Digital Sanskrit Buddhist Canon

३६ माकन्दिकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 36 mākandikāvadānam
३६ माकन्दिकावदानम्।



बुद्धो भगवान् कुरुषु जनपदचारिकां चरन् कल्माषदम्यमनुप्राप्तः। तेन खलु पुनः समयेन कल्माषदम्ये माकन्दिको नाम परिव्राजकः प्रतिवसति। तस्य साकलिर्नाम पत्नी। तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता। तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यत उपमा कर्तुम्। तस्यास्त्रीणि सप्तहान्येकविंशतिं दिवसान् विस्तरेण जातिमही संवृत्ता यावज्जातमहं कृत्वा नामधेयं व्यवस्थाप्यते- किं भवतु दारिकाया नामेति ? ज्ञातय ऊचुः-इयं दारिका अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता। तस्या अस्थीनि सूक्ष्माणि सुसूक्ष्माणि, न शक्यते उपमा कर्तुम्। भवतु दारिकाया अनुपमेति नाम। तस्या अनुपमेति नामधेयं व्यवस्थापितम्। सोन्नीता वर्धिता। माकन्दिकः संलक्षयति-इयं दारिका न मया कस्यचित् कुलेन दातव्या न धनेन नापि श्रुतेन, किं तु योऽस्यां रूपेण समो वाप्यधिको वा, तस्य मया दातव्येति॥



अत्रान्तरे भगवान् कुरुषु जनपदेषु चारिकां चरन् कल्माषदम्यमनुप्राप्तः। कल्माषदम्ये विहरति कुरूणां निगमे विहरति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय कल्माषदम्यं पिण्डायं प्राविक्षत्। कल्माषदम्यं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः। पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य अन्यतमवृक्षमूलं निश्रित्य निषण्णः सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्के बद्ध्वा। तेन खलु समयेन माकन्दिकः परिव्राजकः पुष्पसमिधस्यार्थे निर्गतोऽभूत्। अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं दूरादेवान्यतरवृक्षमूलं निश्रित्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा निषण्णं प्रासादिकं प्रदर्शनीयं शान्तेन्द्रियं शान्तमानसं परमेण चित्तव्युपशमेन समन्वागतं सुवर्णयूपमिव श्रिया ज्वलन्तम्। दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातः। स संलक्षयति-यादृशोऽयं श्रमणः प्रासादिकः प्रदर्शनीयः सकलजनमनोहारी, दुर्लभस्तु सर्वस्त्रीजनस्य पतिः प्रतिरूपः प्रागेव अनुपमायाः। लब्धो मे जामातेति। येन स्वं निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य पत्नीमामन्त्रयते-यत्खलु भद्रे जानीयाः-लब्धो मे दुहितुर्जामाता। अलंकुरुष्व, अनुपमां ददामीति। सा कथयति-कस्य प्रयच्छसीति ? स कथयति-श्रमणस्य गौतमस्येति। सा कथयति-गच्छावस्तावत्पश्याव इति। माकन्दिकस्तया सार्धं गतः। दूरात्तया दृष्टः। तस्या अन्तर्मार्गे स्मृतिरुपपन्ना। गाथां भाषते-



दृष्टो मया विप्र स पिण्डहेतोः

कल्माषदम्ये विचरन्महर्षिः।

भूरत्नभा सन्ति तस्य प्रगच्छतो-

ऽत्युन्नमते न चैव (?)॥१॥



नासौ भक्तां भजते कुमारिकाम्। निवर्त, यास्यामः स्वकं निवेशनम्। सोऽपि गाथां भाषते-



अमङ्गले साकलिके त्वं

माङ्गल्यकाले वदसे ह्यमङ्गलम्।

सचेद्द्रुत समधिकृतं भविष्यति

पुनरप्यसौ कामगुणेषु रंस्यते॥२॥ इति।



सा अनुपमां वस्त्रालंकारैरलंकृत्य संप्रस्थिता। भगवानपि तस्माद्वनषण्डादन्यवनषण्डं संप्रस्थितः। अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं तृणसंस्तरणकम्। दृष्ट्वा च पुनः पत्नीमामन्त्रयते-यत्खलु भवति जानीयाः-एष ते दुहितुस्तृणसंस्तरक इति। सा गाथां भाषते-



रक्तस्य शय्या भवति विकोपिता

द्विष्टस्य शय्या सहसा निपीडिता।

मूढस्य शय्या खलु पादतो गता

सुवीतरागेण निसेविता न्वियम्।

नासौ भर्ता भजते कुमारिकां

निवर्त, यास्यामः स्वं निवेशनम्॥३॥



अमङ्गले साकलिके त्वं

मङ्गल्यकाले वदसे ह्यमङ्गलम्।

सचेद्द्रुतं समधिकृतं भविष्यति

पुनरप्यसौ कामगुणेषु रंस्यते॥४॥



अद्राक्षीन्मान्दिकः परिव्राजकः। भगवतः पदानि दृष्ट्वा पुनः पत्नीमामन्त्रयते-इमानि ते भवन्ति भद्रे दुहितुर्जामातुः पदानि। गाथां भाषते-



रक्तस्य पुंसः पदमुत्पटं स्या-

न्निपीडितं द्वेषवतः पदं च।

पदं हि मूढस्य विसृष्टदेहं

सुवीतरागस्य पदं त्विहेदृशम्।

नासौ भर्ता भजते कुमारिकाम्।

निवर्त, यास्यामः स्वकं निवेशनम्॥५॥



अमङ्गले साकलिके पूर्ववत्।



भगवतोत्काशशब्दः कृतः। अश्रौषिन्माकन्दिकः परिव्राजको भगवत उत्काशनशब्दं शुश्राव। श्रुत्वा च पुन पुनः पत्नीमामन्त्रयते-एष ते भवति दुहितुर्जामातुरुत्काशनशब्द इति। सा गाथां भाषते-



रक्तो नरो भवति हि गद्गदस्वरो

द्विष्टो नरो भवति हि खक्खटास्वरः।

मूढो नरो हि भवति समाकुलस्वरो

बुद्धो ह्ययं ब्राह्मणदुन्दुभिस्वरः।

नासौ भर्ता भजते कुमारिकां

निवर्त यास्यामः स्वकं निवेशनम्॥६॥



अमङ्गले साकलिके पूर्ववत्।



भगवता माकन्दिकः परिव्राजको दूरादवलोकितः। अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तमवलोकयन्तम्। दृष्ट्वा च पुनः पत्नीमामन्त्रयते स्म-एष ते भवति दुहितुर्जामाता निरीक्षत इति। सा गाथां भाषते-



रक्तो नरो भवति हि चञ्चलेक्षणो

द्विष्टो भुजगघोरविषो यथेक्षते।

मूढो नरः संतमसीव पश्यति

द्विजवीतरागो युगमात्रदर्शी।

न एष भर्ता भजते कुमारिकां

निवर्त यास्यामः स्वकं निवेशनम्॥७॥



अमङ्गले साकलिके पूर्ववत्।



भगवांश्चंक्रम्यते। अद्राक्षीन्माकन्दिकः परिव्राजको भगवन्तं चंक्रम्यमाणम्। दृष्ट्वा च पुनः पत्नीमामन्त्रयते-एष दुहितुर्जामाता चंक्रम्यत इति। सा गाथां भाषते-



यथास्य नेत्रे च यथावलोकितं

यथास्य काले स्थित एव गच्छतः।

यथैव पद्मं स्तिमिते जलेऽस्य

नेत्रं विशिष्टे वदने विराजते।

न एष भर्ता भजते कुमारिकां

निवर्त यास्यामः स्वकं निवेशनम्॥८॥



अमङ्गले साकलिके त्वं

मङ्गलकाले वदसे ह्यमङ्गलम्।

सचेद्द्रुतं समधिकृतं भविष्यति

पुनरप्ययं कामगुणेषु रंस्यते॥९॥



वशिष्ठोशीरमौनलायना (?)

अपत्यहेतोरतत्काममोहिताः।

धर्मो मुनीनां हि समातनो ह्य-

मपत्यमुत्पादितवान् सनातगः॥१०॥



अथ माकन्दिकः परिव्राजको येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्-



इमां भगवान् पश्यतु मे सुतां सतीं

रूपोपपन्नां प्रमदामलंकृताम्।

कामार्थिनीं यद्भवते प्रदीयते

सहानया साधुरिवाचरतां भवान्।

समेत्य चन्द्रो नभसीव रोहिणीम्॥११॥



भगवान् संलक्षयति- यद्यहमनुपमाया अनुनयवचनं ब्रूयाम्, स्थानमेतद्विद्यते यदनुपमा रागेण स्विन्ना कालं कुर्वाणा भविष्यति। तत्तस्याः प्रतिघवचनं ब्रूयामिति विदित्वा गाथां भाषते-



