Digital Sanskrit Buddhist Canon

३३ शार्दूलकर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३३ शार्दूलकर्णावदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्। अथायुष्मानानन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतममुदपानं तेनोपसंक्रान्तः। तेन खलु समयेन तस्मिन्नुदपाने प्रकृतिर्नाम मातङ्गदारिका उदकमुद्धरते स्म। अथायुष्मानानन्दः प्रकृतिं मातङ्गदारिकामेतदवोचत्- देहि मे भगिनि पानीयम्, पास्यामि। एवमुक्ते प्रकृतिर्मातङ्गदारिका आयुष्मन्तमानन्दमिदमवोचत्-मातङ्ग-दारिकाहमस्मि भदन्त आनन्द। नाहं ते भगिनि कुलं वा जातिं वा पृच्छामि। अपि तु सचेत्ते परित्यक्तं पानीयम्, देहि, पास्यामि। अथ प्रकृतिर्मातङ्गदारिका आयुष्मत आनन्दाय पानीयमदात्। अथायुष्मानानन्दः पानीयं पीत्वा प्रक्रान्तः॥



अथ प्रकृतिर्मातङ्गदारिका आयुष्मत आनन्दस्य शरीरे मुखे स्वरे च साधु च सुष्ठु च निमित्तमुद्गृहीत्वा योनिशोमनसिकारेणाविष्टा संरागचित्तमुत्पादयति स्म-आर्यो मे आनन्दः स्वामी स्यादिति। माता च मे महाविद्याधरी। सा शक्ष्यत्यार्यमानन्दमानयितुम्। अथ प्रकृतिर्मातङ्गदारिका पानीयघटमादाय येन चण्डालगृहं तेनोपसंक्रम्य पानीयघटमेकान्ते निक्षिप्य स्वां जननीमिदमवोचत्-यत्खलु एवमम्ब जानीयाः-आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकः। तमहं स्वामिनमिच्छामि। शक्ष्यसि तमम्ब आनयितुम् ? सा तामवोचत्- शक्ताहं पुत्रि आनन्दमानयितुं स्थापयित्वा यो मृतः स्याद्यो वा वीतरागः। अपि च। राजा प्रसेनजित् कौशलः श्रमणगौतममतीव सेवते भजते पर्युपासते। यदि जानीयात्, सोऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत। श्रमणश्च गौतमो वीतरागः श्रूयते। वीतरागस्य (मन्त्राः) पुनः सर्वमन्त्रानभिभवन्ति। एवमुक्ता प्रकृतिर्मातङ्गदारिका मातरमिदमवोचत्-सचेदम्ब श्रमणो गौतमो वीतरागः, तस्यान्तिकाच्छ्रमणमानन्दं न प्रतिलप्स्ये, जीवितं परित्यजेयम्। सचेत्प्रतिलप्स्ये, जीवामि। मा ते पुत्रि जीवितं परित्यजसि। आनयामि श्रमणमानन्दम्॥



अथ प्रकृतेर्मातङ्गदारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीमालिप्य दर्भान् संस्तीर्य अग्निं प्रज्वाल्य अष्टशतमर्कपुष्पाणां गृहीत्वा मान्त्रानावर्तयमाना एकैकमर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्रेयं विद्या भवति -



अमले विमले कुङ्कुमे सुमने। येन बद्धासि विद्युत्। इच्छया देवो वर्षति विद्योतति गर्जति। विस्मयं महाराजस्य समभिवर्धयितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्यः शिखिग्रहा देवा विशिखिग्रहा देवा आनन्दस्यागमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा॥



अथायुष्मत आनन्दस्य चित्तमाक्षिप्तम्। स विहारान्निष्कम्य तेन चण्डालगृहं तेनोपसंक्रामति स्म। अद्राक्षीच्चण्डाली आयुष्मन्तमानन्दं दूरादेवागच्छन्तम्। दृष्ट्वा च पुनः प्रकृतिं दुहितरमिदमवोचत्-अयमसौ पुत्रि श्रमण आनन्द आगच्छति। शयनं प्रज्ञपय। अथ प्रकृतिर्मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म॥



अथायुष्मानानन्दो येन चण्डालगृहं तेनोपसंक्रान्तः। उपसंक्रम्य वेदीमुपनिश्रित्यास्यात्। एकान्तस्थितः स पुनरायुष्मानानन्दः प्रारोदीत्। अश्रूणि प्रवर्तयमान एवमाह- व्यसनप्राप्तोऽहमस्मि। न च मे भगवाण् समन्वाहरति। अथ भगवानायुष्मन्तमानन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्धमन्त्रैश्चण्डालमन्त्रान् प्रतिहन्ति स्म। तत्रेयं विद्या -



स्थितिरच्युतिः सुनीतिः। स्वस्ति सर्वप्राणिभ्यः॥

सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतोऽभयम्।

ईतयो यत्र शाम्यन्ति भयानि चलितानि च॥१॥



तद्वै देवा नमस्यन्ति सर्वसिद्धाश्च योगिनः।

एतेन सत्यवाक्येन स्वस्त्यानन्दाय भिक्षवे॥२॥



अथायुष्मानानन्दः प्रतिहतचण्डालमन्त्रश्चण्डालगृहान्निष्क्रम्य येन स्वको विहारस्तेनोपसंक्रमितुमारब्धः॥



अद्राक्षीत्प्रकृतिर्मातङ्गदारिका आनन्दमायुष्मन्तं प्रतिगच्छन्तम्। दृष्ट्वा च पुनः स्वां जननीमिदमवोचत्-अयमसौ मातः श्रमण आनन्दः प्रतिगच्छति। तामाह माता-नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिराह- किं पुनरम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम् ? तामाह माता-बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नास्माकम्। ये पुत्रि मन्त्राः सर्वलोकस्य प्रभवन्ति, तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर्लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुम्। एवं बलवत्तराः श्रमणस्य गौतमस्य मन्त्राः॥



अथायुष्मानानन्दो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तोऽस्थात्। एकान्तस्थितमायुष्मन्तमानन्दं भगवानिदमवोचत्-उद्गृह्ण त्वमानन्द इमां षडक्षरीविद्याम्। धारय वाचय पर्यवाप्नुहि आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनामुपासकानामुपासिकानां हिताय सुखाय। इयमानन्द षडक्षरीविद्या षड्‌भिः सम्यक्संबुद्धैर्भाषिता, चतुर्भिश्च महाराजैः, शक्रेण देवानामिन्द्रेण, ब्रह्मना च सहापतिना। मया चैतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता। त्वमप्येतर्हि आनन्द तां धारय वाचय पर्यवाप्नुहि। यदुत तद्यथा-



अण्डरे पाण्डरे कारण्डे केयूरेऽर्चिहस्ते खरग्रीवे बन्धुमति वीरमति धर विध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोलमति गण्डविले चिलिमिले सातिनिम्ने यथासंविभक्ते गोलमति गण्डविलायै स्वाहा॥



यः कश्चिदानन्द षडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात्, स यदि वधार्हो भवेत्, दण्डेन मुच्यते, दण्डार्हः प्रहारेणः, प्रहारार्हः परिभाषणया, परिभाषणार्हो रोमहर्षणेन, रोमहर्षणार्हः पुनरेव मुच्यते। नाहमानन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सासुरायां यस्त्वनया षडक्षर्या विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृते अभिभवितुं शक्नोति वर्जयित्वा पौराणं कर्मविपाकम्॥



अथ प्रकृतिर्मातङ्गदारिका तस्या एव रात्र्या अत्ययात् शिरःस्नाता अनाहतदूष्यप्रावृता मुक्तामाल्याभरणा येन श्रावस्ती नगरी तेनोपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्यास्थादायुष्मन्तमानन्दमागमयमाना-नियतमनेन मार्गेण आनन्दो भिक्षुरागमिष्यतीति। ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां पृष्ठतः पृष्ठतः समनुबद्धाम्। दृष्ट्वा च पुनर्जेह्रीयमाणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्। एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्-इयं मे भगवन् प्रकृतिर्मातङ्गदारिका पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्तमनु गच्छति, तिष्ठन्तुमनु तिष्ठति। यद्यदेव कुलं पिण्डाय प्रविशामि, तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन्, त्राहि मे सुगत। एवमुक्ते भगवानायुष्मन्तमानन्दमिदमवोचत्-किं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा ? प्रकृतिराह-स्वामिनं भदन्त आनन्दमिच्छामि। भगवानाह-अनुज्ञातासि प्रकृते मातापितृभ्यामानन्दाय ? अनुज्ञातास्मि भगवन्, अनुज्ञातास्मि सुगत। भगवानाह- तेन हि संमुखंममानुज्ञापय त्वम्। अथ प्रकृतिर्मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेनोपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्तस्थिता स्वकौ मातापितराविदमवोचत्-संमुखं मे अम्ब तात श्रमणस्य गौतमस्य आनन्दाय उत्सृजतम्। अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ प्रकृतिमादाय येन भगवांस्तेनोपसंक्रान्तौ। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदताम्। अथ प्रकृतिर्मातङ्गदारिका भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्तस्थिता भगवन्तमेतदवोचत्-इमौ तौ भगवन् मातापितरावागतौ। अथ भगवान् प्रकृतेर्मातङ्गदारिकाया मातापितराविदमवोचत्-अनुज्ञाता युवाभ्यां प्रकृतिर्मातङ्गदारिका आनन्दायेति ? तावाहतुः-अनुज्ञाता भगवन्, अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिमपहाय गच्छत स्वगृहम्। अथ प्रकृतेर्मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रान्तौ॥



अथ प्रकृतेर्मातङ्गदारिकाया मातापितरावचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्-अर्थिकासि प्रकृते आनन्देन भिक्षुणा ? प्रकृतिराह-अर्थिकास्मि भगवन्, अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेषः, स त्वया धारयितव्यः। सा आह-धारयामि भगवन्, धारयामि सुगत। प्रव्राजयतु मां सुगत, प्रव्राजयतु मां भगवान्। अथ भगवान् प्रकृतिं मातङ्गदारिकामिदमवोचत्- एहि त्वं भिक्षुणी, चर ब्रह्मचर्यम्। एवमुक्ते प्रकृतिर्मातङ्गदारिका भगवता मुण्डा काषायप्रावृता। अथ भगवान् प्रकृतिं मातङ्गदारिकामेहिभिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया, तद्यथा-दानकथा शीलकथा स्वर्गकथा कामेष्वादीनवं निःसरणं भयं संक्लेशव्यवदानम्, बोधिपक्षांस्तान् धर्मान् भगवान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म। अथ प्रकृतिर्भिक्षुणी भगवता धर्म्यया कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचिता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताखिलचित्ता भव्या धर्मदेशितमाज्ञातुम्। यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनीवरणचित्तां भव्यां प्रतिबलां सामुत्कर्षिकीं धर्मदेशनामाज्ञातुम्, तदा येयं भगवतां बुद्धानां चतुरार्यसत्यप्रतिवेधिकी धर्मदेशना, यदुत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेऽर्भिक्षुण्या विस्तरेण संप्रकाशयति स्म। अथ प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्यसत्यान्यभिज्ञातासीत्, दुःखं समुदयं निरोधं मार्गम्। तद्यथा वस्त्रमपगतकालकं रजनोपगतं रङ्गोदके प्रक्षिप्तं सम्यगेव रङ्गं प्रतिगृह्णीयात्, एवमेव प्रकृतिर्भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्यसत्यानि अभिसमयति स्म, तद्यथा-दुःखं समुदयं निरोधं मार्गम्॥



अथ प्रकृतिर्भिक्षुणी दृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मा अधिगतार्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ता अपरप्रत्यया अनन्यनेया शास्तुः शासने अनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तमिदमवोचत्-अत्ययो मे भगवन्, अत्ययो मे सुगत। यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्प्रज्ञजातीया, याहमानन्दं भिक्षुं स्वामिवादेन समुदाचार्षम्। साहं भदन्त अत्ययमत्ययतः पश्यामि। अत्ययमत्ययतो दृष्ट्वा देशयामि। अत्ययमत्ययत आविष्करोमि। आयत्यां संवरमापद्ये। अतस्तस्या मम भगवन् अत्ययमत्ययतो जानातु प्रतिगृह्णातु अनुकम्पामुपादाय। भगवानाह-आयत्यां संवराय स्थित्वा त्वं प्रकृते अत्ययमत्ययतोऽध्यागमः। यथा बाला यथा मूढा यथा अव्यक्ता यथा अकुशला दुष्प्रज्ञजातीया त्वमानन्दं भिक्षू स्वामिवादेन समुदाचरसीति। यतश्च त्वं प्रकृते अत्ययं जानासि, अत्ययं पश्यसि, आयत्यां च संवरमापद्यसे, अहमपि तेऽत्ययमत्ययतो गृह्णामि। वृद्धिरेव ते प्रकृते प्रतिकाङ्क्षितव्या कुशलानां धर्माणाम्, न हानिः। अथ प्रकृतिर्भिक्षुणी भगवताभिनन्दितानुशिष्टा एका व्यपकृष्टा अप्रमत्ता आतापिनी स्मृतिमति संप्रजानां प्रहितानि विविक्तानि विहरति स्म। यदर्थं कुलदुहितरः केशानवतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनागारिकां प्रव्रजन्ति, तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षाकृत्योपसंपद्य प्रवेदयते स्म-क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, कृत्तं करणीयम्, नापरमस्माद्भवं प्रजानामीति॥



अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयः-भगवता कुल चण्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनरवध्यायन्ति-कयं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति ? भिक्षुणीनामुपासकानामुपासिकानां सम्यक्चर्यां चरिष्यति ? कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपरिमहाशालकुलेषु प्रवेक्ष्यति ?



अश्रौषीद्राजा प्रसेनजित्कौशलः-भगवता चण्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनरवध्यायति-कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति ? भिक्षूणीनामुपासकानामुपासिकानां सम्यक्चर्यां चरिष्यति ? कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति ? विमृश्य च भद्रं यानं योजयित्वा भद्रं यानमभिरुह्य संबहुलैश्च श्रावस्तेयैर्ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनमनाथपिण्डदस्यारामः, तेनोपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिः, तावद्यानेन गत्वा स यानादवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्यामेवारामं प्राविक्षत्। प्रविश्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षत्रियगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। अप्यैकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णाः। अप्यैकत्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि अनुश्राव्य एकान्ते निषण्णाः। अप्यैकत्या येन भगवांसेनाञ्जलिं प्रणम्य एकान्ते निषण्णाः। अप्यैकत्यास्तूष्णींभूता एकान्ते निषण्णाः॥



अथ भगवान् राजानं प्रसेनजितं कौशलमारभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तमाज्ञाय प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य भिक्षूनामन्त्रयते स्म- इच्छथ यूयं भिक्षवस्तथागतस्य संमुखं प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां श्रोतुम् ? भिक्षवो भगवन्तमाहुः-एतस्य भगवन् कालः, एतस्य सुगत समयः, यद्भगवान् प्रकृतेर्भिक्षुण्याः पूर्वनिवासमारभ्य धर्मकथां कथयेत्, यद्भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवानाह-तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसिकुरुत, भाषिष्ये। एवं साधु भगवन्निति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस्तानिदमवोचत्-



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गातटे अतिमुक्तकदलीपाटलकामलकीवनगहनप्रदेशे तत्र त्रिशङ्कुर्नाम मातङ्गराजः प्रतिवसति स्म संबहुलैश्च मातङ्गसहस्रैः सार्धम्। स पुनर्भिक्षवस्त्रिशङ्कुर्मातङ्गराजः पूर्वजन्माधीतान् वेदान् समनुस्मरति स्म साङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षरप्रभेदानितिहासपञ्चमान्, अन्यानि च शास्त्राणि पदको (शो ?) वैयाकरणो लोकायते यज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षः। भाष्यं च यथाधर्मं वेदव्रतपदान्यनुश्रुतं च भाषते स्म। तस्य त्रिशङ्कोर्मातङ्गराजस्य शार्दूलकर्णो नाम कुमारोऽभूदुत्पन्नः। रूपतश्च कुलतश्च शीलतश्च गुणतश्च सर्वगुणैश्चोपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः। अथ त्रिशङ्कुर्मातङ्गराजः शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदानध्यापयति स्म यदुत सङ्गोपाङ्गान् सरहस्यान् सनिघण्टकैटभान् साक्षारप्रभेदानितिहासपञ्चमान्, अन्यानि च शास्त्राणि, भाष्यं च यथाधर्मं वेदव्रतपदानि॥



अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्-अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः उपेतो रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेतोऽभिरूपो दर्शनीयः प्रासादिकः, परमया च वर्णपुष्कलतया समन्वागतः। चीर्णव्रतोऽधीतमन्त्रो वेदपारगः। समयोऽयं यन्न्वहमस्य निवेशनधर्मं करिष्ये। तत्कुतो न्वहं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयमिति ?



तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म ससप्तोत्सदं सतृणकाष्ठोदकं धान्यसहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्। पुष्करसारी पुनर्ब्राह्मण उपेतो मातृतः पितृतः संशुद्धो गृहिण्यामना (कुले जात्यां वा) क्षिप्तो जातिवादेन गोत्रवादेन यावदासप्तममातामहपिताहम्। युगपदुपाध्यायोऽध्यापको मन्त्रधरस्त्रयाणां वेदानां पारगः साङ्गोपाङ्गानां सरहस्यानां सनिघण्टकौटभानां साक्षरप्रभेदानामितिहासपञ्चमानां पदको (शो) वैयाकरणः। लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः। स्फीतमुत्कूटं नाम द्रोणमुखं परिभुङ्क्ते। पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता भूता। उपेता रूपतश्च कुलतश्च शीलतश्च गुणतश्च, सर्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्ण पुष्कलतया समन्वागता शीलवती गुणवती॥



अथ त्रिशङ्कोर्मातङ्गराजस्यैतदभवत्-अस्त्युत्तरपूर्वेणोत्कूटो नाम द्रोणमुखः। तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो यावत् त्रैवेदिके प्रवचने विस्तरेण। स चोत्कूटं द्रोणमुखं परिभुङ्क्ते ससप्तोत्सदं सतृणकाष्ठोदकं धान्यभोगैः सहगतं राज्ञाग्निदत्तेन ब्रह्मदेयं दत्तम्। तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिता उपेता रूपतश्च कुलतश्च शीलतश्च सर्वगुणोपेता अभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतीति। अथ त्रिशङ्कुर्मातङ्गरान एतमेवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूषकालसमये सर्वश्वेतं वडवारथमभिरुह्य महता श्वपाकगणेन अमात्यगणेन परिवृतश्चण्डालनगरान्निष्क्रम्योत्तरेण प्रागच्छद्येनोत्कूटं द्रोणमुखम्। अथ त्रिशङ्कुर्मातङ्गराज उत्कूटस्योत्तरपूर्वेण सुमनस्कं नामोद्यानं नानावृक्षसंछन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनमिव देवानां तदुपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणमागमयमानोऽस्थात्-ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुमिहागमिष्यतीति॥



अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्वश्वेतं वडवारथमभिरुह्य शिष्यगणपरिवृतः पञ्चमात्रैर्माणवकशतैः पुरस्कृत उत्कूटान्निर्याति स्म ब्राह्मणान् मन्त्रान् वाचयितुम्। अद्राक्षीत्त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यमिवोदयन्तं तेजसा, ज्वलन्तमिव हुतवहम्, यज्ञमिव ब्राह्मणपरिवृतम्, शक्रमिव देवगणपरिवृतम्, हैमवन्तमिवौषधिभिः, समुद्रमिव रत्नैः, चन्द्रमिव नक्षत्रैः, वैश्रवणमिव यक्षगणैः, ब्रह्माणमिव देवर्षिगणैः परिवृतं शोभमानम्। दूरत एवागच्छन्तं दृष्ट्वा च एनं प्रत्युद्गम्य यथाधर्मं कृत्वेदमवोचत्-हं भोः पुष्करसारिन्, स्वागतम्, आयाहि। कार्यं च ते वक्ष्यामि, तच्छूयताम्। एवमुक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्- न हि भोस्त्रिशङ्को शक्यं ब्राह्मणेन सह भोःकारं कर्तुम्। अहं भोः पुष्करसारिन् शक्नोमि भोःकारं कर्तुम्। यच्छक्यं मे कर्तुं भवति, नैव तच्छक्यं ते कर्तुम्। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्वसमारब्धा भवन्ति यदुत आत्मार्थं वा परार्थं वा आत्मीयार्थं वा सर्वभूतसंग्रहार्थं वा। इदं चात्र महत्तरं कार्यम्। यत्ते व्याख्यास्यामि, तच्छ्रूयतां। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय। यावन्तं कुलशुल्कं मन्यसे, तावन्तं दास्यामि॥



इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च म्रक्षं च तत्प्रत्ययात्संजनित्वा ललाटे त्रिशिखां भृकुटी कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्-धिग् ग्राम्यविषय चण्डाल, नेदं श्वपाकवचनं युक्तम्, यस्त्वं ब्राह्मणं वेदपारगं हीनश्चण्डालयोनिजो भूत्वा इच्छस्यवमर्दितुम्। भो दुर्मते-



प्रकृतिं त्वं न जानासि आत्मानं चाभिमन्यसे।

बालाग्रे सर्षपं मा भोः स्थापय (मा) क्लेशमागमः।

मा प्रार्थयाप्रार्थनीयां वायु पाशेन बन्धय॥३॥



न हि चामीकरं मूढ भवेद्भस्म कदाचन।

प्रकाशे वान्धकारे किं विशेषो नोपलभ्यते॥४॥



चण्डालयोनिजस्त्वं हि द्विजातिः पुनरप्यहम्।

हीनः श्रेष्ठेन संबन्धं मूढ प्रार्थयसे कथम्॥५॥



चण्डालयोनिभूतस्त्वमहमस्मि द्विजातिजः।

न हि श्रेष्ठः प्रहीनेन संबन्धं कर्तुमिच्छति।

श्रेष्ठाः श्रेष्ठैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥६॥



विद्यया ये तु संपन्नाः संशुद्धाश्चरणेन च।

जात्या चैवानभिक्षिप्ता मन्त्रैः परमतां गताः॥ ७॥



अध्यापका मन्त्रधरास्त्रिषु वेदेषु पारगाः।

निघण्टकौटभान् वेदान् ब्राह्मणा ये ह्यधीयते।

तैस्तादृशैर्हि संबन्धं कुर्वन्तीह द्विजातयः॥८॥



न हि श्रेष्ठो हिं हीनेन संबन्धं कर्तुमिच्छति।

प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुम्।

यदस्माभिश्च संबन्धमिह त्वं कर्तुमिच्छसि॥९॥



जुगुप्सितः सर्वलोके कृपणः पुरुषाधमः।

गच्छ त्वं वृषल क्षिप्रं किमस्मानवमन्यसे॥१०॥



चण्डालाः सह चण्डालैः पुक्कसाः सह पुक्कसैः।

कुर्वन्तीहैव संबन्धं जातिभिर्जातिरेव च॥११॥



ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।

सार्धं वैश्यास्तथा वैश्यैः शूद्राः शूद्रैस्तथा सह॥१२॥



सदृशाः सदृशैः सार्धमावहन्ति परस्परम्।

न हि कुर्वन्ति चण्डालाः संबन्धं ब्राह्मणैः सह॥१३॥



सर्वजातिविहीनोऽसि सर्ववर्णजुगुप्सितः।

कथं हीनश्च श्रेष्ठेन संबन्धं कर्तुमिच्छसि॥१४॥



इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणः त्रिशङ्कुर्मातङ्गराज इदमवोचत्-

यथा भस्मनि सौवर्णे विशेष उपलभ्यते।

ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१५॥



यथा प्रकाशतमशोर्विशेष उपलभ्यते।

ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥१६॥



न हि ब्राह्मण आकाशान्मरुतो वा समुत्थितः।

भित्त्वा वा पृथिवीं जातो जातवेदा यथारणेः॥१७॥



ब्राह्मणा योनितो जाताश्चण्डाला अपि योनितः।

श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणम्॥१८॥



ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिरुच्यते।

वर्णास्तथैव चाप्यन्ये का नु तत्र विशेषता॥१९॥



यत्किंचित्पापकं कर्म किल्बिषं कलिरेव च।

सत्त्वानामुपघाताय ब्राह्मणैस्तत्प्रकाशितम्॥२०॥



इति कर्माणि चैतानि प्रकाशितानि ब्राह्मणैः।

कर्मभिर्दारुणैश्चापि "पुण्योऽहं" ब्रुवते द्विजाः॥२१॥



मांसं खादितुकामैस्तु ब्राह्मणैरुपकल्पितम्।

मन्त्रैर्हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्यजैडकाः॥२२॥



यद्येष मार्गः स्वर्गाय कस्मान्न ब्राह्मणा ह्यमी।

आत्मानमथवा वन्धून्मन्रैः संप्रोक्षयन्ति वै॥२३॥



मातरं पितरं चैव भ्रातरं भगिनीं तथा।

पुत्र दुहितरं भार्यां द्विजा न प्रोक्षयन्त्यमी॥२४॥



मित्रं ज्ञातिं सखीं वापि ये वा विषयवासिनः।

प्रोक्षितास्तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिम्॥ २५॥



सर्वे यज्ञैः समाहूता गमिष्यन्ति सतां गतिम्।

पशुभिः किं नु भो यष्टैरात्मानं किं न यक्ष्यसे॥२६॥



न प्रोक्षणैर्न मन्त्रैश्च स्वर्गं गच्छन्त्यजैडकाः।

न ह्येष मार्गः स्वर्गाय मिथ्याप्रोक्षणमुच्यते॥२७॥



ब्राह्मणौ रौद्रचित्तैस्तु पर्यायो ह्येष चिन्तितः।

मांसं खादितुकामैस्तु प्रोक्षणं कल्पितं पशोः॥२८॥



अन्यच्चाहं प्रवक्ष्यामि ब्राह्मणैर्यत् प्रकल्पितम्।

पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः॥२९॥



सुवर्णचैर्यं मद्यं च गुरुदाराभिमर्दनम्।

ब्रह्मघ्नता च चत्वारः पातका ब्राह्मणेष्वमी॥३०॥



सुवर्णहरणं वर्ज्यं स्तेयमन्यन्न विद्यते।

सुवर्णं यो हरेद्वीप्रः स तेनाऽब्राह्मणो भवेत्॥३१॥



सुरापानं न पातव्यमन्नपानं यथेष्टतः।

सुरां तु यः पिबेद्विप्रः स तेनाब्राह्मणो भवेत्॥३२॥



गुरुदारा न गन्तव्या अन्यदारा यथेष्टतः।

गुरुदारां तु यो गच्छेस तेनाब्राह्मणो भवेत्॥३३॥



न हन्याद् ब्राह्मणं ह्येकं हन्यादन्याननेकशः।

हन्यात्तु ब्राह्मणं यो वै स तेनाब्रह्मणो भवेत्॥३४॥



इत्येते पातका ह्युक्ता ब्राह्मणेषु चतुर्विधाः।

भवन्त्यब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥३५॥



कृत्वा चतुर्णामेकैकं भवेदब्राह्मणस्तु सः।

लभते न च सामीचीं ब्राह्मणानां समागमे।

आसनं चोदकं चैव व्युत्थानं स न चार्हति॥३६॥



तस्य निःसरणं दृष्टं ब्राह्मणैः पतितस्य तु।

व्रतं वै स समादाय पुनर्ब्राह्मणतां व्रजेत्॥३७॥



असौ द्वादशवर्षाणि धारयित्वा खराजिनम्।

खट्वाङ्गमुच्छ्रितं कृत्वा मृतशीर्षे च भोजनम्॥३८॥



एतद्व्रतं समादाय निश्चयेन निरन्तरम्।

पूर्णे द्वादशमे वर्षे पुनर्ब्राह्मणतां व्रजेत्॥ ३९॥



इति निःसरणं दृष्टं ब्राह्मणैस्तु तपस्विभिः।

कुमार्गगामिभिर्मूढैरनिःसरणदर्शिभिः॥४०॥



तदिदं ब्राह्मण ते ब्रवीमि-संज्ञामात्रकमिदं लोकस्य यदिदमुच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। सर्वमिदमेकमेवेति विज्ञाय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्यार्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥ इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश्चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च तत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुतिं कृत्वा कण्ठं धमयित्वा अक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिमुत्पाद्य त्रिशङ्कुं मातङ्गराजमिदमवोचत्-



