्य एक एव महागुणः।

यथा यथा विधार्यं ते तत्तथैवानुवर्तते॥ २४॥



दशेमे वर्षदशाः पुरुषस्यासु निरुच्यते।

क्रीडा तत्र रतिः का वा पुत्रपरधनेषु वा॥२५॥



पुत्राद्वेषिणीयामाहुर्भार्यया कृतिरुच्यते।

शौरा धनं प्रार्थयन्ते राजन् मुक्तोऽस्मि बन्धनात्॥२६॥



न भैषज्यानि त्रायन्ते न धनं ज्ञातयो न च।

न सर्वविद्या न बलं न शौर्यं त्रायतेऽन्तकात्॥२७॥



देवापि सन्तीह महानुभावाः

स्थानेष्विहोच्चेषु चिरायुषोऽपि।

आयुःक्षयान्तेऽपि ततश्च्यवन्ते

मुच्येत को नेह शरीरभेदात्॥२८॥



राज्यानि कृत्वापि महानुभावा

वृष्ण्यन्धकाः कुरवश्च पाण्डवाश्च।

संपन्नचित्तां यशसा ज्वलन्तः

ते न शक्ता मरणं नोपगन्तुम्॥२९॥



न संयमेन तपसा न राजन्

न कर्मणा वीर्यपराक्रमेण वा।

न वित्तपूगैर्न धनैरुदारैः

शक्यं कदाचिन्मरणाद्विमोक्तुम्॥३०॥



नैवान्तरीक्षे न समुद्रमध्ये

न पर्वतानां विवरं प्रविश्य।

न विद्यते स पृथिवीप्रदेशो

यत्र स्थितं न प्रसहेत मृत्युः॥३१॥



नैवान्तरीक्षे न समुद्रमध्ये

न पर्वतानां विवरं प्रविश्य।

न विद्यते स पृथिवीप्रदेशो

यत्र स्थितं न प्रसहेत कर्म॥३२॥



यानीमान्यपविद्धानि विक्षिप्तानि दिशो दश।

कपोतवर्णान्यस्थीनि तानि दृष्ट्वेह का रतिः॥३३॥



इमानि यान्युपस्थानानि अलाबुरिव सेरभे।

शङ्खवर्णानि शीर्षाणि तानि दृष्ट्वेह का रतिः॥३४॥



यमातपे छादयसे शीते यमुपगूहसे।

एवं ते प्रियमात्मानं राजन् मृत्युर्हनिष्यति॥३५॥



यावन्मृत्योर्वशं भुङ्क्ते परिधत्ते ददाति वा।

तद्धि तस्य स्वकं ज्ञेयमन्यन्नित्यं विगच्छति॥३६॥



असाधारणमन्येषामशौराहरणं निधिम्।

मर्त्यो निदह्याद्दानेन अन्येन सुकृतेन वा॥३७॥



पुरा हि त्वां व्याघ्र इव मृगं निहत्य

व्याधिर्जरा कर्षति अन्तकश्च।

न ते मित्राण्यपनेष्यन्ति रोगं

संगम्य सोदर्यगणाश्च सर्वे॥३८॥



यदेव लब्धाधिकमस्य भवति

धनं धान्यं रजतं जातरूपम्।

दायाद्यमेवानुविचिन्तयन्ति

पुत्राः सदारा अनुजीविनश्च॥३९॥



सचेदृणं भवति पितुर्मृतस्य

प्रियाः सुता नास्य वह्निं विशन्ति

मृत्यौ न वाप्यश्रुमुखा रुदन्ति

राहुः पिता मम कार्यतेति (?)॥४०॥



आयान्तु सत्त्वाः पिता ममेति

प्रकीर्णकेशाश्रुमुखा रुदन्ति।

ज्योतिश्चास्य पुरतो हरन्ति

ह्यहो बतायममरो भवेदिति॥ ४१॥



दूष्यैरेनं प्रावृतं निर्हरन्ति

ज्योतिः समादाय ( च तं) दहन्ति।

स दह्यते ज्ञातिभी रुद्यमान

एकेन वस्रेण विहाय भोगम्॥४२॥



एको ह्ययं जायते जायमान-

स्तथा म्रियते म्रियमाणोऽयमेकः।

एको दुःखाननुभवतीह जन्तु-

र्न विद्यते संसरतः सहायः॥४३॥



एतच्च दृष्ट्वेह परिव्रजन्ति

कुलायकास्ते न भवन्ति सन्तः।

ते सर्वसंगानभिसंप्रहाय

न गर्भशय्यां पुनरावसन्ति॥४४॥ इति।



अथ बिम्बिसारो राजा रुद्रायणेन भिक्षुणा उत्तरोत्तरेण प्रतिभानेन निराकृतस्तूष्णीं निष्प्रतिभः प्रक्रान्तः॥



अथ शिखण्डी राजा यावत्कंचिद्धर्मेण आज्यं कारयित्वा अधर्मेण राज्यं कारयितुमारब्धः। स हिरुभिरुकाभ्यामुक्तः-देव, धर्मेण राज्यं कारय, मा अधर्मेण। तत्कस्य हेतोः ? पुष्पफलवृक्षसदृशा देव जनपदाः। तद्यथा देव पुष्पवृक्षाः फलवृक्षाश्च कालेन कालं सम्यक्परिपाल्यमाना अनुपरतप्रयोगेण यथाकालं पुष्पाणि फलानि चानुप्रयच्छन्ति, एवमेव जनपदां प्रतिपाल्यमाना अनुपरतप्रयोगेण यथाकालं करप्रत्यायाननुप्रयच्छन्तीति। स ताभ्यां निवारितो यावत्तावद्धर्मेण राज्यं कारयित्वा पुनरप्यधर्मेण राज्यं कारयितुमारब्धः। स ताभ्यां यावत् त्रिरप्युक्तः। विसारिणी कृ (तृ ?) ष्णा। निवार्यमाणा नावतिष्ठते। रुषितोऽमात्यानामन्त्रयते - यो भवन्तो राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य यावत् त्रिरप्याज्ञां प्रतिवहति, तस्य कीदृशो दण्ड इति। तत्र केचिद्दुष्टामात्याः कथयन्ति-देव, किमत्र ज्ञातव्यम् ? तस्य वधो दण्ड इति। गाथे च भाषन्ते-



अमात्यस्य च दुष्टस्य दन्तस्य चलितस्य च।

भोजनस्य च (अजीर्णस्य ) नान्यत्रोद्धरणात्सुखम्॥४५॥



अमात्यं बुद्धिसंपत्तिप्रज्ञाविनयकोविदम्।

कोशस्थं च बलस्थं च यो न हन्यात्स घात्यते॥४६॥ इति।



शिखण्डी राजा कथयति-भवन्तः, ममैतौ पित्रा संन्यस्तौ। नाहमेतौ प्रघातयामि। किं त्वाभ्यां मम दर्शनपथे न स्थातव्यमिति। तयोर्द्वारं निवारितम्। अन्यौ द्वौ दुष्टामात्यौ स्थापितौ। तौ कथयतः-देव, नाक्रन्दिता नालुञ्चिता नातप्ता नोत्पीडितास्तिलास्तैलं प्रयच्छन्ति, तद्वन्नरपते जनपदा इति। राजा कथयति-यदेताभ्यां कृतम्, तत्परं प्रमाणमिति। तौ जनपदान् पीडयितुमारब्धौ। यावदन्यतमो वणिक् पण्यमादाय रौरुकान्नगराद् राजगृहमनुप्राप्तः। स आयुष्मता रुद्रायणेन दृष्टः।