दृष्टा मया मारसुता हि विप्र

तृष्णा न मे नापि तथा रतिश्च।

छन्दो न मे कामगुणेषु कश्चित्।

तस्मादिमां मूत्रपुरीषपूर्णां

प्रष्टुं हि यत्तामपि नोत्सहेयम्॥१२॥



माकन्दिको गाथां भाषते-

सुतामिमां पश्यसि किं मदीयां

हीनाङ्गिनीं रूपगुणैर्वियुक्ताम्।

छन्दं न येनात्र करोषि चारौ

विविक्तभावेष्विव कामभोगी॥१३॥ इति।



भगवानपि गाथां भाषते-



यस्मादिहार्थी विषयेषु मूढः

स प्रार्थयेद्विप्र सुतां तवेमाम्।

रूपोपपन्नां विषयेषु सक्ता-

मवीतरागोऽत्र जनः प्रमूढः॥१४॥



अहं तु बुद्धो मुनिसत्तमः कृती

प्राप्ता मया बोधिरनुत्तरा शिवा।

पद्मं यथा वारिकणैरलिप्तं

चरामि लोकेऽनुपलिप्त एव॥१५॥



नीलाम्बुजं कर्दमवारिमध्ये

यथा च पङ्केन व नोपलिप्तम्।

तथा ह्यहं ब्राह्मण लोकमध्ये

चरामि कामेषु विविक्तः (एव)॥१६॥ इति।



अथानुपमा भगवता मूत्रपुरीषवादेन समुदाचरिता वीतहर्षां दुर्मनाः संवृता। तस्या यद्रागपर्यवस्थानं तद्विगतम्, द्वेषपर्यवस्थानमुत्पन्नम्, स्थूलीभूतार्यस्थीतिकावरीभूतेक्षिणी (?)। तेन् अस खलु समयेनान्यतमो महल्लो भगवतः पृष्ठतः स्थितोऽभूत्। अथ महल्लो भगवन्तमिदमवोचत्-



समन्तदृष्टे प्रतिगृह्य नारी-

मस्मत्समेता भगवन् प्रयच्छ।

रता वयं हि प्रमदामलंकृतां

भोक्ष्यामहे धीर यथानुलोमम्॥१७॥ इति॥



एवमुक्ते भगवांस्तं महल्लमिदमवोचत्-अपेहि पुरुष, मा मे पुरतस्तिष्ठेति। स रुषितो गाथां भाषते-



इदं च ते पात्रमिदं च चीवरं

यष्टिश्च कुण्डी च व्रजन्तु निष्ठाम्।

इमां च शिक्षां स्वयमेव धारय

धात्री यथा ह्यङ्कगतं कुमारकम्॥१८॥ इति॥



एवमुक्ते स महल्लः शिक्षां प्रत्याख्याय महाननार्योऽयमिति मत्वा येन माकन्दिकः परिव्राजकस्तेनोपसंक्रान्तः। उपसंक्रम्य माकन्दिकं परिव्राजकमिदमवोचत्-अनुप्रयच्छ मामन्तिकेऽनुपमामिति। स पर्यवस्थितिः कथयति-महल्ल, द्रष्टुमपि ते न प्रयच्छामि, प्रागेव स्प्रष्टुमिति। एवमुक्तस्य माकन्दिकस्य परिव्राजकस्यान्तिके तादृशं पर्यवस्थानमुत्पन्नं येनोष्णं शोणितं छर्दयित्वा कालगतो नरकेषूपपन्नः॥



ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-पश्य भदन्त, भगवता अनुपमा लभ्यमाना न प्रतिगृहीतेति। भगवानाह-न भिक्षव एतर्हि, यथा अतीतेऽष्यध्वन्येषा मया लभ्यमाना न प्रतिगृहीता। तच्छ्रूयताम्॥



भूतपूर्वं भिक्षवोऽन्यतमस्मिन्कर्वटकेऽयस्कारः प्रतिवसति। तेन सदृशात्कुलात् कलत्रमानीतम्। पूर्ववद्यावद्दुहिता जाता अभिरूपा दर्शनीया प्रासादिका। उन्नीता वर्धिता महती संवृत्ता। अयस्कारः संलक्षयति-मयैषा दुहिता न कस्यचित् कुलेन दातव्या, न रूपेण न धनेन, अपि तु यो मम शिल्पेन समोऽभ्यधिको वा, तस्याहमेनां दास्यामीति। यावदन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः। सा दारिका भैक्षमादाय निर्गता। स माणवस्तां दृष्ट्वा कथयति-दारिके, त्वं कस्यचिद्दता आहोस्विन्न दत्तेति ? सा कथयति-यदा जाताहं तदैव मत्पितैवाङ्गीकृत्य वदति-दुष्करमसौ मां कस्यचिद्दास्यति। किं तव पिता वदति ? यो मम शिल्पेन समोऽभ्यधिको वा, अस्याहमेनां दास्यामीति। तव पिता कीदृशं शिल्पं जानीते ? सूचीमीदृशां करोति यावदुदके प्लवते। स माणवः संलक्षयति-किं चाप्यहमनयानर्थी, मदापनयोऽस्य कर्तव्य इति। कुशलोऽसौ तेषु तेषु शिल्पस्थानकर्मस्थानेषु। तेनायस्कारभाण्डिकां याचित्वा अन्यत्र गृहे सुसूक्ष्माः सूच्यो घटिताः, या उदके प्लवन्ते। एका च महती घटिता यस्यां सप्त सूच्यः प्रतिक्षिप्ताः सह तया प्लवन्ते। स ताः कृत्वा तस्यायस्कारस्य गृहमागतः। स कथयति- सूच्यः सूच्यः इति। तया दारिकया दृष्टाः। सा गाथां भाषते-



उन्मत्तकस्त्वं कटुकोऽथ वासि अचेतनः।

अयस्कारगृहे यस्त्वं सूचीं विक्रेतुमागतः॥१९॥ इति।



सोऽपि गाथां भाषते-

नाहमुन्मत्तको वास्मि कटुकोऽहमचेतनः।

मानावतारणार्थं तु मया शिल्पं प्रदृश्यते॥२०॥



सचेत्पिता रे जानीयाच्छिल्पं मम हि यादृशम्।

त्वां चैवाणुप्रयच्छेत अन्यच्च विप्रतं (विपुलं ?) धनम्॥२१॥ इति।



सा कथयति-कीदृशं त्वं शिल्पं जानीषे ? ईदृशीं सूचीं करोमि योदके प्लवते। तया मातुर्निवेदितम्-अम्ब, शिल्पिकर्मात्रागत इति। सा कथयति-प्रवेशयेति। तया प्रवेशितः। अयस्कारभार्या कथयति-कीदृशं त्वं शिल्पं जानीषे ? तेन समाख्यातम्। तया स्वामिने निवेदितः। आर्यपुत्र, अयं शिल्पदारकः। ईदृशं जानीत इति। स कथयति-यद्येवमानय पानीयम्, पश्यामीति। तया पानीयस्य भाजनं पूरयित्वोपनामितम्। तेनैका सूची प्रक्षिप्ता। सा प्लोतुमारब्धा। एवं द्वितीया, तृतीया। ततः सा महती सूची प्रक्षिप्ता। सापि प्लोतुमारब्धा। पुनस्तस्यामेका सूची प्रक्षिप्ता। तथापि प्लोतुमारब्धा। एवं द्वितीयां तृतीयां यावत् सप्तसूचीं प्रक्षिप्य प्रक्षिप्तास्तथापि प्लोतुमारब्धाः। अयस्कारः संलक्षयति- ममैषोऽधिकतरः शिल्पेन। अस्मै दुहितरमनुप्रयच्छाम्। इति विदित्वा तां दारिकां सर्वालंकारविभूषितां कृत्वा वामेन पाणिना गृहीत्वा दक्षिणेन पाणिना भृङ्गारकमादाय माणवस्य पुरतः स्थित्वा कथयति-इमां तेऽहं माणवक दुहितरमनुप्रयच्छामि भार्यार्थायेति। स कथयति-नाहमनयार्थी, किं तु तवैव मदापनयः कर्तव्यः इति मया शिल्पमुपदर्शितमिति॥



भगवानाह-किं मन्यध्वे योऽसौ माणवः, अहमेव स तेन कालेन तेन समयेन। योऽसावयस्कारः, एष एव माकन्दिकस्तेन कालेन तेन समयेन। यासावयस्कारभार्या, एषैवासौ माकन्दिकभार्या तेन कालेन तेन समयेन। यासावयस्कारदुहिता, एषैवासावनुपमा तेन कालेन तेन समयेन। तदाप्येषा मया लभ्यमाना न प्रतिगृहीता। एतर्ह्यप्येषा मया लभ्यमाना न प्रतिगृहीता॥



पुनरपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-पश्य भदन्त अयं महल्लकोऽनुपमामागम्यानयेन व्यसनमापन्न इति। भगवानाह-न भिक्षव एतर्हि यथातीतेऽप्यध्वन्येष अनुपमामागम्य सान्तःपुरोऽनयेन व्यसनमापन्नः। तच्छ्रूयताम्॥