असमीक्ष्यैतत्त्वया हि कृता संज्ञेयमीदृशी।

एकैव जातिर्लोकेऽस्मिन् सामान्य न पृथग्विधा॥४१॥



कथं श्वपाकजातीयो ब्राह्मणं वेदपारगम्।

निहीनयोनिजो भूत्वा विमर्दितुमेमिहेच्छसि॥४२॥



राजानः खलु वृषल प्रति (वि) भागज्ञा भवन्ति। तद्यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधर्मे वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा। चत्वार इमे वृषल वर्णाः। यदुत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद्यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य त्वेका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति। तद्यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्य शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः शूद्र इति। शूद्रस्य त्वेक एव पुत्रो भवति यदुत शूद्र एव। ते ब्राह्मणाः पुनर्वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्रांः। ब्रह्मणायं खलु वृषल लोकः सर्वभूतानि निर्मितानि।



तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास्तदनन्तरम्।

वैश्यास्तृतीयका वर्णाः शद्रूनाम्ना चतुर्थकः॥४३॥इति॥



स त्वं वृषल चतुर्थेऽपि वर्णे न संदृशसे। अहं चाग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि। प्रणश्य त्वं वृषल क्षिप्रम्। मा चास्माकमवमंस्थाः॥



इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस्त्रिशङ्कुर्मातङ्गराज इदमवोचत्-इदमत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणायं लोकः, सर्वभूतानि निर्मितानि॥



तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास्तदनन्तरम्।

वैश्यास्तृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥४४॥ इति॥



सपादजङ्घाः सनखाः समांसाः

सपार्श्वपृष्ठाश्च नरा भवन्ति।

एकांशतो नास्ति यतो विशेषो

वर्णाश्च चत्वार इतो न सन्ति॥४५॥



अथो विशेषः प्रवरोऽस्ति कश्चि-

त्तदू ब्रूहि यच्चानुमतं यथा ते।

अथो विशेषः प्रवरो हि नास्ति

वर्णाश्च चत्वार इतो न सन्ति॥ ४६॥



यथा हि दारका बालाः क्रीडमाना महापथे।

पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥४७॥



इदं क्षीरमिदं दधि इदं मांसमिदं घृतम्।

न च बालस्य वचनात्पांशवोऽन्नं भवन्ति हि॥ ४८॥



वर्णास्तथैव चत्वारो यथा ब्राह्मण भाषसे।

पांशुपुञ्जाभिधानेन योगोऽ(यः को) प्येष न विद्यते॥४९॥



न केशेन न कर्णाभ्यां न शीर्षेण न चक्षुषा।

न मुखेन न नासया न ग्रीवया न बाहुना॥५०॥



नोरसाप्यथ पार्श्वाभ्यां न पृष्ठेनोदरेण व।

नोरुभ्यामथ जङ्घाभ्यां पाणिपादनखेन च॥५१॥



न स्वरेण न वर्णेन न सर्वांशैर्न मैथुनैः।

नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥ ५२॥



यथा हि जातिष्वन्यासु लिङ्गं योनिः पृथक् पृथक्।

सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥५३॥



सशीर्षकाश्चाथ नरास्थियुक्ताः

सचर्मकाः सेन्द्रियसोदराश्च।

एकांशतो नास्ति यतो विशेषो

वर्णा न युक्ताश्चतुरोऽभिधातुम्॥५४॥



दोषो ह्ययं चात्र भवेदयुक्तो

यद्यत्त्वया चाभिहितं निदाने।

श्रुत्वा तु मत्तः प्रतिपद्य सौम्य

यच्चात्र मन्ये शृणु चोद्यमानम्॥५५।



यच्चात्र युक्तं विषमं समं वा

तत्ते प्रवक्ष्यामि नियुज्यमानः।

दोषो हि यश्चापि भवेदयुक्तो

वक्ष्यामि ते ह्युत्तरतोत्तरं च।

श्रुत्वा तु मत्तः प्रतिपद्य सौम्य

कर्माधिपत्यप्रभवा मनुष्याः॥ ५६॥



अनुमानमपि ते ब्राह्मण यदि प्रमाणम्, तत्र यद् ब्रवीषि-ब्रह्मा एक इति तस्मात्प्रजा अपि एकजात्या एव। वयमप्येकजात्या भवामः। यच्च ब्रवीषि-ब्रह्मणायं लोकः सर्वभूतानि च निर्मितानीति। सचेत्ते ब्राह्मण इदं प्रमाणं, तदिदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णाः-ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चेति। अपि तु ब्राह्मण मिथ्या मम वचो भवेत्, यदि ब्राह्मण संवादेन मनुष्यजातेर्नानाकरणं प्रज्ञायते। यदुत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो ना भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वा आकारतो वा योनितो वा आहारतो वा संभवतो वा नानाकरणं प्रज्ञायते॥



तद्यथापि भोः पुष्करसारिन् गवाश्वगर्दभोष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानां नानाकरणं प्रज्ञायते। यदुत पादतोऽपि मुखतोऽपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसंभवतोऽपि नानाकरणं प्रज्ञायते। न चैवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायते। तत्तस्मात्सर्वमिदमेकमिति॥



अपि च ब्राह्मण अमीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जादीनां नानाकरणं प्रज्ञायते। यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायते। न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते॥



तद्यथा ब्राह्मण अमीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारसप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिरादीनां नानाकरणं प्रज्ञायते। यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च गुल्मतश्च सारतश्च पत्रतश्च फलतश्च विशेष उपलभ्यते। न चैवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते॥



तद्यथा भोः पुष्करसारिन्, अमीषां क्षीरवृक्षाणामुदुम्बरप्लक्षाश्वत्थन्यग्रोध्वल्गुकेत्येवमादीनां नानाकरणं प्रज्ञायते। यदुत मूलतश्च स्कन्धतश्च त्वग्भागतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायते। न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते॥



तद्यथा पुष्करसारिन्, अमीषामपि फलभैषज्यवृक्षाणामामलकीहरीतकीविभीतकीफरसकादीनामन्यासामपि विविधानामोषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायते। यदुत मूलतश्च स्कन्धतश्च गुल्मतश्च सारतश्च पत्रतश्च पुष्पतश्च फलतश्च नानाकरणं प्रज्ञायते। न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते॥



तद्यथा स्थलजानां पुष्पवृक्षाणामतिमुक्तकचम्पकपाटलानां सुमनावार्षिकाधनुष्कारिकादीनां नानाकरणं प्रज्ञायते। यदुत रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नानाकरणं प्रज्ञायते। न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते॥



तद्यथा ब्राह्मण अमीषामपि जलजानां पुष्पाणां पद्मोत्पलसौगन्धिकमृदुगन्धिकादीनां नानाकरणं प्रज्ञायते। यदुत रूपतश्च गन्धतश्च संस्थानतश्च वर्णतश्च नानाकरणं प्रज्ञायते। न त्वेव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते। तद्यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्मादेकमेवेदं सर्वमिति॥



अप्यन्यत्ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथा।

शिरः सतारं गगनमाकाशमुदरं तथा॥ ५७॥



पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्।

सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती॥५८॥



अश्रूण्यवोचद्वर्षास्य नद्यः प्रस्रावमेव च।

सागराश्चाप्यमेध्यं वै एवं ब्रह्मा प्रजापतिः॥५९॥



परीक्षस्व त्वं ब्रह्मणः स्वलक्षणम्। यस्माद् ब्रह्मणो ब्राह्मणाः उत्पन्नाः, तस्मात्क्षत्रिया अपि वैश्या अपि शूद्रा अप्युत्पन्नाः॥



एवं प्रसूतिर्यदि तत्त्वतः स्या-

त्ततो हि स्याद्वर्णकृतो विशेषः।

यदि ब्राह्मणा ब्रह्मलोकं व्रजेयु-

स्त्रयश्च वर्णा न व्रजेयुः स्वर्गम्।

एवं भवेद्वर्णकृतो विशेषो

न चेन्न चत्वारो भवन्ति वर्णाः॥ ६०॥



यस्माद्धि वर्णश्चतुर्थ एवं

प्रयाति स्वर्गं स्वकृतेन कर्मणा।

यतस्तपश्चार्षमिह प्रशस्तं

तस्माद् द्विजातेर्न विशेषणं स्याद्॥६१॥



यदि ब्राह्मणः स्यादिहैक एव

द्विजिह्वश्चतुःश्रवणस्तथैव।

चतुर्विषाणो बहुपाद् द्विशीर्ष

एवं कृते वर्णकृतो विशेषः॥६२॥



रागैश्च नाम परघातनं च

एवंप्रकारं च विहेठनं च।

सत्त्वस्य वै कर्मणो ध्वंसनं च

एतान्यकल्याणकृतानि विप्रैः॥६३॥



युद्धं विवादं कलहान्यभीक्ष्णं

गोप्रोक्षणं चिन्तितं ब्राह्मणैर्हि।

अथर्वर्णः कर्मणा त्रासनं च

एतानि मन्त्राणि कृतानि विप्रैः॥६४॥



पापेच्छता बहुजनवञ्चनं च

शाठ्यं च धौर्त्यं च तथैव कल्पम्।

एवं परेषामहितं विचिन्त्य

कदा च ते स्वर्गमितो व्रजेयुः॥६५॥



ये ब्राह्मणा उग्रतपा विनीता

व्रतेन शीलेन सदा ह्युपेताः।

अहिंसका ये दमसंयमे रता-

स्ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति॥६६॥



सहास्थिमांसः सनखः सचर्मा

दुःखं सुखं मूत्रपुरीषमेकम्।

पञ्चेन्द्रियैर्नास्ति यतो विशेष-

स्तस्मान्न वै वर्णचतुष्क एषः॥ ६७॥



तद्यथा नाम ब्राह्मण कस्यचित्पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कौर्यात्-नन्दक इति वा जीवक इति वा अशोक इति वा शतायुरिति वा। इष्टाश पुनर्भो एतस्य पुरुषस्य पुत्रा भवेतुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स जीवेत्। योऽशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्॥



नामतः पुनर्ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः। तत्कस्य हेतोः ? इह खलु पुनर्ब्राह्मण पितृतः पुत्रो जायते। तस्माच्च तत्रेदं व्याकरणं भवति-



माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।

यद्येवं भो विजानासि न ते (पुत्रा) परभूताः क्कचित्॥६८॥



परीक्षस्व ब्राह्मण सम्यगेव-कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति।

सर्वे काणाश्च कुब्जाश्च सर्वेऽपस्मारिणोऽपि वा।

किलासिनः कुष्ठिनश्च गौराः कृष्णाः पृथक् कृथक्॥६९॥



प्रतिष्ठिताः॥

सममज्जानखत्वचपार्श्वेदरवक्त्राः प्रजा हि ताः स्वकर्मणा।

एव गते ब्राह्मण नैव भवति विशेषः को जातिकृतो विशेषः।

यस्मान्न जातेर्विशेषणोऽस्ति तस्मान्न वै वर्णचतुष्क एव॥६९॥ (अ)



तस्मात्ते ब्राह्मण ब्रवीमि-संज्ञामात्रमिदं लोकस्य यदिदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकमिदं सर्वमिदमेकम्। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय। यावन्तं कुलशुक्लं मन्यसे तावन्तमनुप्रदास्यामि॥



इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी इदमवोचत्-किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अथर्ववेदोऽधीतः, आयुर्वेदोऽधीतः, कल्पाध्यायोऽपि, अध्यात्ममपि, मृगचक्रं चा, नक्षत्रगणो वा, तिथिक्रमगणो वा त्वयाधीतः ? कर्मचक्रं वा त्वयाधिगतम् ? अथवा अङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता ? अथवा राहुचरितं वा शुक्रचरितं वा ग्रहचरितं वा त्वयाधीतम् ? अथवा लोकायतं भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः ?



एवमुक्ते त्रिशङ्कुर्मातङ्गराजः पुष्करसारिणं ब्राह्मणमेतदवोचत्-एतच्च मया ब्राह्मणा अधीतं भूयश्चोत्तरम्। यदपि ते ब्राह्मण एवं स्यात्-अहमस्मि मन्त्रेषु पारं प्राप्त इति, तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्वेवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानामेतदभवत्-यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकमिदं सर्वमिदमेकम्॥



अथ ब्राह्मण सत्त्वानामसदृशानां चोभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा, तेऽमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तदन्यतमानां सत्त्वानामेतदभवत्-परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहमपहाय अरण्यायतनं गत्वा तृणकाष्ठशाखापर्णपलाशकानुपसंहृत्य तृणकुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेम इति। अथ ते सत्त्वास्तं स्वकं परिग्रहमपहाया अरण्यायतनं गत्वा तृणकाष्ठशाखापत्रपर्णपलाशकैस्तृणकुटिं वा पर्णकुटिकां वा कृत्वा तत्रैव प्रविश्य ध्यायन्ति स्म। ते तत्र सायमासनहेतोः प्रान्तवाटिकां प्रातरशनहेतोऽश्च ग्रामं पिण्डाय प्रविशन्ति स्म॥



अथ तेषां ग्रामवासिनां सत्वानामेतदभवत्-दुष्करकारका बतः भोः सत्त्वा ये स्वकं परिग्रहमुत्सृज्य ग्रामनिगमजनपदेभ्यो बहिर्निर्गताः। तेषां बहिर्मनस्का ब्राह्मणा इति संज्ञा उदपादि। ते च पुनर्ग्रामवासिनः सत्त्वास्तानतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म॥



अथ तेषामेव सत्त्वानामन्यतमे सत्त्वास्तानि ध्यानान्यसंभावयन्तो ग्रामेष्ववतीर्य मन्त्रपदान् स्वाध्यायन्ति स्म। तांस्ते ग्रामनिवासिन आहुः-न केवलमिमे सत्त्वाः, इमेऽध्यापकाः, तेषामध्यापका इति लोके संज्ञा उदपादि। अयं हेतुरयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय॥



अथान्यतमे सत्त्वा विवेककालप्रतिसंयुक्तान् कर्मान्तान् विविधानर्थप्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि॥



अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि॥



भूतपूर्वं ब्राह्मण अन्यतमः सत्त्वो वधूमादाय रथमारुह्य अन्यतमस्मिन्नरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान्मातङ्गम (मा त्वं गमः) इति संज्ञा उदपादि॥



क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्रवृत्ता॥



भाष्येण च पर्षदं रञ्जयति धर्मेण शीलव्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाभूत्॥



ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति, तेषां वणिजं इति संज्ञा उदपादि॥



ततश्चान्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्तीति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि॥



अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि-



ब्रह्मा लोकेऽस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परमतापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिकोऽरणेमि-गौतमः वेदान् वाचयति। अरणेमिगौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश्च वेदान् विभजति स्म। तद्यथा पुष्यो बह्वृचानां पङ्क्तिश्छन्दोगानामेकविंशतिरध्वर्यवः। क्रतुरथर्वणिकानाम्। बृचानामेते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः। तद्यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्वृचानां शाखा। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः॥



अनुमानमपि ब्राह्मण प्रमाणं छन्दोगानाम्। ब्राह्मणाः सर्व एते छन्दोगाः। पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना। तद्यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्मसमा महासमा महायागिकाः सात्यमुग्राः समन्तवेदाः॥



तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश्चत्वारिंशत्। कौथुमानां शतम्। ब्रह्मस्मानां शतम्। महासमानां पञ्चशतानि। महायागिकानां शतम्। सात्यमुग्राणां शतम्। समन्तवेदानां शतम्। इतीयं ब्राह्मण छन्दोगानां शाखा। पङ्क्तिरित्येका भूत्वा साशीतिसहस्रधा भिन्ना॥



अनुमानमपि प्रमाणमध्वर्यूणाम्। एते ब्राह्मणा एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः। तद्यथा कठाः कणिमा वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठाः। दश कणिमाः। एकादश वाजसनेयिनः। त्रयोदश जातुकर्णाः। षोडश षोष्ठपदाः। एकचत्वारिंशदृषयः। इतीयं ब्राह्मणं अध्वर्यूणां शाखां। एकविंशत्यध्वर्यवो भूत्वा एकोत्तरशतधा भिन्नाः॥



अनुमानमपि ब्राह्मण प्रमाणमथर्वणिकानाम्। एते मन्त्राः सर्वे तेऽथर्वणिकाः। क्रतुरेको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः। चतुर्धा भूत्वा अष्टधा भिन्नः। अष्टधा भूत्वा (नव-) दशधा भिन्नः। इतीयं ब्राह्मणं अथर्वणिकानां शाखा। क्रतुरेकः षोडशोत्तरद्वादशशतधा भिन्नः॥



अनुमानमपि ब्राह्मणि प्रमाणं प्रतीत्य एतानि द्वादशभेदशतानि षोडशभेदाश्च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टा। छन्दसि वा व्याकरणे वा लोकायते वा पदमीमांसायां वा। न चैषामूहापोहः प्रज्ञायते। यदुत एकजात्यो नामेति विदित्वा बन्धुर्भवितुमर्हति। तत्ते ब्राह्मण ब्रवीमि- संज्ञामात्रकमेतल्लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकमिदं सर्वमिदमेकम्। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि।



इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णींभूतो मग्दुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात्॥



ददर्श त्रिशङ्कुर्मातङ्गराजो ब्राह्मणं पुष्करसारिणं तूष्णीभूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्। दृष्ट्वा चपुनरिदमब्रवीत्- यदपि ते ब्राह्मण एवं स्यादसदृशेन सह संबन्धो भविष्यतीति। न पुनस्त्वया ब्राह्मण एवं द्रष्टव्यम्। तत्कस्य हेतोः ? ये प्रमाणश्रुतिशीलप्रज्ञादयो गुणा अग्र्या लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संबिद्यन्ते। यदपि ते ब्राह्मण एवं स्यात्-ये वाजपेयं यज्ञं यजन्ति, अश्वमेघं पुरुषमेघं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वयैवं द्रष्टव्यम्। तत्कस्य हेतोः ? वाजपेयं ब्राह्मण यज्ञं यजमाना प्राणिहिंसां च प्रवर्तयन्ति। तस्मात्ते ब्राह्मण ब्रवीमि- न ह्येष मार्गः स्वर्गाय। अहं गे ब्राह्मण मार्गं स्वर्गाय व्याख्यामि। तच्छृणु-



शीलं रक्षेत मेधावी प्रार्थयानः सुखत्रयम्।

प्रशंसां वित्तलाभं च प्रेत्य स्वर्गे च मोदनम्॥७०॥



यैर्ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः, यैरश्वमेघो यैः पुरुषमेघो यैः शाम्यप्राशो यैर्निरर्गडो यज्ञ इष्टः, परिगृहीतस्तैर्निरर्गलः च कामैः कामः। इतो नाकः पर्येष्यते। येब्राह्मण इतः पश्चाद्वाजपेयं यज्ञं यक्ष्यन्ति, येऽश्वमेघं पुरुषमेघं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति, ते निरर्थकं महाविघातं संयोक्ष्यन्ति। तस्मात्ते ब्राह्मण ब्रवीमि-एहि त्वं मया सार्धं संबन्धं योजयस्व। तत्कस्य हेतोः ? धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।



श्रद्धा शीलं तपस्त्यागः श्रुतिर्ज्ञानं दयैव च।

दर्शनं सर्ववेदानां स्वर्गव्रतपदानि वै॥ ७१॥



प्रमाणमष्टप्रकारं स्वर्गाय। तदेभिरष्टाभिः प्रकारैः स्वर्गगमनमिष्यते। ये प्रायेण जानन्ति विशेषेण खल्वप्यनेकैर्विविधैर्यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद्यथा-दितिर्देवानां माता। दितिर्दानवानाम्। मनुर्मानवानाम्। मनुर्मानवानाम्। सुरभिः सौरभेयानाम्। विनता सुपर्णानाम्। कद्रुर्नागानाम्। पृथिवी भूतानां माता सर्वबीजानाम्। मरुतां महामहः। महाकाश्यपं मनसा विदन्ति ऋषयः॥



अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्त गोत्राणि व्याख्यास्यामि, तानि श्रूयन्ताम्-तद्यथा गौतमा वात्स्याः कौत्सा कौशिकाः काश्यपा वासिष्ठा माण्डव्या इत्येतानि ब्राह्मण सप्त गोत्राणि। एषामेकैकं गोत्रं सप्तधा भिन्नम्। अत्र ये गौतमास्ते कौथुमास्ते गर्गास्ते भारद्वाजास्त आर्ष्टिषेणास्ते वैखानसास्ते वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास्ते मैत्रेयास्ते भार्गवास्ते सावर्ण्यास्ते सलीलास्ते बहुजाताः। तत्र ये कौत्सास्ते मौद्गल्यायनास्ते गौणायनास्ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोमभुवाः (वः)। तत्र ये कौशिकास्ते कात्यायनास्ते दर्भकात्यायनास्ते वल्कलिनस्ते पक्षिणस्ते लौकाक्षास्ते लोहितायनाः (लोहित्यायनाः)। तत्र ये काश्यपास्ते मण्डनास्त इष्टास्ते शौण्डायनास्ते रोचनेयास्तेऽनपेक्षास्तेऽग्निवेश्याः। तत्र ये वासिष्ठास्ते जातुकर्ण्यास्ते धान्यायनास्ते पाराशरास्ते व्याघ्रनखास्त आण्डायनास्त औपमन्यवाः। तत्र ये माण्डव्यास्ते भाण्डायनास्ते धोम्रायणास्ते कात्यायनास्ते खल्ववाहनास्ते सुगन्धारायणास्ते कापिष्ठलायनाः। इत्येतानि ब्राह्मण एवमेकोनपञ्चाशद्गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायाम्। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर्न ज्ञायन्ते॥



यदुतैकत्वमिति विदित्वा भवान् बन्धुर्भवितुमर्हति। तस्मात्ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकमिदं सर्वमिदमेकम्। पुत्राम् मे शार्दूलकर्णाय प्रकृतिं दुहितरमुत्सृज भार्यार्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥



इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी तूष्णींभूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत्। अद्राक्षीत् त्रिशङ्कुर्मातङ्गराजः पुष्करसारिणं ब्राह्मणं तूष्णींभूतं मद्गुभूतं स्रस्तस्कन्धमधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितम्। द्दष्ट्वा च पुनरिदमवोचत्-



यादृशं वाप्यते बीजं तादृशं लभ्यते फलम्।

प्रजापतेर्हि चैकत्वे निर्विशेषो भवत्यतः॥७२॥



न चेन्द्रियाणां नानात्वं क्रियाभेदश्च दृश्यते।

ब्राह्मणे वान्यजातौ वा नैषां किंचिद्विशिष्यते॥७३॥



न ह्यात्मनः समुत्कर्षः श्रेष्ठत्वमिह युज्यते।

शुक्रशोणितसंभूतं योनितो ह्युभयं समम्॥७४॥



चातुर्वर्ण्यं प्रवक्ष्यामि पशुधर्मकथां तव।

भवेत्ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥७५॥



यदि तावदयं लोको ब्रह्मणा जनितः स्वयम्।

ब्राह्मणी ब्राह्मणस्वसा क्षत्रिया क्षत्रियस्वसा॥७६॥



अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।

न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥७७॥



न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।

नीचैश्चोच्चैश्च दृश्यन्ते सत्त्वा नानाश्रयाः पृथक्॥७८॥



तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।

अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥७९॥



ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथवर्णम्।

इतिहासो निघण्टश्च कुतश्छन्दो निरर्थकम्॥८०॥



अस्माकमप्यध्ययने मैत्री विद्या तथा शिखी।

संक्रामणी प्रक्रामणी स्तम्भनी कामरूपिणी॥८१॥



मनोजवा च गान्धारी घोरी विद्या वशंकरी।

काकवाणी च मन्त्रं च इन्द्रजालं च भञ्जनी॥ ८२॥



अस्माकमासीत्पुरुषा विद्यास्वाख्यातपण्डिताः।

मणिपुष्पाश्च ऋषयो भास्वराश्च महर्षयः॥ ८३॥



संप्राप्ता देवताऋद्धिं किं चिकित्ससि विद्यया।

अशिक्षिताश्च चण्डाला ब्राह्मणा वेदपारगाः॥८४॥



कपिंजलाद्यो जनितो मन्त्राणां पारमिं गतः।

न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥८५॥



निषाद्यजनयत्काली पुत्रं द्वैपायनं मुनिम्।

उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महातपम्।

न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥ ८६॥



क्षत्रिया रेणुका नाम जज्ञे रामं महामुनिम्।

पण्डितं च विनीतं च सर्वशास्त्रविशारदम्।

न ह्यसौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥ ८७॥



ये च ते मनुजा आसन् तेजसा तपसा युताः।

पण्डिताश्च विनीताश्च लोके च ऋषिसंमताः।

न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥८८॥



संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास्तथा।

वैश्याश्चैव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥८९॥



तस्मात्ते ब्राह्मण ब्रवीमि संज्ञामात्रकमिदं लोकस्य यदुत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकमिदं सर्वमिदमेकम्। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तमनुप्रदास्यामि॥



इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी त्रिशङ्कुं मातङ्गराजमिदमवोचत्-किंगोत्रो भवान् ? आह- आत्रेयगोत्रोऽस्मि। किंपूर्वः ? आह- आत्रेयः। किंचरणः ? आह- कालेय-मैत्रायणीयः। कति प्रवराः ? आह त्रयः प्रवराः। तद्यथा वात्स्याः कौत्स्या भरद्वाजाश्च। के भवन्तः सब्रह्मचारिणः? छन्दोगाः। कति छन्दोगानां भेदाः ? षट्। ते कतमे ? आह-तद्यथा। कौथुमाः। चारायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिंजलेयाः। आर्ष्टिषेणा इति॥



किं भवतो मातृजं गोत्रम् ? आह- पाराशरीयम्। पठतु बह्वान् सावित्रीम्। कथं भवति ? कत्यक्षरा सावित्री ? कतिगण्डा ? कतिपदा ?



चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीम्। अथ खलु भोः पुष्करसारिन्, सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच्छ्रुयताम्। कथयतु भवान्।



भूतपूर्वं ब्राह्मण अतीतेऽध्वनि वसुर्नाम ऋषिर्बभूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपुला नाम आसादिता भार्यार्थम्। स तत्र संरक्तचित्तस्तया कन्यया सार्धं मैथुनमगच्छत्। स ऋषिरृद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस्तस्यां वेलायां सावित्रीं भाषते स्म। तद्यथा-



ॐ भूर्भुवः स्वः। तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।



इति हि ब्राह्मण अज्ञानशोधनार्थमिममेव मन्त्रं स ब्राह्मणो दिवारात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः-



जटिलस्तापसो भूत्वा गहनं वनमाश्रितः।

गम्भीरावभासे तत्र ह्यात्मारामस्तपोरतः॥९०॥



देवस्य श्रेष्ठकं भोजनमुपनाम्योपविष्ट इमं मन्त्रमजपत्। इयं क्षत्रियाणां सावित्री। ॐ चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा। इयं वैश्यानां सावित्री। ॐ अतपः सुतपः। जीवेम शरदां शतम्। पश्येम शरदां शतम्। इयं शूद्राणां सावित्री। ॐ भूर्भुवः स्वः॥

कामा हि लोके परमाः प्रजानां

क्लेशप्रहाणे भूता अन्तरायाः।

तस्माद्भवन्तः प्रजहन्तु कामान्

ततोऽतुलं प्राप्स्यथ ब्रह्मलोकम्॥९१॥



इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश्च सम्यक्संबुद्धैरभ्यनुमोदिता॥



पठ भोस्त्रिशङ्को नक्षत्रवंशम्। अथ किम् ? भोः कथयतु भवान्। श्रूयताम्। भोः पुष्करसारिन्, नक्षत्रवंशं कथयिष्यामि। तद्यथा-



कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसुः पुष्यः आश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी। इत्येतानि भोः पुष्करसारिन् अष्टाविंशतिनक्षत्राणि॥



कतितारकाणि कतिसंस्थानानि कतिमुहूर्तयोगानि किमाहाराणि किंदैवतानि किंगोत्राणि ?



कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुरसंस्थानं त्रिंशन्मुहूर्तयोगं दध्याहारमग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणीनक्षत्रं पञ्चतारकं शकटाकृतिसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मृगमांसाहारं प्रजापतिदैवतं भारद्वाजं गोत्रेण। मृगशिरानक्षत्रं त्रितारं मृतशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं फलमूलाहारं सोमदैवतं मृगायणीयं गोत्रेण। आर्द्रानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं सर्पिर्मण्डाहारं सूर्यदैवतं हारीतायनीयं गोत्रेण। पुनर्वसुनक्षत्रं द्वितारं दपसंष्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मध्याहारं अदितिदैवतं वासिष्ठं गोत्रेण। पुष्यनक्षत्रं त्रितारं वर्धमानसंस्थानं त्रिंशन्मुहूर्तयोगं मधुमण्डाहारं बृहस्पतिदैवतम् औपमन्यवीयं गोत्रेण। आश्लेषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं पायसभोजनं सर्पदैवतं मैत्रायणीयं गोत्रेण। इतीमानि भोः पुष्करसारिन् सप्त नक्षत्राणि पूर्वद्वारकाणि॥



मघानक्षत्रं पञ्चतारं नदीकुब्जसंस्थानं त्रिंशन्मुहूर्तयोगं तिलकृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं बिल्वभोजनं भवदैवतं गतमीयं गोत्रेण। उत्तरफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं गोधूममत्स्याहारमर्यमादैवतं कौशिकं गोत्रेण। हस्तनक्षत्रं पञ्चतारं हस्तसंस्थानं त्रिंशन्मुहूर्तयोगं श्यामाकभोजनं सूर्यदैवतं काश्यपं गोत्रेण। चित्रानक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मुद्गकृसरघृतपूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण। स्वातीनक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखानक्षत्रं द्वितार विषाणसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं तिलपुष्पाहारमिन्द्राग्निदैवतं शाखायनीयं गोत्रेण। इत्येतानि भोः पुष्करसारिन् सप्तनक्षत्राणि दक्षिणद्वारकाणि॥



अनुराधानक्षत्रं चतुस्तारं रत्नावलीसंस्थानं त्रिंशन्मुहूर्तयोगं सुरामांसाहारं मित्रदैवतमालम्बातनीयं गोत्रेण। ज्येष्ठानक्षत्रं त्रितारं यवमध्यसंस्थानं पञ्चदशमूहूर्तयोगं शालियवागूभोजनमिन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूलनक्षत्रं सप्ततारं वृश्चिकसस्थानं त्रिंशन्मुहूर्तयोगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण। पूर्वाषाढानक्षत्रं चतुस्तारं गोविक्त्रमसंस्थानं त्रिंशन्मुहूर्तयोगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढानक्षत्रं चतुस्तारं गजविक्रमसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मधुलाजाहारं विश्वदैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्नक्षत्रं त्रितारं गोशीर्षसंस्थानं षण्मुहूर्तयोगं वाय्वाहारं ब्रह्मदैवतं ब्रह्मावतीयं गोत्रेण। श्रवणानक्षत्रं त्रितारं यवमध्यसंस्थानं त्रिंशन्मुहूर्तयोगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण। इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि पश्चिमद्वारकाणि॥



धनिष्ठानक्षत्रं चतुस्तारं शकुनसंस्थानं त्रिंशन्मुहूर्तयोगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषानक्षत्रमेकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं मांसरुधिराहारमहिर्बुन्ध्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मांसाहारं अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवतीनक्षत्रमेकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं दध्याहारं पूषदैवतमष्टभगिनीयं गोत्रेण। अश्विनीनक्षत्रं द्वितारं तुरगशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं मधुपायसभोजनं गन्धर्वदैवतं मैत्रायणीयं गोत्रेण। भरणीनक्षत्रं त्रितारं भगसंस्थानं त्रिंशन्मुहूर्तयोगं तिलतण्डुलाहारं यमदैवतं भार्गवीयं गोत्रेण। इत्येतानि भोः पुष्करसारिन् सप्त नक्षत्राणि उत्तरद्वारकाणि॥



अमीषां भोः पुष्करसारिन् अष्टाविंशतीनां नक्षत्राणां षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तयोगानि। तद्यथा- रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति। पञ्चनक्षत्राणि पञ्चदशमुहूर्तयोगानि। तद्यथा-आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एकोऽभिजित् षण्मुहूर्तयोगः। अवशिष्टानि त्रिंशन्मुहूर्तयोगानि॥



अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्वद्वारिकाणां कृत्तिका प्रथमा नामा, आश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिणद्वारिकाणां मघा प्रथमा नाम, विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणामनुराधा प्रथमा नाम, श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणामुत्तरद्वारिकाणां धनिष्ठा प्रथमा नाम, भरणी पश्चिमा नाम॥



अमीषां भोः पुष्करसारिन् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त ? यदुत त्रीणी पूर्वाणि विशाखानुराधा पुनर्वसुः स्वातिश्च। त्रीणि दारुणानि। आर्द्रा आश्लेषा भरणी चेति। चत्वारि संमाननीयानि। यदुत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि हस्ता चित्रा आश्लेषा मघा अभिजिच्चेति। चत्वारि क्षिप्रकरणीयानि। यदुत कृत्तिका मृगशिरा पुष्या अश्विनी चेति॥



अमीषां भोः पुष्करसारिन् अष्टाविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति-ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद्गच्छति चन्द्रश्च पृष्ठतः, अयमुच्यते ऋषभानुसारी योग इति। यदुत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च पृष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश्चन्द्रो नक्षत्रं चोभौ समौ युगपद् गच्छतः, तदायमुच्यते युगनद्धो योग इति॥



अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि। तच्छ्रूयताम्। तद्यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस्ताराधिपतिश्चेति॥



एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश्च भवति ? तदुच्यते। हेमन्तानां द्वितीये मासि रोहिण्यामष्टभ्यां द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्यामष्टम्यामष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्यामष्टम्यां चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः॥



किं भोस्त्रिशङ्को रात्रिदिवसानां प्रस्थानम् ? दिवसानुदिवसम्। किं प्रक्षस्य प्रस्थानम् ? प्रतिपद्। किं संवत्सरस्य प्रस्थानम् ? पौषः। किमृतूनां प्रस्थानम् ? प्रावृट्॥



किं भोस्त्रिशङ्को क्षणस्य परिमाणम् ? किं लवस्य? किं मुहूर्तस्य ? तद्यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस्तत्क्षणः। विंशत्यधिकं तत्क्षणशतमेकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसंबन्धेन त्रिंशन्मुहूर्तमेकं रात्रिदिवसमनुमीयते। तेषां मुहूर्तानामिमानि नामानि भवन्ति-



आदित्य उदयति षण्णवतिपौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादशपौरुषायां छायायां नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति। पञ्चपौरुषायां छायाया-मतिसमृद्धो नाम मुहूर्तो भवति। चतुःपौरुषायां छायायामुद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति। चतुःपौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्चपौरुषायां छायायां विजयो नाम मुहूर्तः। षट्‍पौरुषायां छायायां सर्वरसो नाम मुहूर्तः। द्वादशपौरुषायां छायायां वसुर्नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवतिपौरुषायां छायायां परभयो नाम मुहूर्तो भवति। इत्येतानि दिवसस्य मुहूर्तानि॥



अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि। अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस्तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः। सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभो नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर्नाम मुहूर्तः। अर्को नाम मुहूर्तः। विधमनो नाम मुहूर्तः। आग्नेयो नाम मुहूर्तः। आतपाग्निर्नाम मुहूर्तः। अभिजिन्नाम मुहूर्तः। इत्येतानि रात्रेर्मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिंशन्मुहूर्तानि यैरहोरात्रं प्रज्ञायते॥



तत्क्षणः क्षणो लवो मुहूर्तः। तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद्यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस्तत्क्षणः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिः क्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन त्रिंशन्मुहूर्तमेकमहोरात्रम्। त्रिंशदहोरात्राण्येको मासः। द्वादश मासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः सुमुखो वज्रको रोहितो बलो विजयः सर्वरसो वसुः सुन्दरः परभयः। रौद्रस्तारावचरः संयमः सांप्रैयकोऽनन्तो गर्दभो राक्षरोऽवयवो ब्रह्मा दितिरर्को विधमनो आग्नेय आतपाग्निरभिजित्। इतीमानि मुहूर्तानां नामानि॥



कालोत्पत्तिमपि ते ब्राह्मण वक्ष्यामि, शृणु-



कालस्य किं प्रमाणमिति तदुच्यते। द्वावक्षिनिमेषावोके लवः। अष्टौ लवा एका काष्ठा। षोडश काष्ठा एका कला। कलानां त्रिषदेका नाडिका। तत्र द्वे नाडिके एको मुहूर्तः॥



नाडीकायाः पुनः किं प्रमाणम् ? तदुच्यते -



द्रोणं सलिलस्यैकम्। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणम् ? सुवर्णमात्रम्। उपरि चतुरङ्गुला सुवर्णशलाका कर्तव्या। वृत्तपरिमण्डला समन्ताच्चतुरस्रा आयता। यदा चैवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नाडिकाप्रमाणेन विभक्ते द्वे नाडिके एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन्मुहूर्ताः, यै रात्रिदिवसा अनुमीयन्त इति॥



ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिः कला एको मुहूर्तः। त्रिंशन्मुहूर्ता एकमहोरात्रम्। त्रिंशदहोरात्राण्येको मासः। द्वादश मासाः संवत्सरः॥



एतेन पुनरक्षिनिमेषेण षोडशकोट्योऽष्टपञ्चाशच्च शतसहस्राणि अष्टशीतिसहस्राणि स एवं मापितः। तच्च ब्राह्मण कालोत्पत्तिर्व्याख्याता॥



शृणु ब्राह्मण क्रोशयोजनानामुत्पत्तिम्। सप्त परमाणव एकोऽणुर्भवति। सप्ताणवः सर्वसूक्ष्मं दृश्यते। तदेकं वातायनरजः। वातायनरजांसि सप्त, शशकरजः। सप्त शशकरजांसि एडकरजः। सप्त एडकरजांसि एकं गोरजः। सप्त गोरजांसि एका यूका। सप्त यूका एका लिक्षा। सप्त लिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः। द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुःसहस्रमेकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितम्। परमाणूनां कोटिशतसहस्राणि चतुर्विंशतिश्चैकोनत्रिंशत्कोटिसहस्राणि द्वादश च शतसहस्राणि। एवं मापितं योजनमिति॥



शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिम्॥ तत्कथयतु भवान् -



द्वादश यवा माषकः। षोडश माषका एकः कर्षः। सुवर्णस्य परिमाणं पिण्डितमिति। द्वे कोटी पञ्चविंशतिश्च सहस्राणि पञ्चशतान्यष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिः॥



शृणु ब्राह्मण पलप्रमाणम्। चतुःषष्टिमाषकाः पलं मागधकम्। मागधकया तुलया पलस्य परिमाणं पिण्डितम्। परमाणूनामष्टकोटयः सप्तचत्वारिंशच्च शतसहस्राणि सप्त च सहस्राणि द्वे शते अशीतिश्च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणमिति।



शृणु ब्राह्मण रसपरिमाणस्योत्पत्तिम्। चतुर्विंशतिपलानि मागधकः प्रस्थः। तत् रसपरिमाणम्। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्। द्वे कोटिशते तिस्रश्च कोट्य एकोनत्रिंशच्च शतसहस्राणि चतुःसप्ततिसहस्राणि सप्त च शतानि विंशतिश्च परमाणवः। एवं मापिता ब्राह्मण रसमानस्योत्पत्तिरिति॥



शृणु ब्राह्मण धान्यपरिमाणस्योत्पत्तिम्। एकोनत्रिंशतिपलान्येककर्षेणोनानि मागधः प्रस्थः। मापितं धान्यपरिमाणम्। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितम्। कोटिशतमष्टपञ्चाशच्च कोटयो द्विरशीतिश्च शतसहस्राणि एकषष्टिश्च सहस्राणि पञ्चशतानि त्रिंशच्च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणमिति॥



पठ भोस्त्रिशङ्को नक्षत्रव्याकरणं नामाध्यायम्। अथ खलु भो ब्राह्मण नक्षत्रव्याकरणं नामाध्यायं व्याख्यास्यामि तच्छ्रूयताम्। कथयतु भवान्-



कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश्च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सोऽन्नपानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश्च। पुष्ये जातः शीलवान् भवति। आश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महात्मा च। पूर्वफल्गुन्यां जातोऽल्पायुष्को भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश्च। हस्ते जातश्चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरणविधिज्ञश्च। स्वात्यां जातो गणको भवति, गणकमहामात्रो वा। विशाखायां जातो राजभटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातोऽल्पायुष्को भवति, अल्पभोगश्च। मूले जातः पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश्च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो राजपूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश्चैरसेनापतिर्भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश्च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातोऽश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसरिन् नक्षत्रव्याकरणो नाम॥



पठ भोस्त्रिशङ्को नक्षत्रनिर्देशं नामाध्यायम्। अथ भोः पुष्करसारिन् नक्षत्रनिदेशं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयत् भवान् -



कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।

प्रभूतरत्नोज्ज्वलं चैव तन्नगरं विनिर्दिशेत्॥९२॥



रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।

धार्मिकोऽत्र जनो भूयात्प्रभूतधनसंचयः।

विद्याप्रकृतिसंपन्नः स्वदाराभिरतोऽपि च॥९३॥



मृगशीर्षे निविष्टं तु स्त्रीभिर्गोभिर्धनैस्तथा।

माल्यभोगैश्च संकीर्णमुद्भुतैश्च पुरस्कृतम्॥९४॥



आर्द्रायां मत्स्यमांसानि भक्ष्यभोज्यधनानि च।

भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥९५॥



पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।

प्रभूतधनधान्यं च भूत्वा चापि विनश्यति॥ ९६॥



श्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।

युक्ताः श्रिया च धर्मिष्ठास्तथैव चिरजीविनः॥९७॥



तेजस्विनश्च दीर्घयुर्धनधान्यरसान्विताः।

वनस्पतिस्तथा क्षिप्रं पुष्येत्तत्र पुनः पुनः॥९८॥



आश्लेषायां निविष्टे तु दुर्भगाः कलहप्रियाः।

दुःशीला दुःखभाजश्च निवसन्ति नराधमाः॥ ९९॥



मघायां च निविष्टे तु विद्यावन्तो महाधनाः।

स्वदाराभिरता मार्त्या जायन्ते सुपराक्रमाः॥१००॥



फाल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभम्।

गन्धोपेतानि धान्यानि निविष्टे नगरे भवेत्॥१०१॥



उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।

मूर्खा जना जिताः स्त्रीभिर्निविष्टे नगरे भवेत्॥१०२॥



हस्ते च विनिविष्टे तु विद्यावन्तो महाधनाः।

परस्परं च रुचितं शयनं नगरे भवेत्॥१०३॥



चित्रायां पुरे निविष्टे तु स्त्रीजिताः सर्वमानवाः।

श्रीमत्कान्तं च नगरं ज्वलन्तं तद्विनिर्दिशेत्॥१०४॥



स्वात्यां पुरे निविष्टे तु प्रभूतधनसंचयाः।

लुब्धाः क्रूराश्च मूर्खाश्च प्रभूता नगरे भवेत्॥१०५॥



विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।

यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेत्॥ १०६॥



अनुराधानिविष्टे तु धर्मशीला जितेन्द्रियाः।

स्वदारनिरताः पुण्या जपहोमपरायणाः॥१०७॥



ज्येष्ठायां संनिविष्टं तु बहुरत्नधनान्वितैः।

सत्त्वैर्वेदविदैः पूर्णः शश्वत्समभिवर्धते॥ १०८॥



मूलेन संनिविष्टं तु पुरं धान्यधनान्वितम्।

दुःशीलजनसंकीर्णं पांसुना च विनश्यति॥१०९॥



पूर्वाषाढानिविष्टं तु पुरं स्याद्धनधान्यभाक्।

लुब्धाः क्रूराश्च मूर्खाश्च निवसन्ति नराधमाः॥११०॥



निविष्टे तूत्तरायां च धनधान्यसमुच्चयः।

विद्याप्रकृतिसंपन्नो जनश्च कलहप्रियः॥१११॥



अभिजिति निविष्टे तु नगरे तत्र मोदिताः।

नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥११२॥



श्रवणायां निविष्टं तु पुरं धान्यधनान्वितम्।

अरोगिजनभूयिष्ठसहितं तद्विनिर्दिशेत्॥११३॥



धनिष्ठायां निविष्टं तु स्त्रीजितं पुरमादिशेत्।

प्रभूतवस्त्रमाल्यं च कामभोगविवार्हितम्॥ ११४॥



पुरे शतभिषायुक्ते मूर्खशाठ्यप्रिया जनाः।

स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥११५॥



पुरे प्रोष्ठपदाध्यक्षे नरास्तत्र सुखप्रियाः।

परोपतापिनो मूर्खा मानकामविवर्जिताः॥ ११६॥



उत्तरायां निविष्टे तु शश्वद्वृद्धिरनुत्तरा।

पूर्णं च धनधान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥११७॥



पुरे निविष्टे रेवत्यां सुन्दरी जनता भवेत्।

खरोष्ट्रं चैव गावश्च प्रभूतधनधान्यता॥११८॥



अश्विन्यां विनिविष्टं तु नगरं शिवमादिशेत्।

अरोगिजनसंपूर्णं दर्शनीयजनाकुलम्॥ ११९॥



भरण्यां संनिविष्टे तु दुर्भगाः कलहप्रियाः।

दुःशीला दुःखभाजश्च वसन्ति पुरुषाधमाः॥१२०॥



पुराणि राष्ट्राणि तथा गृहाणि

नक्षत्रयोगं प्रसमीक्ष्य विद्वान्।

इष्टे प्रशस्ते च निवेशयेत्तु

पूर्वे च जन्मेऽधिगतं मयेदम्॥१२१॥



अयं भोः पुष्करसारिन्नक्षत्रनिर्देशो नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् अष्टविंशतीनां नक्षत्राणां स्थाननिर्देशं नामाध्यायं प्रवक्ष्यामि। तच्छ्रूयताम्। कथयतु भगवान् -



कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्गमगधानाम्। रोहिणी सर्वप्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवमार्द्रा क्षत्रियाणां ब्राह्मणानां च। पुनर्वसुः सौपर्णानाम्। पुष्यनक्षत्रं सर्वेषामवदातवसनानां राजपदसेवकानां च। आश्लेषा नागानां हैमवतानां च। मघानक्षत्रं गौडिकानाम्। पूर्वफल्गुणी चौराणाम्। उत्तरफल्गुनी अवन्तीनाम्। हस्ता सौराष्ट्रिकाणाम्। चित्रा पक्षिणां द्विपदानाम्। स्वाती सर्वेषां प्रव्रज्यासमापन्नानाम्। विशाखा औदकानाम्। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानाम्। मूला पथिकानाम्। पूर्वाषाढा बाह्लीकानां च। उत्तराषाढा काम्बोजानाम्। अभिजित्सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घातकानां चौराणां च। धनिष्ठा कुरुपाञ्चालानाम्। शतभिषा मौलिकानामाथर्वणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवनकाम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणाम्। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायकानां च॥ अयं भोः पुष्करसारिन् नक्षत्राणां स्थाननिर्देशव्याकरणो नामाध्यायः॥



पठ भोस्त्रिशङ्को ऋतुवष नामाध्यायम्। तदहं वक्ष्ये श्रूयताम्। कथयतु भगवान्-



कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्टयाढकानि प्रवर्षति। वर्षो दशरात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्रोदको वर्षारात्रो भवति। पश्चाद्वर्षं संजनयति। हेमन्ते ग्रीष्मे त्रीणि चात्र भयप्रग्रहाणि भवन्ति। अग्निभयं शस्त्रभयं चोदकभयं च भवति। उक्तं कृत्तिकासु॥



रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ चात्र रोगौ प्रवलौ भवतः। कुक्षिरोगश्चक्षूरोगश्च। चौरबहुलाश्चात्र दिशो भवन्ति। उक्तं च रोहिण्याम्॥



मृगशीर्षे ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्टयाढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद्वर्षं संजनयति। निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। क्षेमिणः सुनीतिकाश्च दिशो भवन्ति। मुदिताश्चात्र जनपदा भवन्ति। उक्तं मृगशिरसि॥



आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश्च रक्षयितव्याः। चौरबहुलाश्चात्र दिशो भवन्ति। निक्षिप्तशस्त्राश्च राजानो भवन्ति। त्रयश्चात्र रोगाः प्रबला भवन्ति-ज्वरः स्वासो गलग्रहश्च। बालानां दारकदारिकाणां च मरणं भवति। इत्युक्तमार्द्रायाम्॥



पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति , नवत्याढकानि प्रवर्षति। महामेघानुत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। उक्तं पुनर्वसौ॥



पुष्ये ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयिरव्यानि। व्यक्तं प्रधानवर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मणक्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश्चात्र प्रबला भवन्ति। तत्र त्रयो रोगाश्च भवन्ति- गण्डाः पिटकाः पामानि च। इत्युक्तं पुष्ये॥



आश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश्च वायवो वान्ति। संविग्नाश्चात्र ज्ञानिनो राजानश्च भवन्ति। एषो वर्षः सर्वसस्यानि संपादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तमाश्लेषायाम्॥



मघायां ग्रीष्मायां पश्चिमे मासे यद्यत्र देवः प्रवर्षति चतुःषष्ट्याढकानि प्रवर्षति। एषो वर्षः सर्वस्यानि संपादयति। मृगपक्षिपशुमनुष्याणां चात्र गर्भा विनश्यन्ति। जनमरणं चात्र भविष्यतीति। उक्तं मघायाम्॥



पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। एषो वर्षः सर्वसस्यानि संपादयति। तच्च सस्यं जनयित्वा परचक्रपीडिता मनुष्या न सुखेनोपभुञ्जते। पशुनां मनुष्याणां चात्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्याम्॥



उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षतिः, अशीत्याढकानि प्रवर्षति। एको वर्षः सर्वसस्यानि च संपादयति। निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। ब्रह्मक्षत्रिययोश्च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। उक्तमुत्तरफल्गुन्याम्॥



हस्ते ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकोनपञ्चाशदाढकानि प्रवर्षति। देवश्च तद्यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्पसाराण्यल्पोदकानि। दुर्भिक्षश्चात्र भविष्यति। उक्तं हस्ते॥



चित्रायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। सारोपरोधस्ततः पश्चाद्वर्षं संजनयति। निक्षिप्तशस्त्राश्च राजानो भवन्ति। मुदिताश्चात्र जनपदा भवन्ति। उक्तं चित्रायाम्॥



स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकविंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश्च राजानो भवन्ति। चौराश्चात्र बलवत्तरा भवन्ति। उक्तं स्वात्याम्॥



विशाखायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अशीत्याढकानि प्रवर्षति। एको वर्षः सर्वसस्यानि संपादयति। राजानश्चात्र छिद्रयुक्ता भवन्ति। अग्निदाहाश्चात्र प्रबला भवन्ति। दंष्ट्रिणश्चात्र बलवन्तोऽपि क्षयं गच्छन्ति। उक्तं विशाखायाम्॥



अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याढकानि प्रवर्षति। एको वर्षः सस्यं संपादयति। मित्राणि चात्र दृढानि भवन्ति। उक्तमनुराधायाम्॥



ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षोडशाढकानि प्रवर्षति। तत्र कृषीकर्मान्तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यमनेन जनपदेन विनष्टव्यं भवति। परचक्रपीडितो भवति। उक्तं ज्येष्ठायाम्॥



मूले ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। एकः सस्यं संपादयति। चौरबहुलाश्चात्र दिशो भवन्ति। त्रयश्चात्र व्याधयो बलवन्तो भवन्ति-वातगण्डः पार्श्वशूलमक्षिरोगश्च। पुष्पफलानि चात्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश्चात्र राजानो भवन्ति। उक्तं मूले॥



पूर्वस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षष्ट्याढकानि प्रवर्षति। द्वौ चात्र ग्राहौ भवतः। प्रोष्ठपदे वा आश्वयुजौ वा पक्षे। एको वर्षः सर्वसस्यानि संपादयति। द्वौ चात्र रोगौ प्रबलौ भवतः-कुक्षिरोगोऽक्षिरोगश्च। उक्तं पूर्वाषाढायाम्॥



उत्तरस्यामाषाढायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महास्रोतांसि चात्र प्रवहन्ति। अग्रोदका चात्र वर्षा भवन्ति। सर्वसस्यानि निष्पादयति। त्रयश्चात्र रोगाः प्रबला भवन्ति- गण्डः कच्छः कण्ठरोग इति। उक्तमुत्तराषाढायाम्॥