कच्चिच्छिखण्डी खलु रौरुकेषु

सभृत्यवर्गो बलवानरोगः।

धर्मेण वा कारयति स्वराज्यं

न चास्य कश्चित्परतोपसर्गः॥४७॥ इति।



स कथयति-

तथ्यं शिखण्डी खलु रौरुकेषु

सभृत्यवर्गो बलवानरोगः।

न चास्य कश्चित्परतोपसर्गो

अधर्मेण तु राज्यं करोति नित्यम्॥ ४८॥



अथायुष्मान् रुद्रायणोऽनुपूर्व्या प्रष्टुमारब्धः-कस्तत्रामात्यप्रधानः ? कस्य शिखण्डी वशेन जनपदान् पीडयतीति ? स कथयति-देव, हिरुभिरुकयोरमात्ययोर्द्वारं निवार्य अन्यौ दुष्टामात्यौ स्थापितौ। तद्वशेन शिखण्डी जनपदान् पीडयतीति। रुद्रायणः कथयति-गच्छ त्वं भोः पुरुष, रौरुकनिवासिनं जनकायं समाश्वासय। अहमपि तत्र प्रचारिते गमिष्यामि। अहमेनं शिखण्डिनमहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामीति। स वणिक् पण्यं विसर्जयित्वा प्रतिपण्यमादाय संप्रस्थितोऽनुपूर्वेण रौरुकमनुप्राप्तः। तेन ज्ञातीनां रहसि निवेदितम्- भवन्तः, अहं पण्यमादाय राजगृहं गतः। तत्र मया वृद्धराजो दृष्टः। स कथयति-अहं प्रचारितं रौरुकं गमिष्यामि, शिखण्डिनं चाहितान्निवारयिष्यामि, हिते च संनियोजयिष्यामि यथा जनपदान्न पीडयतीति। तैरपरेषामारोचितम्, तैरप्यपरेषाम्। एवं कर्णपरंपरया स शब्दस्तयोर्दुष्टामात्ययोः कर्णं गतः। तौ संलक्षयतः- यदि वृद्धराजा आगमिष्यति, नियतमसौ भूयो हिरुभिरुकावग्रामात्यौ स्थापयिष्यति, आवयोश्वानर्थं कारयिष्यति। तदुपायसंविधानं च कर्तव्यं येनासावन्तमार्गं एव प्रघात्यत इति। ताभ्यां राज्ञः शिखण्डिन आरोचितम्-देव, श्रूयते वृद्धराजा आगच्छतीति। स कथयति-प्रव्रजितोऽसौ। किमर्थं तस्यागमनप्रयोजनमिति ? तौ कथयतः - देव, येनैकदिवसमपि राज्यं कारितम्, स विना राज्येनाभिरंस्यत इति कुत एतत्? पुनरप्यसौ राज्यं कारयितुकाम इति। शिखण्डी कथयति-यद्यसौ राजा भविष्यति, अहं स एव कुमारः। को नु विरोध इति ? तौ कथयतः-देव, अप्रतिरूपमेतत्। कथं नाम कुमारामात्यपौरजनपदौरञ्जलिसहस्रैर्नमस्यमानेन राज्यं कारयित्वा पुनरपि कुमारवासेन वस्तव्यम् ? वरं देशपरित्यागो न तु कुमारवासेन वासम्। तद्यथापि नाम पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्, अश्वपृष्ठेन गत्वा रथेन गच्छेत्, रथेन गत्वा पादाभ्यामेव गच्छेत्, एवमेव राज्यं कारयित्वा पुनः कुमारवासेन वास इति। स ताभ्यां विप्रलब्धः कथयति-किमत्र युक्तम् ? कथं प्रतिपत्तव्यमिति ? तौ कथयतः -देव, प्रघातयितव्योऽसौ। यदि न प्रघात्यते, नियतं दुष्टामात्यविग्राहितो देवं प्रघातयतीति। स एवमुक्ते हीनदीनवदनो मुहूर्तं तूष्णीं स्थित्वा बाष्पोपरुध्यमानहृदयः करुणदीनविपम्बितैरक्षरैः स कथयति-भवन्तौ, कथं पितरं प्रघातयामीति ? तौ कथयतः-न देवेन श्रुतम् ?



पिता वा यदि वा भ्राता पुत्रो वा स्वाङ्गनिःसृतः।

प्रत्यनीकेषु वर्तेत कर्तव्या भूमिवर्धना (?)॥४९॥ इति।



पुनरप्याह-

यस्य पुत्रसहस्रं स्यादेकानावाधिरूढकम्।

एकश्च तत्र शत्रुः स्यात्तदर्थे तान्निमज्जयेत्॥५०॥ इति।



अन्यत्राप्युक्तम् -

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥५१॥ इति।



देव , नात्र किंचित्तपनीयम्। वधार्होऽसौ प्रघातयितव्यः। यदि देवोऽत्र विलम्बते, यद्देवस्यानुरक्ताः कुमारामात्यपौरजनपदास्ते क्षोभमापन्ना नियतमनर्थं कुर्वन्तीति। कामान् खलु पर्तिसेवमानस्य नास्ति किंचित्पापं कर्माकरणीयमिति तेनाधिवासितम्-एवं क्रियतामिति। तौ दुष्टामात्यौ हृष्टतुष्टौ प्रमुदितौ वधकपुरुषानुत्साहयतः-भवन्तः, गच्छत, वृद्धराजं प्रघातयत। भोगैर्वः संविभागं करिष्याम इति। अनुरक्तपौरजानपदः स राजा। न कश्चिदुत्सहते प्रघातयितुम्। ताभ्यां ते हिरण्यसुवर्णग्रामप्रदानादिना प्रोत्साहिता न प्रतिपद्यन्ते। ततस्ताभ्यां क्रोधपर्यवस्थिताभ्यां चारपालानामाज्ञा दत्ता-गच्छन्तु, भवन्तः एतान् पुरुषान् सपुत्रदारान् ससुहृत्संबन्धिबान्धवांश्चारके बद्ध्वा स्थापयतेति। ते श्रुत्वा भीताः संप्रतिपन्नाः कथयन्ति-देव, अलं क्रोधेन। भृत्या वयमाज्ञाकराः। गच्छाम इति। ते तीक्ष्णानसीन् कक्षेणादाय संप्रस्थिताः। आयुष्मानपि रुद्रायणस्त्रयाणां मासानामत्ययात्कृतचीवरो निष्ठितचीवरःसमादाय पात्रचीवरं येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्-इच्छाम्यहं भदन्त रौरुकं नगरं जनपदचारिकां चरितुमिति। भगवानाह-गच्छ रुद्रायण, कर्मस्वकता ते मनसिकर्तव्येति। अथायुष्मान् रुद्रायणो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः। आयुष्मान् रुद्रायणस्तस्या एव रात्रेत्ययात् पूर्वाह्णे निवास्य पात्रचीवरमाआय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्यः पञ्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तो यथापरिभुक्तं शयनासनं प्रतिसामय्य समादाय पात्रचीवरं कर्मबलप्रेरितम्-



दूरं हि कर्षते कर्म दूरात्कर्म प्रकर्षते।

तत्र प्रकर्षते जन्तुं यत्र कर्म विपच्यते॥५२॥



इति येन रौरुकं तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन्नन्तर्मार्गेऽन्यतमं कर्वटकं पिण्डाय प्रविष्टः। स च तस्मात् पिण्डपातमटित्वा निष्क्रामति। ते च वधकपुरुषाः संप्राप्ताः। स तैर्दृष्टः। तेनापि ते प्रत्यभिज्ञाताः। सतैः पुरुषैः सार्धमेकस्मिनेवोद्याने रात्रिंदिवा समुपगतः। स तान् प्रष्टुमारब्धः -



कच्चिच्छिखण्डी खलु रौरुकेषु

सभृत्यवर्गो बलवानरोगः।

धर्मेण वा कारयति स्वकं राज्यं

न चास्य कच्चित्परतोपसर्गः॥५३॥ इति।



ते कथयति-देव,

तथ्यं शिखण्डी खलु रौरुकेषु

सभृत्यवर्गो बलवानरोगः।

न चास्य कश्चित्परतोपसर्गः

अधर्मराज्यं तु करोति नित्यम्॥५४॥



नरवर यत्तव सदृशं कृतं त्वया आर्यपराभवचिह्नकरम्।

तस्यापि तु यत्सदृशं तदद्य उपलप्स्यसे सौम्येति॥५५॥



आयुष्मान् रुद्रायणः कथयति-भवन्तः, किमसौ मम तत्र गमनं नाभिनन्दतीति ? ते कथयन्ति-देव, नाभिनन्दतीति। स कथयति-भवन्तः, यद्येवं न गच्छामि, प्रतिनिवर्तामीति। ते गाथां भाषन्ते-



