Digital Sanskrit Buddhist Canon

३५ चूडापक्षावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 35 cūḍāpakṣāvadānam
३५ चूडापक्षावदानम्।



बुद्धो भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो ब्राह्मणः प्रतिवसति। तेन सदृशात् कुलात् कलत्रमानीतम्। सतया सार्धं क्रीडति रमते परिचारयति। तस्यापत्यं जातं जातं कालं करोति। अथापरेण समयेन तस्य पत्नी आपन्नसत्त्वा संवृत्ता। स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः। तस्य नातिदूरे वृद्धयुवतिः प्रतिवसति। तया दृष्टः। सा कथयति-कस्मात्त्वं ब्राह्मणं करे कपोलं दत्वा चिन्तापरो व्यवस्थितः ? स कथयति- ममापत्यं जातं जातं कालं करोति। मम चेदानीं पत्नी आपन्नसत्त्वा संवृत्ता। यदप्यन्यदपत्यं जनयिष्यति, तदपि कालं करिष्यति। सा कथयति - यदा तव पत्न्याः प्रसवकालः स्यात्, तदा मां शब्दापयेथा इति। अथापरेण समयेन तस्य पत्न्याः प्रसवकालो जातः। तेन सा वृद्धयुवतिः शद्बापिता। तत्या सा प्रसवापिता। पुत्रो जातः। तया स दारकः स्नापयित्वा शुक्लेन वस्रेण वेष्टयित्वा। नवीनीतेनास्यं पूरयित्वा दारिकायां हस्तेऽनुप्रदत्तः। सा दारिकोक्ता-इमं दारकं चतुर्महापथे धारय। यं कंचित् पश्यसि ब्राह्मणं वा श्रमणं वा, स वक्तव्यः-अयं दारकः पादाभिवन्दनं करोतीति। अस्तं गते आदित्ये यदि जीवति, गृहीत्वा आगच्छ। अथ कालं करोति, तत्रैवारोपयितव्यः। सा तमादाय चतुर्महापथे गत्वा स्थिता। आचरितं तीर्थ्यानां कल्यमेवोत्थाय तीर्थोपस्पर्शनाय गच्छन्ति। सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति- अयं दारक आर्याणां पादाभिवन्दनं करोति। ते कथयन्ति-चिरं जीव, दिर्घमायुः पालयतु, मातापित्रोर्मानोरथं पूरयतु। स्थविरस्थविरा भिक्षवः पूर्वाह्नकालसमये निवास्य पात्रचीवरमादाय श्रावस्त्यां पिण्डाय प्रविशन्ति। सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति- अयं दारक आर्याणां पादाभिवन्दनं करोतीति। स्थविराः कथयन्ति-सुचिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोर्मनोरथं पूरयतु। भगवान् पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्रविशति स्म। सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति-भगवन्, भगवन्, अयं दारको भगवतः पादाभिवन्दनं करोतीति। भगवानाह-चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोर्मानोरथं पूरयतु। विकालीभूते पश्यति- यावज्जीवति। सा तं गृहीत्वा गृहमागता। सा तैः पृष्टा- जीवति दारकः ? सा कथयति- जीवति। ते कथयन्ति-कुत्र धारितः ? अस्मिन् महापथे। ते कथयन्ति-किं भवतु दारकस्य नाम ? अयं दारको महापथे धारितः। भवतु दारकस्य महापन्थक इति नाम। महापन्थको दारक उन्नीतो वर्धितो महान् संवृत्तः। स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः, संख्यायां गणनायां मुद्रायां ब्राह्मणिकायामीर्यायां शौचे समुदाचारे भस्मग्रहे औत्करे भोस्कारे ऋग्वेदे यजुर्वेदे सामवेदेऽथर्ववेदे यजने याजनेऽध्ययनेऽध्यापने दाने प्रतिग्रहे। षट्कर्मनिरतो ब्राह्मणो संवृत्तः। स पञ्चशतगणं ब्राह्मणकर्म ॐ वाचयितुमारब्धः। तस्य भूयः क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ताः। तस्याः प्रसवकालो जातः। तेन सा वृद्धयुवतिः शब्दापिता। तत्या प्रसविता। तस्याः पुत्रो जातः। तया स दारकः स्नापयित्वा शुक्लेन वस्त्रेण वेष्टयित्वा नवनीतेनास्यं पूरयित्वा दारिकाया हस्ते दत्तः। सा दारिकोक्ता-इमं त्वं दारकं चतुर्महापथे धारय। यदि कंचित्पश्यसि श्रमणं ब्राह्मणं वा, स वक्तव्यः-अयं दारक आर्यस्य पादाभिवन्दनं करोति। अस्तं गत आदित्ये यदि जीवति, गृहीत्वा आगच्छ। अथ कालं करोति, तत्रैवारोपयित्वा आगच्छ। सा दारिका अलसजतीया तं दारकमादाय पन्थलिकयां स्थिता। आचरितं तीर्थ्यानां कल्यमेवोत्त्थाय तीर्थोपस्पर्शका गच्छन्ति। सा दारिका सगौरवा सप्रतीशा पादाभिवन्दनं कृत्वा कथयति- आर्यं, अयं दारक आर्याणां पादाभिवन्दनं करोति। ते कथयन्ति- चिरं जीवतु, दीर्घमायुः पालयतु, मातापित्रोर्मनोरथं पूरयतु। सा तं विकालीभूते पश्यति- यावज्जीवति। सा तं गृहीत्वा गृहमागता। सा तैः पृष्टा - जीवति दारकः ? सा कथयति- जीवतीति। ते कथयन्ति - कुत्र त्वयैष धारितः ? सा कथयति- अमुष्यां पन्थलिकायाम्। ते कथयन्ति-किं भवतु दारकस्य नाम ? अयं दारकः पन्थलिकायां धारितः। भवतु दारकस्य नामधेयं पन्थक इति। पन्थको दारक उन्नीतो वर्धितो महान् संवृत्तः। स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः। तस्य सीत्युक्ते धमिति विस्मरति। अथ तस्याचार्यः कथयति-बाह्मण, मया प्रभूतदारकाः पाठयितव्याः। न शक्षाम्यहं पन्थकं पाठयितुम्। महापन्थकस्याल्पमुच्यते प्रभूतं गृह्णाति, अस्य तु पन्थकस्य सीत्युक्ते धमिति। विस्मरति। ब्राह्मणः संलक्षयति-सर्वे ब्राह्मणा लिप्यक्षरकुशला भवन्ति, वेदब्राह्मण एष भविष्यति। स तेनाध्यापकस्य वेदं पाठयितुं समर्पितः। तस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति। अध्यापकः कथयति-प्रभूतामाणवकाः पाठयितव्या मया। न शक्याम्यहं पन्थकं पाठयितुम्। अस्य ओमित्युक्ते भूरिति विस्मरति, भूरित्युक्त ओमिति विस्मरति। ब्राह्मणः संलक्षयति-न सर्वे ब्राह्मणा वेदपारगा भवन्ति। जातिब्राह्मण एवायं भविष्यतीति। स यत्र क्कचिन्निमन्त्रितको गच्छति, तमेव पन्थकमादाय गच्छति। अथ तेन समयेन स ब्राह्मणो ग्लानीभूतः। स मूलगण्डपत्रफलभैषज्यैरुपस्थीयमानो हीयत एव। स तेन महापन्थक उक्तः-पुत्र, त्वं ममात्ययादशोच्योऽसि। अपि तु त्वया पन्थकस्य योगोद्वहनं कर्तव्यमिति। इत्युक्त्वा-



सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥१॥



इति स कालधर्मेण संयुक्तः। ते तं नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता सत्कारेण श्मशाने ध्मापयित्वा शोकविनोदं कृत्वा अवस्थिताः॥



आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जानपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ। श्रावस्त्यां जनकायेन श्रुतम्- आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जनपदेषु चारिकां चरन्तौ श्रावस्तीमनुप्राप्तौ। श्रुत्वा च पुनः स जनकायो बहिर्निर्गन्तुमारब्धः। महापन्थकोऽपि बहिः श्रावस्त्यामन्यतमस्मिन् वृक्षमूले पञ्चमात्राणि माणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयति। तेन स जनकायः श्रावस्त्या निर्गच्छन् दृष्टः। स तान् माणवकान् पृच्छति-भवन्तः, क एष महाजनकायो निर्गच्छति ? ते तस्य कथयन्ति- उपाध्याय, भदन्तौ शारिपुत्रमौद्गल्यायनौ पञ्चशतपरिवारौ कोसलेषु जनपदेषु चारिकां चरित्वा इह श्रावस्तीमनुप्राप्तौ, तद्दर्शनायोपसंक्रान्तः। किं नु तौ द्रष्टव्यौ ? यत्रेदानीं तदग्रं वर्णमपहाय द्वितीयवर्णस्य श्रमणस्य गौतमस्यान्तिके प्रव्रजितौ। एकस्तत्र माणवकः श्राद्धः। स कथयति-उपाध्याय, मैवं वोचः। महानुभावौ तौ। यद्युपाध्यायस्तेषां धर्मं शृणुयात्, स्यानमेतद्विद्यते यदुपाध्यायस्यापि रोचते। आचरितं तेषां माणवकानां यदा अपाठा भवन्ति, ते कदाचिन्नगरावलोकनया गच्छन्ति। कदाचित्तीर्थोपस्पर्शका गच्छन्ति। कदाचित्समिधाहारका गच्छन्ति। अपरेण समयेन ते सर्वे अपाठाः संवृत्ताः। ते समिधाहारकाः संप्रस्थिताः। सोऽपि महापन्थकोऽन्यतमवृक्षमूले चंक्रम्य स्थितः। तत्रैकं भिक्षुमद्राक्षीत्। स तमुपसंक्रम्यैवमाह-भो भिक्षो, उच्यतां तावत्किंचिद्बुद्धवचनम्। तेन तस्य दश कुशलाः कर्मपथा विस्तरेण संप्रकाशिताः। सोऽभिप्रसन्नः कथयति-भो भिक्षो, पुनरप्याख्याहि विस्तरम्। इत्युक्त्वा प्रक्रान्तः। अपरेण समयेन भूयस्ते अपाठाः संवृत्ताः। ते समिधाहारकाः संप्रस्थिताः। महापन्थकोऽपि भिक्षुसकाशमुपसंक्रान्तः। तेन तस्य द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमो विस्तरेण प्रकाशितः। सोऽभिप्रसन्नः कथयति- भो भिक्षो, लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेयमहं श्रमणस्य गौतमस्यान्तिके ब्रह्मचर्यम्। स भिक्षुः संलक्षयति-प्रव्राजयामि शासने, धुरमुन्नामयतीति। स तेनोक्तः-ब्राह्मण, एवं कुरुष्व। महापन्थकः कथयति-भिक्षो, वयं प्रज्ञाता ब्राह्मणाः। न शक्ष्याम इहैव प्रव्रजितुम्। जनपदं गत्वा प्रव्रजामः। स तेन जनपदं नीत्वा प्रव्रजितः उपसंपादितः, उक्तश्च। द्वे भिक्षुकर्मणी ध्यानमध्ययनं च। किं करिष्यसि ? उभयं करिष्यामि। तेन दिवा उद्दिशता योनिशो भावयता त्रीणि पिटकानि, रात्रौ चिन्तयता तुलयता उपपरीक्षमाणेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः। सेन्द्रोपेन्द्राणां देवानां मान्यः पूज्योऽभिवाद्यश्च संवृत्तः॥