अभिजिति ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानामुत्सर्गो भवति। उक्तमभिजिति॥



श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षां सत्यं संपादयति। औदकानां भूतानामुत्सर्गो भवति। व्याधिबहुलाश्च नरा भवन्ति। राजानश्च तीव्रदण्डा भवन्ति। उक्तं श्रवणे॥



धविष्ठायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकपञ्चाशदाढकानि प्रवर्षति। विभक्ताश्चात्र वर्षा भवन्ति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि संपादयामि। एकश्चात्र रोगो भवति-गण्डविकारः। शस्त्रसमादानाश्च राजानो भवन्ति। उक्तं धनिष्ठायाम्॥



शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, षोडशाढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एको वर्षः सर्वसस्यानि संपादयति। चक्रसमारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश्च स्कन्धे कृत्वा देशान्तरं गच्छन्ति। उक्तं शतभिषायाम्॥



पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, चतुःषष्ट्याढकानि प्रवर्षति। वर्षामुखे चात्र एकोनविंशतिरात्रिकोऽवग्रहो भवति। पुष्पसस्यं च नाशयति। एताश्च वर्षा बहुचौरा भवन्ति। द्वौ चात्र महाव्याधी भवतः- प्रथमं पित्ततापज्वरो भवति, पश्चाद् बलवान् महाग्रहो भवति। मर्त्यानां नारीणां च मरणं भवति। उक्तं पूर्वभाद्रपदायाम्॥



उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। महास्रोतांसि प्रवहन्ति। ग्रामनगरनिगमाः स्रोतसा उह्यन्ते। चत्वारश्चात्र व्याधयः प्रबला भवन्ति। तद्यथा-कुक्षिरोगोऽक्षिरोगः कासो ज्वरश्चेति। बालानां दारकदारिकाणां मरणं भवति। अत्र स्थलानि कृषिकर्तव्यानि। निम्नानि पर्वर्जयितव्यानि। एताश्च वर्षाः पुष्पाणि फलानि च संपादयन्ति। उक्तमुत्तरभाद्रपदायाम्॥



रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, एकषष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एका च वर्षा सर्वसस्यानि संपादयति। तच्च सस्यं मित्रबान्धवा मनुष्याश्च परिमुञ्जते। निक्षिप्तशस्त्रदण्डाश्च राजानो भवन्ति। अनुद्विग्नाश्च जनपदा भवन्ति। उद्विग्नाश्च दानपतयो भवन्ति। देवनक्षत्रसमायुक्ताश्च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति। उक्तं रेवत्याम्॥



अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, अष्टचत्वारिंशदाढकानि प्रवर्षति। यच्च मध्ये वर्षा भवति, तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एका वर्षा सर्वसस्यानि संपादयति। भयसमायुक्ताश्च जनपदा भवन्ति। चौराश्च प्रबला भवन्ति। उक्तमश्विन्याम्॥



भरण्यां ग्रीष्माणां पश्चिमे मासे यद्यत्र देवः प्रवर्षति, पूर्णमाढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षश्चात्र भवति। जरामरणं जनानां भवति। राजानश्चात्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्याम्॥



अयं भोः पुष्करसारिन्नक्षत्रर्तुवर्षाध्यायः॥



अमीषां भोः पुष्करसारिन् अष्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।



कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्रग्रहो भवति, कलिङ्गमगधानामुपपीडा भवति। यदि रोहिण्यां चन्द्रग्रहो भवति, प्रजानामुपपीडा भवति। यदि मृगशिरसि चन्द्रग्रहो भवति, विदेहानां जनपदानामुपपीडा भवति राजोपसेवकानां च। एवमार्द्रायां पुनर्वसौ पुष्ये च वक्तव्यम्। आश्लेषायां यदि चन्द्रग्रहो भवति, नागानां हैमवतानां च पीडा भवति। यदि मघासु चन्द्रग्रहो भवति, गौडिकानामुपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते, चौराणामुपपीडा भवति। यद्युत्तरफल्गुन्यां सोमो गृह्यते, अवन्तीनामुपपीडा भवति। यदि हस्तेषु सोमो गृह्यते, सौरास्ट्रीकाणामुपपीडा भवति। यदि चित्रायां सोमो गृह्यते,



पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते, सर्वेषां प्रव्रज्यासमापन्नानामुपपीडा भवति। यदि विशाखायां सोमो औदकानां सत्त्वानामुपपीडा भवति। यद्यनुराधासु सोमो गृह्यते, वणिजानामुपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते, दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यते, अध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यते, अवन्तीनां पीडा भवति। यद्युत्तराषाढायां सोमो गृह्यते, काम्बोजकानां पीडा भवति वाह्लीकानां च। यद्यभिजिति सोमो गृह्यते,दक्षिणापथिकानां पीडा भवति ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते, चौराणां घातकानां चोपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते, कुरुपाञ्चालानां पीडा भवति। यदि शतभिषायां सोमो गृह्यते, मौलिकानामाथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते, गान्धिकानां यवनकाम्बोजकानां च पीडा भवति। यद्युत्तरभाद्रपदायां सोमो गृह्यते, गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते, नाविकानां पीडा भवति। यद्यश्विन्यां सोमो गृह्यते, अश्ववणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते, भरुकच्छानां पीडा भवति॥



एवं भोः पुष्करसारिन् यस्मिन्नक्षत्रे चन्द्रग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्युक्तो राहुग्रहफलविपाकाध्यायः॥



प्रतिनक्षत्रवंशशास्त्रे यथोक्तं कर्म तच्छृणु।

उच्यमानमिदं विप्र ऋषीणां वचनं यथा॥१२२॥



षट्तारां कृत्तिकां विद्यादाश्रयं तासु कारयेत्।

अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश्च यः॥१२२ अ॥



सर्पिर्विलोडयेत्तत्र गवां वेश्म च कारयेत्।

अजैडकाश्च क्रेतव्या गवां च वृषमुत्सृजेत्॥१२३॥



अश्मसारमयं भाण्डं सर्वमत्र तु कारयेत्।

हिरण्यकारकर्मान्तमिष्वस्त्रं चोपकारयेत्॥१२४॥



मेतृको मापयेदत्र कुटिकाग्निनिवेशनम्।

पीतलोहितपुष्पाणां बीजान्यत्र तु वापयेत्॥१२५॥



गृहं च मापयेदत्र तथावासं प्रकल्पयेत्।

नवं च छादयेद्वस्त्रं क्त्रयणं नात्र कारयेत्॥ १२६॥



क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।

परपीडामथात्रैव विद्वान्नैव प्रयोजयेत्॥१२७॥



शस्त्राणि क्षुरकर्माणि सर्वाण्यत्र तु कारयेत्।

तैजसानि च भाण्डानि कारयेच्च क्रीणीत च॥ १२८॥



आयुष्यं च शिरःस्नानं स्त्रीणां विष्कम्भणानि च।

प्रवर्षणं चेद् देवस्य नात्र वैरं प्रशाम्यति॥ १२९॥



क्रोधनो हर्षणः शूरस्तेजस्वी साहसप्रियः।

आयुष्मांश्च यशस्वी च यज्ञशीलोऽत्र जायते॥ १३०॥ कृत्तिकासु॥



सर्वं कृषिपदं कर्म रोहिण्यां संप्रयोजयेत्।

क्षेत्रवस्तुविहारांश्च नवं वेश्म व कारयेत्॥१३१॥



प्रयोजयेच्चक्रान् वाचान् दासांश्चैव गृहे पशून्।

वापयेत्सर्वबीजानि ध्रूवं वासांसि कारयेत्॥१३२॥



ऋणं न दद्यात्तत्रैव वैरमत्र तु वर्धते।

संग्रामं च सुरायोगं द्वयमेव विवर्जयेत्॥१३३॥



प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यते।

सानुक्रोशः क्षमायुक्तः स्त्रीकामो भक्षलोलुपः।

आयुष्मान् पशुमान् धन्यो महाभोगोऽत्र जायते॥१३४॥ रोहिण्याम्॥



सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश्च तारकाः।

मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।

यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥ १३५॥



सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।

राजप्रासादवलभीछत्राण्यपि च कारयेत्॥१३६॥



सर्वकर्मकथाः कुर्यात् चर्यावासान्न कारयेत्।

उष्ट्रांश्च बलीवर्दांश्च दमयेदपि कृष्टये॥१३७॥



आच्छादयेन्नवं वासश्चालंकारं च कारयेत्।

द्विजातीनां तु कर्माणि सर्वाण्येवात्र कारयेत्॥ १३८॥



प्रवर्षणं च देवस्य सुवृष्टिं चात्र निर्दिशेत्।

स्वप्नशीलस्तथा त्रासी मेधावी स च जायते॥१३९॥ मृगशिरसि॥



आर्द्रायां मृगयेदर्थान् भद्रं कर्म च कारयेत्।

क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥१४०॥



उदपानपरीखांश्च तडागान्यत्र कारयेत्।

ऊहेत् (उहयेत्) प्रथमां वृष्टिं विक्रीणीयाच्च नात्र गाम्।

तिलपीडानि कर्माणि शौण्डिकानां तथापणम्॥१४१॥



पीडयेदिक्षुदण्डानि इक्षुबीजानि वापयेत्।

प्रवर्षणं च देवस्य विद्याद्बहुपरिस्रवम्।

क्रोधनो मृगयाशीलो मांसकामोऽत्र जायते॥१४२॥ आर्द्रायाम्॥



पुनर्वसौ तु युक्तेऽत्र कुर्याद्वै व्रतधारणम्।

गोदानं चोपनायनं सर्वमत्र प्रसिध्यति॥ १४३॥



प्रजायमानां प्रमदां गृहीत्वा गृहमानयेत्।

पुनः पुनर्यदीच्छेत तत्र कर्माणि कारयेत्॥१४४॥



चिकित्सनं न कुर्वीत यदीच्छेन्न पराभवम्।

प्रवर्षणं च देवस्य जन्म चात्र प्रशस्यते॥१४५॥



अलोलश्चात्र जायेत स्त्रीलोलश्चापि मानवः।

चित्रशीलश्च नैकत्रार्पितचित्तः स उच्यते॥१४६॥ पुनर्वसौ॥



धन्यं यशस्यमायुष्यं पुष्ये नित्यं प्रयोजयेत्।

सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥१४७॥



राजमात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।

राजानमभिषिञ्चेच्च अलंकुर्यात्स्वकां तनुम्॥ १४८॥



श्मश्रुकर्माणि कुर्याच्च वपनं नखलोमतः।

पुरोहितं च कुर्वीत ध्वजाग्रं च प्रकारयेत्॥१४९॥



प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।

न च रोगो न चौरश्च क्षेमं चात्र सदा भवेत्॥१५०॥



पुष्येण नित्ययुक्तः सन् सर्वकर्माणि साधयेत्।

वैरेणात्रोपनाहैश्च येजनास्तान् विवर्जयेत्।

आयुष्मांश्च यशस्वी च महाभोगः प्रजायते॥१५१॥ पुष्ये॥



सिध्यते दारुणं कर्म आश्लेषायां च कारयेत्।

कुर्यादाभरणान्यत्र प्राकारमुपकल्पयेत्॥१५२॥



देहबन्धं नदीबन्धं संधिकर्म च कारयेत्।

प्रभूतदंशमशकं वर्षं मन्दं च वर्षति।

क्रोधनः स्वप्नशीलश्च कुहकश्चात्र जायते॥ १५३॥ आश्लेषायाम्॥



मघासु सरव्धान्यानि वापयेत्संहरेदपि।

संघातकर्म कुवीत सुमुखं चात्रं कारयेत्॥ १५४॥



कोष्ठागाराणि कुर्वीत फलं चात्र निवेशयेत्।

सर्वदा पितृदेवेभ्यः श्राद्धं चैवात्र कारयेत्॥१५५॥



सस्यानां बहुलीभावो यदि देवोऽत्र वर्षति।

सुहृच्च द्वारिकश्चैव रसकामश्च जायते।

आयुष्मान् बहुपुत्रश्च स्त्रीकामो भक्तलोलुपः॥ १५६॥



संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।

दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥१५७॥ मघासु॥



फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।

विशेषादामलक्यादिफलानामुपकारयेत्॥ १५८॥



कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।

कन्याप्रवहनार्थाय विहारं चैव कारयेत्॥ १५९॥



वेश्मानि कारयेत्तत्र वैश्यमत्र प्रयोजयेत्।

भागं ये चोपजीवन्ति तेषां कर्म प्रयोजयेत्॥१६०॥



अव्यक्तकेशोऽकेशः सुभगश्चात्र जायते।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्।

नष्टं विद्धं कृतं चापि न तदस्तीति निर्दिशेत्॥१६१॥ पूर्वफल्गुन्याम्॥



उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।

मेधावी दर्शनीयश्च यशस्वी चात्र जायते॥१६२॥



अथात्र नष्टं दग्धं वा सर्वमस्तीति निर्दिशेत्।

प्रवर्षणं च देवस्य विद्यात्संपदनुत्तमाम्॥ १६३॥ उत्तरफल्गुन्याम्॥



हस्तेन लघुकर्माणि सर्वाण्येव प्रयोजयेत्।

सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥१६४॥



हस्त्यारोहं महामात्रं पुष्करिणीं च कारयेत्।

चौर्यं च सिध्यते तत्र तच्च विद्वान् विवर्जयेत्॥ १६५॥



प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।

अथात्र जातं जानीयाच्छूरं चौरं विचक्षणम्।

कुशलं सर्वविद्यासु अरोगं चिरजीविनम्॥१६६॥ हस्ते॥



चित्रायामहतं वस्त्रं भूषणानि च कारयेत्।

राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥१६७॥



हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।

अलंकुर्यात्तथात्मानं गन्धमाल्यविलेपनैः॥ १६८॥



गणकानां न विद्यां च वाद्यं नर्तनगायनम्।

पूर्विकां रूपकारांश्च रथकारांश्च शिक्षयेत्।

चित्रकारांश्च लेखकान् पुस्तकर्म च कारयेत्॥१६९॥



प्रवर्षणं च देवस्य चित्रवर्षं विनिर्दिशेत्।

मेधावी दर्शनीयश्च चित्राक्षो भक्तलोलुपः॥ १७०॥



मृदुशीलश्च भीरुश्च चलचित्तः कुतूहली।

आयुष्मान् सुभगश्चैव स्त्रीलोलश्चात्र जायते॥१७१॥ चित्रायाम्॥



स्वात्यां प्रयोजयेद्योधान् अश्वानश्वतरीं खरान्।

क्षिप्रं गमनीयं भक्ष्यं लङ्घकानध्वमानिकान्॥ १७२॥



भेरीमृदङ्गपणवान् मुरजांश्चोपनाहयेत्।

आवांहाश्च विवाहांश्च सौहृद्यं चात्र कारयेत्॥ १७३॥



निर्वासनममित्राणां स्वयं न प्रवसेद्गृहात्।

प्रवर्षणं च देवस्य वातवृष्टिरभीक्ष्णशः।

मेधावी रोगबहुलश्चलचित्तश्च जायते॥१७४॥ स्वातौ॥



लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।

यवगोधूमकर्मान्तान् शमीधान्यं च वर्जयेत्॥ १७५॥



शालयस्तिलमाषाश्च ये च वृक्षाः सुशाखिनः।

रोपयेत्तान् विशाखासु गृहकर्म च कारयेत्।

शिरःस्नानानि कुर्वीत मेध्यं प्रायश्च कारयेत्॥१७६॥



प्रवर्षणं च देवस्य विद्यात्कल्पपरिस्रवम्।

मनस्वी दर्शनीयश्च मेधावी चात्र जायते।

क्रोधनोऽल्पसुतश्चैव दुर्भगो भक्तलोलुपः॥१७७॥ विशाखासु॥



अनुराधासु कुर्वीत मित्रैः सद्भिश्च संगतिम्।

सर्वाणि मृगुकर्माणि माधुर्यं चात्र कारयेत्॥१७८॥



क्षौरं च कारयेदत्र शस्त्रकर्माणि कारयेत्।

संयुक्तान्तप्रयोगांश्च संधिं कुर्याच्च नित्यशः।

नष्टं पर्युपतप्तं वा स्वल्पायासेन निर्दिशेत्॥१७९॥



सुहृन्मित्रकृतश्चात्र धर्मशीलश्च जायते।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥ १८०॥ अनुराधायाम्॥


ज्येष्ठायां पूर्वकारी स्याद्राजानं चाभिषिञ्चयेत्।

नगरं निगमं ग्रामं मापयेदारभेत च।

क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥१८१॥



भ्रातॄणां भवति ज्येष्ठो ज्येष्ठायां योऽभिजायते।

आयुष्मांश्च यशस्वी च विद्वत्सु च कुतूहली॥ १८२॥



प्रासादमारोहेच्चात्र गजमश्वं रथं तथा।

ग्रामनिगमराष्ट्रेषु स्थापयेच्छ्रेष्ठिनां बलम्॥ १८३॥



नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।

दारुणान्यत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥१८४॥ ज्येष्ठायाम्॥



मूले तु मूलजातानि मूलकन्दालुकान्यपि।

मूलाद्यानि च सर्वाणि बीजान्यत्र प्रयोजयेत्॥१८५॥



ऋणं वै यत्पुराणं स्यादर्थो वास्याग्रतः स्थितः।

मूले सिद्ध्यर्थमारभ्यं तथा सर्वं वराङ्गकम्॥१८६॥



चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।

नदीषु स्नपनं चैव मूले सर्वान् प्रयोजयेत्॥१८७॥



दारुणान्यत्र सिध्यन्ति मङ्गलानि च कारयेत्।

किण्वयोगान् सुरायोगान्न कुर्याच्छत्रुभिः सह॥ १८८॥



धनवान् बहुपुत्रश्च मूलवानत्र जायते।

अथात्र नष्टं दग्धं वा नैतदस्तीति निर्दिशेत्।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥ १८९॥ मूले॥



आषाढायां च पूर्वस्यां सरितश्च सरांसि च।

वापीकूपप्रपाश्चैव तडागानि च कारयेत्॥१९०॥



उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।

आरामांश्च प्रकुर्वीत भैक्षकांश्च प्रयोजयेत्।

यानि चोग्राणि कर्माणि सिध्यन्त्यत्र तु तानि च॥१९१॥



नष्टं पर्युपतप्तं वा नैतदस्तीति निर्दिशेत्।

आयुष्मान् पुण्यशीलश्च दर्शनीयोऽत्र जायते॥१९२॥ पूर्वाषाढायाम्॥



उत्तरस्यामाषाढायां वैराणि न समाचरेत्।

वाययेत्सर्ववासांसि नवं नाच्छादयेदिति॥१९३॥



न संहरेद्भेदयेद्वा वास्तुकर्म न सिध्यति।

शालाकर्म गवादीनां ग्रामे ग्रामणिनस्तथा।

श्रेणीबन्धं च राजा तु समयं चात्र कारयेत्॥ १९४॥



प्रगल्भश्च सभाशीलः कृती चात्र प्रजायते।

सुहृदामभियोगी च मन्त्रभाष्ये विचक्षणः॥१९५॥



नष्टं वाप्युपतप्तं वा अस्तीत्येवं विनिर्दिशेत्।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥१९६॥ उत्तराषाढायाम्॥

अभिजिति न कुर्वीत ब्रह्मदेवस्य ह्यर्चनम्॥१९७॥ अभिजिति॥



श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।

गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥ १९८॥



कर्णयोर्वेधनं कुर्याद्राजानं चाभिषिञ्चयेत्।

द्विजातीनां तु कर्माणि सर्वाण्येव प्रयोजयेत्॥१९९॥



बलिकृत्यानि कुर्वीत दर्शयेच्च बलान्यपि।

मेधाव्यरोगी बलवान् यज्ञशीलोऽत्र जायते॥ २००॥



प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्।

नष्टं च लभ्यते तत्र श्रवणस्थे निशाकरे॥२०१॥ श्रवणे॥



धनिष्ठा लघुनक्षत्रं सर्वकर्मसु पूजितम्।

अधीत्य ब्राह्मणः स्नायाद्राजानमभिषिञ्चयेत्॥ २०२॥



सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।

श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेष्वपि॥२०३॥



मेधावी च यशस्वी च महाभोगी महाधनः।

बह्वपत्यो मृदुर्दान्तो महात्मा चात्र जायते॥२०४॥



नष्टं दग्धं प्रविद्धं वा क्लेशेनैवात्र लभ्यते।

प्रवर्षणं च देवस्य विद्याच्चात्र सुवृष्टिताम्॥२०५॥ धनिष्ठायाम्॥



नित्यं शतभिषायिगे भैषज्यानि प्रयोजयेत्।

कीर्तिकर्म च कुर्वीत सिध्यन्त्याथर्वणानि च॥२०६॥



प्रसारयेच्च पण्यानि शौण्डिकं च प्रयोजयेत्।

उदधिं खानयेत्तत्र तिलमाषांश्च वापयेत्॥२०७॥



सामुद्रिकाणि पण्याणि नाविनश्च प्रयोजयेत्।

आदेयं च तदादद्याद् व्ययं चात्र न कारयेत्॥२०८॥



संधिपालान् द्वारपालाँल्लेखकांश्च प्रयोजयेत्।

भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥ २०९॥



निधिं वा खानयेत्तत्र निदध्यादपि वा निधिम्।

धनं चात्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥ २१०॥



अथात्र मृगयेन्नष्टं लभ्यते तच्चिरादपि।

अरोगी क्रोधनश्चात्र स्वप्नशीलश्च जायते।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥२११॥ शतभिषायाम्॥



पूर्वभाद्रपदायोगे क्रूराणां सिद्धिरुच्यते।

नष्टविद्धोपतप्तं वा नैतदस्तीति निर्दिशेत्॥२१२॥



दीर्घश्रोत्रो महाभोगो ज्ञातीनां च सदा प्रियः।

महाधनोऽक्रूरकर्मा निःक्रोधश्चात्र जायते।

प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥ २१३॥ पूर्वभाद्रपदे॥



उत्तरस्यां तु कुर्वीत् आयुष्यं पुष्टिकर्म च।

न च दक्षिणतो गच्छेत्पुरं चात्र प्रदापयेत्॥२१४॥



आयुष्मांश्च यशस्वी च धनवांश्चात्र जायते।

अत्रापि त्रिगुणं निन्देदादानं यदि वा व्ययम्।

प्रवर्षणं च देवस्य सुवृष्टिमभिनिर्दिशेत्॥ २१५॥ उत्तरभाद्रपदे॥



रेवत्यां रत्न‍रजतं धनधान्यं प्रयोजयेत्।

कोष्ठागाराणि कुर्वीत किण्वं चात्र न कारयेत्॥२१६॥



सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।

गोसंघं स्थापयेच्चात्र गोशालां चात्र कारयेत्।

आच्छादयेन्नवं वस्त्रं हिरण्यमपि धारयेत्॥२१७॥



भिक्षुको दानशीलश्च दरिद्रश्चानसूयकः।

ज्ञातीनां सेवको नित्यं धर्मज्ञश्चात्र जायते।

सुवृष्टिं नष्टलाभं च रेवत्यामभिनिर्दिशेत्॥२१८। रेवत्याम्॥



स्त्रीपुंसमश्विना युञ्जादश्वशालां च कारयेत्।

अश्वान् प्रयोजयेदत्र रथं चात्र प्रयोजयेत्॥ २१९॥



ऋणप्रयोगः कर्तव्यो बीजान्यत्र प्रवापयेत्।

यानानि च हयान् दम्यान् दन्तिनश्च प्रयोजयेत्॥२२०॥



भैषज्यं भोजयेदत्र भिषक्कर्म च कारयेत्।

मधावी दर्शनीयश्च राजयोग्यश्च संपदा॥२२१॥



अरोगी बलवाँच्छूरः सुभगो ह्यत्र जायते।

सुवृष्टिं नष्टलाभं च अश्विन्यामभिनिर्दिशेत्॥२२२॥ अश्विन्याम्॥



त्रितारां भरणीं विद्यात्क्रूरकर्माणि साधयेत्।

भृत्यांश्च भृतकांश्चापि वृणुयाद्दर्शयेत्तथा॥२२३॥



भृतिं चोपनयेदत्र भार्यां च न विवाहयेत्।

उत्कुटुको वञ्चनकः कूटसाक्षी च तन्द्रिजः॥ २२४॥



विधिज्ञः पापचारित्रः कदर्यश्चात्र जायते।

जायते चात्र दुःशीलो गुरूणामभ्यसूयकः।

परोपतापी लुब्धश्च परव्याहारगोचरः॥२२५॥ भरण्याम्॥



सप्तविंशतिनक्षत्रे कृत्तिकादि यदा भवेत्।

भरण्यन्तानि ऋक्षाणीमां प्रतिपादयेत्क्रियाम्॥२२६॥



तेषां मध्ये यदा सर्वे शस्यान्योषधयोऽपि च।

वनस्पतयश्च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।

सर्वं प्रतिपादयितव्यमुक्तनक्षत्रकर्मसु॥२२७॥



उक्तो नक्षत्रकर्मनिर्देशो नामाध्यायः॥



चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवानि भवन्ति। तानि व्याख्यास्यामि। तच्छृणु। तद्यथा-त्रीणि उत्तराणि रोहिणी च। क्षेमेऽध्यावसेत्। बीजानि चात्र रोपयेत्। निवेशनं चात्र कल्पयेत्। राजानं चाभिषिञ्चयेत्। यानि चान्यानि उक्तानि कर्माणि तानि कारयेत्।



अथ नष्टं दग्धं वा विद्धं चापि हृतं च वा।

एवमभिनिर्दिष्टं वा स्वस्ति क्षिप्रं भविष्यति॥२२८॥



अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च।

मङ्गलीयो महाभोगी महायोगी भविष्यति॥२२९॥



चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्राणि भवन्ति। तद्यथा-पुष्यो हस्ताभिजिदश्विनी चेति। एषु क्षिप्राणि कर्माणि कारयेच्च विचक्षणः। स्वाध्यायं मन्त्रसमारम्भं प्रवासप्रस्थानं गाश्च तुरङ्गानप्यत्र योजयेत्। धूर्याणि युक्तकर्माणि चोषधीकर्माणि च। भैषज्यानि सर्वाण्यत्र प्रयोजयेत्॥



तत्र यज्ञसमारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा, स्वस्ति भविष्यतीति वक्तव्यम्॥



अथात्र जातकं विद्यान्मङ्गलीयं यशस्विनम्।

महाभोगं च राजानं महयोगिनमीश्वरम्॥२३०॥



महाधनं महाभोगं तथा च महदुत्तमम्।

क्षत्रियं दानशीलं च ब्राह्मणं च पुरोहितम्॥२३१॥ इति॥



पञ्च खलु भोः पुष्करसारिन् नक्षत्राणि दारुणानि भवन्ति। तद्यथा-



मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।

अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥२३२॥



इति वक्तव्यम्। अर्धरात्रिकाणि षट्। तद्यथा -आर्द्रा आश्लेषा स्वाती ज्येष्ठा शतभिषा भरणी चेति। नवांशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणि पुनर्वसुर्विशाखा च। त्रीणि उत्तराणि चेति उभयतोविभागानि। पञ्चदश क्षेत्राणि। कृत्तिका च मघा मूला त्रीणि पूर्वाणि। इमानि षट् पूर्वभागिकानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनी चेति इमानि नव नक्षत्राणि पश्चाद्भागीयानि त्रिंशन्मुहूर्तयोगानि क्षेत्राणि च॥