क्क यास्यसि त्वं नरवीर भूयो

न ते सुतो नन्दति जीवितेन।

वयं ह्यधन्या नृपसंप्रयुक्ता

इहाभ्युपेतास्तव घातनाय॥५६॥ इति॥



आयुष्मान् रुद्रायणः कथयति-भवन्तः, यूयं नाम मम वधकपुरुषाः ? देव, वधकपुरुषाः। स संलक्षयति-यत्तदुक्तं भगवता कर्मस्वकता ते रुद्रायण मनसिकर्तव्येति, इदं तत्। सर्वथा धिक् संसारभङ्गुरमिति विदित्वा तेषां कथयति-भद्रमुखाः, अहमस्मि यदर्थं प्रवजितः, सोऽर्थो मया न संप्रातः। तिष्ठति तावन्मुहूर्तं यावत्स्वकार्यमनुरूपं गच्छामीति। ते परस्परं संजल्पं कृत्वा कथयन्ति-देव, एवं कुरु। अथायुष्मान् रुद्रायणोऽन्यतमं वृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डितं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेनावस्थितः। उक्तं भगवता-पञ्चानुशंसा बाहुश्रुत्ये -स्कन्धकुशलो भवति धातुकुशल आयतनकुशलः प्रतीत्यसमुत्पादकुशलः, अपरप्रतिबद्धा चास्य भवत्यववादानुशासनीति। तेन वीर्यमारभ्य इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः। सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। अथायुष्मान् रुद्रायणोऽर्हत्त्वप्राप्तो विमुक्तिप्रीतिसुखप्रतिसंवेदी तस्यां वेलायां गाथां भाषते-



मुक्तो ग्रन्थैश्च योगैश्च शल्यैर्नीवरणैस्तथा।

अद्याप्युद्रायणो भिक्षू राजधर्मैर्न मुच्यते॥५७॥ इति।



इत्युक्त्वा तान् वधकपुरुषानुवाच-भद्रमुखाः, यं मया प्राप्तव्यं तत्प्राप्तम्। इदानीं यदर्थं यूयमागतास्तदर्थं संप्रापयतेति। ते कथयन्ति-देव, यदि शिखण्डी राजा अस्मान् पृच्छति-किं वृद्धराजेन मरणसमये व्याकृतमिति, किमस्माभिर्वक्तव्यम् ? भद्रमुखाः, स वक्तव्यः-



बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात्।

अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसि॥५८॥ इति।



इदं चापरं वक्तव्यः-द्वे त्वया आनन्तर्ये कर्मणि कृते-यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवः। तेऽवीचौ महानरके वस्तव्यम्। अत्ययमत्ययतो देशय, अप्येतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति। पुनरायुष्मान् रुद्रायणः संलक्षयति- ऋद्ध्या गच्छामि। ममासौ सत्त्वो नरकपरायणो भविष्यतीति। यं यं ऋद्ध्युपायं प्रारभते, तस्य धर्मविनष्टत्वाद् ऋकारोऽपि न प्रतिभाति प्रागेव ऋद्धिः। ततस्तेषामेकेन पुरुषेण निर्घृणहृदयेन त्यक्तपरलोकेन कक्षादसिं निष्कृष्य उत्कृत्तमूलं शिरः कृत्वा पृथित्व्यां निपातितः॥



अथ भगवान् स्मितमकार्षीत्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते। तेषामेवं भवति-किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति -न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः। अपि त्वयमपूर्वदर्शनः सत्त्वः। अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तं नरकनिवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परिनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् ब्रह्मपार्षद्यान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्छुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। गाथाद्वयं च भाषन्ते-



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीतः मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥ ५९॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६०॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। तद्यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतोऽन्तर्धीयन्ते। अनागतं चेत् पुरस्तात्। नरकोपपत्तिं चेत् पादतले। तिर्यगुपपत्तिं चेत् पार्ष्ण्याम्। प्रेतोपपत्तिं चेत् पादाङ्गुष्ठे। मनुष्योपपत्तिं चेज्जानुनोः। बलचक्रवर्तिराज्यं चेद्वामे करतले। चक्रवर्तिराज्यं चेद्दक्षिणे करतले। देवोपपत्तिं चेन्नाभ्याम्। श्रावकबोधिं चेदास्ये। प्रत्येकां बोधिं चेदूर्णायाम्। यद्यनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषेऽन्तर्धीयन्ते। अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादतलेऽन्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-



नानाविधो रङ्गसहस्रचित्रो

वक्त्रान्तरान्निष्कसितः कलापः।

अवभाषिता येन दिशः समन्ता-

द्दिवाकरेणोदयता यथैव॥६१॥



गाथां च भाषते-

विगतोद्भवा दैन्यमदप्रहीणा

बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं

स्मितमुपदर्शयन्ति जिना जितारयः॥६२॥



तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥६३॥



नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयन्ति धीरा-

स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥ ६४॥ इति।



भगवानाह-एवमेतदानन्द, एवमेतद्। नाहेत्वप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। अपि त्वानन्द,



मुक्तो ग्रन्थैश्च योगैश्च शल्येर्नीवरणैस्तथा।

अथापि रुद्रायणो भिक्षुर्जीविताद् व्यपरोपितः॥६५॥



रुद्रायण आनन्द अर्हत्त्वं प्राप्तो जीविताद् व्यपरोपितः। श्रुत्वा आयुष्मानानन्दः साश्रुकण्ठो व्यवस्थितः। अथ ते अधकपुरुषा आयुष्मतो रुद्रायणस्य पात्रचीवरं खिक्खिरं चादाय रौरुकमनुप्राप्ताः। तैस्तयोर्दुष्टामात्ययोर्निवेदितम्-वृद्धराजः प्रघातित इति। तौ श्रुत्वा प्रीतिप्रामोद्यजातौ येन शिखण्डी राजा तेनोपसंक्रान्तौ। कथयतः-देव, दिष्ट्या वर्धसे। इदानीं देवस्याकण्टकं राज्यम्। कथं कृत्वा ? यो देवस्य शत्रुः, स प्रघातितः। को नाम शत्रुः ? देव, वृद्धराजः। कथं ज्ञायतेऽसौ प्रघातित इति ? ताभ्यां ते वधकपुरुषा दर्शिताः-देव, इमे ते बधकपुरुषा यैरसौ प्रघातितः। शिखण्डिना राज्ञा ते पृष्टाः-भवन्तः, कियद्वृद्धराजस्य बलम्। देव, कुतस्तस्य बलम् ? इदं पात्रचीवरं खिक्खिरं चेति। शिखण्डी राजा मूर्च्छितः पृथित्वां निपतितो जलपरिषेकप्रत्यागतप्राणः कथयति-भवन्तः, किं वृद्धराजेन मरणकाले व्याकृतम् ? देव, वृद्धाराजः प्राणवियोगः कथयति-