यदा पन्थकस्य भोगास्तनुत्वं परिक्षयं पर्यादानं गताः, स कृच्छ्रेण जीविकां कल्पयितुमारब्धः। अथ पन्थकस्यैतदभवत्-यत्तावन्मे श्रुतेन प्राप्तव्यं तन्मया ... । यन्न्वहं श्रावस्तीं गत्वा भगवन्तं पर्युपास्यामि। अथायुष्मान् महापन्थकः पञ्चशतपरिवारो येन शावस्ती तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रावस्त्यां जनकायेन श्रुतम्-आर्यो महापन्थकः पञ्चशतपरिवारः कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रुत्वा च पुनर्निर्गन्तुमारब्धः। पन्थकेन दृष्टः। स पृच्छन्ति- भवन्तः, कुत्रैष महाजनकायो गच्छन्ति ? ते कथयन्ति-आर्यो महापन्थकः पञ्चशतपरिवारः कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः। तमेष महाजनकायो दर्शनायोपसंक्रामति। पन्थकः संलक्षयति-एषामसौ न भ्राता न ज्ञातिः। ममासौ भ्राता भवति। अहं कस्मात्तं न दर्शनायोपसंक्रमामि ? सोऽपि तद्दर्शनायोपसंक्रान्तः। स तेन दृष्टः पृष्टश्च-पन्थक, कथं यापयसि ? कृच्छ्रेण यापयामि ? किं न प्रव्रजसि ? स कथयति-अहं चूडः परमचूडो धन्वः परमधन्वः। को मां प्रव्राजयिष्यतीति ? आयुष्मान् महापन्थकः संलक्षयति-सन्त्यस्य कानिचित्कुशलमूलानि ? सन्ति। केनायं न योग्यं ? आगच्छ, अहं त्वां प्रव्राजयिष्यामि। तेन प्रव्राजित उपसंपादितः। तेन तस्योद्देशो दत्तः-



पापं च कुर्यान्मनसा न वाचा

कायेन वा किंचन सर्वलोके।

रिक्तः कामैः स्मृतिमान् संप्रजानन्

दुःखं न स विद्यादनर्थोपसंहितम्॥१॥



तस्यैषा गाथा त्रैमास्येनापि न वृत्ता जाता। अन्येषां गोपालकानां पशुपालकानां श्रुत्वा प्रवृत्ता जाता। सगौरवः सप्रतीश उपसंक्रम्य प्रष्टुं प्रवृत्तः। ते उपसंहरन्ति। धर्मता खलु यथा बुद्धानां भगवतां द्वौ श्रावकाणां संनिपातौ भवतः, आषाढ्यां वर्षोपनायिकायां कार्तिकपूर्णमास्याम्। एवं मदाश्रावकाणामपि। तत्र ये आषाढीवर्षोपनायिकायामुपसंक्रामन्ति, ते तांस्तान् मनसिकारविशेषानादाय तासु तासु ग्रामनिगमराष्ट्राराजधानीषु वर्षा उपगच्छन्ति। ये कार्तिक्यां च पूर्णमास्यामुपसंक्रामन्ति, ते स्वाध्यायनिकां परिपृच्छनिकां च याचन्ति,यथाधिगतं चारोचयन्ति। आयुष्मतो महापन्थकस्य सार्धविहार्यन्तेवासिका भिक्षवो जनपदे वर्षोषिताः, तेऽप्येव कार्तिक्यां पूर्णमास्यां येनायुष्मान् महापन्थकस्तेनोपसंक्रान्ताः। तत्र केचित्स्वाध्यायिनिकां याचन्ति, केचित्परिपृच्छन्ति, केचिद्यथाधिगतमारोचयन्ति। तत्र ये चूडा भवन्ति परमचूडा धन्वाः परमधन्वाः, ते षड्वर्गीयान् सेवन्ते भजन्ते पर्युपासन्ते। आयुष्मान् पन्थकः षड्वर्गीयान् सेवते भजते पर्युपासते। स षड्वर्गीयैरुच्यते-आयुष्मन् पथक, तव समानोपाध्याया उपाध्यायस्यान्तिकात्स्वाध्यायिनिकां परिपृच्छिनिकां याचन्ति। गच्छ, त्वमपि त्वदुपाध्यायस्यान्तिकात्स्वाध्यायिनिकां परिपृच्छिनिका याचस्व। स कथयति-मया न किंचित्पठितं त्रैमास्ये, न त्वेका गाथा मम वृत्ता जाता, किमहं स्वाध्यायिनिकां याचेयामिति ? ते कथयन्ति- ननूक्तं भगवता-अस्वाध्यायमाना मत्ता इति। किं तवास्वाध्यायमानस्य गाथा अनुप्रवृत्ता भविष्यति ? गच्छ, याचाहि। स गत्वा कथयति-उपाध्याय, स्वाध्यायिनिकां तावन्मे देहि। आयुष्मान् महापन्थकः संलक्षयति-किमस्येदं स्वं प्रतिभानमाहोस्वित् केनचित्प्रयुक्तः ? स पश्यति- यावत्प्रयुक्तः। आयुष्मान् माहापन्थकः संलक्षयति-किं न्वयमुत्सहनाविनेय आहोस्विदवसादनाविनेयः? स पश्यति-यावदवसादनाविनेयः। स तेन ग्रीवायां गृहीत्वा बहिर्विहारस्य निष्कासितः। त्वं तावच्चूडः परमचूडो धन्वः परमधन्वः। किं त्वमस्मिन् शासने करिष्यसि ? स रोदितुमारब्धः। इदानीमहं न गृही न प्रव्रजितः। अद्राक्षीद्भगवानायुष्मन्तं पन्थकं बहिर्विहारस्य भ्रमन्तम्। दृष्ट्वा च पुनरागच्छन्तमिदमवोचत्-कस्मात्त्वं पन्थक वहिर्विहारस्य रोदिष्यसि, अश्रूणि वर्तयसि ? अहमस्मि भदन्त उपाध्यायेन निष्कासितः। इदानीमहं न गृही न प्रव्रजितः। भगवानाह-नेदं वत्स मौनीन्द्रं वचनं तवोपाध्यायेन त्रिभिः कल्पासंख्येयैरनैकैर्दुष्करशतसहस्रैः षट् पारमिताः परिपूर्य समुदानीतम्, अपि तु मयेदं मौनीन्द्रं प्रवचनं त्रिभिः कल्पासंख्येयैरनैकैर्दुष्करशतसहस्रैः षट् पारमिताः परिपूर्य समुदानीतम्। न शक्यसि त्वं तथागतस्यान्तिकात्पठितुम् ? अहमस्मि भदन्त चूडः परमचूडो धन्वः परमधन्वः। अथ भगवानस्यामुत्पत्तौ गाथां भाषते-



यो बालो बालभावेन पण्डितस्तत्र तेन सः।

बालः पण्डितमानी तु स वै बाल इहोच्यते॥२॥



अस्थानमनवकाशो यद्बुद्धा भगवन्तः पदशो धर्मं वाचयिष्यन्ति नेदं स्थानं विद्यते। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-इमं पाठय त्वमानन्द पन्थकम्। आयुष्मानानन्दस्तं पाठयितुमारब्धः। स न शक्नोति पाठयितुम्। आयुष्मानानन्दो भगवन्तमिदमवोचत्- मया तावद्भदन्त शास्तुरुपस्थानं करणीयम्, श्रुतमुद्ग्रहीतव्यम्, गणो वाचयितव्यः। आगतागतानां ब्राह्मणगृहपतीनां धर्मो देशयितव्यः। नाहं शक्ष्यामि पन्थकं पाथयितुम्। भगवता तस्य द्वे पदे दत्ते-रजो हरामि, मलं हरामीति। तस्यैतत्पदद्वयं न लेभे। भगवान् संलक्षयति। कर्मापनयोऽस्य कर्तव्यमिति। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-शक्ष्यसि त्वं पन्थक भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुम्। परं भदन्त शक्ष्यामि। गच्छ प्रोञ्छस्व। स भिक्षूणामुपानहान्मूलाच्च प्रोञ्छितुमारब्धः। तस्य ते भिक्षवो नानुप्रयच्छन्ति। भगवानाह-अनुप्रयच्छत, कर्मापनयोऽस्य कर्तव्य इति। पदद्वयस्य दास्ये स्वाध्यायनिकाम्, अनुप्रयच्छत। स भिक्षूणामुपानहान्मूलं क्रमतश्च प्रोञ्छते। तस्य ते भिक्षवः पदद्वयस्य स्वाध्यायनिकामनुप्रयच्छन्ति। तस्यैतत्पदद्वयं स्वाध्यायतः कालान्तरेण प्रवृत्तं जातम्। अथायुष्मतः पन्थकस्य रात्र्याः प्रत्यूषसमये एतदभवत्-भगवानेवमाह-रजो हरामि, मलं हरामीति। किं नु भगवानाध्यात्मिकं रजः संधायाह आहोस्विद्बाह्यम् ? तस्यैवं चिन्तयतस्तस्यां वेलायामश्रुतपूर्वास्तिस्रो गाथा आमुखीप्रवृत्ता जाताः -