अपि च ब्राह्मण शुभाश्च मुहूर्ता भवन्ति, अशुभाश्च मुहूर्ता भवन्ति, शुभाशुभाश्च मुहूर्त्वा भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभमुहूर्तसमापत्तयो भवन्ति, तदा शोभना भवन्ति। यदा अशुभमुहूर्तसमापत्तयो भवन्ति, तदा न शोभना भवन्ति। यदा तु पुनः शुभाश्चाशुभाश्च समापत्तयो भवन्ति, तदा साधारणा भवन्ति॥



अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर्वा भवतीति तदुच्यते। वर्षाणां प्रथमे मासे पुष्यनक्षत्रममावास्यां भवति, श्रवणा पूर्णमास्याम्। अष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। षोडशाङ्गुलकाष्ठस्य मध्याह्नेऽर्धाङ्गुलायाम् छायायामादित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां द्वितीये मासे मघा अमावास्यायां भवति, भाद्रपदा पूर्णमास्याम्। सप्तदशमुहूर्तो दिवसो भवति। त्रयोदशमुहूर्ता रात्रिः। द्व्यङ्गुलायां छायायामादित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यमावावास्यां भवति, अश्विनी पूर्णमास्याम्। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः। चतुरङ्गुलायां छायायामादित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघायामादित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्रा अमावास्यायां भवति, कृत्तिका पूर्णमास्याम्। पञ्चदशमुहूर्तो भवति दिवसः। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायामादित्यः परिवर्तते। अश्विनी रात्रिं नयति। फल्गुन्यामादित्यो गतो भवति॥



हेमन्तानां प्रथमे मासेऽनुराधा अमावास्यायां भवति, मृगशिरा पूर्णमास्याम्। चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायामादित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायामादित्यो गतो भवति। हेमन्तानां द्वितीये मासे अमावास्यायां ज्येष्ठा भवति, पुष्यः पूर्णमास्याम्। त्रयोदशमुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायामादित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायामादित्यो गतो भवति। हेमन्तानां तृतीये मासे पूर्वाषाढा अमावास्यायां भवति, मघा पूर्णमास्याम्। द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायामादित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायामादित्यो गतो भवति। हेमन्तानां चतुर्थे मासे श्रवणा अमावास्यायां भवति। फल्गुनी पूर्णमास्याम्। त्रयोदशमुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायामादित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायामादित्यो गतो भवति॥



ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदा अमावास्यायां भवति, चित्रा पूर्णमास्याम्। चतिर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायामादित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायामादित्यो गतो भवति। ग्रीष्माणां द्वितीये मासेऽश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्याम्। पञ्चदशमुहूर्तो दिवसो भवति। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायामादित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायामादित्यो गतो भवति। ग्रीष्माणां तृतीये मासे कृत्तिका अमावास्यायां भवति, ज्येष्ठा पूर्णमास्याम्। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः। चतुरङ्गुलायां छायायामादित्यः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायामादित्यो गतो भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति, उत्तराषाढा पूर्णमास्याम्। सप्तदशमुहूर्तो दिवसो भवति। त्रयोदशमुहूर्तो रात्रिः। मध्याह्ने द्व्यङ्गुलायां छायायामादित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति॥



संवत्सरमन्वेषणतो मुहूर्तविशेषणैः सर्वाणि चैतानि (नक्षत्राणि) भागानुभागेन अमावास्यायां पूऱ्णमास्यां च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यम्। तत्र तृतीये वर्षेऽधिको मासो युज्यते। षण्णां मासानामहोरात्राणि समानि भवन्ति। अतः षण्मासाद् दिवसो वर्धते। षण्मासाद्रात्रिर्वर्धते। षण्माषाद्दिवसो मासे मासे सममेव हीयते। षण्मासाद्रात्रिर्मासे मासे परिहीयते॥



षण्मासादादित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्मासाद्दक्षिणां दिशम्। षण्मासात्समुद्रे युदकपरिमाणस्य ह्रासो वृद्धिश्च भवति। सूर्यगत्या चन्द्रगत्या च समुद्रिदकवेलाभिवृद्धिर्भवति। अत्र गणनाप्रतिजागरणास्मरमित्येवम्। एष संवत्सरो व्याख्यातो भवति॥



चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश्च इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायी। एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश्चेमे मण्डलचारिणः॥



भरणी कृत्तिका रोहिणी मृगशिरा एतत्साधारणं प्रथमं मण्डलम्। आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत्साधारणं द्वितीयं मण्डलम्। मघा अथ फल्गुनद्वयं हस्ता चित्रा एतत्साधारणं तृतीयं मण्डलम्। स्वाती विशाखा अनुराधा एतत्साधारणं चतुर्थं मण्डलम्। ज्येष्ठा मूलाषाढा द्वयमत्र सर्वाणि महाभयानि भवन्ति। इदं पञ्चमं मण्डलम्। अभिजिच्छ्रवणा धनिष्ठा शतभिषा उभे भाद्रपदे चैतत्साधारणं षष्ठं मण्डलम्। रेवती अश्विनी चैतत्साधारणं सप्तमं मण्डलम्। संवत्सरमेतेषु यद्यन्नक्षत्रमण्डलं पीडयति, तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या॥



द्वादश मुहूर्तानि दिवसे ध्रुवाणि, द्वादश रात्रौ। षण्मुहूर्ताः संचारिणः। कतमे षट् ? नैरृतो वरुणो वायवो भर्गोदेवो रौद्रो विचारी च। इतीमे संचारिणः षट्॥



अथात्र श्रावणे मासे पूर्णेऽष्टादशमुहूर्ते दिवसे सूर्योदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य चान्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवतो। द्वादशमुहूर्तायां रात्राववतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतपाग्निरेवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे मासे पूर्णे सप्तदशमुहूर्ते दिवसे सूर्योदये च चतुरोजा एवं नाम मुहूर्तो भवति। मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदशमुहूर्तायां रात्राववतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्धरात्रे महाभयो वायवो नाम मुहूर्तो भवति॥



रात्र्यवसाने आतपाग्निरेव नाम मुहूर्तो भवति। आश्वयुजे मासे पूर्णे षोडशमुहूर्तो दिवसो भवति। सूर्योदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य त्वन्तरे मध्यान्हो भवति। सूर्यावतारे भर्गोदेवो नाम मुहूर्तो भवति॥



चतुर्दशमुहूर्तायां रात्राववतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेणार्धरात्रं भवति। रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भावति॥



कार्तिके मासे पूर्णे दिवसः समरात्रिर्भवति। पञ्चदशमुहूर्तो दिवसो भवति, पञ्चदशमुहूर्ता रात्रिः। समानेऽहोरात्रे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। संततो नाम मुहूर्तः सूर्यावतारे। रात्राववतीर्णमात्रे सूर्ये भर्गोदेवो नाम मुहूर्तो भवति। अर्धरात्रेऽभिजिन्मुहूर्तो भवति। रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥



मार्गशीर्षे मासे च पूर्णे चतुर्दशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्यान्तरे मध्यान्हो भवति। सूर्यावतारे वरुणो नाम मुहूर्तो भवति। षोडशमुहूर्तायाम् रात्राववतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्यान्तरेऽर्धरात्रं भवति। रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥



पौषमासे पूर्णे त्रयोदशमुहूर्ते दिवसे सूर्योदये चतुरोजा एवं नाम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्धरात्रे राक्षसो नाम मुहूर्तो भवति। रात्र्यवसाने आतपाग्निरेवं नाम मुहूर्तो भवति॥



माघमासे पूर्णे द्वादशमुहूर्ते दिवसे सूर्योदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्यान्तरेण मध्याह्ने भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टदशमुहूर्तायां रात्राववतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य चान्तरमर्धरात्रं भवति। रात्र्यवसाने आतपाग्निरेव नाम मुहूर्तो भवति॥



यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथा आश्वयुजे तथा चैत्रे। तथा कार्तिके तथा बैशाखे। यथ मार्गशीर्षे तथा ज्येस्थेज्येष्ठे। यथा पौषे तथा आषाढे। एवमेतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यम्॥ नक्षत्रविचरणं नाम प्रथमोऽध्यायः॥



यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन चोत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्धमासे वा। द्वितीया षष्टी नवमी द्वादशी चतुर्दशी अत्रान्तरे दिवसे कला वर्धते, रात्रौ कला हीयते॥



चत्वारो महाराजानो ध्रियते यैर्वसुंधरा।

अतिवृद्धिर्विशुद्धश्च वर्धमानः पृथक्श्रवाः॥ २३३॥



महाभूतानि चत्वारि कम्पयन्ति वसुंधराम्।

आप इन्द्रश्च वायुश्च तथाग्निर्भगवानपि॥२३४॥



त्रयस्तु ते यत्र भवन्ति पक्षे

षडेकमासे तु भवन्ति वेगाः।

परस्य चक्रस्य निदर्शनं स्या-

त्प्रकम्पते यत्र मही त्वमीक्ष्णम्॥२३५॥



विशाखा दशरात्री स्याज्जेष्ठा द्वादशरात्रिका।

पञ्चविंशतिराषाढा श्रवणा पञ्चसप्ततिः॥२३६॥



रात्रिशतं भाद्रपदे ऋतुरश्वयुजे स्मृतः।

अध्यर्धं कार्तिके मासे क्रतुर्मार्गशिरे स्मृतम्॥ २३७॥



पौषे तु पञ्चपञ्चाशन्माघे रात्रिशतं स्मृतम्।

अध्यर्धं फल्गुने मासे चैत्रे त्रिंशत्तु रात्रयः।

विपाको भूमिवेगानामतः कम्पः प्रवर्तते॥२३८॥



यदा सर्वेषु मासेषु सततं कम्पते मही।

वृक्षास्तथा चलन्ति स्म जलं चा यदि कम्पते।

पर्वतः पर्णवत्कम्पेद् भयमत्र विनिर्दिशेत्॥२३९॥



नगराण्यथ वा ग्रामा घोषा ये चात्र संश्रिताः।

शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥ २४०॥



अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।

अनावासा दिशो विद्याद् भूमिचालविचालिताः॥२४१॥



कृत्तिकासु चलेद् भूमिर्ग्रामेषु नगरेषु वा।

अभीक्ष्णं मुच्यते ह्यग्निर्दहते स तृणालयान्॥२४२॥



कृष्णाग्निरशनेः पातः कर्मारा अहिताश्रयाः।

अगाराश्च निवर्तन्ते संवर्तेनेव धातवः॥ २४३॥



ये जाता ये च संवृद्धा ये च तं ग्राममाश्रिताः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४४॥



रोहिण्यां चलिता भूमिः सर्वबीजविनाशनम्।

प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥२४५॥



गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशम्।

दुर्भिक्षव्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥२४६॥



महात्मानश्च राजानः श्रीमन्तश्च नरोत्तमाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४७॥



मृगशीर्षे चलेद्भूमिरोषधीनां विनाशनम्।

चिकित्सकाः श्रोत्रियाश्च घटकाः सोमयाजकाः॥२४८॥



सोमपीताश्च ये विप्रा वानप्रस्थाश्च तापसाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२४९॥



आर्द्रायां चलिता भूमिर्वृक्षा नश्यन्ति क्षीरिणः।

अन्नपानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥२५०॥



कूपखाः परिखाखाश्च पापका ये च तस्कराः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५१॥



पुनर्वासौ चलेद्भूमिर्मण्डलं कुण्डिकापि च।

वागुरिकाः कारण्डवाश्चक्रिणः शुकसारिकाः॥ २५२॥



अर्भका भ्रमकाराश्च मांसिकाः शङ्खवाणिजाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५३॥



पुष्येण च चलेद् भूमिर्ब्राह्मणा नायकास्तथा।

दूरंगमा वणिजकाः सार्थवाहाश्च ये नराः॥२५४॥



पार्थिवाः पार्वतीयाश्च ये च य तद्भक्तिगोचराः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः।

शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥ २५५॥



आश्लेषायां चलेद्भूमिर्नागाः सर्वे सरीसृपाः।

कीटाः पिपीलिकाः श्वानाः एकखुराश्च ये मृगाः॥ २५६॥



वैद्या विषकराश्चापि ये च सत्त्वा दरीश्रयाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५७॥



मघासु चलिता भूमिर्महाराजोऽत्र तप्यते।

ये च श्राद्धा निवर्तन्ते समाजा उत्सवास्तथा।

यज्ञाश्च देवकृत्यं च सर्वमत्र निवर्तते॥ २५८॥



ये जाता ये च संवृद्धा ये चान्येऽप्यग्रपण्डिताः।

गन्धर्वाश्च विनश्यन्ति नरा ये च महाकुलाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२५९॥



फल्गुन्यां चलिता भूमिरृतुर्व्यावर्तते तदा।

तिर्यग्वातश्चैव वाति कृतं नश्यति शाश्वतम्।

पथिकाश्चोपतप्यन्ति माषयाच्योपजीविकाः॥२६०॥



धर्मे रता आसनिका ये च शुल्कोपजीविनः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६१॥



चलत्युत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।

सार्थवाहा आसनिका ये च शिल्पोपजीविनः॥२६२॥



अङ्गा विदेहमगधा नैरृताः स्त्रीपरिग्रहाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥ २६३॥



हस्तेन चलिता भूमिः कुम्भकारचिकित्सकाः।

गुणमुख्या महामात्राः सेनाध्यक्षाश्च ये नराः॥ २६४॥



तारमका (?) नारपटा (?) विप्सरः (?) कौटीका अपि।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६५॥



चित्रायां चलिता भूमिः कारका उपकल्पकाः।

कुमार्यः सर्वरत्नं च सस्यानां बीजकैः सह॥२६६॥



वङ्गा दशार्णकुरवश्चेदिमाहिषकास्तथा।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥ २६७॥



स्वातौ प्रचलिता भूमिश्चौरा ये च कुशीलकाः।

हिंसका ये च तत्कर्मरताऽभ्यर्थितमूषकाः॥२६८॥



हिमवत उत्तरेण वायुभक्षास्तपस्विनः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२६९॥



विशाखायां चलेद् भूमिर्महाशैलक्षयो भवेत्।

उग्राः वाताः प्रवान्त्यत्र अश्मकैरकुशलिनः॥२७०॥



अनुराधे चलेद् भूमिर्दस्यूनामनयो महान्।

विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥ २७१॥



अन्ध्राः पुण्ड्राः पुलिन्दाश्च भये तिष्ठन्त्यनाश्रिताः।

मित्रभेदश्च बलवान् तदा जगति जायते॥२७२॥



ज्येष्ठायां चलिता भूमिर्महाराज प्रतप्यते।

वायसा वृषभा व्याडास्तथा चण्डमृगाश्च ये॥२७३॥



कुरवः शूरसेनाश्च मल्ला बाह्लीकनिग्रहाः।

प्रत्यर्थिकेन शीघ्रेण ये च तद्भक्तिभाजनाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिता॥ २७४॥



मूलेन चलिता भूमिश्चतुष्पद्द्विपदास्तथा।

ग्रहाश्रयाः पिशाचाश्च ये च सत्त्वा दरीश्रयाः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७५॥



दुर्भिक्षं च करोत्याशु धान्यमल्पोदकं भवेत्।

दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥२७६॥



पूर्वाषाढे चलेद् भूमिर्जलजा मत्स्यशुक्तिकाः।

शिशुमारा उद्रकाश्च नक्रा मकरकच्छपाः॥२७७॥



जातोगोत्रप्रधानाश्च धनिनोऽथ विचक्षणाः॥



द्वितीयाभिजाताश्च महाविद्याकराश्च ये।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२७८॥



उत्तरस्यां चलेद् भूमिः शिल्पिनामनयो महान्।

अयस्काराः स्थपयस्त्रपुकाराश्च तक्षकाः॥२७९॥



दरिद्रा धनिनश्चापि शिल्पिनो विविधा अपि।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः।

ग्रामकूटानि च घ्नन्ति सचलस्थावराणि च॥२८०॥



वैष्णवे चलिता भूमिस्तदेति यदनीप्सितम्।

अध्यापकाः शास्त्रविदः कवयो मन्त्रपारगाः।

युगंधराः शूरसेना अभिराजाः पटच्चराः॥२८१॥



कुशण्डाः शरदण्डाश्च ये नरा राजपूजिताः।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८२॥



धनिष्ठायां चलेद् भूमिर्धनिनामनयो महान्।

महेश्चरास्तथा महानागराः श्रेष्ठिनस्तथा॥२८३॥



प्रचण्डाः स्वस्तिमन्तश्च भद्रकारा युगंधराः।

पारिकूलाश्च भोज्याश्च ह्यन्ये सन्नागरा अपि।

एते व्यसनमर्च्छन्ति भूमिचालविचालिताः॥२८४॥



वारुण्ये चलिता भूमिरौदकेष्वनयो महान्।

हस्तिनोऽश्वखरोष्ट्राश्च स्पर्शमर्च्छन्ति दारुणम्॥२८५॥



तदासौ वीरकान् मद्रान् बाह्लीकान् केकयानपि।

अनाश्रयांश्चक्रवाकान् जनस्थानपि पीडयेत्॥२८६॥



साजेन चलिता भूमी राक्षसान् घातकांस्तथा।

औरभ्रिकान् सौकरिकान् सौवीरांश्च निपातयेत्॥२८७॥



वणिज्यजीविनो वैश्यान् शूद्रांश्च करीतीनपि।

यवनान् मालवाद्यांश्च गन्थिभेदांश्च नाशयेत्॥२८८॥



अहिर्बुध्र्ये चलेद् भूमिर्वणिजामनयो महान्।

धर्मे रताश्च ये सिद्धा ये च शौक्तिककर्मिणः॥२८९॥



शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियानार्जुनायनान्।

सिन्घुराजधनुष्पाणीन् सर्वानर्दयतेऽचिरात्॥२९०॥



रेवत्यां चलिता भूमिः संग्रामः स्यात्सुदारुणः।

ग्रामघाताश्च वर्तन्ते ग्रामो ग्रामं च हिंसति॥२९१॥



नौचरादकाजीवान् रमठान् भरुकच्छकान्।

सुधन्वानभिसारांश्च सर्वसेनांश्च निर्दहेत्॥२९२॥



अश्विन्यां चलिता भूमिरश्वानामनयो महान्।

ग्रामघाताश्च वर्तन्ते भ्राता भ्रातृन् जिघांसति॥२९३॥



या चात्र गर्भमाधत्ते ये च जाताश्च तानिह।

त्रीणि वर्षाण्यतो दुःखमुपैति च निरन्तरम्॥२९४॥



सहिताश्चित्रगर्भाश ये ह्यन्ये चङ्गनाजनाः।

आर्जुनायना राजन्याः सुष्ठु त्रींश्चापि हिंसति॥ २९५॥



भरण्यां चलिता भूमिश्चैराणामनयो महान्।

विटा द्यूतकराश्चैव ग्रन्थिभेदाश्च ये नराः॥२९६॥



आदर्शचक्राटा धूर्तास्तथा बन्धनरक्षकाः।

अन्तावशायिनः पापाश्चरन्ति ये तु दुर्जनाः।

तेऽपि तत्र विपद्यन्ते भूमिचालविचालिताः॥२९७॥



वेपितायां तु मेदिन्यां भदेद्रूपमनन्तरम्।

सप्ताहाभ्यन्तरात्तत्र मेघो भवति प्रार्थितः॥२९८॥



स्निग्धो ह्यञ्जनसंकाशो महापर्वतसन्निभः।

इन्द्रश्च वर्षते तत्र महर्षेर्वचनं यथा।

(एवं निगदितं नाथैरिन्द्रश्चात्र प्रवर्षति॥२९९॥)



स्वस्तिकाकारसंकाशा इन्द्रवज्रध्वजोपमाः।

दृश्यन्तेऽभ्रा हि संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३००॥



तदा नभसि जायन्ते मेघा दाडिमसंनिभाः।

लक्षणं तादृशं दृष्ट्वा विद्यात्तानिन्द्रकम्पितान्।

स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥३०१॥



अतीव तत्र विश्वस्तः सर्वबीजानि वापयेत्।

व्यवहारांश्च कुर्वीरन्निर्भयास्तत्र वाणिजाः।

सर्वेषां भूमिकम्पानां प्रशस्ता इन्द्रकम्पिताः॥३०२॥



वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।

सप्ताहाभ्यन्तरे तत्र मेघः संछादयेन्नभः॥३०३॥



ततोऽनुबद्धा जायन्ते अभ्राः कौशेयसंनिभाः।

अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशम्॥३०४॥



शिशुमार-उद्रकाणां मत्स्यकमरसन्निभाः।

दृश्यन्तेऽभ्राश्च संध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥३०५॥



लक्षणं तादृशं दृष्ट्वा विद्यात्ताञ्जलकम्पितान्।

स निर्देशो भवेत्तत्र महर्षेर्वचनं यथा॥ ३०६॥



स्थलेषु गिरिकूटेषु क्षेत्रेषूपवनेषु च।

स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥३०७॥



पङ्केनापि जलेनापि नश्येयू रजसापि वा।

एतेषां भूमिकम्पानां प्रशस्ता जलकम्पिताः॥३०८॥



वेपितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।

सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥३०९॥



दृश्यते कपिला संध्या चन्द्रसूर्यौ तु लोहितौ।

लक्षणं तादृशं दृष्ट्वा जानीयाद्वायुकम्पितान्॥३१०॥



ततो भवति निर्देशो महर्षेर्वचनं यथा।

न तत्र प्रवसेत्प्राज्ञ आत्मानं चात्र गोपयेत्॥ ३११॥



गुह्यमावरणं कुर्यात्प्राकारपरिखां खनेत्।

प्रातिसीमा विरुध्यन्ते नराणां जायते भयम्॥३१२॥



एतेषां भूमिकम्पानां सर्वेषां कीर्तिता गुणाः।

विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥३१३॥



कम्पितायां तु मेदिन्यां भवेद्रूपमनन्तरम्।

सप्ताहाभ्यन्तरात्तत्र उल्कापाताः सुदारुणाः॥३१४॥



संध्या च लोहिता भाति चन्द्रसूर्यौ तु लोहितौ।

लक्षणं तादृशं दृष्ट्वा विज्ञेया अग्निकम्पिताः॥३१५॥



अग्निर्दहति काष्ठानि रक्षितानि धनानि च।

दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशम्॥३१६॥



वीणाश्च दिवि दृश्यन्ते नव मासान्न वर्षति।

एतेषां भूमिकम्पानां जघन्या अग्निकम्पिताः॥ ३१७॥



जयति अहनि पूर्वे क्षत्रियान् पार्थिवांश्च

हयगजरथमुख्यान् मन्त्रिणो मध्यमाह्ने।

व्यथयति अपराह्णे गोपशून् वैश्यशूद्रान्

प्रदहति निशिसंघ्या तकरानन्तवासान्॥३१८॥



रजनिमिह प्रदोषे हिंसते म्लेच्छसंघान्।

स्त्रियमपि च नपुंसश्चार्धरात्रेष्वनन्तान्।

कृषिवणिगुपजीव्यान् हन्ति यामे तृतीये

व्यथयति सुरपक्षं रौद्रकर्मान्तकृष्णे॥३१९॥



प्रदहति शशिपक्षे याज्ञिकं ब्रह्मक्षत्र

श्रपयति शुचिवृत्तानेव धर्मे प्रधानान्।

विदुषि च मृदुभावं विन्दते यो ह्यधीते

स भवति नृपपूज्यो ब्राह्मणो वेददर्शी॥३२०॥



बृहस्पतेश्च चत्वारि समानि शुभकर्मणा।

चत्वारि सूर्यकर्माणि तुल्यानि शुक्रकर्मणा।

सोमकर्माणि चत्वारि ब्रह्मकर्म च तत्समम्॥३२१॥



अयं भोः पुष्करसारिन् भूमिकम्पनिर्देशो नामाध्यायः॥



अथ भोः पुष्करसारिन् अमीषामष्टाविंशतीनां नक्षत्राणां रोगोत्पत्तिं नामाध्यायं व्याख्यामि। तच्छ्रूयताम्। कथयतु भगवान्-



कृत्तिकासूत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

चतूरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३२२॥



अग्निर्हि देवता तत्र दध्ना ह्यस्य बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३२३॥



रोहिण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

पञ्चरात्रं भवेद्व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३२४॥



देवः प्रजापतिस्तत्र शुद्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३२५॥



व्याधिर्मृगशिरोभूतः स्त्रिया वा पुरुषस्य वा।

अष्टरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३२६॥



सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।

अनेन बलिदानेन तस्माद्रोगाद्विमुच्यते॥३२७॥



आर्द्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

दशरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३२८॥



रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३२९॥



पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

अष्टरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३३०॥


आदित्यो देवता तत्र गन्धमाल्यैर्वलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३३१॥



पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

स्तोककालं भवेत्तस्य पञ्चरात्राद्विमुच्यते॥३३२॥



देवो बृहस्पतिस्तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३३३॥



आश्लेषायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

न तं वैद्याश्चिकित्सन्तु सर्पस्तत्र तु दैवतः॥३३४॥



मघासमुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

अष्टरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३३५॥



पितरो देवतास्तत्र कृसरेण बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३३६॥



पूर्वफाल्गुनिजो व्याधिः स्त्रिया वा पुरुषस्य वा।

सप्तरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३३७॥



अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३३८॥



उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

न तं वैद्याश्चिकित्सन्तु भगोऽप्यत्र तु देवता॥३३९॥



हस्तेनाप्युत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

पञ्चरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३४०॥



रविर्हि देवता तत्र गन्धपुष्पैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३४१॥



चित्रायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

अष्टरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३४२॥



त्वष्टा हि देवता तत्र घृतमुद्गैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३४३॥



स्वात्यां समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य।

क्लेशितो हि भवेद् व्याधिः पञ्चविंशतिरात्रिकः॥३४४॥



देवतात्र भवेद् वायुश्चित्रमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३४५॥



विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

गुरुकोऽसौ भवेद् व्याधिरहान्येकोनविंशतिः॥३४६॥



इन्द्राग्नी देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३४७॥



अनुराधात्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

अर्धमासं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३४८॥



मित्रो हि देवता तत्र घृतपात्रं बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३४९॥



ज्येष्ठायामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

क्लेशिको हि भवेद् व्याधिरहोरात्रत्रयोदश॥ ३५०॥



इन्द्रो हि देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३५१॥



मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

मासिको हि भवेद् व्यधिस्ततश्चोर्ध्वं विमुच्यते॥३५२॥



नैऋतिर्देवता तत्र मद्यमांसैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३५३॥



पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

सांक्लेशिको भवेद् व्याधिरष्टौ मासान्न संशयः॥३५४॥



आपो हि देवतास्तत्र कृसरेण बलिं हरेत्।

अनेन बलिंकर्मेण तस्माद्रोगाद्विमुच्यते॥३५५॥



उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

सप्तरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३५६॥



विश्वो हि देवता तत्र पायसेन बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३५७॥



अभिजिदुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

षण्मासान् संभवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३५८॥



विण्षुश्च देवता तत्र दधिमण्डं बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३५९॥



श्रवणेनोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

गुरुको हि भवेद् व्याधिः पूर्णं द्वादशमासिकम्॥३६०॥



विष्णुर्हि देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३६१॥



धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।

त्रयोदशदिवस्तत्र ततश्वोर्ध्वं विमुच्यते॥ ३६२॥



वरुणो देवता तत्र पायसेन बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रिगाद्विमुच्यते॥ ३६३॥



पूर्वभद्रोत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

न तं वैद्याश्चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥ ३६४॥



उत्तराभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।

सप्तरात्रं भवेद् व्याधिस्ततश्चोर्ध्वं विमुच्यते॥३६५॥



अर्यमा देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥ ३६६॥



रेवत्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

मृदुको हि भवेद् व्याधिरष्टाविंशतरात्रिकः॥३६७॥



पूषा हि देवता तत्र गन्धमाल्यैर्बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३६८॥



अश्विन्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

सांक्लेशिको भवेद् व्याधिः पञ्चबिंशतिरात्रिकः॥३६९॥



गन्धर्बो देवता तत्र यावकेन बलिं हरेत्।

अनेन बलिकर्मेण तस्माद्रोगाद्विमुच्यते॥३७०॥



भरण्यामुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।

न तं वैद्याश्चिकित्सन्तु यमस्तत्र तु दैवतः।

शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥३७१॥



अयं भोः पुष्करसारिन् व्याधिसमुथानो नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् बन्धननिर्मोक्षं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयतु भगवान्-



कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतीति। मृगशिरसि बद्धो वा रुद्धो वा एकविंशतिरात्रेण मोक्ष्यतीति। आर्द्रायां बद्धो वा रुद्धो वा अर्धमासेन मोक्ष्यतीति। पुनर्वसौ रुद्धो वा बद्धो वा सप्तरात्रेण। पुष्ये त्रिरात्रेण। आश्लेषायां त्रिंशद्रात्रेण। मघासु षोडशरात्रेण। पूर्वफाल्गुनीषु दशरात्रेषु। उत्तरफाल्गुनीषु सप्तरात्रेण। हस्ते पञ्चरात्रेण। चित्रायां सप्तरात्रेण। स्वात्यां दशरात्रेण। विशाखायां षड्‌विंशद्रात्रेण। अनुराधायामेकत्रिंशद्रात्रेण। ज्येष्ठायामष्टादशरात्रेण। मूले षट्‌त्रिंशद्रात्रेण। पूर्वाषाढायां चतुर्दशरात्रेण। उत्तराषाढायां चतुर्दशरात्रेण। अभिजिति षड्।द्रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभाद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्दशरात्रेण। अश्विन्यां त्रिरात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशमवाप्स्यतीति वक्तव्यः॥



अयं भोः पुष्करसारिन् बन्धननिर्मोक्षो नामाध्यायः॥

अथ भोः पुष्करसारिन् तिलकाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयतु भगवान् -



मूर्ध्नि तु यस्यास्तिलकोऽस्ति सूक्ष्मः

स्निग्धो भवेत् पद्मसमानवर्णः।

राजा तु तस्या भवतीह भर्ता

स्तनोपरिष्टात्प्रतिबिम्बमाहुः॥३७२॥



शीर्षे तु यस्यास्तिलकालकः स्यात्

सूक्ष्मो भवेदञ्जनचूर्णवर्णः।

सेनापतिस्तस्या भवेद्धि भर्ता

स्तनान्तरेऽस्याः प्रतिबिम्बकं स्यात्॥३७३॥



भ्रुवोन्तरेऽस्यास्तिलकालकः स्याद्

दुश्चारिणीं तां प्रमदां वदन्ति।

पञ्चैव तस्याः पतयो भवन्ति

बह्वन्नपानं लभते च नारी॥३७४॥



गण्डस्य नासादिकमध्यदेशे

भवेच्च बिम्बं तिलकस्य यस्याः।

तां शोकभाजं प्रमदां वदन्ति

रोमप्रदेशे प्रतिबिम्बमाहुः॥ ३७५॥



कर्णे तु यस्यास्तिलकालकः स्याद्

बहुश्रुतां तां प्रमदां वदन्ति।

बहुश्रुतां तां श्रुतिधारिणीं च

त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥ ३७६॥



यस्योत्तरोष्ठे तिलकालकः स्या-

त्तां भिन्नसत्यां प्रमदां वदन्ति।

कृच्छ्रेण सा वै लभते हि वृत्ति-

मूरौ तु तस्यास्तिलबिम्बमाहुः॥३७७॥



यस्याधरोष्ठे तिलकालकः स्याद्

दुश्चारिणीं तां प्रमदां वदन्ति।

मिष्टान्नपानं बहु ऋच्छते सा

तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥ ३७८॥



चिबुके तु यस्यास्तिलकालकः स्याद्

दुश्चारिणीं तां प्रमदां वदन्ति।

मिष्टान्नपानं बहु सा लभेत

गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥ ३७९॥



अयं भो पुष्करसारिंस्तिलकाध्यायो नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् नक्षत्रजन्मगुणं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयतु भवान् त्रिशङ्को-