बह्वपुण्यं प्रसवसे राज्यहेतोः पितुर्वधात्।

अहं च परिनिर्वास्ये त्वं चावीचिं गमिष्यसि॥६६॥



इति। इदं चापरं वक्तव्यः-द्वे त्वय आनन्तर्ये कर्मणी कृते-यच्च पिता जीविताद् व्यपरोपितः, यच्चार्हन् भिक्षुः क्षीणाश्रवश्च। चिरं तेऽवीचौ महानरके वस्तव्यम्। अत्ययमत्ययतो देशय। अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादान गच्छेदिति। मनःशोकशल्येनाभ्याहतो हरितलून इव नडो म्लायितुमारब्धः। तेन हिरुभिरुकावग्रामात्यावाहूयोक्तौभवन्तौ, न युवाभ्यामहमीदृशकर्म कुर्वाणो निवारित इति ? तौ कथयतः-वयं देवेनादर्शनपथे व्यवस्थापिताः। कथं निवारयाम इति ? तेनै तौ दुष्टामात्यौ अदर्शनपथे व्यवस्थापितौ। भूयो हिरुभिरुकावग्रामात्यौ स्थापितौ। ताभ्यामपि दुष्टामात्याभ्यां प्रच्छन्नं तिष्यपुष्यस्तूपयोर्द्वे बिले कृत्वा द्वौ बिडालपोतकौ स्थापितौ। तयोर्दिने दिने मांसपेशीर्दत्त्वा शिक्षयतः-तिष्यपुष्यौ, येन सत्येन सत्यवचनेन युवाभ्यां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरयां बिडालयोनावुपपन्नौ, तेन सत्येन सत्यवचनेन मांसपेशीं कृत्वा स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति। तौ तदा सुशिक्षितौ संवृतौ, तदा ताभ्यां दुष्टामात्याभ्यां रुद्रायणस्य राज्ञो देवी उक्ता-देवि, पुत्रस्ते कृशालुको दुर्बलको म्लानोऽप्राप्तकायः।किमध्युपेक्षस इति ? सा कथयति-किमहं करोमीति ? युवाभ्यामेवासावीदृशकर्म कारित इति। तौ कथयतः-देवि, यत्र घटः पतितः, किं तत्र रज्ज्युरपि पातयितव्या ? सा कथयति-सत्यमेतत्पितुर्वधम्। तदहं तस्य प्रतिविनोदयामि। अर्हद्वधं कः प्रतिविनोदयिष्यतीति ? तौ कथयतः-देवि, वयमर्हद्वधं प्रतिविनोदयाम इति। सा कथयति-यद्येवम्, शोभनम्। सा तस्य सकाशं गत्वा कथयति-पुत्र, कस्मात्त्वमुत्पाण्डूत्पाडुः कृशालुको दुर्बलको म्लानोऽप्राप्तकाय इति ? स कथयति अम्ब, त्वमप्येवं कथयसि-कस्मात्त्वमुत्पाडूत्पाण्डुः कृशालुको दुर्बलो म्लानोऽप्राप्तकाय इति, कमथहं नोत्पाण्डूत्पाण्डुको भवामि कृशालुको दुर्बलको म्लानोऽप्राप्तकाय इति, येन मया दुष्टामात्यविग्राहितेन द्वे आनन्तर्ये कर्मणी कृते-यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन् भिक्षुः क्षीणाश्रवः ? चिरमवीचौ महानरके वस्तव्यमिति। सा कथयति-पुत्र, अभयं तावत्प्रयच्छ, यत्सर्यं तत्कथयामीति। स कथयति-दत्तं भवतु। सा कथयति-यथाभूतं पुत्र, नासौ तव पिता, किं तु मया ऋतुस्नातया अन्येन पुरुषेण सार्धं परिचरितम्, ततस्त्वं जात इति। स संलक्षयति-पितृवधस्तावन्न जातः। इति विदित्वा कथयति-अम्ब, यद्येवं पितृवधो नास्ति, अर्हद्वधोऽस्ति। स कथं निस्तार्य इति ? सा कथयति-पुत्र, ज्ञानकोविदाः प्रष्टव्याः। ते एतदेकान्तीकरिष्यन्तीति उक्त्वा प्रक्रान्ता। तया तौ दुष्टामात्यौ आहूयोक्तौ-मया अस्य पितृवधो विनोदितः। युवामिदानीमर्हद्वधं प्रतिविनोदयतामिति। शिखण्डीना राज्ञा अमात्यानामाज्ञा दत्ता, सर्वामात्यान् संनिपातयत ये च केचिज्ज्ञानकोविदा इति। तैः सर्वामात्याः संनिपातिताः, ये च केचिज्ज्ञानकोविदाः। तावपि दुष्टामात्यौ तत्रैव संनिपतितौ। सर्व एव राजोपजीवी लोकोऽनुकूलं वक्तुमारब्धः। तत्र केचित्कथयत्नि-देव, केनासौ दृष्टोऽर्हत्त्वं कुर्वाण इति , अपरे कथयन्ति-देव अर्हन्तः सर्वज्ञानकल्पा आकाशगामिन इति। तौ दुष्टामात्यौ कथयतः-देव, किमत्र शोकः क्रियते ? स कथयति-युवामप्येवं कथयथ-किमर्थं शोकः क्रियते इति, ननु युवाभ्यामेवाहमर्हद्वधं कारितः। देव, न सन्त्यर्हन्तः। कुतोऽर्हद्वधः ? स कथयति-मया प्रत्यक्षदृष्टौ तिष्यपुष्यौ अर्हन्तौ ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ निर्वातौ। युवामेवं कथयथ-न सन्त्यर्हन्तः, कुतोऽर्हद्वध इति ? तौ कथयतः-वयं देवस्य प्रत्यक्षीकुर्मो यथा मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिदालयोनावुपपन्नौ अद्यत्वेऽपि स्तूपे तिष्ठत इति। राजा अमात्यानामन्त्रयते-भवन्तः, यद्येवमागच्छत गच्छामः, पश्यामः किं भूतमभूतं वेति। एष च शब्दो रौरुके नगरे समन्ततो विसृतः। ततस्ते सर्वे जनपदनिवासिनो लोकास्तद्द्रष्टुं निष्क्रान्ताः। ततस्तौ दुष्टामात्यौ कथयतः-यथा तिष्यपुष्यौ येन सत्येन सत्यवचनेन युवां मायया लोकं वञ्चयित्वा श्रद्धादेयं विनिपात्य प्रत्यवरायां बिडालयोनावुपपन्नौ स्वकस्वके स्तूपे तिष्ठतः। अनेन सत्येन सत्ववचनेन इमां मांसपेशीमादाय स्वकस्वकं स्तूपं प्रदक्षिणीकृत्य स्वकस्वकं बिलं प्रविशतामिति। तावेवमुक्तौ स्वकस्वकात् स्तूपान्निर्गतौ। तावेवानेकैः प्राणिशतसहस्रैर्दृष्टौ। तौ मांसपेशीमादाय स्वकस्वकस्तूपं प्रदक्षिणीकृत्य स्वकस्वकबिलं प्रविष्टौ। तौ दुष्टामात्यौ कथयतः-दुष्टं देवेनेति ? स कथयति-दृष्टम्। देव, न सन्ति लोकेऽर्हन्तः। केवलं त्वयं जनप्रवाद इति। तस्य यासौ दृष्टिः-सन्ति लोकेऽर्हन्त इति, सा प्रतिविगता। तत्र येऽश्रद्धास्तेषामसद्दर्शनमुत्पन्नम्, ये मध्यस्थास्तेषां काङ्क्षां, ये श्रद्धास्तेषामद्भुतं संवृत्तम्। अनुभावोदग्रा अविशारदाः। शिखण्डी राजा संलक्षयति-यदि न सन्त्येव लोकेऽर्हन्तः, किमर्थमार्यकाश्यपस्य कात्यायनस्य पञ्चशतपरिवारस्य शैलाया भिक्षुण्याः पञ्चशतपरिवारायाः पिण्डकमनुप्रयच्छामीति ? तेन भिक्षुणां भिक्षुणीनां च पिण्डपातः समुच्छिन्नः। भिक्षवो भिक्षुण्यश्च रौरुकात्प्रक्रान्ताः। अथायुष्मान् महाकात्यायनः शैला न भिक्षुणी विनयापेक्षया तत्रैवावस्थितौ। यावदपरेण समयेन राजा शिखण्डी रौरुकान्नगरान्निर्गच्छति। आयुष्मांश्च महाकात्यायनो रौरुकं नगरं पिण्डाय प्रविशति। स राजानं दृष्ट्वैकान्तेऽपक्रम्यावस्थितः-मा अयमप्रसादं प्रवेदयिष्यतीति। स राज्ञा शोखण्डिना एकान्तेऽवस्थितो दृष्टः। दृष्ट्वा च पुनरामन्रयते -भवन्तः, किमर्थमयमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्रम्यावस्थित इति। तस्य पृष्ठतो हिरुभिरुकावग्रामात्यौं गच्छतः। तौ कथयतः-देव, आर्यो महाकात्यायनः संलक्षयति-देवः कृतकौतुकमङ्गलो गच्छति, मा अप्रसादं वेदयिष्यति, दुःखं चरद्गच्छति, कर्म क्रियते, पात्रचीवराणि पांशुना अवतरिष्यतीति। राजा तूष्णीमवस्थित इति। आयुष्मान् महाकात्यायनो