रजोऽत्र रागो न हि रेणुरेष

रजो रागस्याधिवचनं न रेणोः।

एतद्रजः प्रतिविनुदन्ति पण्डिता

न ये प्रमत्ताः सुगतस्य शासने॥३॥



रजोऽत्र द्वेषो न हि रेणुरेष

रजो देषस्याधिवचनं न रेणोः।

एतद्रजः प्रतिविनुदन्ति पण्डिता

न ये प्रमत्ताः सुगतस्य शासने॥४॥



रजोऽत्र मोहो न हो रेणुरेष

रजो मोहस्याधिवचनं न रेणोः।

एतद्रजः प्रतिविनुदन्ति पण्डिता

न ये प्रमत्ताः सुगतस्य शासने॥५॥



तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः। सेन्द्रोपेन्द्राणां देवानां मान्यश्च पूज्यश्चाभिवाद्यश्च संवृत्तः। ध्याने निषण्ण आयुष्मता महापन्थकेन दृष्टः। असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते। स तेन बाहौ गृहीत्वोक्तः-आगच्छ स्वाध्यायिनिकां तावत्कुरु, ततः पश्चाद्ध्यायिष्यसीति। अथायुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्, गजभुजसदृशो बाहुरुत्सृष्टः। आयुष्मता महापन्थकेन पृष्ठतो मुखं व्यवलोकयता दृष्टः। स कथयति-आयुष्मन् पन्थक, एवं ते त्वया गुणगणा अधिगताः? अधिगताः॥



यदा आयुष्मता पन्थकेन सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्, अन्यतीर्थिका अवध्यायन्ति ध्रियन्ति विवाचयन्ति। श्रमणो गौतम एवमाह- गम्भीरो मे धर्मो गम्भीरावभासो दुर्दृशो दुरनुबोधोऽतर्कोऽतर्कावचरः, सूक्ष्मो निपुणपण्डितविज्ञवेदनीयः। अत्रेदानीं किं गम्भीरोऽस्य, यस्येदानीं पन्थकप्रभृतयश्चूडाः परमचूडा धन्वाः परमधन्वाः प्रव्रजन्ति। भगवान् संलक्षयति-सुमेरुप्रख्ये महाश्रावके महाजनकायः क्षान्ति गृह्णाति। गुणोद्भावना अस्य कर्तव्या। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-गच्छ आनन्द, पन्थकस्य कथय-भिक्षुण्यस्ते अववदितव्या इति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् पन्थकस्तेनोपसंक्राण्तः। उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्-शास्ता त्वामायुष्मन् पन्थक एवमाह-भिक्षुण्यस्ते अववदितव्या इति। आयुष्मान् पन्थकः कथयति- किमर्थं स्थविरस्थविरान् भिक्षूनपहाय मां भगवान् भिक्षुण्यववादकमाज्ञापयति ? ममैव गुणोद्भावना कर्तव्येति शास्तुर्मनोरथं परिपूरयिष्यामीति। भिक्षुण्यश्छन्दहानिसः (?) जेतवनमागताः। ता भिक्षून् पृच्छन्ति-भगवता कोऽस्माकमववादक आज्ञप्तः ? ते कथयन्ति-आयुष्मान् पन्थकः। ताः कथयन्ति-भगिन्यः पश्यत कथं मातृग्रामः परिभूतः। येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता। भिक्षुण्यस्त्रिपिटा धार्मकथिका युक्तमुक्तप्रतिभानाः। स किल भिक्षुणीरववदिष्यतीति। ताः पर्षदमागता भिक्षूणीभिः पृष्टाः-भगिन्यः, कोऽस्माकमववदितुमागमिष्यति? ताः कथयन्ति-आर्यपन्थकः। किमार्यो महापन्थकः ? न ह्ययम्, स त्वन्यश्चूडापन्थकः। द्वादशवर्गीयाभिः श्रुतम्। तावदवध्यायन्ति। भगिन्यः पश्यतः, कथं मातृग्रामः परिभूतः ? येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता। इमा भिक्षुण्यस्त्रिपिटा धार्मकथिका युक्तमुक्तप्रतिभानाः, स किल किमासामववदिष्यतीति ? ताः कथयन्ति-भगिन्यः, षड्जन्यो द्वादशहस्तिकाभिर्लताभि सिंहासनं प्रज्ञपयन्तु। षड्जन्यः श्रावस्तीं प्रविश्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचयन्तु-सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति। तेन संसारे चिरं वस्तव्यं भविष्यतीति। येन न कश्चित् पुत्रमोटिकापुत्रोऽल्पश्रुत उत्सहते भिक्षुणीरववदितुम्। तासां षड्‍भिः जनीभिः द्वादशहस्तिकाभिः लताभिः सिंहासनं प्रज्ञप्तम्, षड्‍भिक्षुणीभिः श्रावस्तीं प्रविश्य रथ्यावीथिचत्वरशृङ्गाटकेष्वारोचितम्-सोऽस्माकं तादृशोऽववादक आगमिष्यति, योऽस्माकं तनुसत्यानि न द्रक्ष्यति। तेन संसारे चिरं वस्तव्यं भविष्यतीति। आयुष्मान् पन्थकः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसंलयनाय। अथायुष्मान् पन्थकः सायाह्ने प्रतिसंलयनाद् व्युत्थाय संघाटीमादायः अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन संप्रस्थितः। अनेकानि प्राणिशतसहस्राणि -कानि च कुतूहलजातानि, कानिचित् पूर्वकैः कुशलमूलैः संचोद्यमानानि। अद्राक्षीत् सा परिषत् आयुष्मन्तं पन्थकं दूरादेव। दृष्ट्वा च पुनः परस्परं पृच्छति-कतरोऽत्र भिक्षुण्यववादकः ? किं पुरःश्रमणः, आहोस्वित् पश्चाछ्रमणः ? तत्रैके कथयन्ति-पुरःश्रमणः। तेऽवध्यायितुमारब्धा-पश्यत भदन्त, संचिन्त्य वयं भिक्षुणीर्भिर्विहेठिताः। येन त्रिभिर्मासैरेका गाथा पठिता, सापि न प्रवृत्ता, स किं भिक्षुणीरववदिष्यति, धर्मं वा वाचयिष्यति , गच्छामः। अपरे कथयन्ति-तिष्ठामो यदि धर्मं देशयिष्यति, श्रोष्यामः। अथ न, गच्छामः। इति सा पर्षत् समवस्थिता। आयुष्मता पन्थकेन सिंहासनं दृष्टं प्रज्ञप्तकम्। दृष्ट्वा संलक्षयति-किं तावत् प्रसादजाताभिः प्रज्ञप्तमाहोस्वित् विहेठनाभिप्रायाभिः ? पश्यति-यावत् विहेठनाभिप्रायाभिः। आयुष्मता पन्थकेन गजभुजसदृशं बाहुमभिप्रसार्य तं सिंहासनं यथास्थाने स्थापितम्। आयुष्मान् पन्थकस्तत्र निषण्नः। स निषीदन् कैश्चित् दृष्टः, कैश्चित् न दृष्टः। अथात्रस्थ आयुष्मान् पन्थकस्तद्रूपं समाधिं समापन्नो यथो समाहिते चित्ते स्वे आसनेऽन्तर्हितः, पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य पूर्ववत् यावत् ऋद्धिप्रातिहार्याणी दिवर्श्य तान् ऋध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। निषद्य आयुष्मान् पन्थकस्ता भिक्षुणीरामन्त्रयते-मया भगिन्यस्त्रिभिर्मासैरेका गाथा पठिता। उत्सहेतव्यानि (?) श्रोतुमेकगाथायाः सप्तरात्रिंदिवसान्यन्यैः पदैर्व्यञ्जनैरर्थं विभक्तुम् ?



पापं न कुर्यान्मनसा न वाचा

कायेन वा किंचन सर्वलोके।

रिक्तः कामैः स्मृतिमान् संप्रजानन्

दुःखं न स विद्यादनर्थोपसंहितम्॥६॥ इति।



सर्वपापस्यं भगवान् कारणमाह-यावद्गाथार्थस्यार्थमधीतं याति, तावद् द्वादशभिः प्राणिसहस्रैः सत्यानि दृष्टानि। कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्, कैश्चिच्छ्रावकवोधौ चित्तान्युत्पादितानि, कैश्चित प्रत्येकायां बोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि। यद्भूयसा सा परिषद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। अथायुष्मान् पन्थकस्तां परिषदं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः। स भिक्षुभिरागच्छन् दृष्टः। ते संलक्षयन्ति-अद्यायुष्मता पन्थकेन महाजनकायः प्रसादितो भविष्यति। ते न शक्नुवन्त्यायुष्मन्तं पन्थकं संमुखमप्रियं प्रष्टुम्। तैः पश्चाच्छ्रमणः पृष्टः। आयुष्मन्, अद्य आयुष्मता पन्थकेन किं महाजनकायो न प्रसादितो वा प्रसादितः ? आयुष्मता न कश्चित् अप्रसादितः। भगवता वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं चक्रं प्रवर्तितम्, तदद्यायुष्मता पन्थकेनानुप्रवर्तितम्। यावद्भाथार्थं न विभजति, तावद् द्वादशभिः प्राणिसहस्रैः सत्यानि दृष्टानि॥



तत्र भगवान् भिक्षूनामन्त्रयते स्म-एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां चेतोविवर्तकुशलानां यदुत पन्थको भिक्षुः। भिक्षवो बुद्धं भगवन्तं पृच्छन्ति-पश्य भदन्त द्वादशवर्गीयाभिरायुष्मतः पन्थकस्यानर्थं करिष्याम इर्त्यथं एव कृतः। भगवानाह-न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि आभिरनर्थं करिष्याम इत्यर्थ एव कृतः। तच्छ्रूयताम्॥