कृत्तिकासु नरो जातस्तेजस्वी प्रियसाहसः।

भवेच्छूरस्तथा चण्डः प्रियवादी च मानवः॥३८०॥



रोहिण्यां पुरुषो जातो धनवान् धार्मिकस्तथा।

व्यवसायी स्थिरः शूरो ध्रुवं चास्य सदा सुखम्॥३८१॥



जातो मृगशिरे यस्तु मृदुः सौम्यस्तु मानवः।

दर्शनीयो भवेच्चासौ स्त्रीकान्तस्तु विशेषतः॥ ३८२॥



आर्द्राजातस्तु हिंसात्मा चण्डः परमजल्पकः।

रौद्रकर्मा भवेच्चासावीश्वरश्च शतैर्महान्॥ ३८३॥



जातः पुनर्वसौ यस्तु ह्यलोलो बुद्धिमान्नरः।

धर्मशीलो भवेच्चासौ जातक्रोधश्च मानवः॥३८४॥



पुष्येण पुरुषो जातस्तेजस्वी ब्राह्मणो भवेत्।

क्षत्रियश्च भवेद्राजा वैश्यशूद्रु च पूजितौ॥३८५॥



श्वसनः क्रोधनः क्रूरो ह्याश्लेषासंभवो नरः।

दुर्मनुष्यश्च चण्डश्च इति सर्वमिहादिशेत्॥ ३८६॥



बहुप्रज्ञः श्राद्धकरो बहुभाग्यस्तथैव च।

धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥३८७॥



पूर्वफल्गुनीजातस्तु यः कश्चित्पुरुषो भवेत्।

अधर्मबुद्धिशीलश्च गुरुदाराभिमर्दकः॥३८८॥



उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।

दिव्यज्ञानश्च विज्ञाने पुरुषः सुभगो भवेत्॥३८९॥



हस्ते जातश्च शुद्धात्मा विक्रान्तो मृदुभोजनः।

सेनापत्यं च कुरुतेऽस्तेयकर्मा भवेदसौ॥ ३९०॥



चित्रासु जातश्चित्राक्षस्तथा चित्रकथाकरः।

दर्शनीयो बहुस्त्रीकश्चित्रशीलो भवेन्नरः॥ ३९१॥



स्वात्यां च पुरुषो जातो बन्धुश्लाघी विचक्षणः।

मृदुकः पानशौण्डश्च मित्रकारी विचारवान्॥ ३९२॥



विशाखासु नरो जातस्तेजस्वी द्रव्यवान् महान्।

शूरो विक्रमवान् दक्षः सुभगश्च भवेदसौ॥३९३॥



अनुराधोद्भवो मर्त्यो मित्रवान् संग्रही नरः।

शुचिश्चैव कृतज्ञश्च धर्मात्मा च भवेच्च सः॥ ३९४॥



ज्येष्ठासु पुरुषो जातो मित्रवानभिजायते।

धनुर्वेदाभिरामश्च नारीषु कुरुते मनः॥ ३९५॥



मूलेषु पुरुषो जातोऽकृतज्ञः स्यादधार्मिकः।

दृढो वीरो भवेच्चासौ किल्बिषी च स मानवः॥३९६॥



आषाढासु च पूर्वासु मत्सरी चलितेन्द्रियः।

मात्स्यमांसप्रियश्चापि घातकः स्यात्स मानवः॥ ३९७॥



सानुक्रोशश्च दाता च विद्यानिष्ठः सुहृज्जनः।

विश्वदैवे नरो जातो भवेदपि च निश्रितः॥३९८॥



आचर्यः शास्त्रकर्ता च विश्वासी व क्रियापरः।

श्रवणे जात आयुष्मान् श्रीमांश्च पुरुषो भवेत्॥ ३९९॥



अनवस्थितचित्तश्च चित्रद्रव्यश्च मानवः।

धनीष्ठासु भवेज्जातः पुरुषः सर्वशङ्कितः॥४००॥



वारुणे यदि नक्षत्रे जातो भवति मानवः।

परुषो द्वेषशीलश्च परिवादी च सर्वशः॥४०१॥



जातो भाद्रपदायां तु पूर्वस्यामिह मानवः।

चारित्रगुणयुक्तश्च कृतज्ञो मुखरस्तथा॥ ४०२॥



उत्तरस्यां नरो जातो भविष्यति विचक्षणः।

मेधावी बहृपत्यश्च धर्मशीलो महाधनः॥ ४०३॥



रेवत्यां पुरुषो जातो धर्मात्मा ज्ञातिसेवकः।

दरिद्रोऽल्पधनो नित्यं दायको नानसूयकः॥ ४०४॥



अश्विन्यां पुरुषो जातो भवत्यतिविचक्षणः।

महाजनप्रियश्चापि शूरश्च सुभगश्च सः॥ ४०५॥



भरण्यां पुरुषो जातः पापाचारोऽविचक्षणः।

कन्दर्पे दातुकामश्च परतश्चोपजीवकः॥ ४०६॥



अयं भो पुष्करसारिन् नक्षत्रजन्मगुणो नामाध्यायः॥



पठ भोस्त्रिशङ्को उत्पातचक्रं नामाध्यायम्॥ कथयति च-



उत्पातचक्रनिर्देशः।



अष्टाविंशतिपर्यन्तकृत्स्ने नक्षत्रमण्डले।

दिव्या विकारा दृश्यन्ते सूर्यचन्द्रग्रहादिषु॥४०७॥



माघस्य प्रथमे पक्षे शैलो वा पार्थिवो यदि।

धूमवृष्टिर्हि आदित्ये उदयति प्रदृश्यते।

विद्युतो वाथ दृश्यन्ते तदा विद्याज्जनक्षयम्॥४०८॥



अश्विन्यामर्कतो धूमो निर्गच्छन्नपि छादयेत्।

अनावृष्टि तदा विद्यात्पूर्णवर्षाणि द्वादश॥ ४०९॥



भरण्यां माघमासे तु पीतसूर्योऽथ दृश्यते।

समन्ताद्वध्यते राष्ट्रं मध्ये दुर्भोक्षमादिशेत्॥ ४१०॥



फाल्गुने कृत्तिकायां तु आदित्ये परिखो यदि।

नश्यन्ति कर्वटास्तत्र यदि देवो न वर्षति॥ ४११॥



चैत्रमासे यदा पुष्ये सूर्ये कृष्णं प्रदृश्यते।

अचिरोदयकाले तु क्षितिपालोऽवरुध्यते॥४१२॥



वैशाखमासे चार्द्रायामादित्यः प्रतिसूर्यकः।

संग़्रामं तत्र जानीयादुभौ घात्येते पार्थिवौ॥ ४१३॥



गृह्येतां चन्द्रसूर्यौ वा ज्यैष्ठे भरणिज्येष्ठयोः।

सामात्यो वध्यते राजा राष्ट्रे दुर्भिक्षमादिशेत्॥ ४१४॥



आषाढे च यदादित्ये पूर्वभाद्रपदे स्थिते।

सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले व्रणः॥४१५॥



परचक्रेण तद्राष्ट्रं षण्मासान् पीड्यते तदा।

क्षितिपालश्च सामात्यः पुत्रदारेण वध्यते॥४१६॥



पूर्वायां चोत्तराषाढायामाषाढे गृह्यते शशी।

विद्याद् दुर्भिक्षकलहरोगांश्चात्र विनिर्दिशेत्॥४१७॥



मासेऽथ श्रावणे मूले चन्द्रसूर्यौ न भासतः।

स्फुलिङ्गाश्चात्र दृश्यन्ते विद्याद्रोगभयं महत॥४१८॥



मासेऽश्वयुजि गृह्येतामेकपक्षेन्दुभास्करौ।

राजपुत्रसहस्राणां तदा जायेत संक्षयः॥४१९॥



अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्तिके।

चन्द्रसूर्यावग्निवर्णौ रक्तवर्णे नभस्तले॥४२०॥



रविवद्भाति तद्राष्ट्रं विनश्येत पुनः पुनः।

राज्ञां विद्याद्धतानां वै भूमिः पास्यति शोणितम्॥४२१॥



भरण्यां माघमासे तु कृष्णो वायुः समुत्थितः।

छादयेच्चन्द्रसूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥४२२॥



मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतम्।

वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथापरे॥४२३॥



सहादित्येन चन्द्रेऽथ यदा कश्चिद् ग्रहश्चरेत्।

वायुर्वा विषमो वाति विद्याद्राजवधं तदा॥४२४॥



अशन्युल्के तु वैशाखे आदित्येन सहोत्थिते।

षण्मासाभ्यन्तरेणाथ राष्ट्रे व्यसनमादिशेत्॥४२५॥



ज्येष्ठमासे यदादित्यो ग्रहतो निर्गतो भवेत्।

आदित्यस्योपघातेन ग्रहाः सर्वेऽथ पीडिताः॥४२६॥



ज्येष्ठे च पांशुर्वर्षेत आदित्यः परिविष्यते।

क्षितिपालसहस्राणामेक एकस्तु वध्यते॥४२७॥



आषाढे वायवो वान्ति गच्छन्तो भरणीस्थिताः।

उदपानानि शुष्यन्ते सर्वशस्यं च पुष्यति॥ ४२८॥



श्रावणे वायवः पीताः सदा कृष्णं नभस्तलम्।

भयं तत्र विजानीयात्समन्तात् समुपस्थितम्॥४२९॥



श्रावणे वर्षते ह्यग्निः पूर्वभाद्रपदे दिवा।

मेघाः शब्दमुत्कुर्वन्ति रोगदुर्भिक्षमादिशेत्॥ ४३०॥



यदा भाद्रपदे मासे नभः स्याच्छन्नगर्जितम्।

परचक्रं तदा राष्ट्रे हरते धनसंचयम्॥ ४३१॥



अश्वयुजि वातवृष्टिः स्यादागत्योत्तरां दिशम्।

पातयेच्चैवमाघातं कृत्स्नं राष्ट्रं विनश्यति॥ ४३२॥



कार्तिके शुक्लत्रयोदश्यां यदा चन्द्रे धनुर्भवेत्।

समन्तान्नश्यते राष्ट्रं मध्ये दुर्भिक्षमादिशेत्॥ ४३३॥



उल्कापाता ह्यशनयो माघमासे भवन्ति वा।

अश्विन्यां विषये तत्र प्रजा श्वासेन वध्यते॥४३४॥



मासे तु फाल्गुने यत्र अग्निवर्षं नभस्तलात्।

भवेच्छब्दस्तदाकाशे तद्राष्ट्रं नश्यते लघु॥ ४३५॥



स्वात्यां चैत्रे यदा वर्षं निरुद्धं वातवर्षितम्।

दृश्यतेन्द्रधनुः क्षिप्रं नगरं तद्विनश्यति॥ ४३६॥



भरण्यां ज्येष्ठमासे तु शब्द उत्तरतो भवेत्।

पीतवर्णं तदाकाशं परचक्रभयं भवेत्॥४३७॥



आषाढे मासि पुण्येऽथ दृश्यन्ते व्योम्नि विद्युतः।

सतृणोदकवृष्टिभिस्त्रिभागं मुच्यते प्रजा॥ ४३८॥



श्रावणे तु यदा मूले बहु देवः प्रवर्षति।

दृश्यतेन्द्रधनुस्तत्र क्षत्रियाणां महद्भयम्॥ ४३९॥



मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।

सुकृच्छ्रा वायवो वान्ति महद्रोगभयं तदा॥४४०॥



मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।

क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु तदा प्रजा॥ ४४१॥



भरण्यामश्वयुजे शब्द उपरिष्टाद्भवेद्यदि।

सतृणं चोत्सृजेत्पांशु तापसानां महद्भयम्॥ ४४२॥



कार्तिके तु यदार्द्रायां शब्दः श्रूयेत् अभैरवः।

चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥ ४४३॥



मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत्।

वातातुरस्तदा राष्ट्रे व्याधिर्भवति दारुणः॥४४४॥



पौषमासे यदा स्वात्यां शब्दो भवति भैरवः।

अभीक्ष्णं विद्युदाकाशे पण्डितानां महद्भयम्॥४४५॥



माघे शुक्ले तु निर्घातो नित्यं शाम्येद्वसुंधराम्।

जानीयात्तृतीये वर्षे सकलं राष्ट्रविभ्रमम्॥ ४४६॥



ज्येष्ठायां फाल्गुने मासे कृष्णवायुः समाकुलः।

अभिक्ष्णं कम्पते भूमिर्ब्रह्मचारिभयं तदा॥४४७॥



पूर्वभाद्रपदायां तु चैत्रे कम्पेत्क्षितिर्दिवा।

तस्मिन् वर्षे व तद्राष्ट्रे परसैन्यान्महद्भयम्॥४४८॥



पूर्वायां चेदाषाढायां रात्रौ चैत्रे च निश्चलेत्।

असिभिर्हन्यते राजा हन्यते च महाजनः॥ ४४९॥



वैशाखे कम्पिता भूमिः कृष्णपक्षे ह्यभीक्ष्ण्शः।

अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥४५०॥



ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद्वसुंधरा।

विद्याद्योधसहस्राणां मही पास्यति शोणितम्॥४५१॥



ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।

प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥ ४५२॥



आषाढे कम्पते भूमिः पुष्यनक्षत्रसंस्थिते।

शस्यं विनश्यते तत्र कलिकर्म च जायते॥४५३॥



प्रकम्पन्ते यदा चैत्या आर्द्रायां वा मघासु वा।

ज्वलेयुः प्रपतेयुर्वा नश्येद्राष्ट्रं तदा लघु॥४५४॥



चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।

सराष्ट्रः क्षितिपस्तत्र नचिरान्नाशमर्च्छति॥४५५॥



श्रावणे कम्पते भूमिः पूर्वभाद्रपदास्थिते।

सदा पराजितो राजा चौरै राष्ट्रे च अवध्यते॥४५६॥



कार्तिके क्षितिकम्पेन यदा चैत्यं विशीर्यते।

द्वारं वा नगरस्याथ भूयिष्ठं नश्यते प्रजा॥ ४५७॥



वामे वा दक्षिणे चेन्दोः शृङ्गे तिष्ठेद् बृहस्पतिः।

महाभोगा विनश्येयुः प्रकाशाः पृथिवीश्वराः॥ ४५८॥



सूर्याचन्द्रमसोः शृङ्गे लोहिताङ्गो यदारुहेत्।

क्रूराक्षमन्त्रिकात्पीडां प्रत्यन्तानां विनिर्दिशेत्॥४५९॥



शनैश्चरो यदा शृङ्गे सोमस्याभिरुहेत्तदा।

ज्ञेयं रोगभयं घोरं दुर्भिक्षं चात्र निर्दिशेत्॥ ४६०॥



राहुणा निगृहीतस्तु चोल्कया हन्यते शशी।

षण्मासाभ्यन्तरात्तत्र राज्ञो व्यसनमादिशेत्॥ ४६१॥



यस्य चैवाथ नक्षत्र शशी सूर्यो विगृह्यते।

राहुणा क्षितिपो राज्यैः सह पीडामवाप्नुयात्॥ ४६२॥



राज्ञो वै चाथ नक्षत्रे चन्द्रं केतुर्यदा विशेत्।

प्रत्यन्तराजभिः सार्धं शस्त्रमूर्च्छा विनिर्दिशेत्॥४६३॥



चन्द्रमध्यगतः शुक्रः फाल्गुन्याथ मघा यदा।

सर्वधान्यानि शुष्येयुस्तदा रोगं विनिर्दिशेत्॥ ४६४॥



बृहस्पतिश्च शुक्रश्च लोहिताङ्गः शनैश्चरः।

लिख्यन्ति सोमशृङ्गस्य तदा विद्यान्महद्भयम्॥४६५॥



धूमकेतुर्महाभागः पुष्यमारुह्य तिष्ठति।

चतुर्दिशं तदा विद्यात्परचक्रैः पराभवम्॥ ४६६॥



मघायां लोहिताङ्गो वा श्रवणे वा बृहस्पतिः।

तिष्ठेत्संवत्सरस्त्रीणी भयं विद्यात्समागतम्॥४६७॥



तिष्ठेच्छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन।

व्याकुर्यान्नियतमत्र क्षत्रियाणां महद्भयम्॥४६८॥



विशाखायां समीपस्थौ बृहस्पतिशनैश्चरौ।

सोमो वा रविणा सार्धं परचक्रभयं तदा॥ ४६९॥



काकाः श्येनाश्च गृध्राश्च वसेयुः सहिता मुदा।

मैथुनं वारितं वेयुः परैः सह रणस्तदा॥ ४७०॥



श्येनो हस्तिनिवासे वा अभिरोहेत्पुनः पुनः।

परचक्रेण युद्धं तु भवेच्चापि पुनः पुनः॥ ४७१॥



कन्या प्रसूयते यत्र चतुर्हस्ता चतुःस्तनी।

स्त्रिणामेव भवेत्तत्र मरणं ह्यतिदारुणम्॥ ४७२॥



गर्भस्था दारका यत्र हसन्ति च वदन्ति च।

तस्य देशस्य जानीयाद्विनाशं समुपस्थितम्॥४७३॥



एकपादांस्त्रिपादांश्च चतुरङ्गांस्तथैव च।

नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनमादिशेत्॥४७४॥



सूयन्ते विकृतान् गर्भान् संतानान् भयव्यञ्जनान्।

प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥४७५॥



लघुहस्तशीर्षमुखान् मानुषं कायमाश्रितान्।

प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥४७६॥



खराश्च महिषाश्चापि पशवोऽथ तथाविधाः।

द्वित्रिशीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥४७७॥



शृगालश्वानमकरहयरूपाश्च मानवाः।

जायन्ते यत्र देशे तु स देशो लघु नश्यति॥४७८॥



पादावुभौ यदा वैश्या गुर्विणी संप्रसूयते।

देशस्य विलयं ब्रूयात्परचक्रेण दारुणम्॥४७९॥



पूर्वार्धः पक्षिनरयोर्गर्भो यत्र प्रसूयते।

राजा वा राजामात्यो वा सह देशेन नश्यति॥४८०॥



कुम्भाण्डो जायते यत्र द्विमुखोऽथ चतुर्मुखः।

त्रिनेत्रस्त्रिमुखो वापि विद्यात्तत्र महद्भयम्॥ ४८१॥



सौकरेण तु वक्त्रेण शरीरं मानुषं यदि।

सूतं चतुर्दिशं राष्ट्रं हन्यात्तत्र न संशयः॥ ४८२॥



आदित्यस्य तु रूपेण मानुषो यत्र जायते।

विभ्रमात्सकलं राष्ट्रं विनाशमुपगच्छति॥ ४८३॥



उत्तानशायी बालस्तु देशे यत्र द्विजोत्तमः।

दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यति॥४८४॥



कुक्षिं भित्त्वा यदा बालो गर्भन्निष्क्रमते स्वयम्।

अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥ ४८५॥



गर्भस्थाः सूकरा उष्ट्राः सर्पाश्च शकुनिस्तथा।

स्त्रीणां गर्भात्प्रसूयन्ते देशे तु भयमादिशेत्॥४८६॥



पौरुषं गार्दभं चाथ सौकरं चार्थविग्रहम्।

गावो यत्र प्रसूयन्ते निर्दिशेद्भयमागतम्॥ ४८७॥



नारी गृह्णाति गर्भं वा अदृष्टस्तनरूपिणी।

विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥४८८॥



जटी दीर्घनखो यत्र सुकृष्णः परुषच्छविः।

स जनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥४८९॥



अग्रीवा दन्तसहिता जायन्ते यत्र बालकाः।

शुष्येत सकलं शस्यं जनश्च विलयं व्रयेत्॥४९०॥



एकबाहुरशीर्षोऽथ गर्भो यत्र प्रसूयते।

स्वयं क्षुभ्येत तद्राष्ट्रं विनश्येत न संशयः॥४९१॥



फले फलं यदा पश्येत्पुष्पे वा पुष्पमाश्रितम्।

गर्भाः स्रवेयुर्नारीणां युवराजश्च वध्यते॥ ४९२॥



अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।

लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत्॥४९३॥



वृक्षोपरिष्टात्पश्येद्वा स्रवन्तमात्मशोणितम्।

कूजमानं पतङ्गं वा तदा विद्यान्महद्भयम्॥४९४॥



वृक्षाणां मण्डपानां वा छाया न परिवर्तते।

चतुर्वर्णभयं तत्र कलिकर्म च जायते॥ ४९५॥



पुष्प्येयुः पादपा यत्र विविधाः पुष्पजातयः।

कल्पवृक्षप्रकृतयस्ततो विद्यान्महद्भयम्॥ ४९६॥



अनावर्तं यदा पुष्पं फलं चापि प्रदृश्यते।

विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥४९७॥



स्थानास्थानं गता वृक्षा दृश्येयुर्यत्र कुत्रचित्।

पूर्वप्रतिष्ठितो राजा नचिरेण विचाल्यते॥४९८॥



दैवासुरं च संग्रामं पश्येदद्भुतदर्शनम्।

शस्त्रं मूर्च्छयते तत्र तस्करैश्चापि पूर्ववत्॥ ४९९॥



कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।

परचक्रात्तदा विद्यादत्यर्थं तत्पराजयम्॥ ५००॥


देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।

अश्रूणि पातयेयुर्वा तद विद्यान्महद्भयम्॥ ५०१॥



देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।

चलेयुरथवा यत्र क्षितिपोऽन्यो भवेत्तदा॥५०२॥



शिवलिङ्गं यदा कम्पेद्गगने वाथ दृश्यते।

निमज्जते धरण्यां वा ध्रुवं राजवधो भवेत्॥५०३॥



प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।

प्रश्विद्येयुः प्रधावेयुरन्यो राजा भविष्यति॥ ५०४॥



अचलो वा चलेत्स्थानाच्चलं वाप्यचलं भवेत्।

अमात्यो हन्ति राजानं कलहं चात्र निर्दिशेत्॥ ५०५॥



वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।

अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्भयम्॥५०६॥



वर्षते कुसुमं यत्र रक्तबिन्दुमथापि वा।

प्राणिनो विविधान् वापि विद्याच्चौरभयं तदा॥ ५०७॥



यूपाः पुराणा निगमा देवागाराणि चेतियाः।

नगराण्यथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥५०८॥



इन्दुर्वा दीपवृक्षि वा दीपो यत्र न दीप्यते।

राज्यकामः कुमारो वा क्षुभ्येद्विटपकोऽपि वा॥५०९॥



अन्तःपुरे यदा नीडं कुर्वते मधुमक्षिकाः।

अस्त्रं वापि गृहं दह्याद् राज्ञो व्यसनमादिशेत्॥५१०॥



पतेदन्तःपुरे विद्युद् वृक्षो वाप्याश्रमे तथा।

पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥५११॥



प्राकारे वायुधागरे गोपुरास्थानकेषु वा।

वायसः कुरुते नीडं सामात्यो ध्वंसते नृपः॥ ५१२॥



अनाहतेभ्यस्तूर्येभ्यः स्वयं शब्दो विनिश्चरेत्।

स्वचक्रक्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥५१३॥



मांसशोणितवर्षं वा पत्रपुष्पफलानि वा।

यदाभिवर्षेत्तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥५१४॥



मधुफाणितपुष्पाणि गन्धवर्षाण्यथापि वा।

दिशो दाहाश्च दृश्येयुर्मारदुर्भिक्षलक्षणम्॥ ५१५॥



मेघः समन्ततो गर्जेदुपवर्षेत्सचातकम्।

शोणितं सकरकं स्यात्तदा विद्यात्पराद्भयम्॥५१६॥



विद्युच्च पतते घोरा करकाणां च वर्षणम्।

गन्धर्वनगरं चाथ दृष्ट्वा विद्यान्महद्भयम्॥ ५१७॥



शशी शोणितसंकाशो मध्ये कृष्णो विवर्णवान्।

सामन्तकेन पीड्यते विद्याद्राष्ट्रे महद्भयम्॥५१८॥



प्रदीपिताग्निसंकाशो यदा दृश्येत चन्द्रमाः।

गगनं दह्यते तत्र लोकपीडा ज्वरेण च॥ ५१९॥



यदा गैरिसंकाशः क्षिप्रमेवोपशाम्यति।

वर्षणस्यागमो विद्याद्यदि वायुः प्रवायते॥५२०॥



संध्यायां धूम्रवर्णायां दृश्येतेन्दुश्च भास्करः।

विच्छिन्नो ब्रह्मरूपेण वर्षं तत्र विनिर्दिशेत्॥५२१॥



नाप्सु मज्जति नाप्यग्नौ पूर्ववच्च न दृश्यते।

अग्निरुत्पत्स्यते तत्र कोष्ठागारं दहेत सः॥ ५२२॥



ध्वजाग्रे वायसो यत्र लम्बपक्षो विधावते।

उदकं संहरेत्क्षिप्रमग्नितः सुमहद्भयम्॥५२३॥



जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयम्।

अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्भयम्॥५२४॥



पुरद्वारे यदागच्छेत्स्वयमारण्यको मृगः।

चक्रद्वयेऽपि द्रुभैक्षं राष्ट्रे रोगं च निर्दिशेत्॥५२५॥



त्रिशीर्षः पञ्चशीर्षो वा यदा सर्पोऽथ दृश्यते।

अनावृष्ट्या तदा विद्यात्सर्वशस्यं विनश्यति॥५२६॥



कुशूलो यत्र दृश्येत कम्पयंस्तु वसुंधराम्।

कोष्ठागाराणि नश्येयुर्ये चान्ये धनसंचयाः॥५२७॥



सर्प उच्यतशीर्षस्तु युध्यते पुरुषैः सह।

चक्रद्वयाद्रोगतश्च विद्यात्तत्र महद्भयम्॥५२८॥



बिल एकत्र बहवः सर्पाः सुपरिवेष्टिताः।

शस्त्रमृत्युं तदा विद्यात् क्षत्रियाणां महद्भयम्॥५२९॥



निश्चरन्त्यबधानेन खड्गाः प्रज्वलिता यदा।

ततस्तं नचिरात्पश्येसंग्रामं प्रयुपस्थितम्॥ ५३०॥



काकः श्येनश्च गृध्रो वा यस्य नीयते मूर्धनि।

षण्मासाभ्यन्तरे राजा म्रियते सुपरोहितः॥ ५३१॥



प्रासादाश्च प्रकम्पन्ते शरणानि गृहाणि च।

महाबलं च वध्येत राष्ट्रस्य राजपालकः॥ ५३२॥



वज्रोद्धृता दिशः सर्वाः कृष्णपक्षे चतुर्दिशम्।

वर्षेयुः शोणितं यत्र क्षितिपालोऽत्र वध्यते॥५३३॥



सूर्यस्योदयकाले तु महोल्का निपतेद्यदा।

राजपुत्रसहस्राणां भूमिः पास्यति शोणितम्॥ ५३४॥



वृक्षाः सर्पाः प्रकम्पेयुर्मुच्येयुस्त्वचो वा तथा।

सर्वस्मिन्नेव राष्ट्रे तु विद्याच्छत्रुभयं महत्॥ ५३५॥



दिने ह्युल्काप्रयुक्तिर्वा ज्वलन्ती यदि दृश्यते।

रक्तोत्पादं तदा विद्यात्संग्रामं भीमदर्शनम्॥५३६॥



असिं प्रज्वलितं पश्येत्तोमरं चक्रमेव च।

विद्यात्पश्यन्ति शस्त्राणि संग्रामं भीमदर्शनम्॥ ५३७॥



दीर्घमुच्छ्वसते वाश्वः अश्रूणि च निपातयेत्।

पादेन कर्षते शीघ्रं युद्धे राजवधो ध्रुवम्॥ ५३८॥



काकश्चेद् गृहमारुह्य हा पुत्र इति वाशति।

सर्वः प्रणश्यते देशो नगरग्रामकर्वटः॥ ५३९॥



अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।

विनाशं तस्यं देशस्य नियमाच्छीघ्रमादिशेत्॥५४०॥



आरवन्ति यदा घोरं मेघा वृकमृगास्तथा।

विनाशं तस्य देशस्य विद्याच्छीघ्रमुपस्थितम्॥ ५४१॥



छिन्नस्त्रोता भवेन्नद्यश्चिरकालवहा अपि।

गृहाः शून्योदकेनापि शुष्कास्तत्र भयं भवेत्॥५४२॥



प्रतिस्रोता यदा नद्यो वहन्त्यप्रतिवारिताः।

नित्योद्विग्ना नजपदा निर्दिशेच्च जनक्षयम्॥५४३॥



धनूंष्याकृष्यमाणानि धूमायन्ति ज्वलन्ति च।

अन्याद्वापि प्रहरणं परेभ्यो जायते भयम्॥ ५४४॥



मयूरग्रीवसंकाशः परिवेशो निशाकरे।

विद्याद्राजसहस्राणां मही पास्यति शोणितम्॥ ५४५॥



नराणां प्रमदानां च रतिहर्षो न जायते।

सर्वत्र शोकचिन्ता वा महत्तत्र भयं भवेत्॥ ५४६॥



निर्ग्रन्था ऋषयः सन्तो देशात्प्रक्रमेयुर्यतः।

नदीं भित्त्वा निकुञ्चान् वा स देशो नश्यतेऽचिरात्॥ ५४७॥



यत्रौषध्यश्च विरसा जलं च परिहीयते।

विद्याद्देशं तमुत्सृष्टं देवता-ऋषिसाधुभिः॥ ५४८॥



मत्स्याः कूर्माश्च सर्पाश्च म्रियन्ते यत्र जाङ्गलाः।

धनस्कन्धः स्त्रियास्तत्र सपत्नैर्विप्रलोप्स्यते॥५४९॥



अपूर्वाः पक्षिणो यत्र स्थले वारिणि एव वा।

दृश्येयुः परचक्रेण धनस्कन्धो विलोप्स्यते॥ ५५०॥



महापथो यदा कक्षैः प्रसृतैरपथो भवेत्।

सग्रामकर्वटं राष्ट्रं पुत्रेण सह नश्यति॥ ५५१॥



नानोत्पातचक्रनिर्देशो नामाध्यायः।



पठ भोस्त्रिशङ्को पुरुषपिन्याध्यायम्। अथ किम्। कथयतु भगवान्-अथ खलु भोः पुष्करसारिन् पुरुषपिन्याध्यायं व्याख्यामि। तच्छ्रूयताम्। कथयतु भगवान्-



अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि, यानि चन्द्रसूर्यनिःसृतान्यनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुलप्रमाणया द्वादशाक्षगृष्टयः श्वशरीरं दैर्घ्येण ज्ञातव्यम्। एकाक्षगृष्टिः शीर्षमूर्ध्नि एकपादतलं भवेत्। चातुर्दशगृष्टयो नक्षत्राणां पदं यत्र संदृश्यन्ते, तदन्यथा न भवति। नक्षत्रे यत्र यो जातस्तत्र तत्र संदृश्यते॥



पुरुषपिन्यः।



कृत्तिकायां हि जातस्य मुखे वै चतुरङ्गुलः।

पिन्यो दक्षिणतो यस्य लोमशः कृष्ण्लोहितः॥ ५५२।



भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।

कृत्तिकास्वथ जातस्य भवत्येतद्धि लक्षणम्॥ ५५३॥



दृश्यते व्रण एवायं यस्य वै चतुरङ्गुलः।

रोहिण्यां जातकः सोऽपि विद्वान् धर्मरतः सदा॥ ५५४॥



मण्डितो भोगसंपन्नो ह्रीयुक्तश्चापि सर्वतः।

शूरो विजयसंपन्नो नित्यं शत्रुप्रमर्दकः॥ ५५५॥



ग्रीवायामर्धगृष्ट्या तु दाहो यस्य प्रदृश्यते।

मृगशीर्षे ह्यसौ जातः शूरो भोगसमर्पितः॥५५६॥



अर्धद्वितीयगृष्ट्या तु पिन्यो वामे हि यस्य तु।

आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश्च सः॥५५७॥



वामे कक्षे व्रणो यस्य कृष्णश्चैव पुनर्वसौ।

धनधान्यसमृद्धो हि जायते स्वल्पमेधसः॥५५८॥



तथैव पुष्ये जातोऽसौ दृश्यते वरलक्षणः।

चक्रमध्ये च हस्ते च सूर्यश्चन्द्रो विराजते॥५५९॥



अर्धप्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।

परिमण्डलश्च कायेन जितक्लेशोऽपि नायकः॥५६०॥



हृदये यस्य दाहः स्यादाश्लेषायां कलिप्रियः।

दुःशीलो दुःखसंवासो मैथुनाभिरतश्च सः॥५६१॥



अध उरसि पृष्ठे वा यस्य व्रणः प्रदृश्यते।

मघायां धनवान् जातो महात्मा धार्मिको नरः॥ ५६२॥



नाभ्यां दक्षिणवामाभ्यां व्रणो यस्य प्रदृश्यते।

पूर्वफाल्गुनीजातोऽसौ मत्सरी चाल्पजीवितः॥ ५६३॥



चतुरङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।

उत्तरफाल्गुनीजातो भोगशीलः श्रुतोद्यतः॥ ५६४॥



श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।

चौरः शठश्च मायावी मन्दपुण्योऽल्पमेधसः॥ ५६५॥



व्यञ्जने यस्य पिन्यस्तु दृश्यते नियमेन हि।

चित्राजातः स चेद्रोगी नृत्यगीतरतस्तथा॥ ५६६॥



व्यञ्जनेऽपि च ऊर्ध्वे वा पीतः पिन्यः प्रदृश्यते।

जातः स्वात्यामसौ लुब्धो गुणद्विष्टो ह्यपण्डितः॥ ५६७॥



कुगृष्ट्या यस्य ऊरुभ्यां पिन्यो लोहित एव हि।

आकीर्णो नरनारीभिर्विशाखायां भटोऽग्रणीः॥ ५६८॥



विद्वान् शूरो जितामित्रो नित्यं सौख्यपरायणः।

श्रिया धृत्या च संपन्नोऽच्युतः स्वरुपपद्यते॥ ५६९॥



द्वितीयगृष्ट्यामूरुभ्यामङ्गे यस्य प्रदृश्यते।

शीलवाननुराधायां धर्मभोगसमन्वितः॥५७०॥



अघो यस्येह चोरुभ्यां पिन्यो ज्येष्ठे स जायते।

अल्पायुरप्रियो दुःखी दुःशीलः कृपणस्तथा॥ ५७१॥



जानुभ्यामूर्ध्वतः सूक्ष्मो व्रणो यस्येह दृश्यते।

मूलेन भाग्यवान् जातः स्वगृहं नाशयेल्लघु॥ ५७२॥



पूर्वाषाढासु जातस्य पिन्यः स्याज्जानुमण्डले।

दायको धर्म आसङ्ग्यच्युतः स्वर्गपरायणः॥ ५७३॥



उत्तरायामाषाढायां जातस्य तिलकस्त्रिके।

यदि दृश्येत्स मेधावी भोगवान्स्याज्जनप्रियः॥ ५७४॥



द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।

सत्यप्रियस्तथारोगोऽच्युतः स्वर्गं च गच्छति॥ ५७५॥



धनिष्ठायां च जङ्घायां यस्य पिन्यः प्रदृश्यते।

क्रोधनो मन्दरागश्च प्राज्ञो भोगविवर्जितः॥ ५७६॥



द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।

मूर्खः शतभिषायां तु म्रियते ह्युदकेन सः॥ ५७७॥



अधो जन्घा कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।

परोपतापको मूर्खो दरिद्रश्चौर इत्यपि॥ ५७८॥



कुगृष्ट्या यस्य पिन्यः स्याज्जातो भाद्रपदोत्तरे।

दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः। ५७९॥



उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।

रेवत्यां जायते नीचो नापितः स भवत्यपि॥ ५८०॥



अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।

अरोगो बलवान्नित्यमश्विन्यां जात एव सः॥ ५८१॥



अथ पाणितले पिन्यो भरण्यामक्षयः स्मृतः।

वध्यघातश्च दुःशीलः स्यान्नरकपरायणः॥५८२॥



नक्षत्राणां पदं ह्येतद्येन चर्या प्रजायते।

एतद्धि लोकप्रज्ञानं लोको यत्र समाश्रितः॥ ५८३॥



इति पिन्याध्यायः॥



अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयतु भगवान् त्रिशङ्कुः-



पिटकाध्यायः।



अत ऊर्ध्वं प्रवक्ष्यामि सर्वस्थानगतं पुनः।

स्त्रीणां च पुरुषाणां च पिटकं सर्वकर्मकम्॥५८४॥



लाभालाभं सुखं दुःखं जीवितं मरणं तथा।

प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधताम्॥५८५॥



तत्राभिघातदग्धा वा तिलास्तद्रूपका अपि।

विस्फोटवर्णभेदाश्च पिटकाभिहिताः स्मृताः॥५८६॥



श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।

क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥५८७॥



शूद्राणामसितः श्रेष्ठो विवर्णो म्लेच्छजातिषु।

यदा सवर्णपिटको मूर्ध्नि राजा महान् स्मृतः॥५८८॥



शीर्षे तु धनधान्याभ्यां कान्तये सुभगाय च।

उपघातं भ्रुवोर्विद्यास्त्रीलाभो भ्रुवसंगमे॥५८९॥



अक्षिस्थाने तु पिटकः करोति प्रियदर्शनम्।

अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवम्॥५९०॥



अश्रुपातो ध्रुवं शोकः श्रवणे गोषु नाशकः।

कर्णपीठे विभूषाय नासावंशे तु जातये॥५९१॥



नासागण्डे पुत्रलाभं वस्त्रलाभं ध्रुवं वदेत्।

नासाग्रे जाते नाप्नोति गन्धभोगानभीप्सितान्॥ ५९२॥



उत्तरोष्ठे तथाधरे चान्नपानं शुभाशुभम्।

चिबुके हनुदेशे च धनं गावः सतां श्रियः॥ ५९३॥



गले तु दानमाप्नोति पानमाभरणानि च।

शिरःसंघौ च ग्रीवायां शिरश्छेदनमादिशेत्॥५९४॥



जातोऽयं शिरसो मूले हनुनि च धनक्षयः।

भैक्षचर्या भवेत्संघौ हृद्ये प्रियसंगमः॥ ५९५॥



पृष्ठे तु दुःखशय्यायै अन्नपानक्षयाय च।

पार्श्वे तु सुखशय्यायै स्तने तु सुतजन्यता॥५९६॥



जातेन शिवमाप्नोति न चाप्रियसमागमः।

बाह्वोः शत्रुविनाशाय युक्तं स्त्रीलाभ एव च॥५९७॥



ददात्त्याभरणं जातः प्रबाह्वोः कूर्परे क्षुधा।

मणिबन्धे नियमनमंसाभ्यां हर्ष एव च॥ ५९८॥



सौभगं धनलाभं च जातः पाणौ ददाति च।

पुष्पितो ह्येकदेशे तु दशनेषु नखेषु च॥५९९॥



जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमम्।

जठरे सोमदानाय नाभ्यां स्त्रीलाभमादिशेत्॥६००॥



जघने व्यसनं विद्यान्नार्या दौःशील्यमेव च।

पुत्रोत्पत्तिस्तु वृषणे लिङ्गे भार्या तु शोभना॥६०१॥



पृष्ठान्ते सुखभागित्वं स्फिचि चापि धनक्षयः।

ऊरुजाताश्च पिटका धनसौभाग्यदायकाः॥६०२॥



जानौ शत्रुभयं विद्यात्तथैव च धनक्षयम्।

जानुसंधौ विजानीयान्मेढ्रके ह्यथ जातकैः।

विजयं ज्ञानलाभं च पुत्रजन्म विनिर्दिशेत्॥६०३॥



स्त्रीलाभं वक्षसि चैव भवेदन्यो निरर्थकः।

जङ्घायां परसेवा तु परदेशात्तु भुज्यते॥६०४॥



मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवम्।

परिबाधं स लभते बन्धनं च न संशयः॥ ६०५॥



पार्श्वे गुल्फे च जानीयाच्छस्त्रेण मरणं ध्रुवम्।

अङ्गुलीषु ध्रुवं शोको व्याधिश्चाङ्गुलिपर्वसु।

प्रवासं प्रवसेन्नित्यं तथैवोत्तरपादके॥६०६॥



यस्य पादतले जातस्तथा हस्ततलेऽपि च।

धनं धान्यं सुता गावः स्त्रियो यानानि चाप्नुयात्॥६०७॥



स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलम्।

स्थानस्थे विपुलं दद्यात् फलं नृणां शुभोदयम्॥६०८॥



विवर्णो विपरीतश्च फलं सर्वं प्रयच्छति।

पुंसां मध्ये ये स्निग्धाश्च देशे दक्षिणतश्च ये।

तथा चाभ्यन्तरे चैव स्थाने तु प्रतिपूजिताः॥६०९॥



स्त्रीणां मृदुषु देशेषु वक्र्क्रान्तेषु च पर्वतः।

तत्त्वं विज्ञाय पिन्यानां स्थानं वर्णं च जन्म च॥६१०॥



स्थानास्थानं च मतिमान् विकारं गतिमेव च।

आदिशेत्तु नरः पश्चाद्यथैवं समुदाहृतम्॥ ६११॥



वामभागे तु नारीणां विज्ञेयाः पिटकाः शुभाः।

दक्षिणे तु मनुष्याणां भवन्ति ह्यर्थसाधकाः॥६१२॥



विपरीतास्तु पिटका मोघास्तु बहवः स्मृताः।

यथोक्तानां च संधिस्थाः सर्वे विफलदाः स्मृताः॥६१३॥



सिद्धां ध्रुवा व्रणा भिद्यास्तथा सद्यःकृताश्च ये।

धर्मकीलसमाश्चैव सर्वे ते पिटकाः स्मृताः॥६१४॥



गुणदोषाश्च सर्वेषां तथाप्यन्ये प्रकीर्तिताः।

इत्याह भगवांस्त्रिशङ्कुः शिष्येभ्यो नित्यदर्शनम्॥ ६१५॥



न नखेन न शस्त्रेण नायसेन कथंचन।

काञ्चनेन सुवर्णेन दहेद्विप्रांश्च भोजयेत्॥६१६॥



अयं भोः पुष्करसारिन् पिटकाध्यायनामाध्यायः॥



अथ खलु भोः पुष्करसारिन् स्वप्नाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवान् -