भूतपूर्वं भिक्षवः सिंहकल्पायां सिंहकेसरी नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनं पूर्ववद्यावद्धर्मेण राज्यं कारयति। तेन खलु समयेन सिंहकल्पायां सिंहको नाम सार्थवाहः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहः पूर्ववद्यावत्तेन कलत्रमानीतम्। सा आपन्नसत्त्वा संवृत्ता। न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावद्गर्भस्य परिपाकाय। सा अष्टानां वा नवानां चा मासानामत्ययात् प्रसूता। दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः उच्चघोणः संगतभ्रूः तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य त्रीणि सप्तकल्येकविंशतिं दिवसान् विस्तरेण तस्य जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते-किं भवतु दारकस्य नामेति ? ज्ञातय ऊचुः-अयं दारकः सिंहस्य सार्थवाहस्य पुत्रः। भवतु सिंहल इति नाम। तस्य सिंहल इति नामधेयं व्यवस्थापितम्। सिंहलो दारकोऽष्टाभ्यो धात्रीभ्यो दत्तः पूर्ववद्यावदष्टासु परीक्षासु घटको वाचकः पण्डितः पटुप्रचार संवृत्तः। तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। त्रीण्यन्तःपुराणि व्यवस्थापिताणि ज्येष्ठं मध्यं कनीयसम्। सोऽपरेण समयेन पितरमाह्वयते-तात, अनुजानीहि, महासमुद्रमवतरामीति। स कथयति-पुत्र, तावत्प्रभूतं मे धनजातमस्ति यदि त्वं तिलतण्डुलकुलत्थादिपरिभोगेन रत्नानि मे परिमोक्ष्यमे, तथापि मे भोगा न तनुत्वं परिक्षयं पर्यादान गामिष्यन्ति। तद्यावदहं जीवामि, तावत् क्रीड रमस्व परिचारय। ममात्ययाद् धनेनोपार्जितं करिष्यसीति। स भूयो भूयः कथयति-तात, अनुजानीहि, महासमुद्रमवतरामीति। स तेनावश्यनिर्बन्धं ज्ञात्वा उक्तः-पुत्र एवं कुरु। किं तु भयभैरवसहिष्णुना ते भवितव्यमिति। तेन सिंहकल्पायां राजधान्यां घण्टावघोषणं कारितम्-शृण्वन्तु भवन्तः सिंहकल्पनिवासिनो वणिजः नानादेशाभ्यागताश्च। सिंहलसार्थवाहो महासमुद्रमवतरिष्यतीति। यो युष्माकमुत्सहते सिंहलेन सार्थवहेन सार्धमशुल्केनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयत्विति। ततः पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। मातापितरौ भृत्यांश्च सुहृत्संबन्धिबान्धवानवलोक्य दिवसतिथिमुहूर्तप्रयोगेण कृतकौकुतमङ्गलस्वस्त्ययनः शकटैर्भारैः पिटकैः मूटैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यमादाय पञ्चभिर्वणिक्शतैः सपरिवारः संप्रस्थितः। सोऽनुपूर्वेण ग्रामगनरनिगमराष्ट्रराजधानीषु चञ्चूर्यमाणः पत्तनान्यवलोकयन् समुद्रतीरमनुप्राप्तः। विस्तरेण राक्षसीसूत्रं सर्वं वाच्यम्। सर्वे ते वणिजो बालाहाश्वराजात्पतिताः, ताभिश्च राक्षसीभिर्भक्षिताः। सिंहलक एकः स्वस्तिक्षेमाभ्यां जम्बुद्वीपमनुप्राप्तः। सिंहलभार्या या राक्षसी सा राक्षसीभिरुच्यते- भगिनि, अस्माभिः स्वकस्वकाः स्वामिनो भक्षिताः, त्वया स्वामी निर्वाहितः। यदि तवत्तमानयिष्यसीत्येवं कुशलम्, नो चेत्त्वां भक्षयाम इति। सा संत्रस्ता कथयति- यदि युष्माकमेष निर्बन्धो मां धरिष्यथ आनयामीति। ताः कथयन्ति-शोभनम्। एवं कुरुष्वेति। सा परमभीषणरूपमभिनिर्माय लघुलध्वेव गत्वा सिंहलस्य सार्थवाहस्य पुरतो गत्वा स्थिता। सिंहलेन सार्थवाहेन निष्कोषमसिं कृत्वा संत्रासिता अपक्रान्ता। यावन्मध्यदेशात् सार्थ आगतः। सा राक्षसी सार्थवाहस्य पादयोर्निपत्याह-सार्थवाह, अहं ताम्रद्वीपकस्य राज्ञो दुहिता। तेनाहं सिंहलसार्थवाहस्य भार्यार्थं दत्ता। तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्। तेनाहममङ्गलेति कृत्वा छोरिता। तदर्हसि तं ममोपसंवरयितुमिति। तेनाधिवासितं क्षमापयामीति। स तस्य सकाशं गतः। विश्रम्भकथालापेन मुहूर्तं स्थित्वा कथयति-वयस्य, राजदुहितासौ त्वया परिणीता। मा तामस्थाने परित्यज, क्षमस्वेति। स कथयति- वयस्य, नासौ राजदुहिता, ताम्रद्विपादसौ राक्षसी। अथ कथमिहागता ? तेन वृत्तमारोचितम्। स तूष्णीमवस्थितः। सिंहलः सार्थवाहोऽनुक्रमतः स्वगृहमनुप्राप्तः। सापि राक्षसी स्वयमतीवरूपयौवनसंपन्नमहासुन्दरीमानुषीरूपमास्थाय सिंहलसदृशनिर्विशेषसुन्दरं पुत्रं निर्माय तं पुत्रमादाय सिंहकल्पां राजधानीमनुप्राप्त। सिंहलस्य सार्थवाहस्य स्वगृहद्वारमूलेऽवस्थिता। जनकायेनासौ मुखबिम्बकेन प्रत्यभिज्ञातः। ते कथयन्ति-भवन्तः, ज्ञायन्तामयं दारकः सिंहलस्य सार्थवाहस्य पुत्र इति। राक्षसी कथयति-भवन्तः, परिज्ञातो युष्माभिः। तस्यैवायं पुत्र इति। ते कथयन्ति-भगिनि, कुत आगता, कस्य वा दुहिता त्वमिति ? सा कथयति-भवन्तः, अहं ताम्रद्वीपराजस्य दुहिता सिंहलस्य सार्थवाहस्य भार्यार्थं दत्ता। महासमुद्रमध्यगतस्य सार्थवाहस्य मत्स्यजातेन यानपात्रं भग्मम्। तेनाहममङ्गलेति कृत्वा अस्थाने छोरिता, कथंचिदिह संप्राप्ता। क्षुद्रपुत्राहम्। अर्हथ सिंहलं सार्थवाहं क्षमयितुमिति। तैस्तस्य मातापित्रोऽर्निवेदितम्। स ताभ्यामुक्तः-पुत्र, मैनां (त्यज) दुहितरं राज्ञः, क्षुद्रपुत्रेयं तपस्विनी, क्षमेति। स कथयति-तात, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति। तौ कथयतः-पुत्र, सर्वा एव स्त्रियो राक्षस्यः। क्षमेति। तात, यद्येषा युष्माकमभिप्रेता, एतां गृहे धारयत। अहमप्यन्यत्र गच्छामीति। तौ कथयतः-पुत्र, सुतरां वयमेनां तवैवार्थाय धारयामः। यद्येषा तव नाभिप्रेता, किमस्माकमनया ? न धारयाम इति। ताभ्यां निष्कासिता। सा सिंहकेसरिणो राज्ञः सकाशं गता। अमात्यै राज्ञो निवेदितम्-देव, ईदृशी रूपयौवनसंपन्ना स्त्री राजद्वारे तिष्ठतीति। राजा कथयति-प्रवेशयेति। पश्याम इति। सा तैः प्रवेशिता। हारीणीन्द्रियाणि। राजा तां दृष्ट्वा रागेनोत्क्षिप्तः। स्वागतवादसमुदाचारेण तां समुदाचर्य कथयति-कुतः कथमत्रागता, कस्य वा त्वमिति। सा पादयोर्निपत्य कथयति-देव, अहं ताम्रद्वीपकस्य राज्ञो दुहिता सिंहलस्य सार्थवाहस्य भार्वार्थं दत्ता। तस्य महासमुद्रमध्यगतस्य मकरेण मत्स्यजातेन यानपात्रं भग्नम्। तेनाहममङ्गलेति श्रुत्वा अस्थाने छोरिता, कथंचिदिह संप्राप्ता। क्षुद्रपुत्राहम्। तदर्हसि देव तमेव सिंहलं सार्थवाहं क्षमापयितुमर्हसि। तेन राज्ञा समाश्वासिता। अमात्यानामाज्ञा दत्ता-गच्छन्तु भवन्तः, सिंहलं सार्थवाहं शब्दयतेति। तैरसौ शब्दितः। राजा कथयति-सिंहल, एनां राजदुहितरं धारय, क्षमस्वेति। स कथयति-देव, नैषा राजदुहिता, राक्षस्येषा ताम्रद्वीपादिहागतेति। राजा कथयति-सार्थवाह, सर्वा एव स्त्रियो राक्षस्यः, क्षमस्व। अथ तव नाभिप्रेता, ममानुप्रयच्छेति। सार्थवाहः कथयति-देव, राक्षस्येषा। नाहं ददामि, न वरयामीति। सा राज्ञा अन्तःपुरं प्रवेशिता। तया राजा वशीकृतः। यावदपरेण समयेन राज्ञः सान्तःपुरस्यास्वापनं दत्वा तासां राक्षसीनां सकाशं गत्वा कथयति-भगिन्यः, किं युष्माकं सिंहलेन सार्थवाहेन ? मया सिंहकेसरिणो राज्ञः सान्तः-पुरस्यास्वापनं दत्तम्। आगच्छत, तं भक्षयाम इति। ता विकृतकरचरणनासाः परमभैरवमात्मानमभिनिर्माय रात्रौ सिंहकल्पामागताः। ताभिरसौ राजा सान्तःपुरपरिवारो भक्षितः। प्रभातायां रजन्यां राजद्वारं न मुच्यते। राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रामितुमारब्धाः। अमात्या भटबलाग्रनैगमजनपदाश्च राजद्वारे तिष्ठन्ति। एष शब्दः सिंहकल्पायां राजधान्यां समन्ततो विसृतः-राजद्वारं न मुच्यते। राजगृहस्योपरिष्टात्कुणपखादकाः पक्षिणः परिभ्रमन्ति। अमात्या भटबलाग्रं नैगमजनपदाश्च राजद्वारे तिष्ठन्तीति। सिंहलेन सार्थवाहेन श्रुतम्। स त्वरितत्वरितं खङ्गमादाय गतः। स कथयति- भवन्तः, क्षमं चिन्तयत। तया राक्षस्या राजा खादित इति। अमात्याः कथयन्ति- कथमत्र प्रतिपत्तव्यमिति ? स कथयति-निश्रयणीमानयत, पश्यामीति। तैरानीता। सिंहलः सार्थवाहः खङ्गमादाय निरूढः। तेन ताः संत्रासिताः। तासां काश्चिद्दस्तपादानादाय निष्पलायिताः, काश्चिच्छिरः। ततः सिंहलेन सार्थवाहेन राजकुलद्वाराणि भुक्तानि। अमात्यै राजकुलं शोधितम्। पौरामात्यजनपदाः संनिपत्य कयथन्ति-भवन्तः, राजा सान्तःपुरपरिवारो राक्षसीभिर्भक्षितः। कुमारो नास्य, कमत्राभिषिञ्चाम इति ? तत्रैके कथयन्ति-यः सात्त्विकः प्राज्ञश्चेति। अपरे कथयन्ति- सिंहलात्सार्थवाहात् कोऽन्यः सात्त्विकः प्राज्ञश्च? सिंहलं सार्थवाहमभिषिञ्चाम इति। एवं कुर्मः। तैः सिंहलः सार्थवाह उक्तः-सार्थवाह, राज्यं प्रतीच्छेति। स कथयति-अहं वणिक्संव्यवहारोपजीवी। किं मम राज्येनेति ? ते कथयन्ति- सार्थवाह, नान्यः शक्नोति राज्यं धारयितुम्। प्रतीच्छेति। स कथयति-समयेन प्रतीच्छामि यदि मम वचनानुसारिणो भवथ। प्रतीच्छ, भवामः, शोभबं ते। तैरसौ नगरशोभां कृत्वा महता सत्कारेण राज्येऽभिषिक्तः। तेन नानादेशनिवासिनो विद्यावादिका आहूय भूयस्या मात्रया विद्या शिक्षिता, एवमिष्वस्त्राचार्या इष्वस्त्राणि। अमात्यानां चाज्ञा दत्ता-सज्जीक्रियतां भवन्तश्चतुरङ्गबलकायम्। गच्छामः, ता राक्षसीस्ताम्रद्वीपान्निर्वासयाम इति। अमात्यैश्चतुरङ्गबलकायं संनाहितम्। सिंहलो राजा चतुरङ्गाद्बलकायाद्वरवराङ्गान् हस्तिनोऽश्वान् रथान् मनुष्यांश्च वहनेष्वारोप्य ताम्रद्वीपं संप्रस्थितः। अनुपूर्वेण समुद्रतीरमनुप्रातः। तासां राक्षसीनामापणस्थानीयो ध्वजः कम्पितुमारब्धः। ताः संजल्पं कर्तुमारब्धाः-भवत्यः, आपणस्थानीयो ध्वजः कम्पते। नूनं जाम्बुद्वीपका मनुष्या युधाभिनन्दिन आगताः। समन्वेषाम इति। ताः समुद्रतीरं गताः। यावत् पश्यन्ति अनेकशतानि यानपात्राणि समुद्रतीरमनुप्राप्तानि। दृष्ट्वा च पुनस्ता अर्धेन प्रत्यद्गताः। ततो विद्याधारिभिराविष्टा इष्वस्त्राचार्यैः संप्रघातिताः। अवशिष्टाः सिंहलस्य राज्ञः पादयोर्निपत्य कथयन्ति-देव, क्षमस्वेति। स कथयति-समयेन क्षमे, यदि यूयमेतन्नगरमुत्कीलयित्वा अन्यत्र गच्छथ, न च मद्विजिते कस्यचिदपराध्यथेति। ताः कथयन्ति-देव, एवं कुर्मः। शोभनम्। तं नगरमुत्कीलयित्वा अन्यत्र गत्वावस्थिताः। सिंहलेनापि राज्ञा आवासितमिति सिंहलद्वीपः सिंहलद्वीप इति संज्ञा संवृत्ता॥