भूतपूर्वमेवं भिक्षवोऽन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो भूयः क्रीडति रमते परिचारयति यावत् द्वादश पुत्रा जाताः। तेन तेषां निवेशः कृतः। अपरेण समयेन तस्य पत्नी कालगता। सोऽपि ब्राह्मणो वृद्धावस्थायां जातः। अन्धीभूतस्य स्नषा दुश्चारिण्यः। यदा तासां स्वामिनो बहिर्निर्गता भवन्ति, तदा ताः परपुरुषैः सार्धं परिचारयन्ति। स ब्राह्मणः शब्दे कृतावी। स जानाति-अयं मम पुत्रस्य शब्दः, अयं परपुरुषस्येति। स पुरुषाणां पदशब्दान् श्रुत्वा ताः स्नुषा गर्जयति। ताः संलक्षयन्ति- अयं ब्राह्मणोऽस्माकमनर्थाय प्रतिपन्नः। तास्तस्य चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छन्ति। स ब्राह्मणः पुत्राणां कथयति-ममैताः स्नुषाश्चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छन्ति। तैस्ता उक्ताः-किं कारणं यूयं तातस्य चकट्योदनं काञ्जिकच्छिटिं चानुप्रयच्छत ? ताः कथयन्ति- तस्य पुण्यानि परिक्षीणानि, अस्यार्थे पिपरीकायां तण्डुलाः प्रक्षिप्ता भवन्ति, चकट्योदनं परिवर्तते, दधि प्रक्षिप्तं काञ्जिकं परिवर्तते। ते कथयन्ति-किमेतदेवं भविष्यति ? ताः कथयति-वयं युष्माकं प्रत्यक्षीकरिष्यामः। ताः कथयन्ति-अस्माभिः प्रतिज्ञातमिदानीं निर्वोढव्यम्। ताभिः कुम्भकारः उक्तः शक्ष्यसि त्वं भद्रमुखं एकमुखिके द्वे स्थाल्यौ कर्तुम् ? स कथयति-शक्ष्यामि। तेनैकमुखिके द्वे स्थाल्यौ कृते। ताभिरेकस्यां स्थाल्यां चकटितण्डुलाः प्रक्षिताः, द्वितीयायां काञ्जिकम्। ताभिः स्वामिनां पुरस्तादेकस्य स्थाल्यां तण्डुलाः प्रक्षिप्ता एकस्यां दधि। ताभिः साधितम्। कथयन्ति-आर्यपुत्रस्य किं तावत्तातस्तत्प्रथमतः परिभुक्तामाहोस्वित् यूयम्। ते कथयन्ति-तातस्तावत्परिभुक्ताम्। ताभिस्तेषां पुरस्तात्तस्यैकस्याः स्थाल्या उद्धृत्य चकट्योदनं दत्तं द्वितीयायाः काञ्जिकम्। तत एवं ताभिस्तेषामेकस्याः स्थाल्या उद्धृत्य शाल्योदनं दत्तं द्वितीयाया दधि उद्धृतम्। ते तस्य कथयन्ति-तात, तव पुण्यानि परिक्षीणानि। यत एकस्यां स्थाल्यां शालितण्डुलाः प्रक्षिप्ताः, द्वितीयस्यां दधि, तच्चकट्योदनं काञ्जिकं च परिवृत्तम्। ब्राह्मणः संलक्षयति- मया हस्तोच्छ्रयशतैर्भोगाः समुदानीताः। किं कारणं मम पुण्यानि परिक्षीणानि ? तेन तासामप्रत्यक्षं महानसं प्रविश्य पर्येषमाणेन हस्तसंस्पर्शेनैकमुखे द्वे स्थाल्यौ लब्धे। तेन गोपायिते। तेन तेषां पुत्राणामागतानां ते प्रदर्शिते-प्रश्यत, मम पुण्यानि परिक्षीणानि। गत्वा पश्यध्वमस्माकं गृह एव एकमुखी स्थाली। पुत्रक, अन्येषु गेहेषु न स्थालीद्वयं त्वेकमुखमस्माकं मन्दभाग्यानाम्। तैस्ताः पत्न्यः सुताडिताः। ताः संलक्षयन्ति-अयं ब्राह्मणोऽस्माकमनर्थाय प्रतिपन्नकः। प्रघातयाम इति। तेन च प्रदेशेनाहितुण्डिक आगतः। ताः पृच्छन्ति-अस्ति सर्प इति ? स कथयति-कीदृशं सर्पं मृगयथ जीवन्तमाहोस्वित् मृतकमिति ? ताः कथयन्ति-मृतकम्। स संलक्षयति-किमेता मृतकेन सर्पेण करिष्यन्ति ? नूनमेता एतं वृद्धं मारयितुकामा भविष्यन्ति। धर्मता खलु सर्पस्य रुषितस्य द्वयोः स्थानयोर्विषं संक्रामति-शिरसि पुच्छे च। तेन रोषित्वा शिरः पुच्छं स्वयं छित्त्वा तासां मध्ये सर्पो दत्तः। ताभिर्जोमां साधयित्वा स ब्राह्मण उक्तः-तात, हिलिमां जोम पास्यसि ? स ब्राह्मणः संलक्षयति- किमेता मे हिलिमां जोमां दास्यन्ति ? नूनं किंचित् अभैषज्यं दत्तं भविष्यति। स संलक्षयति-पिबामि, यथा च तथा मरामि। ताभिस्तस्य हिलिमा जोमा दत्ता। तेन पीता। तस्य बाष्पेण पटले स्फुटिते। स द्रष्टुमारब्धः। स निपत्यावस्थितः। कथयति च-मरामि मरामीति। ताः कथयन्ति-शीघ्रं मा पातु। ताः कथयन्ति-तात, भूयः पास्यसि ? स कथयति-पास्यामीति। ताभिस्तस्य भूयः हिलिमा जोमा दत्ता। तेन भूयः पीता। तस्य तेन बाष्पेण भूयस्या मात्रया पटले स्फुटिते। स स्पष्टतरं द्रष्टुमारब्धः। ताः पूर्वं यथा तस्यान्धस्य ततो विश्वस्ता विहृतवन्त्यस्तथैव विहर्तुमारब्धाः। स दण्डं गृहीत्वा उत्थितः। कथयति च-किं यूयं जानीथ इदानीमप्यहं न पश्यामि ? पश्याम्यहमिदानीमिति। ताः सलज्जाः निष्पलायिताः॥



किं मन्यध्वे भिक्षवः। योऽसौ ब्राह्मणः, एष एवासौ पन्थकस्तेन कालेन तेन समयेन। यास्तास्तस्य द्वादश स्नुषाः, एता एव ता द्वादशवर्गीयाः। तदाप्याभिरस्यानर्थं करिष्याम इत्यर्थ एव कृतः। एतर्ह्यपि आभिरस्यानर्थं करिष्याम इत्यर्थ एव कृतः॥



भिक्षवो बुद्धं भगवन्तं पृच्छन्ति-पश्य भदन्त भगवता आयुष्मान् पन्थकः परीत्तेनाववादेनाचोद्य संसारकान्तारादुत्तार्य अत्यन्तनिष्ठे अनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितः। भगवानाह-न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्येष मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्याधिपत्ये प्रतिष्ठापितः। तच्छ्रूयताम्॥