रौरुकं नगरं पिण्डाय चरित्वा निर्गच्छति, राजा च शिखण्डी प्रविशति। आयुष्मान् महाकात्यायनस्तथैव एकान्तेऽपक्रम्यावस्थितः। शिखण्डी राजा कथयति- भवन्तः, पूर्वमप्ययमार्यो महाकात्यायनो मां दृष्ट्वा एकान्तेऽपक्त्रम्यावस्थितः, सांप्रतमपि। कोऽत्र हेतुरिति ? तस्य पृष्ठतस्तौ दुष्टामात्यौ गच्छतः। तौ कथयतः-देव, एष कथयति- मा अहमस्य पितृमारकस्य रजसा प्रव्रज्यामीति। अपरीक्षकोऽसौ। श्रुत्वा पर्यवस्थितः। स कथयति-भवन्तः, यस्याहं प्रियः, सोऽस्य मुण्डकस्य श्रमणकस्योपर्येकैकं पांशुमुष्टिं क्षिपत्विति। सर्वेण जनकायेनैकैका पांशुमुष्टिः क्षिप्ता। महासाधनोऽसौ राजा। एकैकया पांशुमुष्ट्या आयुष्मतो महाकात्यायनस्योपरि महान् पांशुराशिर्व्यवस्थितः सोऽपि ऋद्ध्या पर्णिकां कुटिमभिनिर्मायावस्थितः। स गोपालकैः पशुपालकैश्चावष्टभ्यमानो दृष्टः। ते बुद्ध्यायमानाः (?) परिवार्यावस्थिताः। हिरुभिरुकावग्रामात्यौ पृष्ठतोऽनुहिण्ड्य तं प्रदेशमनुप्राप्तौ। तौ पृच्छतः-भवन्तः, किमिदमिति ? ते कथयन्ति-तेन कलिराजेन पितृमारकेण आर्यो महाकात्यायनोऽदुष्यनयकारी पांशुना अवष्टब्ध इति। तौ साश्रुकण्ठौ रुदन्मुखौ गोपालकपशुपालकैः सार्धं पांशूनपनेतुमारब्धौ। आयुष्मान् महाकात्यायनो निर्गतः। तौ पादयोर्निपत्य पृच्छतः-आर्य, किमिदमिति ? स कथयति-किमन्यद्भविष्यतीति ? तौ कथयतः- आर्य, यदिदं शिखण्डिना महाकात्यायने जनकायसहायेन कर्म कृतम्। अस्य को भविष्यतीति। इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यते। आर्य, का आनुपूर्वी भविष्यतीति ? आयुष्मन्तौ, प्रथमे दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति। द्वितीये दिवसे पुष्पवर्षं पतिष्यति। तृतीये वस्त्र्वर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुर्णवर्षम्, पश्चाद्यै रौरुकसामन्तनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रेवक्ष्यन्ति। तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति। तौ कथयतः-आर्य, किमावामस्य कर्मणो भाविनौ भागिनौ ? भद्रमुखौ, न युवामस्य कर्मणो भागिणौ। आर्य, यद्येवं कथमस्माभिरस्मान्नगरान्निष्क्रमितव्यमिति ? स कथयति-युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत। यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति। तौ तस्य पादयोर्निपत्य रौरुकं प्रविष्टौ। राज्ञः सकाशं प्रविष्टौ कथयतः-किं देवेनार्यो महाकात्यायनः किंचिदुक्तः पांशुनावष्टब्धः ? स कथयति-भवन्तः, जीवत्यसौ ? देव, जीवति। किं कथयति-देव, एवं कथयति-इतः सप्तमे दिवसे रौरुकं नगरं पांशुना अवष्टप्स्यत इति। कानुपूर्वी ? कथयति-देव, स एवं कथयति, प्रथमे तावद्दिवसे महावायुरागत्य रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापयिष्यति, द्वितीये दिवसे पुष्पवर्षं पतिष्यति, तृतीये दिवसे वस्त्रवर्षम्, चतुर्थे हिरण्यवर्षम्, पञ्चमे सुवर्णवर्षम्, पश्चाद्यै रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतं ते रौरुकं नगरं प्रवेक्ष्यन्ति, तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतिष्यति, सप्तमे दिवसे पांशुवर्षमिति। तौ कथयतः- आर्य, किमावामप्यस्य कर्मणो भागिनौ ? भद्रमुखौ , न युवामस्य कर्मणो भागिनौ। आर्य, यद्येवं कथमस्मान्नगरान्निष्क्रमितव्यमिति ? स कथयति- युवां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे नावं स्थापयित्वा तिष्ठत। यदा रत्नवर्षं पतेत्, तदा रत्नानां नावं पूरयित्वा निष्पलायितव्यमिति। तौ दुष्टामात्यौ कथयतः-समुच्छिन्नपिण्डपातः पांशुवर्षेणावष्टब्धः स किमन्यद्वदतु ? ईदृशं वा वदते, देवतो वा पापनरमिति (?)। राजा शिखण्डी संलक्षयति-स्यादेवमिति। हिरुभिरु - कावग्रामात्यौ मुखं विभण्ड्य हस्तान् संपरिवर्त्य प्रक्रान्तौ। तत्र हिरुकस्य श्यामाको दारकः पुत्रः। भिरुकस्य श्यामावती नाम दारिका दुहिता। हिरुकेन श्यामाको दारक आयुष्मते महाकात्यायनाय दत्तः-आर्य, यद्यस्य कानिचित्कुशलमूलानि स्युः, प्रव्राजयेथाः। नो चेत् तवैवायमुपस्थायक इति। भिरुकेनापि श्यामावती दारिका शैलाया भिक्षुण्या दत्ता-आर्ये, यद्यस्याः कानिचित् कुशलमूलानि स्युः, प्रव्राजयेथाः। नो चेत् कौशाम्ब्यां घोषिलो नाम गृहपतिर्मम वयस्यस्तस्य समर्पयिष्यसीति। तयाधिवासितम्। अथ शैला भिक्षुणी श्यामावतीमादाय ऋद्ध्या रौरुकान्नगरात् प्रक्रान्ता। तदा कौशाम्ब्यां घोषिलस्य गृहपतेर्दत्ता। यथा च संदिष्टं समाख्यातम्। आयुष्मान् महाकात्यायनस्तत्रैवावस्थितः। हिरुभिरुकाभ्यामग्रामात्याभ्यां यावच्च गृहं यावच्च नदी अत्रान्तरे सुरुङ्गां खानयित्वा गृहसमीपे च नौः स्थापिताः। यावदन्यतमस्मिन् दिवसे महावायुरागतः, येन तं रौरुकं नगरमपगतपाषाणशर्करकपालं व्यवस्थापितम्। द्वितीये दिवसे पुष्पवर्षं पतितम्। तौ दुष्टामात्यौ कथयतः-देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितमिति। देवस्येदं पुष्पवर्षं पतितम्, नचिराद्वस्रवर्षं पतिष्यति। तृतीये दिवसे वस्त्रवर्षं पतितम्। तौ दुष्टामात्यौ कथयतः -देवस्येदं वस्त्रवर्षं पतितम्, नचिराद्धिरण्यवर्षं पतिष्यतीति। चतुर्थे दिवसे हिरण्यवर्षं पतितम्। तौ दुष्टामात्यौ कथयतः-देवस्येदं हिरण्यवर्षं पतितम्, नचिरादेव सुवर्णवर्ष पतिष्यतीति। पञ्चमे दिवसे सुवर्णवर्ष पतितम्। तौ दुष्टामात्यौ कथयतः-देवस्येदं सुवर्णवर्षं पतितम्, नचिरादेव रत्नवर्षं पतिष्यतीति। यै रौरुकसामन्तकनिवासिभिः सामवायिकं कर्म कृतम्, ते रौरुकं नगरं प्रविष्टाः। तेषु प्रविष्टेषु षष्ठे दिवसे रत्नवर्षं पतितम्। हिरुभिरुकावग्रामात्यौ रत्नानां नावं पूरयित्वा निष्पलायितौ। तत्र हिरुकेणान्यतमस्मिन् प्रदेशे हिरुकं नाम नगरं मापितम्। तस्य हिरुकं हिरुकमिति संज्ञां संवृत्ता। भिरुकेणान्यतमस्मिन् प्रदेशे भिरुकं नाम नगरं मापितम्। तस्यापि भिरुकच्छं भिरुकच्छमिति संज्ञा संवृत्ता। सप्तमे दिवसे पांशुवर्षं पतितुमारब्धम्। अमनुष्यकैर्द्वाराण्यवष्टभानि। श्यामाकः कथयति-आर्य, किमेष उच्चशब्दो महाशब्द इति। आयुष्मान् महाकात्यायनः कथयति-पुत्र,वातायनेन काशिकां निष्कासयेति। तेन वातायनेन काशिका