किं मन्यध्वे भिक्षवो योऽसौ सिंहलः, अहमेव स तेन कालेन तेन समयेन। योऽसौ सिंहकेसरी राजा, एष एव स महल्लस्तेन कालेन तेन समयेन। या सा राक्षसी, एषैवानुपमा तेन कालेन तेन समयेन। तदाप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः। एतर्ह्यप्येष अनुपमाया अर्थे अनयेन व्यसनमापन्नः॥



माकन्दिकः परिव्राजकोऽनुपमामादाय कौशाम्बीं गतः। अन्यतमस्मिन्नुद्यानेऽवस्थितः। उद्यानपालकपुरुषेण राज्ञ उदयनस्य वत्सराजस्य निवेदितम्-देव, स्त्री अभिरूपा दर्शनीया प्रासादिका उद्याने तिष्ठति। देवस्यैषा योग्येति श्रुत्वा राजा तद्युद्यानं गतः। तेनासौ दृष्टा। हारीणीन्द्रियाणि। सहदर्शनादेवाक्षिप्तहृदयः। तेन माकन्दिकः परिव्राजक उक्तः-कस्येयं दारिका ? स आह-देव, मद्दुहिता देव, न कस्यचिद्। मम कस्मान्न दीयते ? देव, दत्ता भवतु राज्ञः। शोभनम्। महाराजस्य बहवः पण्यपरिणीताः। तस्य पुष्पदन्तस्य परिणीता। तस्याः पुष्पदन्तस्य प्रासादस्यार्धं दत्तम्, पञ्चोपस्थायिकाशतानि दत्तानि, पञ्च च कार्षापणशतानि दिने दिने गन्धमाल्यनिमित्तम्। माकन्दिकः परिव्राजकोऽग्रामात्यः स्थापितः। तेन खलु पुनः समयेनोदयनस्य राज्ञस्त्रयोऽग्रामात्या योगन्धरायणो घोषिलो माकन्दिक इति। यावदपरेण समयेन उदयनस्य राज्ञः पुरुष उपसंक्रान्तः। राज्ञा पृष्टः- कस्त्वमिति ? स कथयति-देव प्रियाख्यायीति। अमात्यानामाज्ञा दत्ता-भवन्तः, प्रयच्छत प्रियाख्यायिनो वृत्तिमिति। तैस्तस्य वृत्तिर्दत्ता। यावदपरः पुरुष उपसंक्रान्तः। सोऽपि राज्ञा पृष्टः कस्त्वमिति ? स कथयति- देव अप्रियाख्यायीति। राज्ञा अमात्यानामाज्ञा दत्ता-भवन्तः, प्रयच्छतास्याप्यप्रियाख्यायिनो वृत्तिमिति। ते कथयन्ति-मा कदाचिद्देवोऽप्रियं शृणुयात्। स कथयति-भवन्तः, विस्तीर्णानि राजकार्याणि। प्रयच्छतेति। तैस्तस्यापि वृत्तिर्दत्ता। यावदपरेण समयेन राजा उदयनः श्यामावती अनुपमा चैकस्मिन् स्थाने तिष्ठन्ति। तदा राज्ञा क्षुतं कृतम्। श्यामावत्योक्तम्-नमि बुद्धायेति। अनुपमया नमो देवस्येति। अनुपमा कथयति-महाराज, श्यामावती देवस्य सन्तकं भक्तं भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति। राजा कथयति-अनुपमे, नात्र ह्येवम्। श्यामावत्युपासिका। अवश्यं श्रमणस्य गौतमस्य नमस्कारं करोतीति। सा तूष्णीमवस्थिता। तस्याः प्रेष्यदारिका उक्ताः-दारिके, यदा देवः श्यामावती अहं च रहसि तिष्ठेम, तदा त्वं सोपानके कांसिकां पातयिष्यसीति। एवमस्त्विति। तया तेषां रहस्यवस्थितानां सोपानके कांसिका पातिता। श्यामावत्योक्तम्-नमो बुद्धायेति। अनुपमा नमो देवस्येत्युक्त्वा कथयति-देवस्य सन्तकं भवती भुङ्क्ते, श्रमणस्य गौतमस्य नमस्कारं करोतीति। राजा कथयति-अनुपमे, अत्र मा संरम्भं कुरु, उपासिकैषा, नात्र दोष इति। राजा उदयन एकस्मिन् दिवसे श्यामावत्या सकाशं भुङ्क्ते, द्वितीयदिवसेऽनुपमायाः। राज्ञा शाकुनिकस्याज्ञा दत्ता-यस्मिन् दिवसे श्यामावत्या भोजनवारः, तस्मिन् दिवसे जीवन्तः कपिंजला आनेतव्या इति। शाकुनिकेन जीवन्तः कपिंजला राज्ञ उपनीताः। राजा कथयति-अनुपमायाः समर्पयेति। अनुपमया श्रुतम्। सा कथयति-देव, न मम वारः। श्यामावत्या वार इति। राजा कथयति-गच्छ भोः पुरुष, श्यामावत्याः समपर्येति। तेन श्यामावत्याः सकाशमुपनीतः-देवस्यार्थाय साधयेति। सा कथयति- किमहं शाकुनिकायिनी ? न मम प्राणातिपातः कल्पते। गच्छेति। तेन राज्ञ्ये गत्वा निवेदितम्-देव, श्यामावती कथयति-किमहं शाकुनिकायिनी ? न मम प्राणातिपातः कल्पते। गच्छेति। अनुपमा श्रुत्वा कथयति-देव, यद्यसावुच्यते श्रमणस्य गौतमस्यार्थाय साधयेति सांप्रतं सपरिवारा साधयेत्। राजा संलक्षयति-स्यादेवम्। तेनासौ पुरुष उक्तः गच्छ भोः पुरुष, एवं वद-भगवतोऽर्थाय साधयेति। संप्रस्थितोऽनुपमया प्रयच्छन्नमुक्तः-प्रघातयित्वानयेति। तेन प्रघातयित्वा श्यामावत्या उपनीताः। देवः कथयति-भगवतोऽर्थाय साधयेति। सा सपरिवारा उद्युक्ता। शाकुनिकेन गत्वा राग़्ये निवेदितम्-सा देव सपरिवारा उद्युक्तेति। अनुपमा कथयति-श्रुतं देवेन ? यदि तावत्प्राणातिपातो न कल्पते, श्रमणस्यार्थान न कल्पते, देवस्यापि कल्पते? देवस्य न कल्पते इति कुत एतत्? राजा पर्यवस्थितो धनुः पूरयित्वा संप्रस्थितः। मित्रामित्रमध्यमो लोकः। अपरया श्यामावत्या निवेदितम्-देवोऽत्यर्थं पर्यवस्थितो धनुः पूरयित्वा आगच्छति, क्षमयेति। तया स्वोपनिषदुक्ताः-भगिन्यः, सर्वा यूयं मैत्रीं समापद्यध्वमिति। ताः सर्वा मैत्रीसमापन्नाः। राज्ञा आ कर्णाद्धनुः पूरयित्वा शरः क्षिप्तः। सोऽर्धमार्गे पतितः। द्वितीयः क्षिप्तः। स निवर्त्य राज्ञः समीपे पतितः। तृतीयं क्षेप्तुमारब्धः। श्यामावती कथयति-देव, मा क्षेप्स्यसि। मा सर्वेण सर्वं न भविष्यतीति। राजा विनीतः कथयति-त्वं देवी नागी यक्षिणी गन्धर्वी किन्नरी महोरगीति ? सा कथयति-न। अथ का त्वम् ? भगवतः श्राविका अनागामिनी। मया भगवतोऽन्तिकेऽनागामिफलं साक्षात्कृतम्, एभिश्च पञ्चभिः स्त्रीशतैः