भूतभूतं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य पुत्रो जातः। स पत्नीमामन्त्रयते-भद्रे, जातोऽस्माकं ऋणहरः। गच्छामि, अहं पण्यमादाय महासमुद्रमवतरामि। सा आह-एवं कुरुष्व। स गृहपतिः संलक्षयति-यद्यहमस्यै प्रभूतान् कार्षापणान् दास्यामि, परपुरुषैः सार्धं विहरिष्यति। तेन तस्याः कार्षापणा न दत्ताः। तस्मिन् कर्पटके श्रेष्ठी प्रतिवसति तस्य गृहपतेर्वयस्यः। तस्य हस्ते प्रभूताः कार्षापणाः स्थापिताः- यदि मम पत्न्या भक्ताच्छादेन योगोद्वहनं कुर्याः। स पण्यमादाय महासमुद्रमवतीर्णः। तत्रैवानयेन व्यसनमापन्नः। तया स दारको ज्ञातिबलेन स्वहस्तबलेन वा आयापिता (पतित्वा) पालितो वर्धितः। स मातरं पृच्छति-अम्ब, किमस्माकं पिता पितामहाश्च कर्माकार्षुः ? सा संलक्षयति- यद्यस्य वक्ष्यामि महासमुद्रे पोतसंव्यवहारिण आसन् इति, स्थानमेतद्विद्यते यदेषोऽपि महासमुद्रमवतरिष्यतीति, तत्रैव अनयेन व्यसनमापत्स्यते। श्रुतमाहितस्तव पिता व पितामहाश्च इहैव वाणिज्यमकार्षुः। स कथयति- कार्षापणान् ममानुप्रयच्छ, यैरिहैव वाणिज्यं करिष्यामि। माता कथयति-कुतो मम कार्षापणाः ? त्वं मया कथंचित् ज्ञातिबलेन स्वहस्तबलेन आयापितः पोषितः संवर्धितः। कुतो मे कार्षापणानां विभवः ? अपि त्वयं श्रेष्ठी तव पितृवयस्यो भवति। अस्य सकाशात् कार्षापणान् गृहीत्वा कर्म कुरु। स तस्य गृहं गतः। तस्यान्यतमेन पुरुषेण यावत् द्विरपि विनाशितः। स तमवसादयति। तस्य च गृहात् प्रेष्यदारिकायाः संकारतलस्योपरि मृतमूषिकां दृष्ट्वा प्रयच्छति छोरयितुम्। स श्रेष्ठी तस्य पुरुषस्य कथयति- यः पुरुषः स्यात्, शक्यते अनया मृतमूषिकया आत्मानमुद्धर्तुम्। तेन दारकेण श्रुतम्। स संलक्षयति-महात्मैषः। न शक्यमनेन यद्वा तद्वा वक्तुम्। नूनं शक्यमनया मृतमूषिकया आत्मानमुद्धर्तुम्। स तस्या दारिकायाः पृष्ठतो निर्गतः। तस्या दारिकया संकारे छोरिता। स तां मृतमूषिकामादाय वीथीं गतः। तत्र वाणिजको बिडालेन क्रीडित्वा स्थितः। तेन तस्य बिडालस्य मृतमूषिका दर्शिता। स तां दृष्ट्वा उत्पतितुमारब्धः। तेन वाणिजकेन दारक उच्यते- अनुप्रयच्छ अस्य बिडालस्य मृतमूषिकाम्। स कथयति-किमयं कलिकया दीयते ? मूल्यमनुप्रयच्छ। तेन तस्य कलायानामञ्जलिपूरो दत्तः। स संलक्षयति-यद्येतान् भक्षयिष्यामि, मूलमेव भक्षितं भविष्यति। स तान् भ्राष्ट्रे भर्जयित्वा शीतलस्य पानीयस्य वर्धनीयस्य पूर्णं कृत्वा तद्गृह्य तस्मात्स्थानकान्निष्क्रम्य यस्मिन् प्रदेशे काष्ठहारका विश्राम्यन्ति, तस्मिन् प्रदेशे गत्वावस्थितः। काष्ठहारका आगताह्। तेनोक्ताः-मातुलाः,अर्पयत काष्ठभारकाः, मुहूर्तं विश्राम्यतां। तैः काष्ठभाराः स्थापिताः। तेन तेषां कलायानां स्तोकं दत्तं शीतलं च पानीयं पातम्। ते कथयन्ति-भागिनेय, क्क यास्यसि? काष्ठानाम्। भागिनेय, वयं तावत् काल्यमेवोत्थाय गत्वा इदानीमागच्छामः। त्वमिदानीं गच्छन् कियता आगमिष्यमि ? तैस्तस्यैकैकं काष्ठमनुप्रदत्तम्। तस्य काष्ठमूलिका संपन्ना। स तां गृहीत्वा प्रतिनिवृत्तः। स तां विक्रीय कलायानां गृहीत्वा भर्जयित्वा उदकस्य कुम्भं पूरयित्वा तस्मिन्नेव प्रदेशे गत्वावस्थितः। ते काष्ठहारकास्तथैव तेन कलायैः संविभक्ताः, शीतलेन पानीयेन संतर्पिताः। ते तस्य कथयन्ति-भागिनेय, दिवसे दिवसे त्वं कलायान् पानीयं च गृहीत्वा आगम्य अत्रैव तिष्ठ। वयं तवोपरि काष्ठमूलिकामानयिष्यामः। स दिवसे दिवसे तथैव कर्तुमारब्धः। स तेषां कथयति-मातुल, मा यूयं काष्ठभारान् वीथीं नयथ। मम गृहे स्थापयत। युष्माकमेवं पिण्डितमूल्यं दास्यामि। तैस्तस्य गृहे काष्ठभारकाः स्थापिताः। अपरेण समयेन सप्ताहवर्दलिका जाताः। तेन तानि काष्ठभारकाणि विक्रीतानि। तस्य प्रभूतो लाभः संपन्नः। स संलक्षयति-एतत्प्रतिक्रुष्टतरं वाणिज्यानां यदुत काष्ठवाणिज्यम्। स संलक्षयति-अपि चन्दनकाष्ठेन काष्ठवाणिज्यमेव। यन्न्वहमुक्करिकापणं प्रसारयेयम्। तेन उक्करिकापणः प्रसारितः। स धर्मेण व्यवहरति। तस्य तत्प्रभूतो लाभः संपन्नः। स संलक्षयति-एतत् प्रतिक्रुष्टतरं वाणिज्यानां यदुत उक्करिकापणः। यन्न्वहं गान्धिकापणं प्रसारयेयम्। तेन गान्धिकापणः प्रसारितः। तस्य प्रभूतो लाभः संपन्नः। स संलक्षयति-एतदपि प्रतिक्रुष्टतरं च तद्वाणिज्यानां पूर्ववत्। तेन सर्वे हैरण्यिका अभिभूताः। तस्य मूषिकाहैरण्यको मूषिकाहैरण्यिक इति संज्ञा संवृत्ता। ते हैरिण्यिकाः कथयन्ति-भवन्तः, सर्वे वयमनेन मूषिकाहैरण्यिकेनाभिभूताः वयमेनं मानं ग्राहयामः यथा महासमुद्रमवतरेत्, तत्रैवानयेन व्यसनमापत्स्यते तथा करिष्याम इति। ते तस्य नातिदूरे स्थित्वा स्वैः कथासंलापेन तिष्ठन्ति-यथापि नाम भवन्तः पुरुषो हस्तिग्रीवायां गत्वा अश्वपृष्ठेन गच्छेत्, अश्वपृष्ठेन गत्वा शिबिकायां गच्छेत्, शिबिकायां गत्वा पद्भ्यां गच्छेत्, एवमेवास्य मूषिकाहैरण्यिकस्य पिता च पितामहाश्च समुद्रे पोतसंव्यवहारिण आसन्। एष इदानीं कृच्छ्रेण जीविकां कल्पयति हैरण्यिकापणं वाहयतीति। श्रुत्वा स कथयति-किं कथयत ? ते कथयन्ति-तव पिता च पितामहाश्च पोतसंव्यवहारिण आसन्। स त्वमिदानीं कृच्छ्रेण जीविकां कल्पयसि, हैरण्यिकापणं वाहयसि ? स गृहं गत्वा मातरं पृच्छति-अम्ब, सत्यमस्माकं पिता व पितामहाश्च महासमुद्रे पोतसंव्यवहारिण आसन् ? सा संलक्षयति-नूनमनेन किंचित्कुतश्चित् श्रुतं स्यात्। तदप्रतिरूपं स्यात्, यदहं मृषावादेन वञ्जयेयम्। सत्यं पुत्र। स कथयति-अनुजानीष्व, अहमपि महासमुद्रमवतरिष्यामि। सा कथयति-पुत्र, इहैव तिष्ठ। स भूयो भूयः कथयति- गच्छामि। तस्य निर्बन्धं ज्ञात्वा अनुज्ञातः। तेन घण्टावघोषणं कृतम्-यो युष्माकमुत्सहते मूषिकाहैरण्येन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतरितुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु। पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुआनीतम्। अथ मूषिकाहैरण्यिकः कृतमङ्गलकौतूहलस्वस्त्ययनः शकटैर्भारैर्मूटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः पण्यमारोप्य महासमुदं संप्रस्थितः। सोऽनुपूर्वेण महासमुद्रमवतरन्ननुप्राप्तः। ते वणिजो महासमुद्रं दृष्ट्वा भीताः। नोत्सहन्ते वहनमभिरोढुम्। सार्थवाहः कर्णधारस्य कथयति-कथय कथय भोः पुरुष यथाभूतं महासमुद्रस्य वर्णम्। ततः कर्णधारः उद्धोषयितुमारब्धः -सन्त्येतस्मिन् महासमुद्रे इमान्येवंरूपाणि रत्नानि तद्यथा- मणयो मुक्ता वैडूर्यशङ्खशिलाप्रवाल रजतजातरूपमश्मगर्भो मुसारगल्वो लोहितका दक्षिणावर्तः। यो युष्माकमुत्सहते एवंरूपै रत्नैरात्मानं सम्यक्सुखेन प्रीणयितुम्, मातापितरौ पुत्रदारान् दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं कालेन कालं श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुम्, मूर्धगामिनी सौभासिकीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, स महासमुद्रमवतरतु। संपत्तिकामोलोकः। महाजनकायोऽभिरूढो यतस्तद्वहनमसह्यं जातम्। सार्थवाहः। संलक्षयति-किमिदानीं वक्ष्यामि अवतरतेति ? स कर्णधारस्य कथयति-घोषयः भोः पुरुषः महासमुद्रस्य यथाभूतं वर्णम्। ततः कर्णधार उद्धोषितुमारब्धः-शृण्वन्तु भवन्तो जम्बुद्वीपका वणिजः। सन्त्यस्मिन् महासमुद्रे इमान्येवंरूपाणि महान्ति महाभयानि, तद्यथा तिमिभयं तिमिंगिलभयं तिमितिमिंगिलबह्यमावर्तभयं कुम्भीरभयं शिशुभयमन्तर्जलगतानां पर्वतानामाघातभयम्। चौरा अप्यत्रागच्छन्ति नीलैः सितैर्वनचारिणः, अस्माकं सर्वेण सर्वं जीविताद्व्यवरोपयिष्यन्ति। येन युष्माकं प्रियमात्मानं परिक्त्यत्वा मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं महासमुद्रमवतरतु। अल्पाः शूरा बहवः कातराः। महाजनकायोऽवतीर्णः, यत्स्तद्वहनं सहुं संवृत्तम्। ततः कर्णधारस्त्रिरुद्धोषणावघोषणं कृत्वा ततः पश्चादेकां वस्त्रां मुञ्चति, द्वित्रिवस्त्रां मुञ्चति, यतस्तद्वहनं महाकर्णधारसंधानबलवद्वायुसंप्रेरितं महामेघ इव संप्रस्थितोऽनुगुणेन वायुना यावद रत्नदीपमनुप्राप्तम्। ततः कर्णधार उद्धोषयितुमारब्धः-शृण्वन्तु भवन्तो जम्बुद्बीपका वणिजः, सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः। ते भवद्भिरुपपरीक्ष्योपपरीक्ष्य ग्रहीतव्याः। मा वः पञ्चाज्जम्बुद्वीपप्राप्तानां पश्चात्तापो भविष्यति। अस्मिन्नेव च रत्नद्वीपे क्रोञ्चकुमारिका नाम राक्षस्यः प्रतिवसन्ति। ताः पुरुषं तथा तथा उपलालयन्ति यथा तत्रैवानयेन व्यसनमापद्यन्ते। अस्मिन्नेव रत्नद्वीपे मदनीयानि फलानि सन्ति। तानि यः परिभुङ्क्ते, स सप्तरात्रं मूर्च्छितस्तिष्ठति। तानि भवद्भिर्न परिभोक्तव्यानि। अस्मिन्नेव च रत्नद्वीपेऽमनुष्याः प्रतिवसन्ति। ते मनुष्याणां सप्ताहं मर्षयन्ति। सप्ताहस्यात्ययात् तादृशं वायुमुत्सृजन्ति येन वहनमपह्रियते यथापि तदकृतकार्याणाम्। यं श्रुत्वा ते वणिजोऽवहिता अप्रमत्ता अवस्थिताः। तैस्तद्वहनं रत्नानामुपपरीक्ष्योपपरीक्ष्य पूरितं तद्यथा तिलतण्डुलकोलकुलत्थानाम्। ते अनुगुणेन वायुना जम्बुद्वीपमनुप्राप्ताः। एवं यावत् सप्तकृत्वः संसिद्धयानपात्र आगतः। स मात्राऽभिहितः-पुत्र, अत्र निवेशः क्रियतामिति। स कथयति-अग्रधनिकं तावच्छिनद्मि, ततः पश्चान्निवेशं करिष्यामि। स तया उक्तः-पुत्र न तव पिता न पितामहो धनिकः कृतः, कुतस्तव धनिको जातः ? स कथयति-अम्ब, अहमेव जानामि। तेन चातूरत्नमय्यश्चतस्रो मूषिकाः कारिताः। तेन सुवर्णस्य फेलां पूरयित्वा चतस्रो मूषिकाश्चतुर्षु पार्श्वेषु स्थापयित्वा श्रेष्ठिगृहं गतः। स श्रेष्ठी तदा तस्यैव तद्वर्णं भाषमाणस्तिष्ठति-पश्यत भवन्तो मूषिकाहैरण्यिकः कथं पुण्यमहेशाख्यो यं यमेव गृह्णाति तृणं वा लोष्टं वा सर्वं तत् सुवर्णं संपद्यते। स च तथा कथासंलापेन तिष्ठति। दौवारिकेण चास्य गत्वा आरोचितम्-मूषिकाहैरण्यिको द्वारि तिष्ठति। स कथयति-प्रविशतु, मूषिकाहैरण्यिकं वा आनयेति। स प्रविश्य कथयति-इदं ते मूलम्, अयं लाभः। प्रतिगृह्यताम्। स आह-विस्मरामि, सत्यं यत्तव किंचिद्दत्तकमिति। अहं ते स्मारयिष्यामि। तेन स्मारितम्। स पृच्छति-कस्य त्वं पुत्र इति। अमुकस्य गृहपतेः।श्रेष्ठी कथयति- त्वं मम वयस्यपुत्रो भवसि। मयैव तव दातव्यम्। तव पित्रा गच्छता मम हस्ते कार्षापणाः स्थापिताः। तेन श्रेष्ठिना दुहिता सर्वालंकारविभूषिता तस्य भार्यार्थमनुप्रदत्ता॥



