Digital Sanskrit Buddhist Canon

३४ दानाधिकरणमहायानसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 34 dānādhikaraṇamahāyānasūtram
३४ दानाधिकरणमहायानसूत्रम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवाञ्छ्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम्। तत्र (भगवान्) भिक्षूनामन्त्रयते स्म-सप्तत्रिंशता भिक्षव आकारैः पण्डितो दानं ददाति। काले दानं ददाति तथागतानुज्ञातम्। कल्पितं दानं ददाति त्रिवस्तुपरिशुद्धम्। सत्कृत्य दान ददाति सर्वदोषविक्षेपविगमार्थम्। स्वहस्तेन दानं ददात्यसारात्कायात्सारसंग्रहार्थम्। स्कन्धं दानं ददाति महात्यागभोगविपाकप्रतिलाभसंवर्तनीयम्। वर्णसंपन्नं दानं ददाति प्रासादिकविपाकप्रतिवंवर्तनीयम्। गन्धसंपन्नं दानं ददाति गन्धविपाकप्रतिलाभसंवर्तनीयम्। रससंपन्नं दानं ददाति रसरसाग्रव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्। प्रणीतं दान ददाति प्रणीतभोगविपाकप्रतिलाभसंवर्तनीयम्। विपुलं दानं ददाति विपुलभोगविपाकप्रतिलाभसंवर्तनीयम्। अन्नदानं ददाति क्षुत्तर्षविच्छेदविपाकप्रतिलाभसंवर्तनीयम्। पानदानं ददाति सर्वत्र जातिषु तृड्विच्छेदविपाकप्रतिलाभसंवर्तनीयम्। वस्त्रदानं ददाति प्रणीतवस्त्रभोगविपाकप्रतिलाभसंवर्तनीयम्। प्रतिश्रयं दानं ददाति हर्म्यकूटागारप्रासादभवनविमानोद्यानारामविशेषविपाकप्रतिलाभसंवर्तनीयम्। शय्यादानं ददात्युच्चकुलभोगाविपाकप्रतिलाभसंवर्तनीयम्। यानं दानं ददाति ऋद्धिपादविपाकप्रतिलाभसंवर्तनीयम्। भैषज्यदानं ददाति अजरामरणविशोकसंक्लिष्टनिरोधनिवाणविपाकप्रतिलाभसंवर्तनीयम्। धर्मदानं ददाति जातिस्मरप्रतिलाभसंवर्तनीयम्। पुष्पदानं ददाति बोध्यङ्गपुष्पविपाकप्रतिलाभसंवर्तनीयम्। माल्यदानं ददाति रागद्वेषमोहविशुद्धविपाकप्रतिलाभसंवर्तनीयम्। गन्धदानं ददाति दिव्यगन्धसुखोपपत्तिविपाकप्रतिलाभसंवर्तनीयम्। धूपदानं ददाति संक्लेशदौर्गन्धप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। छत्रदानं ददाति धर्मैश्वर्याधिपत्यविपाकप्रतिलाभसंवर्तनीयम्। घण्टादानं ददाति मनोज्ञस्वरविपाकप्रतिलाभसंवर्तनीयम्। वाद्यदानं ददाति ब्रह्मस्वरनिर्घोषविपाकप्रतिलाभसंवर्तनीयम्। पट्टदानं ददाति देवमनुष्याभिषेकपट्टबन्धविपाकप्रतिलाभसंवर्तनीयम्। तथागतचैत्येषु तथागतबिम्बेषु च सुगन्धोदकस्नानं दानं ददाति द्वात्रिंशन्महापुरुषलक्षणाशीत्यनुव्यञ्जनविपाकप्रतिलाभसंवर्तनीयम्। सूत्रदानं ददाति सर्वत्र जातिषूत्पस्यता ग्राह्यकुलेषूपपद्य समन्तप्रासादिकविपाकप्रतिलाभसंवर्तनीयम्। पञ्चसारदानं ददाति सर्वत्र जातिषु महाबलविपाकप्रतिलाभसंवर्तनीयम्। मैर्यात्मकदानं ददाति व्यापादप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। करुणाश्रितदानं ददाति महासुखविपाकप्रतिलाभसंवर्तनीयम्। मुदिताश्रितदानं ददाति सर्वथा मुदितानन्दविपाकप्रतिलाभसंवर्तनीयम्। उपेक्षाश्रितं दानं ददाति अरतिप्रहाणविपाकप्रतिलाभसंवर्तनीयम्। विचित्रोपचित्रं दान ददाति। नानाबहुविधविचित्रोपभोगविपाकप्रतिलाभसंवर्तनीयम्। सर्वार्थपरित्यागं दानं ददाति अनुत्तरसम्यक्संबोधिविपाकप्रतिलाभसंवर्तनीयम्। एभिर्भिक्षवः सप्तत्रिंशत्प्रकारैः पण्डितो दानं ददाति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

इति श्रीदिव्यावदाने दानाधिकरणमहायानसूत्रं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project