सत्यानि दृष्टानीति। राजा अभिप्रसन्नः कथयति-वरं तेऽनुप्रयच्छामीति। सा कथयति-यदि देवोऽभिप्रसन्नः, यदा देवोऽन्तःपुरं प्रविशति, तदा ममान्तिके धर्मान्वयमुपस्थापयेदिति। राजा कथयति-शोभनम्। एवं भवत्विति। सोऽनुपमायाः श्यामावत्या अन्तिके धर्मान्वयं प्रसादयति। यान्यस्य नवसस्यानि नवफलानि नवर्तुकानि समापद्यन्ते, तानि तत्प्रथमतः श्यामावत्याः प्रयच्छति। ईर्ष्याप्रकृतिर्मातृग्रामः। अनुपम संलक्षयति-अयं राजा मया सार्धं रतिक्रीडां प्रत्यनुभवति। श्यामावत्या नवैः फलैः नवैः सस्यकैर्नवर्तुकैः कारां करोति। तदुपायसंविधानं कर्तव्यं येनैषा प्रघात्यत इति। सा च तस्याः प्रघातनाय रन्ध्रान्वेषणतत्परा अवस्थिता। राज्ञश्चान्यतमः कार्वटिको विरुद्धः। तेनैकं दण्डस्थानं प्रेषितम्। तद्धतप्रहतमागतम्। एवं द्वितीयं तृतीयम्। आमात्याः कथयन्ति-देवस्य बलं हीयते, कार्वटिकस्य बलं वर्धते। यदि देवः स्वयमेव न गच्छति, स्थानमेतद्विद्यते यत् सर्वथासौ दुर्दम्यो भविष्यति। तेन कौशाम्ब्यां घण्टावघोषणं कारितम्-यो मम विजिते कश्चिच्छस्त्रोपजीवी प्रतिवसति, तेन सर्वेण गन्तव्यमिति। तेन संप्रस्थितेन योगन्धरायण उक्तः-त्वमिह तिष्ठेति। स न संप्रतिपद्यते। स कथयति-देवेनैव सार्धं गच्छामीति। घोषिलोऽप्युक्त एवमेव कथयति। राज्ञा कामन्दिकः स्थापितः उक्तश्च-श्यामावत्या योगेद्वहनं कर्तव्यमिति। संप्रस्थितेनाप्यनुव्रहन् स एवमेवोक्तः। निवर्तमानेनापि तेन संप्रतिपन्नम्। सोऽनुपमायाः सकाशं गतः। तया पृष्टः-तात, क इह देवेन स्थापितः ? अहम्। सा संलक्षयति-शोभनम्। शक्यमनेन सहायेन वैरनिर्यातनं कर्तुमिति विदित्वा कथयति-नानुजानीषे श्यामावती का मम भवतीति। पुत्रि, जाने सपत्नीति। तात सत्यमेवम्। नानुजानीषे कतरो धर्मोऽत्यर्थं बाधत इति ? पुत्रि, जाने ईर्ष्या मात्सर्यं च। तात यद्येवम्, श्यामावतीं प्रघातय। स कथयति-किं मे द्वे शिरसी ? यावत् त्रिरप्यहं राज्ञा संदिष्टः-श्यामावत्या योगोद्वाहनं करिष्यसीति। भवतु नामापि न गृहीतुमिति। सा कथयति-तात, ईदृशोऽपि त्वं मूर्खः ? अस्ति कश्चित्पिता दुहितुरर्थे विमुखः, यः सपत्न्याः सकाशे अतीव स्नेहं करोति ? प्रघातयसीत्येवं कुशलम्। नो चेदहं पौराणे स्थाने स्थापयामीति। स भीतः संलक्षयति-स्त्रीवशगा राजानः। स्यादेवमिति विदित्वा कथयति-पुत्रि, नैवमेव शक्यते प्रघातयितुम्, उपायविधानं करोमीति। सा कथयति-शोभनम्। एवं कुरु। स श्यामावत्याः सकाशं गतः। स कथयति-देवि, किं ते करणीयमस्ति ? सा कथयति-माकन्दिक, न किंचित्करणीयमस्ति। अपि त्वेता दारिका रात्रौ प्रदीपेन बुद्धवचनं पठन्ति, अत्र भूर्जेन प्रयोजनं तैलेन मसिना कलमया तुलेन। स कथयति-देवि, शोभनम्। उपावर्तयामीति। तेन प्रभूतमुपावर्त्य प्रवेशितम्, द्वारकोष्ठके राशिर्व्यवस्थापितः। श्यामावती कथयति-माकन्दिक, अलं पर्याप्तमिति। माकन्दिकः कथयति-देवि प्रवेशयामि, न भूयो भूयः प्रवेशितव्यम्। तेनापश्चिमे भूर्जभारकेऽग्निं प्रक्षिप्य शरः प्रवेशितः। तेन संधुक्षितेन द्वारकोष्ठकः प्रज्वालितः। कौशाम्बीनिवासी जनकायः प्रधावितो निर्वापयितुम्। माकन्दिको निष्कोषमसिं कृत्वा जनकायं निर्वासयितुमारब्धः। तिष्ठतः, किं यूयं राज्ञोऽन्तःपुरं द्रष्टुम् ? कौशाम्ब्यां यन्त्रकराचार्यः कथयति-अहमेनं द्वारकोष्ठकं ज्वलन्तं यन्त्रेणान्यस्थानं संक्रमयामीति। सोऽपि माकन्दिकेनैवमेवोक्तो निवर्तितः। श्यामावती ऋद्ध्या आकाशमुत्प्लुत्य कथयति-भगिन्यः, अस्माभिरेवैतानि कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। अस्माभिरेव कृत्यान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? उक्तं च भगवता-



नैवान्तरिक्षे न समुद्रमध्ये

न पर्वतानां विवरं प्रविश्य।

न विद्यते स पृथिवीप्रदेशो

यत्र स्थितं न प्रसहेत कर्म॥२२॥ इति।



तत्कर्मपरायणैर्वो भवितव्यमित्युक्त्वा गाथां भाषते -



दृष्टो मया स भगवान् तिर्यक्प्राकारसंनिभः।

आज्ञातानि च सत्यानि कृतं बुद्धस्य शासनम्॥२३॥इति।



श्यामावतीप्रमुखास्ताः स्त्रियः पतङ्ग इवोत्प्लुत्याग्नौ निपतिताः। इति तत्र श्यामावतीप्रमुखानि पञ्च स्त्रीशतानि दग्धानि। कुब्जोत्तरा ससंभ्रमेण निष्पलायिता। माकन्दिकेन तेषां पञ्चानां स्त्रीशतानां कलेवराणि श्मशाने छोरितानि। राजकुलं सान्तर्बहिः शोधितम्। कौशाम्बीनिवासी जनकायो नानादेशाभ्यागतश्च विक्रोशन्निवारितः॥



अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय कौशाम्बीं पिण्डाय प्राविक्षन्। अश्रौषुः संबहुला भिक्शवः कौशाम्बीनगरे उदयनस्य वत्सराजस्य जनपदान् गतस्य अन्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि। श्रुत्वा च पुनः कौशाम्बीं पिण्डाय प्रविश्य चरित्वा प्रतिक्रम्य पुनर्येन भगवांस्तेनोपसंक्रान्ता एतदूचुः-अश्रौष्म वयं भदन्त संबहुला भिक्षवो कौशाम्बीं पिण्डाय चरन्त उदयनस्य वत्सराजस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि श्यामावतीप्रमुखानि दग्धानि॥