किं मन्यध्वे भिक्षवो योऽसौ श्रेष्ठी, अहमेव तेन कालेन तेन समयेन। योऽसौ मूषिकाहैरण्यिकः, एष एव पन्थकस्तेन कालेन तेन समयेन। तदाप्येष मया परीत्तेनाववादेनाचोद्य महत्यैश्वर्ये प्रतिष्ठापितः। एतर्ह्यप्येष मया परीत्तेनाववादेनाववाद्य संसारकान्तारादुर्त्तार्य अत्यन्तनिष्ठेऽनुत्तरे योगक्षेमे निर्वाणे प्रतिष्ठापितः॥



भिक्षवो बुद्धं भगवन्तं पृच्छन्ति-किं भदन्त पन्थकेन कर्म कृतं यस्य कर्मणो विपाकेन धन्वः परमधन्वश्चूडः परमचूडो जातः ? पन्थकेनैव भिक्षवः कर्माणि कृतानि। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥७॥



भूतपूर्वं भिक्षवो विंशतिवर्षसहस्त्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उत्पन्नस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स विंशतिभिर्भिक्षुसहस्रैः परिवारो वाराणसीमुपनिश्रित्य विहरति स्म। तस्यैव प्रवचने भिक्षुरासीत् त्रिपिटः। अनेन तत्र मात्सर्येण न कस्यचिच्चतुष्पदिकापि गाथा उद्दिष्टा। भूयोऽन्यस्मिन् कर्पटके सौकरिक आसीत्। तस्मात् कर्पटकान्नदीपारे द्वितीयं कर्पटकम्। तत्र पर्वणी प्रत्युपस्थिता। स संलक्षयति-यदि सूकरान् प्रघात्य नयिष्यामि, मांसस्य क्रयिको न भविष्यति, क्लेदं गमिष्यति। जीवन्तमेव गृहीत्वा गच्छामि। तत्र तत्र प्रघात्य नेष्यामि, यत्र यत्र क्रायिकोऽस्ति। स प्रभूतान् सूकरान् जानुषु बद्ध्वा नावमारोप्य संप्रस्थितः। सा नौस्तैः परिस्पन्दमानैर्बाडिता। तत्रैवानयेन व्यसनमापन्नः। सोऽपि सौकरिकोऽत्र स्तोतेनोह्यमानः। तस्या नद्यास्तीरे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति। तेषामेकः प्रत्येकबुद्धः पानीयस्यार्थे नदीं गतः। तेन स दृष्टः। स संलक्षयति-किं तावदयं मृतः आहोस्विज्जीवतीति ? पश्यति यावज्जीवति स। तेन गजभुजसदृशं बाहुमभिप्रसार्य उद्धृत्य वालुकायाः स्थलं कृत्वा तत्रावमूर्धकः स्थापितः। तस्य कायात् पानीयं निःसृतम्। स व्युत्थितः। मनुष्यपदानि पश्यति। स तेन पादानुसारेण गतो यावत्पश्यति पञ्चमात्राणि प्रत्येकबुद्धशतानि। स तेषां पत्रेण पुष्पेण फलेन दन्तकाष्ठेन चोपस्थानं कर्तुमारब्धः। ते तस्य पात्रशेषमनुप्रयच्छन्ति। तेन भुक्तम्। अथ ते प्रत्येकबुद्धाः पर्यङ्कं बद्ध्वा ध्यायन्ति। तदा सोऽप्येकान्ते स्थित्वा पर्यङ्कं बद्ध्वा ध्यायति। स तत्रासंज्ञिकमुत्पाद्य असंज्ञिसत्त्वेषु देवेषूपपन्नः॥



किं मन्यध्वे भिक्षवः। योऽसौ काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुस्त्रिपिटः आसीत्, पश्चादसौ सौकरिकः, एष एव पन्थको भिक्षुः। यदनेन मात्सर्येण न कस्यचिच्चतुष्पदिका गाथा उद्दिष्टा, यच्च सूकरान् प्रघात्य यच्चासंज्ञिसत्त्वेभ्य इहोपपन्नः, तस्य कर्मणो विपाकेन चूडः परमचूडो धन्वः परमधन्वः संवृत्तः॥



यदा आयुष्मान् पन्थकः स्वाख्याते धर्मविनये प्रव्रजितः, जीवकेन श्रुतम्-पन्थकः स्वाख्याते धर्मविनये प्रव्रजित इति। स संलक्षयति-यदि भगवान् राजगृहमागमिष्यति, अहं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि स्थापयित्वा भदन्तं पन्थकम्। भगवान् यथाभिरम्यं श्रावस्तीं विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन् राजगृहमनुप्राप्तः। राजगृहे विहरति वेणुवने कलन्दनिवापे। अश्रौषिज्जीवकः कुमारभूतः-भगवान् मगधेषु जनपदचारिकां चरन् राजगृहे विहरति वेणुवने कलन्दकनिवापे। श्रुत्वा पुनर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः। एकान्तनिषण्णं जीवकं कुमारभूतं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ जीवकः कुमारभूतः उत्थायासनादेकांसमुतरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-अधिवासयति मे भगवाञ्छ्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन। दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः। स न शक्नोति भगवन्तं वक्तुं स्थापयित्वा भदन्तं पन्थकम्। अथ जीवकः कुमारभूतो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात् प्रक्रान्तो येनायुष्मानानन्दस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो जीवकः कुमारभूत आयुष्मन्तमानन्दमिदमचोवत्-यत्खलु भदन्त आनन्द जानीयाः-मया बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः स्थापयित्वा भदन्तं पन्थकम्। यथा ते जीवक कुशलानां धर्माणां वृद्धिर्भवति। अथ जीवकः कुमारभूत आयुष्मत आनन्दस्य भाषितमभिनन्द्यानुमोद्य आयुष्मत आनन्दस्य पादौ शिरसा वन्दित्वा प्रक्रान्तः। अथायुष्मानानन्दोऽचिरप्रक्रान्तं जीवकं कुमारभूतं विदित्वा येनायुष्मान् पन्थकस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मन्तं पन्थकमिदमवोचत्-यत्खल्वायुष्मन् पन्थक जानीयाः-जीवकेन कुमारभूतेन बुद्धप्रमुखो भिक्षुसंघः श्वोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः स्थापयित्वा आयुष्मन्तं पन्थकम्। यथास्य भदन्तानन्द कुशलानां धर्माणां वृद्धिर्भवति। स जीवकः कुमारभूतस्तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय कल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन जीवकस्य कुमारभूतस्य निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते-पन्थकस्यानुगन्ती मोक्तव्या। जीवकः कुमारभूतः सौवर्णभृङ्गारं गृहीत्वा वृद्धान्ते तिष्ठति। भगवान् वारिधारां न प्रतिगृह्णाति। जीवकः कुमारभूतः कथयति- किं कारणं भगवन् वारिधारां न प्रतिगृह्णाति। भगवानाह- न तावद्भिक्षुसंघ इति समग्र इति। जीवकः कुमारभूतः कथयति-भगवन्, कोऽनागत इति। भगवानाह-पन्थको भिक्षुः संघः। जीवकः कथयति-भगवन्, नासौ मया निमन्त्रित इति। भगवानाह-न त्वया जीवक बुद्धप्रमुखो भिक्षुसंघो निमन्त्रितः ? भगवन्, निमन्त्रितः। किमसौ भिक्षुसंघाद्बहिर्न वा ? भगवान् कथयति जीवकम्-गच्छ त्वं शब्दापय। जीवकः कुमारभूतः संलक्षयति-किं चाप्यहं भगवतो गौरवेण शब्दापयामि, न सत्कृत्य परिवेषयिष्यामि। तेन दूतोऽनुप्रेषितः-गच्छ, शब्दापयस्व। आयुष्मानपि पन्थकश्च त्रयोदशभिक्षुशतानि निर्मायावस्थितः। तेन दूतेन गत्वा पन्थक इति शब्दो मुक्तः। अनेकैर्भिक्षुभिः प्रतिवचनं दत्तम्। स दूत आगत्य जीवकस्य कथयति-तथैव वेणुवनं कलन्दकनिवापो भिक्षूणां पूर्णस्तिष्ठति। भगवानाह- गच्छ त्वं कथय यो भूतपन्थकः स आगच्छतु। स गत्वा कथयति-यो भूतपन्थकः स आगच्छतु। आयुष्मान् पन्थकस्तत्र गत्वा स्वस्यां गत्यां निषण्णः। जीवकः कुमारभूतो बुद्धप्रमुखं भिक्षुसंघं परिवेषयितुमारब्धः। आयुष्मन्तं पन्थकं न सत्कृत्य परिवेषयति। भगवान् संलक्षयति-सुरेरुप्रख्ये महाश्रावके जीवकः कुमारभूतः क्षान्तिं गृह्णाति। गुणोद्भावना अस्य कर्तव्या। भगवता आयुष्मत आनन्दस्य पात्रं नानुप्रदत्तम्। धर्मता खलु न तावत् स्थविरस्थविराणां भिक्षूणां पात्राणि प्रतिगृह्यन्ते, यावद्भगवतः पात्रप्रतिग्रही न भविष्यति। आयुष्मान् पन्थकः संलक्षयति-किं कारणं भगवतः स्थविरस्थविराणां भिक्षूणां पात्राणि न गृह्यन्ते ? मया अत्र गुणोद्भावना कर्तव्या। आयुष्मता पन्थकेनार्धासनं कृत्वा गजभुजसदृशं वाहुमभिप्रसार्य भगवतः पात्रं गृहीतम्। कुमारभूतेन जीवकेन वृद्धान्ते स्थितेन दृष्टम्। स संलक्षयति-कोऽप्ययं स्थविरो भिक्षुः। ऋद्धिप्रातिहार्यं विदर्शयति। स पात्रानुसारेण गतो यावत्पश्यत्यायुष्मन्तं पन्थकम्। स दृष्ट्वा मूर्छितकस्तिष्ठति। स जलपरिषेकप्रत्यागतप्राण आयुष्मतः पन्थकस्य पादयोर्निपत्य क्षमापयति, गाथां च भाषते-