निष्कासिता। पांशुभिरनवीकृता। आयुष्मान् महाकात्यायनः संलक्षयति-सावशेषागोचर इति। यावद्भूयो निष्कासिता, पूर्णा चूडिकाबद्धा संवृत्ता। आयुष्मान् महाकात्यायनः संलक्षयति-आगोचरीभूतम्। इदानीं गच्छामीति। अथ या रौरुकनिवासिनी देवता सा येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्ता। उपसंक्रम्य पादाभिवन्दनं कृत्वा कथयति-आर्य, अहमप्यागच्छामि। आर्यस्योपस्थानं करिष्यामीति। तेनाधिवासितम्। आयुष्मता महाकात्यायनेन श्यामाक उक्तः-पुत्र, गृहाण चीवरकर्णिकम्। गच्छाम इति। तेन चीवरकर्णिको गृहीतः। स ऋध्या उपरिविहायसा श्यामाकं दारकमादाय संप्रस्थितः। रौरुकनिवासिन्यपि देवता स्वर्द्ध्या तस्य पृष्ठतोऽनुबद्धा। रौरुकमपि नगरं पांशुनावष्टब्धम्। तेऽनुपूर्वेण खरं नाम कर्वटकमनुप्राताः। तेन तत्र खलाभिधानेऽवस्थिताः। आयुष्मान् महाकात्यायनः श्यामाकं दारकं खलाभिधाने स्थापयित्वा पिण्डपात्रं प्रवीष्टः। देवतानुभावात्तस्मिन् खलाभिधाने धान्यं वर्धितुमारब्धम्। यस्तत्र पुरुषोऽवस्थितः, स तं दारकं दृष्ट्वा तस्य सकाशमुपसंक्रम्य कथयति-भो दारक, तव प्रभावात्खलाभिधाने धान्यं वर्धत इति। स कथयति-न मम प्रभावात् खलाभिधाने धान्यं वर्धत इति, अपि तु रौरुकनिवासिनी देवता इहागता अमुष्मिन् प्रदेशे तिष्ठति, तस्याः प्रभावात् खलाभिधाने धान्यं वर्धत इति। स तस्याः सकाशं गत्वा पादयोर्निपत्य कथयति-देवते, ताडकं कुञ्चिकां च तावद्धारय, यावद्ग्रामं (गत्वा) आगच्छामि। न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति। तया गृहीतम्। तेनापि कर्वटकं गत्वा कर्वटकनिवासी जनकायः संनिपातितः। उक्तश्च-भवन्तः, रौरुकनिवासिनी देवता इहागता खलाभिधाने तिष्ठति। तत्प्रभावात् खलाभिधाने धान्यं वर्धते। तस्या हस्ते मया ताडकं कुञ्चिका च दत्ता। (उक्तं) च-देवते, ताडकं कुञ्चिकां च तावद्धारय यावद् ग्रामं गत्वा आगच्छामि। न च त्वया मां मुक्त्वा अन्यस्य कस्यचिद्दातव्यमिति। तदधिष्ठानं विज्ञापयामि-यदि मम पुरं श्रेष्ठिनमभिषिञ्चथ, अहमात्मानं जीविताद्व्यपरोपयामीति। देवता अस्मादधिष्ठानान्न क्कचिद्गमिष्यति, युष्माकं भोगाभिवृद्धिर्भविष्यति, सर्वाश्च ईतयो व्युपशमं गमिष्यन्तीति। तैस्तस्य पुत्रः श्रेष्ठी अभिषिक्तः। तेनात्मा जीविताद्व्यपरोपितः। ततः सर्वं तदधिष्ठानं गन्धपुष्पोपशोभितं छत्रध्वजपताकाशोभितं च बलिमादाय येन देवता तेनोपसंक्रान्ताः। उपसंक्रम्य पादयोर्निपत्य कथयति-देवते, अधिष्ठा भव, इहैव तिष्ठेति। नास्ति ममेहावस्थानम्। आर्यस्याहं महाकात्यायनस्योपस्थायिकेति। आयुष्मान् महाकात्यायन इति कथयति-देवते, समन्वाहर अस्य यस्य सकाशात् ताडकः कुञ्चिका च गृहीतेति। सा समन्वाहर्तुं प्रवृता पश्यति, यावत्कालगतः। तयासावधिष्ठाननिवासी जनकायोःभिहितः-भवन्तः, समयतोऽहं तिष्ठामि। यदि यादृशमेव मम स्थण्डिलं कारयथ तादृशमेवार्यास्येति। तैः प्रतिज्ञातम्। तैर्यादृशमेव तस्या देवतायाः स्थण्डिलं कारितं तादृशमेवायुष्मतो महाकात्यायनस्य। तस्या देवताया योऽधिष्ठाने प्रदीपः प्रज्ञाप्तः, तमसौ गृहीत्वा आयुष्मतो महाकात्यायनस्य स्थण्डिले स्थापयति। सा अन्यतमेन पुरुषेण प्राकारकण्टके स्थितेन प्रदीपं गृहीत्वा गच्छन्ती दृष्टा। स संलक्षयति-एषा देवता आर्यस्य महाकात्यायनस्याभिसारिका गच्छतीति। तया तस्य चित्तमुपलक्षितम्। सा रुषिता-पापचित्तसमुदाचारोऽयं कर्वटकनिवासी जनकायः। आर्यस्य महाकात्यायनस्य निरामगन्धस्यातृप्तपुण्यस्यापवादमनुप्रयच्छतीति। तस्मात्तस्मिन् कर्वटके मारिरुत्सृष्टा। महाजनमरको जातः। मृतजने निष्कास्यमाने मञ्चकामञ्चके सङ्क्तुमारब्धाः। अधिष्ठाननिवासिना जनकायेन नौमित्तिका आहूय पृष्टाः- किमेतदिति ? ते कथयन्ति देवताप्रकोप इति। ते तां क्षमयितुमारब्धः। सा कथयति-यूयमार्यस्य महाकात्यायनस्य निरामगन्धस्यासत्कारमनुप्रयच्छथेति ? ते भूयः कथयन्ति-क्षमस्व देवते, न कश्चिदसत्कारं करिष्यतीति। सा कथयति-यदि यूयं यादृशमेवार्यस्य महाकात्यायनस्येति। ते कथयन्ति-देवते क्षमस्व, प्रतिविशिष्टतरं कुर्म इति। तया तेषां क्षान्तम्। तैरप्यायुष्मतो महाकात्यायनस्य प्रतिविशिष्टतरः सत्कारः कृतः। आयुष्मान् महाकात्यायनस्तत्र वर्षोषितः श्यामाकं दारकमादाय देवतामुपामन्त्र्य संप्रस्थितः। सा कथयति-आर्य, मम किंचिच्चिह्नमनुप्रयच्छ, यत्राहं कारां कृत्वा तिष्ठामिति। तेन तस्यां काशिका दत्ता। तयात्र प्रक्षिप्य स्तूपः प्रतिष्ठापितो महश्च प्रस्थापितः-काशीमह काशीमह इति संज्ञा संवृत्ता। अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते। श्यामाको दारकश्चीवरकर्णिके, लग्नः प्रलम्बमानो गोपालकपशुपालकैर्दृष्टः। तैर्लम्बत लम्बत इति उच्चिर्नादो मुक्तः। तस्मिन् जनपदे मनुष्याणां लम्बकपाल इति संज्ञा संवृता। आयुष्मान् महाकात्यायनोऽन्यतमं कर्वटकमनुप्राप्तः। तत्र श्यामाकं दारकं वृक्षमूले श्यापयित्वा पिण्डाय प्रविष्टः। तस्मिंश्च कर्वटकेऽपुत्रो राजा कालगतः। पौरजानपदाः संनिपत्य कथयन्ति-भवन्तः, कं राजानमभिषिञ्चाभ इति ? तत्रैके कथयन्ति-यः पुण्यमहेशाख्य इति। अपरे कथयन्ति-कथमसौ प्रज्ञायत इति ? अन्ये कथयन्ति- परीक्षकाः प्रयुज्यन्तामिति। तैः परीक्षकाः प्रयुक्ताः। ते इतश्चामुतश्च पर्यटितुमारब्धाः। तैरसौ वृक्षस्याधस्तान्मिद्धमवक्रान्तो दृष्टः। ते तस्य निमित्तमुद्गृहीतुमारब्धा यावत्पश्यन्ति। अन्येषां वृक्षाणां छाया प्राचीनप्रवणा प्राचीनप्राग्भारा। तस्य वृक्षस्य छाया अस्य श्यामाकस्य दारकस्य कायं न विजहातीति। दृष्ट्वा च पुनः संजल्पितुमारब्धाः-भवन्तः, अयं पुण्यमहेशाख्यः सत्त्वः, एतमभिषिञ्चाम इति। स तैः प्रबोध्येक्तः-दारक, राज्यं प्रतिच्छेति। स कथयति-नाहं राज्येनार्थी। अहमार्यस्य महाकात्यायनस्योपस्थापक इति। आयुष्मता महाकात्यायनेन श्रुतम्। समन्वाहर्तुं प्रवृत्तः। किमस्य दारकस्य राज्ञः संवर्तनीयानि कर्माणि न वेति। पश्यति, सन्ति। स कथयति-पुत्र, प्रतीच्छ राज्यम्, किं तु धर्मेण ते कारयितव्यमिति। तेन तं प्रतीष्टम्। स तै राज्येऽभिषिक्तः। श्यामाकेन दारकेण तस्मिन् राज्यं कारितमिति। श्यामाकराज्यं श्यामाकराज्यमिति संज्ञा संवृत्ता॥