भगवानाह-बहु भिक्षवस्तेन मोहपुरुषेणापुण्यं प्रसूतं येनोदयनस्य वत्सराजस्य जनपदगतस्यान्तःपुरमग्निना दग्धं पञ्चमात्राणि स्त्रीशतानि स्यामावतीप्रमुखानि। किं चापि भिक्षवस्तेन मोहपुरुषेण बह्वपुण्यं प्रसूतम्, अपि तु न ता दुर्गतिं गताः। सर्वाः शुद्धपुद्गलाः कालगताः। तत्कस्य हेतोः ? सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः पञ्चानामवरभागीयानां संयोजनानां प्रहाणादुपपादुकाः। तत्र परिनिर्वायिण्योऽनागामिन्योऽनावृत्तिकधर्मिण्यः पुनरिमं लोकम्। एवंरूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां कालं कृत्वा सकृदागामिन्यः, सकृदिमं लोकमागम्य दुःखस्यान्तं करिष्यन्ति। एवंरूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। सन्ति तस्मिन्नन्तःपुरे स्त्रियो यास्त्रयाणां संयोजनानां प्रहाणाच्छ्रोतापन्ना अविनिपातधर्मिण्यो नियतसमाधिपरायणाः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाव्य संसृत्य दुःखस्यान्तं करिष्यन्ति। एवंरूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। सन्ति तस्मिन्नन्तःपुरे स्त्रियो याः स्वजीवितहेतोरपि शिक्षां न व्यतिक्रान्ताः। इत्येवंरूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। सन्ति तस्मिन्नन्तःपुरे स्त्रियो या ममान्तिके प्रसन्नचित्तालंकारं कृत्वा कायस्य भेदात्सुगतौ स्वर्गलोके देवेषुपपन्नाः। एवंरूपास्तस्मिन्नन्तःपुरे स्त्रियः सन्ति। आगम्यत भिक्षवो येन श्यामावतीप्रमुखानां पञ्चस्त्रीशतानां कलेवराणि। एवं भदन्तेति भिक्षवो भगवतः प्रत्यश्रौषुः। अथ खलु भगवान् संबहुलैर्भिक्षुभिः सार्धं येन तासां पञ्चानां स्त्रीशतानां कलेवराणि तेनोपसंक्रान्तः। उपसंक्रम्य भिक्षूनामन्त्रयते स्म-एतानि भिक्षवस्तानि पज्ञ्चशतकलेवराणि यत्र उदयनो वत्सराजो रक्तः सक्तो गृद्धो ग्रथितो मूर्च्छितोऽध्यवसितोऽध्यवसायमापन्नः। तत्र नैव प्राज्ञधीः पादेनापि स्पृशेत्। गाथां च भाषते -



मोहसंवर्धनो लोको भव्यरूप इव दृश्यते।

उपधिबन्धना बालास्तमसा परिवारिताः।

असत्सदिति पश्यन्ति पश्यतां नास्ति किंचन॥२४॥ इति।



एवं चाह- तस्मात्तर्हि भिक्षव एवं शिक्षितव्यम्, यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काये। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



अथ कौशाम्बीनिवासिनः पौराः संनिपत्य संजल्पितुमारब्धाः-भवन्तः, राज्ञ ईदृशोऽनर्थः संवृत्त। तत्को न्वस्माकं राज्ञं आरोचयिष्यतीति ? तत्रेकै कथयन्ति-योऽसावप्रियाख्यायी स आरोचयिष्यति। तं शब्दयाम इति। अपरे कथयन्ति- एवं कुर्मः। तैरसावाहूयोक्तः- देवस्येदमीदृशमप्रियमनुपूर्व्या निवेदयेति। वृत्तिर्दीयताम्। किमप्रियाख्यायिनो वृत्तिर्दीयत इत्ययं स कालः। यूयमेव निवेदयत। ते कथयन्ति-अतोर्थमेव तव वृत्तिर्दत्ता। कार्यं निवेदयेति। समयतो निवेदयामि यदहं ब्रवीमि तत्कुरुध्वम् ? ब्रूहि, करिष्यामः। एवमनुपूर्वेणास्य निवेदयितव्यम् - पञ्चहस्तिशतानि प्रयच्छत, पञ्चहस्तिनीशतानि पञ्चाश्वशतानि

पञ्चवडवाशताणि पञ्चकुमारशरानि पञ्चकुमारिकाशतानि सुवर्णलक्षं कौशाम्ब्यधिष्ठानम्। पटे लेखयत पुष्पदन्तप्रासादं यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे च भूर्जभागेऽग्निः प्रक्षिप्तः। यथा द्वारकोष्ठकः प्रज्वालितः, यथा कौशाम्बीनिवासी जनकायो निर्वापयितुं प्रधावितः, यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः। यथा यन्त्रकलाचार्य आगत्य कथयति-द्वारकोष्ठकं ज्वलन्तमन्यत् स्थानं संक्रमयामीति। सोऽपि माकन्तिकेन निवारितः। यथा श्यामावतीप्रमुखानि पञ्चस्त्रीशतान्युत्प्लुत्य निपतितानि। ते कथयन्ति-एवं कुर्मः। तैः पञ्चहस्तिशतान्युपस्थापितानि पञ्चहस्तिनीशतानि पञ्चश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं कौशाम्ब्यधिष्ठानं पटे लिखितं पुष्पदन्तप्रासादः। यथा माकन्दिकेन भूर्जं कलमा तैलं तूलमसिरपश्चिमे भूर्जभारकेऽग्निः प्रक्षिप्तो यथा द्वारकोष्ठके प्रज्वालितः। यथा कौशाम्बीनिवासी जनकायो निर्वापयितुं प्रधावितः। यथा माकन्दिकेन निष्कोषमसिं कृत्वा निवारितः। यथा यन्त्रकलाचार्य आगतः-अहमेनं द्वारकोष्ठकं ज्वलन्तमन्यत् स्थानं संक्रमयामीति, सोऽपि माकन्दिकेन निवारितः। यथा श्यामावतीप्रमुखानि पञ्चस्त्रीशतान्यग्नावुत्प्लुत्य निपतितानि, तत्सर्वं पटे लिखितम्। ततोऽप्रियाख्यायिनोऽमात्यानां लेखोऽनुप्रेषितो राज्ञ ईदृशोऽनर्थ उत्पन्नोऽहमस्यानेनोपायेन निवेदयिष्यानि। युष्माभिः साहाय्यं कल्पयितव्यमिति स तेषां लेखां लेखयित्वा चतुरङ्गबलकाययुक्तोऽन्यतमस्मिन् प्रदेशे गत्वावस्थितः। उदयनस्य च लेखोऽनुप्रेषितः-देव, अहममुष्मिन् प्रदेशे राजा। मम च पुत्रो मृत्युनापहृतः। तदहं तेन सार्धं संग्रामं संग्रामयिष्यामि। यदि तावत्त्वं शक्नोषि युद्धेन नियोक्तुमित्येवं कुशलम्, नो चेत्पञ्चहस्तिशतानि पञ्चहस्तिनीशतानि पञ्चाश्वशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चमुकारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति। राज्ञ उदयनस्य स कार्वटिको बलवान् संनामं न गच्छति। सोऽमात्यानां कथयति- भवन्तः, ईदृशोऽपि राजा मूर्खः ? अस्ति कश्चिन्मृत्युनापहृतः शक्यत आनेतुम् ? तद्गतम्। एतत्तस्यैवं लिखितम्-ममैवंनामा कार्वटिकः संनामं न गच्छति। स त्वमस्माकं तावत्साहाय्यं कल्पय, पश्चात्तवापि साहाय्यं करोमीति। सोऽमात्यैस्तस्यैवं लेखोऽनुप्रेषितः। स लेखश्रवणादेवागत्य कार्वटिकस्य नातिदूरे व्यवस्थापितः। कार्वटिकेन श्रुतम्। स संलक्षयति-एकेन तावदहं राज्ञा दश दिशो विश्रान्तः, अयं च द्वितीयः। सर्वथा पुनरपि विषयान्न तु प्राणान्निर्गच्छामीति। स कण्ठेऽसिं बद्ध्वा निर्गत्य राज्ञ उदयनस्य पादयोर्निपतितः। स राज्ञा उदयनेन करदो व्यवस्थापितः। अथासावप्रियाख्यायी राजलीलया राज्ञ उदयनस्य सकाशं गत्वा कथयति-देव, मम पुत्रो मृत्युना अपहृतः। त्वं मम देवः साहाय्यं कल्पयतु। अहं तेन सार्धं संग्रामं संग्रामयिष्यामीति। यदि तावत्त्वं शक्नोषि युद्धेन निर्जेतुमित्येवं कुशलम्, नो चेत्पञ्चहस्तिशतानि पञ्चहस्तिनीशतानि पञ्चवडवाशतानि पञ्चकुमारशतानि पञ्चकुमारिकाशतानि सुवर्णस्य लक्षं दत्वा तमानेष्यामीति। उदयनो राजा कथयति-प्रियवयस्य, मूर्खस्त्वम्। अस्ति कश्चिच्छक्यते मृत्योः सकाशादानेतुमिति ? स कथयति-देव, न शक्यते। यद्येवम्, इमं पटं पश्येति। तेन पटः प्रसारितः। राजा पटं निरीक्ष्य मर्मवेधविद्ध इव रुष्यमाणः कथयति-भोः किम् ? कथयति-भोः पुरुष, किं कथयसि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निगा दग्धानीति ? स पट्टं मौलिं चापनीय गाथां भाषते -