नित्यं चैत्यगुणो हि चन्दनरसो नित्यं सुगन्ध्युत्पलं

नित्यं भाषति काञ्चनस्य विमलं वैडूर्यशुद्धं द्रवम्।

नित्यं पापजने हि क्रोधमतुलं पाषाणरेखोपमं

नित्यं चार्यजनेषु प्रीतिर्वसते क्षान्तिर्ध्रुवा ह्र्यर्हताम्॥८॥



आयुष्मान् पन्थकः कथयति-क्षान्तं जीवकः॥



भिक्षवो बुद्धं भगवन्तं पृच्छन्ति-पश्य भदन्त, यदा जीवकः कुमारभूत आयुष्मतः पन्थकस्य गुणानामनभिज्ञस्तदा असत्कारः प्रयुक्तः, यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य क्षमापयति। भगवानाह-न भिक्षव एतर्हि यथातीतेऽध्वन्येषोऽस्य गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तावान्। यदा गुणानामभिज्ञस्तदा पादयोर्निपत्य क्षमापितवान्। तच्छ्रूयताम्॥



भूतपूर्वं भिक्षव उत्तरापथात् सार्थवाहः पञ्चशतमश्वपण्यमादाय मध्यदेशमागतः। तस्य च वडवायाः कुक्षावश्वाजानेयोऽवक्रान्तः। स यमेव दिवसमवक्रान्तस्तमेव दिवसमुपादाय तेऽश्वा न भूयो हेषन्ते। सार्थवाहः संलक्षयति-किं च ममाश्वानां कश्चिद् रोगः प्रादुर्भूतो भविष्यति येन ते न हेषन्ते ? अपरेण समयेनाश्वा वडवा प्रसूता। तस्याः किशोरको जातः। स यमेव दिवसमुपादाय तेऽश्वाः संचर्तुमपि नारब्धाः। सार्थवाहः संलक्षयति-नूनमयं दौर्भाग्यसत्त्वो जातः अस्य दोषेण ममाश्वानां रोगः प्रादुर्भूतः स तां वडवां नित्यमेव वाहयति। तस्या नवयवसंपन्नयोग्याशनमनुप्रयच्छति। सोऽनुपूर्वेण पूजितं नामाधिष्ठानमनुप्राप्तः। तस्य तत्र वर्षारात्र्यः प्रत्युपस्थिताः। स संलक्षयति-यदि गमिष्यामि, अश्वानां खुराः क्लेदं गमिष्यन्ति, अपण्यीभविष्यन्ति। इहैव वर्षां तिष्ठामि। स तस्यैव वर्षामुषितस्य तद्वासिनो ये शिल्पिनस्ते स्वेन शिल्पेनोपस्थानं कुर्वन्ति। तस्य गमनकाले शिल्पिन उपसंक्रान्ताः। तेषां तेन संविभागः कृतः। तत्रैकः कुम्भकारः प्रतिवसति। तेनापि तस्य स्वेन शिल्पेनोपस्थानं कृतम्। स पत्न्याभिहितः-आर्यपुत्र, स सार्थवाहो गच्छति। गच्छ, त्वं गत्वा किंचिद्याचस्व। तस्माच्चलितस्य मृत्पिण्डं गृहीत्वोपस्थितः। स तेन सार्थवाहेन दृष्टः। स तस्य कथयति- भोः पुरुषः, अतिचिरेण त्वमागतः। मम किंचिद्दातव्यम्। स आह- सर्वं गतम्। तस्यापि सार्थवाहस्य तस्य किशोरस्यान्तिकेऽमङ्गलबुद्धिः। स कथयति-अपि त्वयमेकः किशोरस्तिष्ठति, यदि प्रियोऽसि, गृहीत्वा गच्छ। कुम्भकारः कथयति-शोभनम्। अहं भाण्डानि करिष्यामि, एष भेत्स्यते। स किशोरकस्तस्य कुम्भकारस्य पादौ जिह्वया लेढुमारब्धः। तस्याश्वस्यान्तिकेऽनुनय उत्पन्नः। स तं गृहीत्वा गतः। स पत्न्याः उक्तः-अस्ति किंचित्त्वया तस्य सकाशाल्लब्धम् ? लब्धम्। अयं किशोरकः। शोभनम्। त्वं भाण्डानि करिष्यसि, एष भेत्स्यते। स किशोरकोऽस्याः पादानि लेढुमारब्धः। तस्या अपि तस्यान्तिकेऽनुनय उत्पन्नः। स पक्कमानानां भाण्डानां मध्ये परिसर्पन्न किंचिद्भाण्डं भिनत्ति। सा तस्य पत्नी कथयति-शोभनम्। अयं किशोरकः संप्रजानन् परिसर्पति। अपरेण स्मयेन कुम्भकारो मृत्तिकार्थमागतः। स किशोरकस्तस्य पृष्ठतोऽनुसरन्ननुबद्धः। तेन कुम्भकारेण मृत्तिकाप्रसेवकः पूरितः। तेन किशोरकेन पृष्ठमवनामितम्। तेन तस्य मृत्तिकायाः प्रसेवकः पृष्ठमारोपितः। स तं गृहीत्वा गृहमागतः। तेन कुम्भकारेण पत्नी उक्ताः- भद्रे, शोभनः किशोरकः। न भूयो मया मृत्तिका वोढव्या भविष्यति। अहमस्य तत्रारोपयिष्यामि, त्वमिहावतारयिष्यसि। स तस्य तुषान् कुटिं चानुप्रयच्छति॥