आयुष्मान् महाकात्यायेन वोक्काणमनुप्राप्तः। विक्काणे आयुष्मतो महाकात्यायनस्य माता उपपन्ना। सा आयुष्मन्तं महाकात्यायनं दृष्ट्वा कथयति-दृष्ट्वा चिरस्य बत पुत्रकं पश्यामि, चिरस्य बत पुत्रकं पश्यामीति। स्तनाभ्यां चास्याः क्षीरधाराः प्रसृताः। आयूष्मता महाकात्यायनेन अम्ब अम्बेति समाश्वासिता। तया आयुष्मान् महाकात्यायनो भोजितः। तस्या आयुष्मता महाकात्यायनेनाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वां विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या त्रिरुदानमुदानयति स्म-इदमस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भवता अस्माकं कृतम्। समुच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिता स्मो देवमनुष्येषु। आह च-



यत्कर्तव्यं सुपुत्रेण मातुर्दुष्करकारिणा।

तत्कृतं भवता मह्यं चित्तं मोक्षपरायणम्॥६७॥



दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्।

स्थापिता पुत्र यत्नेन साधु ते दुष्कृतं कृतम्॥६८॥



अथायुष्मान् महाकात्यायनस्तां भद्रकन्यां सत्येषु प्रतिष्ठाप्य कथयतिं-अम्ब, अवलोकिता भव, गच्छामीति। सा कथयति-पुत्र, यद्येवं मम किंचिदनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति। तेन तस्या यष्टिर्दत्ता। तया स्तूपं प्रतिष्ठाप्य सा तस्मिन् प्रतिमारोपिता। यष्टिस्तूप इति संज्ञा संवृत्ता। अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते॥



अथायुष्मान् महाकात्यायनो मध्यदेशमागन्तुकामः सिन्धुमनुप्रातः। अथ या उत्तरापथनिवासिनी देवता, सा आयुष्मन्तं महाकात्यायनमिदमवोचत्-आर्य, ममापि किंचिच्चिह्नमनुप्रयच्छ, यत्राहं पूजां कृत्वा तिष्ठामीति। स संलक्षयति-उक्तं भगवता मध्यदेशे पुले न धारयितव्ये इति। तदेते अनुप्रयच्छामीति। तेन तस्यैते दत्ते। तया स्थण्डिले कारयित्वा ते प्रतिष्ठापिते इतश्चरसन्तिसंज्ञा संवृत्ता। आयुष्मान् महाकात्यायनोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः। भिक्षुभिर्दृष्ट उक्तश्च-स्वागतं स्वागतमायुष्मन्। कच्चित्कुशलचर्येति ? स कथयति-आयुष्मन्तः, किंचित् सुखचर्या किंचिद्दुःखचर्येति। भिक्षवः कथयन्ति-किं सुखचर्या किं दुःखचर्येति ? स कथयति- यत्सत्त्वकार्यं कृतम्, इयं सुखचर्या। यद् राजा शिखण्डी रौरुकनिवासी च जनकाय अहं च पांशुनावष्टब्धः, हिरुभिरुकौ चाग्रामात्यौ पृच्छ्रेण पलायितौ, इयं दुःखचर्येति। अथ पाथाभिक्षवोऽवध्यायन्तः कथयन्ति-पितृमारकोऽसौ। तेनायुष्मान् रुद्रायणोऽर्हत्त्वं प्राप्तः। अदुष्यनयकारी प्रघातित इति। इदं तस्य पुष्पमात्रम्। अन्यत्फलं भविष्यतीति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त आयुष्मता रुद्रायणेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले प्रत्याजातः? भगवतः शासने प्रव्रज्य सर्वक्लेशप्रशाणादर्हत्त्वं साक्षात्कृतम् ? अर्हत्त्वप्राप्तश्च शस्त्रेण प्रघातित इति ? भगवानाह-रुद्रायणेन भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। रुद्रायणेन कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥६९॥ इति।