नाहं नरेन्द्रो न नरेन्द्रपुत्रः

पादोपजीवी तव देव भृत्यः।

अथाप्रियस्तेव निवेदनार्थ-

मिहागतोऽहं तव पादमूलम्॥२५॥ इति।



राजा सुतरां निरीक्ष्य विचारयति। इयं कौशाम्बी नगरी, इदं राजकुलम्, अयं माकन्दिकः पुष्पदन्तं प्रासादं भूर्जादिना प्रयोगेण दहति, इमानि श्यामावतीप्रमुखानि पञ्च स्त्रीशतान्यग्निना दह्यमानान्युत्प्लुत्य निपतितानीति। विचार्य कथयति-भोः पुरुषः, किं कथयसि श्यामावती दग्धेति ? देव, नाहं कथयामि अपि तु देव एव कथयति। भोः पुरुष, उपायेन मे त्वया निवेदितम्, अन्यथा ते मयासिना निकृन्तितमूलं शिरः कृत्वा पृथिव्यां निपातितमन्वभविष्यदित्युत्क्वा मूर्च्छितः पृथिव्यां निपतितः। ततो जलपरिषेकेण प्रत्यागतप्राणः कथयति-संनाहयत भवन्तश्चतुरङ्गबलकायम्। कौशाम्बीं गच्छाम इति। अमात्यैश्चतुरङ्गबलकायं संनाहितम्। राजा कौशाम्बीं संप्रस्थितः। अनुपूर्वेण संप्राप्तः। तेन पौराणां सकाशात् सर्वं श्रुतम्। तैरमर्षितम्। तमारागितम्। ततो योगन्धरायणस्याज्ञा दत्ता-गच्छ माकन्दिकमनुपमया सह यन्त्रगृहे प्रक्षिप्य दह्यताम्। ततो योगन्धरायणेन सुगुप्तं भूमिगृहे प्रक्षिप्य स्थापितः। राज्ञः सप्तमे दिवसे शोको विगतः। स विगतशोकः। स कथयति-योगन्धरायण, कुत्रानुपमेति ? तेन यथावृत्तं निवेदितम्। राजा कथयति-शोभनम्। माकन्दिकेन श्यामावती प्रघातिता, त्वयाप्यनुपमया सपरिवारया सार्धं मया प्रव्रजितव्यं जातमिति। योगन्धरायणः कथयति-देव, इत्यर्थमेव मया असौ भूमिगृहे प्रक्षिप्य स्थापिता। पश्यामि तावद्यदि जीवतीति। तेनासौ भूमिगृहादानीता तदवस्थानाक्लिष्टा अम्लानशरीरा। राजा दृष्ट्वा संलक्षयति-यथेय-मम्लाना, नैषा निराहारा। नूनमनया परपुरुषेण सार्धं परिचारितमिति विदित्वा कथयति-अनुपमे, अन्येन परिचारितमिति ? सा कथयति-शान्तं पापम्, नाहमेवंकारिणी। कथं जाने ? अभिश्रद्दधसि त्वं भगवतः ? अभिश्रद्दधे गौतमे। तत्तदा श्रमणो गौतमः, इदानीं भगवान्। अपि तु किं नवशवाया अर्थे भगवन्तं प्रवक्ष्यामि, श्यामावत्या अर्थे प्रवक्ष्यामीति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। उदयनो वत्सराजो भगवन्तमिदमवोचत्-किं भदन्त श्यामावतीप्रमुखैः पञ्चभिः स्त्रीशतैः कर्म कृतं येनाग्निना दग्धानि ? कुब्जोत्तरा अनुक्रमेण निष्पलायितेति। भगवानाह-आभिरेव महाराट् कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥



भूतपूर्वं महाराज वाराणस्यां नगर्यां ब्रह्मदत्तो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च पूर्ववद्यावद्धर्मेण राज्य कारयति। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् वाराणसीमनुप्राप्तः। सोऽन्यतमस्मिन्नुद्याने कुटिकायामवस्थितः। राजा च ब्रह्मदत्तः सान्तःपुरपरिवारस्तदुद्यानं निर्गतः। ता अन्तःपुरिकाः क्रीडापुष्किरिण्यां स्नात्वा शीतेनानुबद्धाः। ततोऽग्रमहिष्या प्रेष्यदारिकोक्ता-दारिके, शीतेनातीव बाध्यामहे। गच्छ, एतस्यां कुटिकायामग्निं प्रज्वलयेति। सा उल्कां प्रज्वल्य गता। पश्यति तं प्रत्येकबुद्धम्। तया तस्या निवेदितम्-देवि, प्रव्रजितोऽस्यां तिष्ठतीति। सा कथयति-प्रव्रजितो वा तिष्ठतु, अग्निं दत्वा तां प्रज्वलयेति। तया न दत्तम्। ततस्तया कुपितया स्वयमेव दत्तम्। स प्रत्येकबुद्धो निर्गतः। आभिः सर्वाभिरन्तःपुरिकाभिरनुमोदितम्। देवि, शोभनं त्वया यदग्निर्दत्तः। सर्वा वयं प्रतप्ता इति। स प्रत्येकबुद्धः संलक्षयति-क्षता एतास्तपस्विन्य उपहताश्च। मा अत्यन्तक्षता एता भविष्यन्ति। अनुग्रहमासां करोमीति। स तासामनुकम्पार्थं तत एवाकाशमुत्प्लुत्य तपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। ता मूलनिकृन्तित इव द्रुमः पादयोर्निपत्य क्षमयितुमारब्धाः। अवतरावतर सद्भूतदक्षिणीय, अस्माकं कामपङ्कनिमग्नानां हस्तोद्धारमनुप्रयच्छेति। स तासामनुकर्म्पार्थमवतीर्णः। तानि तस्मिन् कारां कृत्वा प्रणिधानं कर्तुमारब्धाः-यदस्माभिरेवं सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो विपाकमनुभवेम। यत्तु काराः कृताः, अनेन वयं कुशलमूलेनैवंविधानां धर्माणां लाभिन्यो भवेम, प्रतिविशिष्टतरं चातः शास्तारमारागयेम इति॥



कि मन्यसे महाराज तदा यासौ राज्ञो ब्रह्मदत्तस्याग्रमहिषी, एषैव सा श्यामावती तेन कालेन तेन समयेन। यानि पञ्च स्त्रीशतानि, एतान्येव तानि पञ्च स्त्रीशतानि तानि तेन कालेन तेन समयेन। या सा प्रेष्यदारिका, एषैवासौ कुब्जोत्तरा तेन कालेन तेन समयेन। यदाभिः प्रत्येकबुद्धस्य कुटिकां दग्ध्वा अनुमोदितम्, तस्य कर्मणो विपाकेन बहूनि वर्षाणि नरकेषु पक्ता यावदेतर्ह्यपि दृष्टसत्या अग्निना दग्धाः। कुब्जोत्तरा अनुक्रमेण निष्पलायिता। यत्प्रणिधानं कृतं तेन ममान्तिके सत्यदर्शनं कृतम्। इति हि महाराज एकान्तकृष्णानां कर्माणां पूर्ववद्यावदेवमाभोगः करणीयः। इत्येवं ते महाराजं शिक्षितव्यम्। अत्रोदयनो वत्सराजो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त कुब्जोत्तरया कर्म कृतं येन कुब्जा संवृत्ता ? भगवानाह-कुब्जोत्तरयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावद् फलन्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति पूर्ववद्यावद्धर्मेण राज्यं कारयति। नैमित्तिकौर्द्वादशवार्षिका अनावृष्टिरादिष्टा। राज्ञा वाराणस्यामेवं घण्टावघोषणं कारितम् -यस्य द्वादशवार्षिकं भक्तमस्ति, तेन् अस्थातव्यम्। यस्य नास्ति तेनान्यत्र गन्तव्यमिति यतः कालेनागन्तव्यमिति। तेन खलु समयेन वारानस्यां संधानो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः पूर्ववद्यावद् वैश्रवणधनप्रतिस्पर्धी। तेन कोष्ठागारिक आहूयोक्तः-भोः पुरुष, भविष्यति मम सपरिवारस्य द्वादश वर्षाणि भक्तमिति ? स कथयति-आर्य, भविष्यतीति। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते पूर्ववद्यावद्भोः पुरुष, विन्यस्य प्रव्रजितसहस्रस्य मम द्वादश वर्षाणि भक्तमिति। स कथयति-आर्य, भविष्यतीति। तेन तेषां प्रतिज्ञातम्। दानशाला मापिताः। पूर्ववत्तत्र दिने दिने प्रत्येकबुद्धसहस्रं भुङ्क्ते। तत्रैकः प्रत्येकबुद्धो ग्लानः। सोऽन्यतमस्मिन् दिने नागच्छति। संधानस्य दुहिता कथयति-तात, एकोऽद्य प्रव्रजितो नागत इति। स कथयति-पुत्रि, कीदृश इति। सा पृष्ठं विनामयित्वा कथयति-तात, ईदृश इति। यदनया प्रत्येकबुद्धो विनाडितः, तस्य कर्मणो विपाकेन कुब्जा संवृत्ता।



पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त, कुब्जोत्तरया कर्म कृतं येन श्रुतधरा जातेति ? भगवानाह-तेन कालेन तेन समयेन प्रत्येकबुद्धानां यः संघस्थविरः स वाय्वाधिकः। तस्य भुञ्जानस्य पात्रं कम्पते। तस्य संधानदुहित्रा हस्तात् कटानवतार्य स प्रत्येकबुद्ध उक्तः-आर्य, तैस्तत्पात्रं स्थापयेति। तेन तत्र स्थापितम्। निष्कम्पमवस्थितम्। तया पादयोर्निपत्य प्रणिधान कृतम्। यथैव तत्पात्रं निष्कम्पमवस्थितम्, एवमेव ममापि संताने ये धर्माः प्रविशेयुः, ते निष्कम्पं तिष्ठन्त्विति। यत्तया प्रणिधानं कृतं तस्य कर्मणो विपाकेन श्रुतधरा संवृत्ता॥