तेन कालेन तेन समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च बहुजनमनुष्यं च। तस्याश्वाजानेयः कालगतः। सामन्तराज्यैः श्रुतम्-ब्रह्मदत्तस्य राज्ञोऽश्वाजानेयः कालगत इति। तैस्तस्य संदिष्टम्-करप्रत्यायान् वा अनुप्रयच्छ उद्यानं वा। ते निर्गतकण्टकेऽनुवरोध्य आनयिष्यामः। स तेषां करप्रत्यायान् नानुप्रयच्छति, नापि तं स उद्यानं समागतः। सार्थवाहोऽनुपूर्वेण वाराणसीनगरमनुप्राप्तः। ब्रह्मदत्तेन राज्ञा श्रुतम्-उत्तरापथात् सार्थवाहोऽश्वपण्यमादाय वाराणसीमनुप्राप्त इति। सोऽमात्यानामन्त्रयते स्म-भवन्तः, कियच्चिरं मयेह प्रविष्टेन स्थातव्यम् ? गच्छत, अश्वाजानेयं पर्येषध्वम्। ते सार्थवाहस्य सकाशं गताः। तैस्तेऽश्वा दृष्टाः। तेऽन्योन्यं कथयन्ति-भवन्तः, आजानेयास्तेऽश्वाः। न चात्र कश्चिदश्वाजानेयो विद्यते। सार्थवाहं दृष्ट्वा ते कथयन्ति-भवन्तोऽश्वावडवाया अश्वाजानेयो जातः। स च न दृश्यते। सार्थवाहमुपसंक्रम्य पृच्छन्ति-अस्ति कश्चिदश्वस्त्वया विक्रीतः कस्यचिद्वा दत्त इति ? स कथयति-नास्ति कश्चिद्विक्रीतः। अपि त्वस्ति मया पूजितकेऽधिष्ठानेऽमङ्गलकः किशोरकः कुम्भकारस्य दत्त इति। तेऽन्योन्यं कथयन्ति-भवन्तः, महामूर्खोऽयं सार्थवाहः, योऽयं मङ्गलमपहायामङ्गलानेवादायागत इति। ते राजानमवलोक्य पूजितकं गताः। ते तं कुम्भकारमुपसंक्रान्ताः। उपसंक्रम्य कथयन्ति-कुमनेन किशोरकेन करोषि ? स आह-एष मम मृत्तिकां वहति। ते कथयन्ति-वयं ते तथा गर्दभमनुप्रयच्छामः, त्वमस्माकममुमनुप्रयच्छस्व। कथयति-एष मे शोभन इति। चतुर्गवयुक्तं शकटमनुप्रयच्छामः। स कथयति-एष मम शोभन इति। ते कथयन्ति-एवं चेत् संप्रधारय वयं श्वो भूय आगमिष्यामः। इत्युक्त्वा प्रक्रान्ताः। स किशोरकः कथयति-किमर्थं नानुप्रयच्छसि? किं त्वं जानासि मया मृत्तिका वोढव्या तुषाश्च कुटिसकण्टं भक्षितव्यम्। मया राजा क्षत्रियो मूर्धाभिषिक्तो वोढव्यः, सौवर्णस्थाले मधुम्रक्षितका मूलका भक्षितव्याः। ते यदि संकथयन्ति कोशिरक इति, वक्तव्याः-किं लज्जध्वं वक्तुमश्वाजानेय इति ? श्वः पुनरागत्वा ते कथयिष्यन्ति मूल्येनानुप्रयच्छेति। वक्तव्याः -सुवर्णलक्षं वानुप्रयच्छथ यावद्वा दक्षिणेन सक्थ्ना करिष्यति तावदनुप्रयच्छथ। तेऽपरस्मिन् दिवसे उपसंक्रम्य पृच्छन्ति-भोः पुरुष, संप्रधारितं त्वया ? संप्रधरितम्-किं लज्जध्वं वक्तुमश्वाजानेय इति ? ते कथयन्ति-मूर्खः स एषः। किमेष ज्ञास्यति ? एष अश्वाजानेयो धारयति। एतदेव तेन सार्थवाहेनास्यारोचित्तं भविष्यति। ते कथयन्ति-अश्वाजानेयो भवतु। मूल्येनानुप्रयच्छ। स कथयति-सुवर्णलक्षं वानुप्रयच्छथ, यावद्वा सुवर्णल्क्षं दक्षिणेन सक्थ्ना करिष्यति। ते संलक्षयन्ति-बलवानेषः। स्थानमेतद्विद्यते यत् प्रभूततरमाकर्षयति। सुवर्णलक्षनमुप्रयच्छामः। तैर्ब्रह्मदत्तस्य राज्ञः संदिष्टं सुवर्णलक्षेण अश्वाजानेयो लभ्यते। राज्ञापि संदिष्टम्-यूयं यावता मूल्येन तावता गृह्णीत। तैः सुवर्णलक्षेण गृहीतः। ते तमादाय वाराणसीमागताः। स तैश्च मन्दुरायां प्रतिष्ठापितः। तस्य परमयोग्याशनं दीयते। स तं न परिभुङ्क्ते। किं सरोगो भवद्भिरश्वाजानेय आनीतः ? अपि तु समनुयुञ्ज्यामहे तावदेनम्। अथ सूतो गाथां भाषते-



स्मरसि तुरग घटिकरस्य शालां

किमिहविधैर्य विप्रयुक्तः।

परिशिथिलशिरास्थिचर्मगात्रः

स्वदशनचूर्णितघासस्य चारी॥९॥



न चरसि बघुमतस्तदर्थे

मासीदिह हि चर यानसहस्रपूर्णयायी।

ह्यवसनमिदं तृषापनीतं

न चरसि किं वद मेऽद्य साधु पृष्टः॥१०॥



तमकथयदमर्षितः सकोपं

परमयवार्जवधैर्यसंप्रयुक्तः।

उपशममथ संप्रचिन्त्य तस्मात्

तुरगवरो नरसूतमैत्रबुद्धिः॥११॥



त्वमिह विधिहितप्रदाभिमानी

न च विहितो भवतो यथावदस्मि।

निधनमहमिह प्रयायमाशु

न च विदुषाय तरेय पूर्व्याम्॥१२॥



सुचिरमपि हि न सज्जानावमानो

यदि गुणवानसि सौम्य नावमानः।

क्षणमपि खलु सज्जनावमानो

यदि गुणवानसि नावमानः॥१३॥



सूतो राज्ञः कथयति-देवस्यानुपूर्वी न कृता येनैव यवसयोग्याशनं न गृह्णाति। कास्यानुपूर्वी कृता ? अस्यायमुपचारः। सार्धतृतीयानि योजनानि मार्गशोभा कर्तव्या। राजाभिषिक्तश्चतुरङ्गेन बलकायेन सार्धं प्रत्युद्गच्छति। यस्मिन् प्रदेशे स्थाप्यते, स प्रदेशस्ताम्रपट्टैर्बध्यते। राज्ञो ज्येष्ठपुत्रः। स तस्य शतशलाकं छत्रं मूर्ध्नि धारयति। राज्ञो ज्येष्ठा दुहिता सौवर्णेन मणिव्यजनेन मक्षिकान् वारयति। राज्ञोऽग्रमहिषी सौवर्णस्थाले मधुम्रक्षितकान् मूलान् भक्षयतो धारयति। राज्ञोऽग्रामात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति। राज कथयति-एष नाम राजा, नाहं स राजेति। सूतः कथयति-देव, नास्य सर्वकालमेष उपचारः क्रियते। अपि तु सप्ताहस्यात्ययाद्विधेयो भवति। राजा कथयति-यत्तावदतीतं न शक्यं तत्पुनः कर्तुम्, यदवशिष्टं तत्क्रियताम्। यस्मिन् प्रदेशे ताम्रपट्टैर्बद्धः, तस्य राज्ञो ज्येष्ठः पुत्रः शतशलाकां धारयति, राज्ञो ज्येष्ठा दुहिता सौवर्णमनिमयवालव्यजनेन मक्षिकान् वारयति, राज्ञोऽग्रमहिषी सौवर्णेन स्थालेन मधुम्रक्षितकान् मूलान् भक्षयतो धारयति, राज्ञोऽमात्यः सौवर्णेन लक्षणेन लड्डीश्छोरयति। तमनुनयति पार्थिवः। ससृतपरमसुगन्धिविलेपनानुधारी मधुरमधुरकृतान्तरानुरागा नृपमहिषी तुरगोत्तमाय दत्ता राज्ञा। उद्यानभूमिं निर्गन्तुकामोऽस्याश्चाजानेय उपगम्य पृष्ठमुन्नामयति। राजा सूतं पृच्छति-राजा अस्य पृष्ठं दुःखयति। स कथयति-किं तु राजा दुःखमधिरोक्ष्यतीति। यतोऽनेनावनामितं स राजा तमभिरुह्य संप्रस्थितः। तस्य गच्छतः पानीयमागतम्। स तत्र नावतरति। राजा सूतं पृच्छति-एषो बिभेति ? देव, नैष बिभेति। अपि तु मा राजानं पुच्छोदकेन सेक्ष्यामीति। तस्य तत्पुच्छं सौवर्णायां नालिकायां प्रक्षिप्तम्। स तं पानीयमुत्तीर्णः। स उद्यानं गत्वा प्रमत्तोऽवस्थितः। सामन्तराजैः श्रुतम्-यथा राजा ब्रह्मदत्त उद्यानं गत इति। तैरागत्य नगरस्य द्वाराणि बन्धयन्ति। राज्ञा ब्रह्मदत्तेन श्रुतं सामन्तराजैर्नगरद्वाराणि निगृहीतानीति। सोऽश्वाजानेयमभिरूढः। अन्तरा च वाराणस्यन्तरा चोद्यानमत्रान्तरा ब्रह्मावती नाव पुष्किरिण्युत्पलकुमुदपुण्डरीकसंछन्ना। सोऽश्वाजानेयः पद्मोपरि सरन् वाराणसीं प्रविष्टः। राजा तुष्टोऽमात्यानां कथयति-भवन्तः,यो राज्ञः क्षत्रियस्य मूर्ध्नाभिषिक्तस्य जीवितमनुप्रयच्छति, किं तस्य कर्तव्यम् ? देव, उपार्धराज्यं दातव्यम्। राजा कथयति-तीर्यगेषः। किमस्योपार्धराज्येन ? अपि त्वेनमागम्य सप्ताहं दानानि दीयन्ताम्, पुण्यानि क्रियन्ताम्, अकालकौमुदी च क्रियताम्। अमात्यैः सप्ताहं दानानि दातुमारब्धानि, पुण्यानि कर्तुमारब्धानि, सप्ताहमकालकौमुदी प्रस्थापिता। सार्थवाहः पुरुषान् पृच्छति-भवन्तः, किमकालकौमुदी वर्तते ? तेऽस्य कथयन्ति-पूजितं नामाधिष्ठानम्। ततः कुम्भकारस्य सकाशात् सुवर्णलक्षेणाश्वाजानेयं गृहीत्वा इहानीतम्। तेनाद्य राज्ञो जीवितं दत्तम्। तमागम्य सप्ताहं दनानि दातुमारब्धानि, पुण्यानि क्रियन्ते, अकालकौमुदी च प्रस्थापिता। सार्थवाहः संलक्षयति-यो मया छोरितो नाम, स एष किशोरकोऽश्वाजानेयः स्यात् ? तत्तावद्गत्वा पश्यामि। स तस्य सकाशं गतः। स तेनाश्वजानेयेनोक्तः-भोः पुरुष, किं त्वया तेषामश्वानां सकाशाल्लब्धम् ? मयैकाकिनैव तस्य कुम्भकारस्य सुवर्णलक्षं दत्तम्। स मूर्छितकः पृथिव्यां निपतितः। जलपरिषेकन प्रत्यागतप्राणः प्रादयोर्निपत्य क्षमापितवान्॥



किं मन्यध्वे भिक्षवो योऽसौ सार्थवाहः, एष एव जीवकस्तेन कालेन तेन समयेन। योऽश्वाजानेयः, एष एव पन्थकस्तेन कालेन तेन समयेन। तदापि यदा अस्यैष गुणानामनभिज्ञः, तदास्यासत्कारं प्रयुक्तवान्। यदा तु गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमापितवान्। एतर्ह्यप्येष यदा गुणानामनभिज्ञः, तदा असत्कारं प्रयुक्तवान्। यदा गुणानामभिज्ञः, तदा पादयोर्निपत्य क्षमायति॥



इति श्रीदिव्यावदाने चूडापक्षावदाणं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project