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि असति बुद्धानां भगवतामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः खङ्गविषाणकल्पा एकदक्षिणीया लोकस्य। यावदन्यतमस्मिन् कर्वटके लुब्धः प्रतिवसति। तस्य कर्वटकस्य च नातिदूरे उदपानं प्रभूतानां मृगाणामावासः। तत्रासौ लुब्धकः प्रतिदिनं प्रभूतान् कूटान् पाशालेपांश्च प्रतिक्षिपति प्रभूतानां मृगानामुत्सादाय विनाशाय अनयेन व्यसनाय। तस्य चामोघास्ते कूटाः पाशालेपाश्च। यावदन्यतरः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तो देवतायतने रात्रिंदिवा समुपागतः। स पूर्वाह्णे निवास्य पात्रचीवरमादाय तं कर्वटकमनुप्राप्तः। तं कर्वटकं पिण्डाय प्राविक्षत्। ततः पिण्डपातमटित्वा संलक्षयति-इदं देवायतनं दिवा आकीर्णम्। बहिः कर्वटकस्य शान्ते स्थाने पिण्डपातं वेलां करोमीति। स कर्वटकान्निष्क्रम्येदं शान्तमिदं शान्तमिति येन तदुदपानं तेनोपसंक्रान्तः। उपसंक्रम्य पात्रस्रावणमेकान्त उपनिक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य शीर्णपर्णकानि समुदानीय निषद्य भक्तकृत्यं कृत्वा हस्तौ निर्माद्य मुखं पात्रं च पात्रपरिस्रावणं यथास्थाने स्थाप्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा शान्तेनेर्यापथेन निषण्णः। तस्मिन् दिवसे मानुषगन्धेनैकमृगोऽपि न ग्रहणानुगतः। अथ स लुब्धकःकाल्यमेवोत्थाय येन तदुदपानं तेनोपसंक्रान्तः। स तान् कूटान् पाशांश्च प्रत्यवेक्षितुमारब्धः। एकमृगमपि नाद्राक्षीत्। तस्यैतदभवत्-ममामी कूटाः पाशालेपाश्चावन्ध्याः। किमत्र कारणं येनाद्य एकमृगोऽपि न बद्ध इति ?। तदुदपानं सामन्तकेन पर्यटितुमारब्धः। पश्यति मनुष्यपदम्। स तेन पदानुसारेण गतः। पश्यति तं प्रत्येकबुद्धं शान्तेनेर्यापथेन निषण्णम्। स संलक्षयति-एते प्रव्रजिताः शान्तात्मान ईदृशेषु स्थानेष्वभिरमन्ते। यद्यद्याहमस्य जीवितापच्छेदं न करोमि, नियतमेष मम वृत्तिसमुच्छेदं करोति। सर्वथा प्रघात्योऽयमिति। तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन कराकारसदृशं धनुराकर्णं पूरयित्वा सविषेण शरेण मर्मणि ताडितः। स महात्मा प्रत्येकबुद्धः संलक्षयति-मा अयं तपस्वी लुब्धोऽत्यन्तक्षतश्च भविष्यति, उपहतश्च। हस्तोद्धारमस्य ददामीति। स विततपक्ष इव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति-अवतरावतर सद्भूतदक्षिणीय, मम क्लेशपङ्कनिमग्मस्य हस्तोद्धारमनुप्रयच्छेति। स तस्यानुकम्पार्थमवतीर्ण। ततस्तेन विशल्यीकृतः। उपनाहो दत्तः। उक्तश्च-आर्य, निवेशनं गच्छामः। यद्यत्र सुवर्णपलोऽपि दातव्यः, अहं परिप्रापयामीति। स संलक्षयति -यन्मया अनेन पूतिकायेन प्राप्तव्यं तदिदानीं शान्तं निरुपधिशेषं निर्वाणधातुं प्रविशामीति। स तस्यैव पुरस्तात्पुनर्गगनतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्श्य निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। धनवानसौ लुब्धः। तेन सर्वगन्धकाष्ठैश्चितां चित्वा ध्मापितः। सा चिता क्षीरेण निर्वापिता। तान्यस्थीनि नवे कुम्भे प्रक्षिप्य शारीरस्तूपः प्रतिष्ठापितः। छत्रध्वजपताकाश्चारोपिताः। गन्धैर्माल्यैर्धूपैश्च पूजां कृत्वा पादयोर्निपत्य प्रणिधानं कृतम्-यन्मयैवंविधे सद्भूतदक्षिणियेऽपकारोकृतः, मा अहमस्य कर्मणो भागी स्याम्। यत्तु कारा कृता, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च गुणानां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं न विरागयेयमिति॥



किं मन्यध्वे भिक्षवो योऽसौ तेन कालेन तेन समयेन लुब्धकः, एष एवासौ रुद्रायणो भिक्षुः। यदनेन प्रत्येकबुद्धः सविषेण शरेण मर्मणि ताडितः, तस्य कर्मणो विपाकेन बहूनि वर्षशतानि बहूनि वर्षसहस्राणि नरकेषु पक्तः, तस्मिन्नपि चोदपाने सविषेण शरेण मर्मणि ताडीतः, तेनैव च कर्मावशेषेणैतर्ह्यप्यर्हत्त्वप्रातः शस्त्रेण प्रघातितः॥



पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः- किं भदन्त शिखण्डिना रौरुकनिवासिना जनकायेनायुष्मता महाकात्यायनेन च कर्म कृतं येन पांशुनावष्टब्धाः, हिरुभिरुकौ त्वग्रामात्यौ निष्पलायिताविति ? भगवानाह-एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। एभिः कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभाव्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७०॥



भूतपूर्वं भिक्षवोऽन्यातरस्मिन् कर्वटके गृहपतिः प्रतिवसति। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सह क्रीडते रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। पुनरस्य क्रीडतो रममाणस्य परिचारयतो दारिका जाता। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। या जन्मिका दारिकाः, तासां याचनका आगच्छन्ति। तस्या न कश्चिदागच्छति। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। यावत्तया दारिकया गृहं संमृज्य वाटस्योपरिष्टात् संकारश्छोरितः। तस्य प्रत्येकबुद्धस्य पिण्डपातमटतः शिरसि पतितः। तयासौ दारिकया पतन् दृष्टः। न चास्य विप्रतिसारचित्तमुत्पन्नम्। नैवम्। तस्यास्तमेव दिवसं याचनक आगतः। सा भ्रात्रा पृष्टा-किं त्वयाद्य कृतं येन ते याचनका नागता इति। तया समाख्यातम् -मया तस्योपरो संस्कारश्छोरितः। तेन विपुष्पितम्। तदा दारिकया अन्यस्या दारिकाया निवेदितम्। तयाप्यस्या लोकस्येदं पापकं दृष्टिगतमुत्पन्नम्। यस्या याचनका आगच्छन्ति, सा सा तस्य प्रत्येकबुद्धस्योपरि संकारं छोरयत्विति। असत्कारभीरवस्ते महात्मानः सर्वे प्रत्येकबुद्धाः। स तस्मात् कर्वटकात्प्रक्रान्तः। पञ्चाभिज्ञानामृषीणामुपरि क्षेप्तुमारब्धाः। तेऽपि प्रक्रान्ताः। ततो मातापित्रोरुपरि क्षेप्तुमारब्धाः। तस्मिन् कर्वटके द्वौ गृहपती समकौ प्रतिवसतः। सा आभ्यामुक्ता-भवन्तः, असद्धर्मोऽयं वर्धते, विरमतेति। ताभ्यां निवारिताः प्रतिविरताः॥



किं मन्यध्वे भिक्षवो यासौ दारिका यया प्रत्येकबुद्धस्योपरि संकारश्छोरितः, एष एवासौ शिखण्डी। योऽसौ कर्वटकनिवासी जनकायः, एष एवासौ रौरुकनिवासी जनकायः। यदेभिः प्रत्येकबुद्धानामुपरि पापकं दृष्टिगतमुत्पन्नं कृतम्, अस्य कर्मणो विपाकेन पांशुनावष्टधाः। योऽसौ गृहपती याभ्यां निवारितम्, एतावेतौ हिरुभिरुकावग्रामात्यौ। तस्य कर्मणो विपाकेन निष्पलायितौ। योऽसौ दारिकाया भ्राता येन विपुष्पितम्, एष एवासौ कात्यायनो भिक्षुः। यदनेन विपुष्पितं तस्य कर्मणो विपाकेन पांशुनावष्टब्धः। यदि तेन न विपुष्पितं (चित्तं) न पांशुनावष्टब्धोऽभविष्यदिति। यदि तस्य पापकं दृष्टिगतमुत्पन्नमभविष्यत्, कात्यायनोऽपि भिक्षुः पांशुनावष्टब्धोऽनयेन व्यसनमापन्नोऽभविष्यदिति। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुल्कानामेकान्तशुल्कः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यमिति। भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥



इति श्रीदिव्यावदाने रुद्रायणावदानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project