पुनरपि भिक्षवो भगवन्तं पप्रच्छुः-किं भदन्त कुब्जोत्तरया कर्म कृतं येन दासी संवृत्तेति ? भगवानाह-अनया भिक्षवस्तत्रैश्वर्यमदमत्तया परिजनो दासीवादेन समुदाचरितः। तस्य कर्मविपाकेन दासी संवृत्ता॥



पुनरपि भिक्षवो भगवन्तं पप्रच्छुः-किं भदन्त अनुपमया कर्म कृतं यदेषा निराहारा भूमिगृहे स्थापिता अम्लानगात्री चोत्थिता। भगवानाह-अनुपमयैव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके द्वे दारिके अन्योन्यसंस्तुतिके क्षत्रियदारिका ब्राह्मणदारिका च। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धोऽन्यतमस्मिञ्छान्ते प्रदेशे रात्रिं वासमुपगतः। अपरस्मिन् दिवसे पूर्वाह्णे निवास्य पिण्डार्थी प्रवलितः। तं दृष्ट्वा ते दारिके प्रसादिते, अस्मै प्रणीतान्नपूर्णं पात्रं प्रयच्छतः। तत्कर्मणो विपाकेनानुपमा जाता, एका घोषिलस्य गृहपतेर्दुहिता जाता महासुन्दरी श्रीमती नाम। एकस्मिन् समये राज्ञा दृष्टा पृष्टा च-कस्येयं कन्या ? मन्त्रिभिः कथितम्-घोषिलस्य गृहपतेः ततो घोषिलो गृहपतिः समाहूयोक्तः-गृहपते, तव दुहितेयं कन्या ? स प्राह-मम देव। कस्मान्मम न दीयते ? दीयतां मह्यम्। स प्राह -देव, दत्ता भवतु। घोषिलेन गृहपतिना दत्ता। उदयनेन वत्सराजेनान्तःपुरं प्रवेश्य महता श्रीसमुदयेन परिणीता। अपरेण समयेन राजा उक्तः-देव, भिक्षुदर्शनमभिकाङ्क्षामीति। स कथयति-आकाङ्क्षसे किं तु भिक्षवो राजकुलं प्रविशन्ति। देव, अहं नाम दारकं प्रवेशिता। सर्वथा यदि भिक्षुदर्शनं न लभे, अद्याग्रेण न भोक्ष्ये न पास्य इति। सा अनाहारतां प्रतिपन्ना। राज्ञा घोषिलो गॄहपतिरुक्तः-गृहपते, न त्वं दुहितरं प्रत्यवक्षसे ? देव, किम् ? अनाहारताम् प्रतिपन्ना। किमर्थम् ? भिक्षुदर्शनमाकाङ्क्षते। तदात्मनो गृहे भक्तं साधित्वा कायां (?) भिक्षुसंधमुपनिमन्त्र्य भोजय, अन्तरेण च द्वारं छेदयेति। राज्ञो घोषिलस्य च संसक्तसीमं गृहम्। घोषिलेन गृहपतिना द्वारं छिन्नम्। ततो भूरि कर्म कारयित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णं घोषिलं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ घोषिलो गृहपतिरुत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अधिवासयतु मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन मम निमन्त्रितं सार्धं भिक्षुसंघेन। पूर्ववद्यावद्भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। भगवानौपधिके स्थितः। शारिपुत्रप्रमुखो भिक्षुसंघः संप्रस्थितः। पञ्चभिः कारणैर्बुद्धा भगवन्त औपधिके तिष्ठन्ति-अभिनिर्हृतं मन्त्रयते स्म। अतुर्णामायुष्मन्त आज्ञा अकोप्या तथागतस्यार्हतः सम्यक्संबुद्धस्य, अरहतो भिक्षोः क्षीणाश्रवस्य उपधिवारकस्य, राज्ञश्च क्षत्रियस्य मूर्ध्नाभिषिक्तस्य। स्मृतिमुपस्थापयति- प्रविशामेति। स प्रविश्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ श्रीमती देवी सुखोपनिषण्णं शारिपुत्रप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद्यावन्नीचतरमासनं गृहीत्वा पुरस्तान्निषण्णा धर्मश्रवणाय। अथायुष्माञ्छारिपुत्रः श्रीमतीं देवीं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। सा सत्यानि न पश्यति। आयुष्माञ्च्छारिपुत्रः संलक्षयति-किमस्याः सन्ति कानिचित्कुशलमूलानि ? न सन्तीति पश्यति। सन्ति कस्यान्तिके प्रतिबद्धानि ? पश्यत्यात्मनः। तस्य धर्मं देशयतो विचारयतश्च सूर्यास्तंगमनसमयो जातः। भिक्षव उत्थायासनात्प्रक्रान्ताः। आयुष्माञ्छारिपुत्रः संलक्षयति-किं चापि भगवता नानुज्ञातम्, स्थानमेतद्विद्यते यदेतदेव प्रत्यक्षं कृत्वा अनुज्ञास्यतीति। स विनेयापेक्षया तत्रैवावस्थितः। तेन तस्या आशयानुशयं धातुं च प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा श्रीमत्या विंशतिशिख्रसमुद्गतं सत्कायदृष्टिशैलं पूर्ववद्यावत्सर्वं वाद्यं त्रिशरणगमभिप्रसन्नम्। अथायुष्माञ्छारिपुत्रः श्रीमतीं सत्येषु प्रतिष्ठाप्य प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्ते निषण्ण आयुष्माञ्छारिपुत्र एतत्प्रकरणं भिक्षवो भगवते विस्तरेणारोचयति। भगवानाह-साधु साधु शारिपुत्र, सप्तानामाज्ञा अकोप्या-तथागतस्यार्हतः सम्यक्संबुद्धस्य, अर्हतो भिक्षोः क्षीणाश्रवस्य, राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य, संधस्थविरस्य, उपधिवारिकस्य, आचार्यस्य, उपाध्यायस्य। अथ भगवाञ्छिक्षाकामतया वर्णं भाषित्वा पूर्ववद्यावत् पूर्विका प्रज्ञप्तिः। इयं चाभ्यनुज्ञाता-एवं च मे श्रावकैर्विनयशिक्षापदमुपदेष्टव्यम्। यः पुनर्भिक्षुरनिर्गतायां रजन्यामनुद्गतेऽरुणे अनिर्हृतेषु रत्नेषु रत्नसंमतेषु वा राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य इन्द्रकीलं वा इन्द्रकीलसामन्तं वा समतिक्रामदेन्यत्र तद्रूपात्प्रत्ययात् पापान्तिकेति। यः पुनर्भीक्षुरित्युदायी इति, सो वा पुनरन्योऽप्येवंजातीयः अनिर्गतायां रजन्यामित्यप्रभातायाम्, अनुद्गत इत्यनुदिते अरुणे इति, अरुणः नीलरुणः पीतारुणः ताम्रारुणः। तत्र नीलारुणो नीलाभासः, पीतारूणः पीताभासः, ताम्ररुणः ताम्राभासः। इह तु ताम्रारुणोऽभिप्रेतः। रत्नेषु वेति रत्नान्युच्यन्ते मणयो मुक्ता वैडूर्यं पूर्वद्यावद्दक्षिणावर्तः। रत्नसंमतेषु वेति रत्नसंमतमुच्यते सर्वं संग्रामावचरशस्त्रं सर्वं चगन्धर्वावचरं भाण्डम्। राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्येति वा राजे स्त्र्यपि राज्याभिषिकेणाभिषिक्ता भवति, राजा सः क्षत्रियो मूर्घ्नाभिषिक्तः। क्षत्रियोऽपि ब्राह्मणोऽपि वैश्योऽपि शूद्रोऽपि राज्याभिषेकेणाभिक्षिक्तो भवति राजा क्षत्रियो मूर्ध्नाभिषिक्तः। इन्द्रकीलं वेति त्रय इन्द्रकीलाः। नगरे इन्द्रकीलो राजकुले इन्द्रकीलोऽन्तःपुर इन्द्रकीलश्च। इन्द्रकीलसामन्तं वेति तत्समीपम्। समतिक्रमेदपि विगच्छेत्। अन्यत्र तद्रूपात्प्रत्ययादिति तद्रूपं प्रत्ययं स्थापयित्वा। पापान्तिकेति दहति पचति यातयति पूर्ववत्। तत्रापत्तिः कथं भवति ? भिक्षुरप्रभाते प्रभातसंज्ञी नगरेन्द्रकीलं समतिक्रामति, आपद्यते दुष्कृताम्। अप्रभाते वैमतिकः, आपद्यते दुष्कृतम्। प्रभाते अप्रभातसंज्ञी, आपद्यते दुष्कृतम्। प्रभाते वैमतिकः, आपद्यते दुष्कृतम्। भिक्षुरप्रभाते अप्रभातसंज्ञी अन्तःपुरेन्द्रकीलं समतिक्रामति आपद्यते पापान्तिकम्। प्रभातेऽप्रभातसंज्ञी आयद्यते दुष्कृतम्। प्रभाते वैमतिकः, आपद्यते दुष्कृतम्। अनापत्तिः-राजा शब्दयति-देव्यः कुमारा अमात्या अष्टानामन्तरायाणामन्यतमान्यतममुपस्थितं भवति राजा चौरमनुष्यामनुष्यव्यालाग्न्युदकानाम्। अनापत्तिरादिकर्मिकस्येति पूर्ववत्॥



इति श्रीदिव्यावदाने माकन्दिकावदानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project