स्वप्नाध्यायः।

शुभाशुभं च स्वप्नानां यत्फलं समुदाहृतम्।

देवताब्राह्मणौ गावौ वह्निं प्रज्वलितं तथा।

यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धते॥६१७॥



यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम्।

सुवर्णं वृषभं चैव कुटुम्बं तस्य वर्धते॥६१८॥



सारसांश्च शुकान् हंसान् क्रौञ्चान् श्वेतांश्च पक्षिणः।

यस्तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते॥ ६१९॥



समृद्धानि च शस्यानि नवाणि सुरभीणि च।

पद्मिनीं पुष्पितां चापि पूर्णकुम्भांस्तथैव च॥६२०॥



प्रसन्नमुदकं चैव पुष्पानि विविधानि च।

यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धते॥ ६२१॥



पाणौ पादेऽथ वा जानौ शस्त्रेण धनुषापि वा।

प्रहारा यस्य दीयन्ते तस्याम्बरोऽभिवर्धते॥ ६२२॥



ताराचन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस्तथा।

यस्तु पश्यति स्वप्नान्ते कुटुम्बं तस्य वर्धते॥६२३॥



अश्वपृष्ठं गजस्कन्धं यानानि शयनानि च।

योऽभिरोहति स्वप्नान्ते महदैश्वर्यमाप्नुयात्॥६२४॥



पतितश्चारुहेद् भूतस्तत्रस्थश्च विबुध्यते।

ऐश्वर्यधनलाभाय नष्टलाभाय निर्दिशेत्॥६२५॥



गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।

तत्रस्थश्च विबुध्येत ऐशर्यमधिगच्छति॥६२६॥



प्रपातं पर्वतं चैव योऽभिरोहति मानवः।

तत्रस्थश्च विबुध्येत ऐश्वर्यमधिगच्छति॥६२७॥



आसने शयने याने शरीरेऽथ गृहे क्षयः।

येषामारोहणं शस्तं तेषामारोहणात्क्षयः।

येषामारोहणाद्दोषास्तेषामारोहणाद् गुणाः॥६२८॥



त्रिसाहस्रं भवेत्कण्ठे दश शीर्षस्य छेदने।

राज्यं शतसहस्रं वा लभते शीर्षभक्षणे॥ ६२९॥



शुष्कां नदीं ह्रदं वापि शून्यागारप्रवेशनम्।

शुष्कोदपानं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३०॥



शृगालं मानुषं नग्नं गोधावृश्चिकसूकरम्।

अजां वा पश्यतः स्वप्ने व्याधिक्लेशं विनिर्दिशेत्॥६३१॥



काकं श्येनमुलूकं वा गृध्रं वाप्यथ वर्तकम्।

मयूरं पश्यतः स्वप्ने तस्य व्यसनमादिशेत्॥६३२॥



नग्नं पश्यति ह्यात्मानं पांशुना ध्वस्तमेव वा।

कर्दमेनोपलिप्तं वा व्याधिक्लेशमवाप्नुयात्॥ ६३३॥



कुष्ठाः स्त्रियोऽथ संलोक्य चैरान् द्यूतकरांस्तथा।

कुशीलांश्चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयम्॥६३४॥



वमिमूत्रपुरीषाणि विरेकं वसानो जनः।

उद्वर्तनं वा कुर्वाणः स्वप्नाते रोगमर्च्छति॥६३५॥



ध्वनं छत्रं वितानं वा स्वप्नान्ते यस्य धार्यते।

तत्रस्थोऽपि विबुध्येत महदैश्वर्यमादिशेत्॥६३६॥



अन्त्रैस्तु यस्य नगरं समन्तात्परिवार्यते।

ग्रसते चन्द्रसूर्यौ तु महदैश्चर्यमादिशेत्॥६३७॥



मनुष्यं भूमिभागं वा स्वप्नान्ते ग्रसते यदि।

ह्रदश्च वा समुद्रोऽयं महदैश्वर्यमाप्नुयात्॥६३८॥



धनुः प्रहरणं शस्त्रं रक्तमाभरणं ध्वजम्।

कवचं वा लभेत्स्वप्ने धनलाभं विनिर्दिशेत्॥६६९॥



प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयम्।

तोरणं नगरं द्वारं चन्द्रादित्यौ सतारकौ।

स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनमादिशेत्॥६४०॥



उदयं चन्द्रसूर्याणां स्वप्ने दृष्टं प्रशस्यते।

तयोरस्तं गतं दृष्ट्वा राज्ञो व्यसनमादिशेत्॥६४१॥



श्मशानवृक्षयूपं वा नरो यद्यभिरोहति।

वल्मीकं भस्मराशिं वा स्वप्ने व्यसनमादिशेत्॥६४२॥



कृष्णवस्त्रा तु या नारी काली कामयते नरम्।

करवीरस्रजा स्वप्ने तदन्तं तस्य जीवितम्॥६४३॥



तमसि प्रविशेत् स्वप्ने शम्भोर्वा चामरं तथा।

वृक्षाद्वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥६४४॥



वृक्षं काष्ठं तृणं वापि विरुचं यस्तु पश्यति।

स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥६४५॥



दवे वा वर्षते यत्र यत्र चैवाशनिः पतेत्।

भूमिर्वा कम्पते यत्र स्वप्ने व्यसनमादिशेत्॥६४६॥



चन्द्रादित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।

पतितौ पतमानौ वा चक्षुस्तस्य विनश्यति॥६४७॥



काषायप्रावृतां मुण्डां नारीं मलिनवाससम्।

नीलरक्ताम्बरां दृष्ट्वा आयासमधिगच्छति॥६४८॥



त्रपुसीसे अयस्ताम्रलोहरजतमञ्जनम्।

लब्ध्वा तु पुरुषः स्वप्ने धननाशं समर्च्छति॥ ६४९॥



गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।

वादित्रवाद्यमानैर्वा आयासं तत्र निर्दिशेत्॥६५०॥



कर्दमे यदि वा पङ्के सिकतास्ववसीदति।

तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥६५१॥



अष्टापदैरथान्यैर्वा क्रीडेज्जयपराजये।

क्रीडेदकुशलाङ्कैर्वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥ ६५२॥



आसने शयने याने वस्त्रे साभरणे गृहे।

नष्टे भ्रष्टे विशीर्णे वा आयासमाधिगच्छति॥ ६५३॥



सुरामैरेयपानानि सार्करमासवं मधु।

पिबते पुरुषः स्वप्ने आयासमाधिगच्छति॥६५४॥



प्रसन्नेऽम्भसि चादर्शे छायां पश्यति नात्मनः।

उत्पद्यते ध्रुवं तस्य स्कन्धन्यासो न संशयः॥६५५॥



अभीक्ष्णं वर्षते देवो जलं पांशुमथापि वा।

अङ्गारं वापि वर्षेत मरणं तत्र निर्दिशेत्॥ ६५६॥



जनघातं विजानीयात्तत्र देशे महाभयम्।

रज्जुजालेन वा स्वप्ने परचक्राद् विनिर्दिशेत्॥६५७॥



उदकेन समन्ताद्वै नगरं परिवार्यते।

जालेनान्येन वा स्वप्ने परचक्रोद्गमो भवेत्॥६५८॥



तैलकर्दमलिप्ताङ्गो रक्तकण्ठगुणो नरः।

गायते हसते चैव प्रहारं तस्य निर्दिशेत्॥६५९॥



यं कृष्णवसना नारी आर्द्रा वा मलिनाथ वा।

परिष्वजेन्नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥६६०॥



कृष्णसर्पो यदि स्वप्ने ह्यभिरोहति यं नरम्।

गात्राणि वेष्टयेद्वापि बन्धनं तस्य निर्दिशेत्॥६६१॥



लताभिः स्थाणुवृन्दैर्वा यन्त्रैर्वा परिवार्यते।

स्वप्नान्ते पुरुषो यस्तु बन्धनं तस्य निर्दिशेत्॥६६२॥



यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।

यस्य छिद्येरन् स्वप्नान्ते बन्धनात्स विमुच्यते॥६६३॥



विषमाणि च निम्नानि पर्वतान्नगराणि च।

यस्तु पश्यति स्वप्नान्ते क्षिप्रं क्लेशाद्विमुच्यते॥६६४॥



पूतना वा पिशाचा वा दुश्चला मलिनाथ वा।

एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥६६५॥



सुस्नातं च सुवेशं च सुगन्धं शुक्लवाससम्।

पुरुषं वाथ नारीं वा दृष्ट्वा स्वप्ने महत्सुखम्॥६६६॥



तृणं वृक्षमथो काष्ठं विरूढं यत्र दृश्यते।

गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्यक्षयो भवेत्॥६६७॥



भद्रासने वाभ्यासीनो शयने वा सुसंस्कृते।

नरो वा लभते नारीं नारी वा लभते नरम्॥६६८॥



नरः शुक्लमथो वस्त्रं शुक्लगन्धानुलेपितम्।

स्वप्नान्ते यस्तु पश्येत् स्त्रीलाभं तस्य निर्दिशेत्॥६६९॥



यस्तु ह्यन्नानि पश्येत् भूषणं निगडैस्तथा।

नरस्तु लभते भार्यां नारीं वा लभते पतिम्॥६७०॥


मेखलां कर्णिकां मालां स्त्रीणामाभरणानि च।

लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिम्॥६७१॥



कुञ्जरं वृषभं नागं चन्द्रादित्यौ सतारकौ।

अभिवन्देत या नारी पतिं सा लभतेऽचिरात्॥६७२॥



एषामन्यतमः कुक्षौ प्रविशेच्च यदि स्त्रियाः।

सा काले सर्वपूर्णाङ्गं श्रीमत्पुत्रं प्रसूaयते॥६७३॥



फलानि च समग्राणि वनानि हरितानि च।

स्वप्नान्ते लभते नारी श्रीमत्पुत्रं प्रसूयते॥६७४॥



उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलम्।

लब्ध्वा नारी तु स्वप्नान्ते श्रीमत्पुत्रं प्रसूयते॥६७५॥



उपायनसूत्रयोरन्तः सज्जं तत्र तु पिण्डकम्।

स्वप्ने या लभते नारी सापि पुत्रं प्रसूयते।

यमं तु भाजनं चापि यमं तु सा प्रसूयते॥६७६॥



म्लायन्तीमथ ग्रीष्मान्ते तरुणीमात्मिकामपि।

शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्षमरणं भवेत्॥६७७॥



बाहवो यस्य वर्धन्ते चक्षुरङ्गुलयोपि वा।

ज्ञातयस्तस्य वर्धन्ते शत्रूणां मरणं भवेत्॥६७८॥



बध्यन्ते बाहवो यस्य चक्षुश्च व्याकुलं भवेत्।

बाहुर्वा प्रपतेद्यस्य स्वपक्षमरणं भवेत्॥६७९॥



देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।

स्वप्ने प्रयच्छते यस्याः पुत्रस्तस्याः प्रजायते॥६८०॥



अपकृष्टो रुदन् यो वा नग्नोऽथ मलिनः कृशः।

क्रोधं वा ..................विनिर्दिशेत्॥६८१॥



चर्म यन्त्रं गणितं वा कीलं वाथ किलाटकम्।

स्वप्ने लब्ध्वा च प्राप्नु (जानी) याद् ध्रुव वस्त्रागमो भवेत्॥६८२॥



अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।

स्वप्ने यथा ते जल्पन्ति स तथार्थो भविष्यति॥६८३॥



.................. ..पूर्वविचिन्तितम्।

यच्चानुस्मरते दृष्ट्वा यच्चापि बहु पश्यति॥६८४॥



अभ्युत्थितो यथा मार्गे स्वप्नान्ते प्रतिबुध्यते।

विषमं वा तथाध्वानं छिद्रं वा प्रतिपद्यते॥६८५॥



अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।

गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥६८६॥



निर्मलं गगनं शस्तं समेधं न प्रशस्यते।

प्रसन्नमुदकं शस्तं कलुषं न प्रशस्यते॥६८७॥



अध्वानं गमनं शस्तं न क्कचित्संनिवर्तनम्।

स्वर्णदर्शनं शस्तं धारणं न प्रशश्यते॥६८८॥



मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।

मद्यस्ये दर्शनं शस्तं पानं तु न प्रशस्यते॥६८९॥



पृथिवी हरिता शस्ता विवर्णा न प्रशस्यते।

यानस्यारोहणं शस्तं पतनं न प्रशस्यते॥ ६९०॥



स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।

प्रच्छन्नदर्शनं शस्तं नग्नं नैव प्रशस्यते॥ ६९१॥



माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।

गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥६९२॥



मृदुः प्रशस्यते वतो नातिवातः प्रशस्यते।

व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।

पर्वतारोहणं शस्तं न तु तत्रावतारणम्॥६९३॥



धूम्रा घना दुन्दुभिशङ्खशब्दो

वातोऽभ्रवृष्टिश्च तथा समन्तात्।

सर्वस्थिराणां च चलश्च यः स्या-

द्ये चान्तरे दोषकृता विकाराः॥ ६९४॥



पूर्वेषु रूपेषु यथावदिष्टा

राजर्षयो देवगणाश्च सर्वे।

यद् ब्राह्मण गात्रविकर्तनं च

एतानि सर्वाण्यपि शोभनानि॥६९५॥



यत्पूर्वरूपेषु भवेत्प्रशस्तं

दुःस्वप्नमेतानि शमं नयन्ति।

गावः प्रदानं द्विजपूजनं च

दुःस्वप्नमेतेन पराजितं स्यात्॥६९६॥



देवं च यं भक्तिगतो मनुष्य-

स्तं तु परांश्चार्ययितुं यतेत।

स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे

संवत्सरान्तेऽस्य विपाकमाहुः॥६९७॥



षण्मासिकं यच्च भवेद् द्वितीये

षट्पाक्षिकं यत्तु भवेत् तृतीये।

अध्यर्धमासेतरमेव यत्स्यात्

फलेच्चतुर्थे रजनीप्रभाते॥६९८॥



द्विजोत्तमे वा तिलपात्रदानं

शान्तिक्रियाः स्वस्त्ययनप्रयोगाः।

पूजा गुरूणां परिमिष्टमन्नं

दुःस्वप्नमेतानि विनाशयन्ति॥६९९॥



अयं भोः पुष्करसारिन् स्वप्नाध्यायनामाध्यायः॥



अथ खलु भो पुष्करसारिन् अपरमपि स्वप्नाध्यायं व्याख्यास्यामि। तच्छ्रुयताम्। अथ किम्। कथयतु भगवांस्त्रिशङ्कुः-



अपरः स्वप्नाध्यायः।



शुभाशुभानां स्वप्नानां यत्फलं समुदाहृतम्।

निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्त्वतः॥७००॥



जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।

न तु भयं भवेत्तस्य जानीयादेव बुद्धिमान्॥७०१॥



यस्य तु यो भवेच्छत्रुर्यस्य विधेयमिच्छति।

स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर्भविष्यति॥७०२॥



रजन्यां पुरिमे यामे योऽद्राक्षीत्सुखदुःखदम्।

अध्वानं चिरकालेन तथा ह्येष निवर्तते॥७०३॥



मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।

वैमार्गं त्वरितं दृष्ट्वा स्त्रीलाभमभिनिर्दिशेत्॥७०४॥



दृष्ट्वा जलचरान् मत्स्यानेवं जानित बुद्धिमान्।

यत्किंचिदारभिष्यामि क्षिप्रमेव भविष्यति॥७०५॥



चम्पायां वृषणं हस्ते घृषेत्स्वप्नान्तरेषु वा।

प्रतिबुद्धो विजानीयाद् वर्णमेवं भविष्यति॥७०६॥



सर्वाणि खलु पानानि मधुराणि सुखानि च।

यस्तु पिबति स्वप्नान्ते स च लाभैः प्रयुज्यते॥७०७॥



श्वशृगालैर्भक्ष्यतेऽत्र स्वप्ने संपरिवार्यते।

प्रतिबुद्धस्तु जानीयत् शत्रुरेव प्रमूर्च्छति॥ ७०८॥



उपरि काका गृध्राश्च धावन्त्युपरि यान्ति च।

प्रतिबुद्धो विजानीयाच्छत्रुर्मा वधयिष्यति॥७०९॥



यस्य परगृहश्वानो द्वारे मूत्रं प्रकुर्वते।

प्रतिबुद्धो विजानीयाद्भार्या मे जारमिच्छति॥७१०॥



एकश्च धरणौ पादो द्वितीयः शिरसि स्थितः।

प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७११॥



समुद्रं यदि पश्येद्वा पातुमिच्छति तज्जलम्।

प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥७१२॥



वृक्षं पर्वतमारुह्य नागं च तुरंग तथा।

प्रतिबुद्धो विजानीयाद्राज्यलाभो भविष्यति॥ ७१३॥



यस्तु स्वप्नान्तरे पश्येत् पितॄन् यानिह चान्यथा।

तथा माता पिता चैव तस्य जीवन्ति ते चिरम्॥७१४॥



यस्तु स्वप्नान्तरे पश्येत्केशश्मश्रु विकर्तितम्।

प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥ ७१५॥



आननं चोदके दृष्ट्वा मध्येऽग्नौ च विधावितम्।

प्रतिबुद्धो विजानीयात् कुलवृद्धिर्भविष्यति॥७१६॥



धावनं लङ्घनं चैव ग्रामाणां परिवर्तनम्।

प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१७॥



चौराणामपि सामग्रीं स्वप्नान्ते यस्तु पश्यति।

प्रतिबुद्धो विजानीयादात्मानं शातितमिति॥७१८॥



कृष्णसर्पगृहीतं तु स्वप्नान्ते यस्तु पश्यति।

प्रतिबुद्धो विजानीयाच्छत्रिपीडा भविष्यति॥७१९॥



कटकान् कर्णिकाश्चैव हंसकेयूरकुण्डलम्।

यस्तु चाभरणं पश्येद् बन्धुवर्गो भविष्यति॥७२०॥



कुड्ये च गृहप्राकारे धावतीह परस्परम्।

नाविके धनसंयोगे अङ्गते क्षणयं (?) खजः॥७२१॥



यस्तु स्वप्नान्तरे पश्येच्चात्मानमग्नितापितम्।

प्रतिबुद्धो विजानीयाज्ज्वरं क्षिप्रं भविष्यति॥ ७२२॥



राजानं कुपितं दृष्ट्वा आत्मानं मलिनीकृतम्।

प्रतिबुद्धो विजानीयात्कुटुम्बं तस्य नश्यति॥७२३॥



काष्ठभारं तृणं चैव बहुभारमभीक्ष्णशः।

आत्मनः शिरसो दृष्ट्वा गुरुयाधिर्भविष्यति॥७२४॥



यस्तु वानरयुक्तेन गच्छते पुरिमां दिशम्।

प्रतिबुद्धो विजानीयाद्रात्रिरेषा ह्यपश्चिमा॥ ७२५॥



चन्द्रसूर्यौ च संगृह्य पाणिना परिमार्जति।

प्रतिबुद्धो विजानीयादायधर्मागमो हि सः॥७२६॥



सुमनां वार्षिकं (कीं) चैव कुमुदान्युत्पलानि च।

यस्तु पश्यति स्वप्नान्ते दक्षिणीयसमागमः॥७२७॥



ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकम्।

प्रतिबुद्धो विजानीयाद्यक्षा मे ह्यनुकम्पकाः॥७२८॥



रुधिरेण विलुप्तस्य स्नात्वा चैवात्मलोहितैः।

प्रतिबुद्धो विजानीयादैश्वर्याधिसमागमः॥७२९॥



मुद्गमाषयवांश्चैव धान्यं ज्वलनदर्शनम्।

यस्तु स्वप्नान्तरे पश्येत्सुभिक्षं तत्र निर्दिशेत्॥७३०॥



सुवर्णं च तथा रूप्यं मुक्ताहारं तथैव च।

यस्तु स्वप्नान्तरे पश्येन्निधिं तत्र विनिर्दिशेत्॥७३१॥



बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।

प्रतिबुद्धो विजानीयादर्थसिद्धिर्भविष्यति॥७३२॥



अयं भोः पुष्करसारिन्नपरः स्वप्नाध्यायः॥



अथ खलु भोः पुष्करसारिन् मासपरीक्षानामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। कथयतु भगवांस्त्रिशङ्कुः -



मासपरीक्षा।



यदि फाल्गुने मासे निर्घोष उपरि भवेत्, मनुष्याणां मरणं चोदयति। नवचन्द्रो होलिताभासो दृश्यते, सर्वसस्यानुत्पत्तिं चोदयति। यदि देवो गर्जति, प्रथमं महासस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति॥



यदि चैत्रे मासे देवो गर्जति, तदा सर्वसस्यमुत्पत्तिं चोदयति। यदि चन्द्रग्रहो भवति, महान् संनिपातो भवति। शून्यानि ग्रामक्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥



यदि वैशाखे मासे देवो गर्जति, सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्रग्रहो भवति, क्षेमं चोदयति। यदि चोल्कापातो भवति, यस्मिंश्च जनपदे निपतति, तत्र देशे प्रधानपुरुषस्य विनाशो भवति। यदि भूमिचालो भवति, सुभिक्षं चोदयति॥



यदि ज्येष्ठे मासे देवो गर्जति, रोगं चोदयति। यदि सूर्यग्रहो भवति, मनूष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शन्खे यदि चन्द्रस्य सूर्यस्य किंचिन्निमित्तं लक्ष्यते, तदा क्षेमं चोदयति। यदि मध्यरात्रौ चन्द्रग्रहो भवति, मनुष्याणामन्योन्यघातं चोदयति। यदि चोपरि निर्घोषो भवति, अध्यक्षपुरुषस्य पीडां चोदयति, परचक्रागमं चेति॥



आषाढे मासे यदि सूर्यग्रहो रुचिराभासो भवति, सुभिक्षं चोदयति। यदि चन्द्रग्रहो भवति, रोगं चोदयति। यदि विद्युन्निश्चरति, कल्याणं चोदयति। यदि नीहारं भूमिं छादयति, सुभिक्षं चोदयति॥



श्रावणमासे यदि सूर्यग्रहो भवति, राज्यं परिवर्तते। यदि चन्द्रग्रहो भवति, प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभनशस्यनाशो भविष्यति। यदि तारका यत्र देशे पतन्ति, तत्र युद्धं चोदयति। यदि चातिशयं भूमिचालो भवति, रोगं चोदयति। यदि निर्घोषो भवति, तत्र गृहे यो गृहस्वामी भवति तस्य विनाशं चोदयति। अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यम्। आवाहो विवाहो न कर्तयः। परिभूतो भवति॥



यद्याश्वयुजे मासे देवो गर्जति, मनुष्याणां विनाशनं चोदयति। यदि सूर्योपरागो भवति, महापुरुषविनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते, सुभिक्षं चोदयति। यदि भूमिचालो भवति, आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्तीति चोदयति॥



यदि कार्तिके मासे देवो वर्षति, महदाकुलं चोदयति। प्राणकाश्च धान्यं खादिष्यन्ति। यद्येकान्तरूपं वातो वाति, तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महात्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति, महावर्षं भवति। महापुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति॥



यदि मार्गशीर्षे मासि देवो गर्जति, शस्यविनाशो भवति। अन्यश्च तत्र स्वामी भवति। यदि चाकाशे निर्घोषो भवति, यत्पूर्वभागीया मनुष्यास्तेषामामयं चोदयति। यदि भूमिचालो भवति, यस्तत्र जनपदे प्रधानपुरुषः स वधान्मोक्ष्यति॥



यदि पौषे मासे देवो गर्जति, प्रथमे यामे जनपदनाशो भवति। द्वितीये महात्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्रोपरागो भवति लोहितवर्णश्च दृश्यते, उदकागमं चोदयति। महात्ममनुष्यं चोदयति। यदि सूर्यग्रहो भवति, शुद्धपुरुषाणां रणम्। यदि तारकाः पतन्त्यो विदृश्यन्ते, तत्र जनपदे आकुलं चोदयति। यद्याकाशे निर्घोषो भवति, मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति, मनुष्याश्चौरैर्हन्यन्ते। यद्यत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृश्यते, सस्यं संचोदयति। यदि भूमिचालो भवति, मनामनुष्यस्य मरणं भवति। अत्रैव मासे देवस्थानं कर्तव्यम्। वृक्षा रोपयितव्याः। मूलवास्तु प्रतिष्ठापयितव्यम्॥



अयं भोः पुष्करसारिन् मासपरीक्षानामाध्यायः॥



अथ खलु भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ् अकिम्। कथयतु भगवान् त्रिशङ्कुः -



खञ्जरीटकज्ञानम्।



खञ्जरीटकशास्त्रं वै पर्वते गन्धमादने।

कुचरैर्दृश्यते सौम्य कुचरस्य महाभयम्॥७३३॥



याति तानि निमित्तानि दर्शयेत्खञ्जरीटकः।

प्रचरतो भवेद् दृष्ट्वा पञ्चोत्तरपदो द्विजः॥७३४॥



तत्र सर्वे प्रवर्तेयुर्यत्र तेषु भवेद्भवेत्।

शाद्वले बहुचेलत्वं गोमयेषु प्रबन्धता॥७३५॥



कञ्चारे बहुचेलत्वं कर्दमे बहुभक्षता।

कृकरे स्वल्पचेलत्वं पुरीषे तु कृशं श्रवः॥७३६॥



भस्मे विवादमफलं वालुकायां तु संभ्रमः।

देवद्वारे तु संमानं पद्मेषु बहुवित्तता।

फलेऽर्थानुगुणं प्रोक्तं पुष्पेषु प्रियसंगमः॥७३७॥



भयं प्राकारशृङ्गेषु कटकेष्वरिदर्शनम्।

पक्षया चरते व्याधिः पतिते मृत्युमादिशेत्॥७३८॥



सुगन्धतैलभूतानि मैथुने निधिदर्शनम्।

वृक्षाग्रे विद्यते पानं गृहेष्वथ .... .. लसः॥७३९॥



देशभङ्गप्रवादे च बन्धनं विग्रहीकृते।

अमृतं च स्थितं दृष्ट्वा ओदनं नात्र संशयः॥७४०॥



गवां पृष्ठे ध्रुवं सिद्धिरश्वपृष्ठे जयः।

अविकानामजानां च पृष्ठे सर्वत्र शस्यते॥७४१॥



उष्ट्रपृष्ठे ध्रुवं क्लेशः श्वानपृष्ठे च विद्रवः।

पृष्ठे च गर्दभस्येह मरणं नात्र संशयः॥७४२॥



कीले तु मरणं विद्याद् यूपाग्रे च न संशयः।

कुम्भस्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥७४३॥



अन्तरीक्षे प्रडीनं तु अफलं तु विनिर्दिशेत्।

दृष्ट्वा समागतं वासं प्रहृष्टं खञ्चरीटकम्।

यथास्थानं यथावर्णं मनुष्याणां विनिर्दिशेत्॥७४४॥



विषमे स्वल्पकक्षेषु प्रसक्तः कलहो भवेत्।

समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।

नद्यां तु शैलवाहिन्यां प्रवासमभिनिर्दिशेत्॥७४५॥



काष्ठेषु नातिका चिन्ता तथास्थिषु धनक्षयः।

यां दिशं समुदागच्छत् पञ्चोत्तरपदः खगः।

तां दिशं गमनं विद्याद्यथा तस्य तथा पुनः॥ ७४६॥



कीटा वाथ पतङ्गा वा भयं यदिह दृश्यते।

प्रचुरापि यदाज्ञेया नरस्यास्थीनि निर्दिशेत्॥७४७॥



अपां समीपे गजमस्तके वा

सूर्योदये ब्राह्मणसंनिधौ वा।

मुख्यप्रकाशेऽप्यहिमस्तके वा

यः पश्यते खञ्जनकं स धन्यः॥७४८॥



मातङ्गराजो मतिमांस्त्रिशङ्कुः

प्रोवाच तत्त्वं खञ्जनं च शास्त्रम्।

स्निग्धे सरूक्षे विषमे समे च

आदेशयेद् दोषगुणैर्यथोक्तैः।

तमादिशेत्तत्र समीक्ष्य विद्वान्

शुभाशुभं तत्फलमादिशेच्च॥७४९॥



अयं भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् शिवारुतं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवान् त्रिशङ्कुः -



शिवारुतम्।



नमः सर्वेषामार्याणाम्। नमः सर्वेषां सत्यवादिनाम्। तेषां सर्वेषां तपसा वीर्येण च इमं शिवारुतं नामाध्यायं व्याख्यास्यामि। इत्याह भगवांस्त्रिशङ्कुः। शाण्डिल्यमिदमब्रवीत्। यादृशं च यथा वाशेत्तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत्, शिवा पूर्वमुखं स्थित्वा त्रीन् वारान् वाशेत्, वृद्धि निवेदयति। चतुरो वाचान् यदि वाशेत्, अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेत्, वर्षां निवेदयति। षड्वारान् वाशेत्, परचक्रभयं निवेदयति। सप्तवारान् वाशेत्, बन्धनं निवेदयति। अष्ट वारान् वाशेत्, प्रियसमागमं निवेदयति। अभीक्ष्णं वाशेत्, परचक्रभयं निवेदयति। इत्याह भगवांस्त्रिशङ्कुः॥



दक्षिणायां दक्षिणमुखं स्थित्वा त्रिवारान् वाशेत्, 'अतृ अतृ" कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति, दक्षिणमुखं स्थित्वा दक्षिणाया एव दिशायाः प्रियसमागमं निवेदयति। अर्थलाभं च निवेदयति। पञ्चवारान् वाशेत्, अर्थं निवेदयति। षड्वारान् वाशेत्, सिद्धिं निवेदयति। सप्तवारान् वाशेत् विवादकलहं निवेदयति। अष्टवारान् वाशेत्, भयं निवेदयति। अभीक्ष्णं वाशेत्, आकुलं निवेदयति। इत्याह भगवांस्त्रिशङ्कुः॥



पश्चिमायां पश्चिमाभिमुखं स्थित्वा शिवा त्रिवारान् वाशति, मरणं निवेदयति। चतुर्वारान् वाशति, बन्धनं निवेदयति। पञ्चवारान् वाशति, वर्षं निवेदयति। षड्वारान् वाशति, अन्नपानं निवेदयामि। सप्तवारान् वाशति, मैथुनं निवेदयति। अष्टवारान् वाशति, अर्थसिद्धिं निवेदयति। अभीक्ष्णं वाशति, महामेघं निवेदयति। इत्याह भगवांस्त्रिशङ्कुः॥



उत्तरस्यां दिशि उत्तराभिमुखं स्थित्वा त्रिवारान् वाशति, पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति, राजप्रतिभयं निवेदयति। पञ्चवारान् वाशति, विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति, वर्षां निवेदयति। अष्टवारान् वाशति, राजकुलदण्डं निवेदयति। अभीक्ष्णं वाशति, यक्षराक्षसपिशाचकुम्भाण्डभयं निवेदयति। इत्याह भगवांस्त्रिशङ्कुः॥



दिशि विदिशि चैव गिरिप्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। "अमूं तुष्येत् पिपासार्तां विद्यासिद्ध्यै तथैव च"।



विद्यालम्भं धनलम्भं निर्दिशेच्च विचक्षणः।

तीर्थाकारवृक्षमूले वाशती यदि दृश्यते॥७५०॥



सर्वत्र सिद्धिं निर्दिशेत्। न च शृगालभये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यम्। गन्धपुष्पोपहारेण शुश्रूषा कर्तव्या। एवमर्च्यामाना सर्वसिद्धिं निवेदयिष्यति। एवं "सर्वेऽर्थास्तस्य सिध्यन्ति त्रिशङ्कोर्वचनं यथा"। क्रौष्ट्रिको यदि वाशति, अर्थलम्भं निवेदयति। अधोमुखो यदि वाशति, निधानं तत्र निवेदयति। ऊर्ध्वमुखो यदि वाशति, वर्षां तत्र निवेदयति। द्विपथे यदि वाशति, पूर्वमुखं स्थित्वा अर्थलाभं निवेदयति। दक्षिणाभिमुखो यदि वाशति, यथाप्रियमासमागमनं निवेदयति। द्विपथे पञ्जिमाभिमुखो यदि वशति, कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति, अर्थं तत्र निवेदयति। शाद्वले यदि वाशति, अर्थसिद्धिं निवेदयति। अतिमृदुकं यदि वाशति, व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति, अर्थमनर्थं च निवेदयति। त्रिभिर्वारैरर्थं चतुर्भिरनर्थं पञ्चभिः प्रियसमागमं षड्‌भिर्भोजनं सप्तभिर्भयमष्टभिर्विग्रहं विवादं च। इत्याह भगवांस्त्रिशङ्कुः॥



"अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे"। नानाहारे यदि वाशति, मार्गे संस्थितस्त्यापि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुष्य शिवा वाशति वा, या पूर्वमुखं स्थित्वा क्षिप्रगमनमर्थसिद्धिं निवेदयति। अथ दक्षिणमुखं वाशति, या अर्थसिद्धिं निवेदयति। पञ्चान्मुखं वाशति, भयं निवेदयति। अथोत्तरमुखं वाशति, अर्थलाभं निवेदयति। अथ संप्रस्थितस्य वाशति, या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति, यदि दक्षिणामुखा एव दिशः कर्मसिद्धिं च निवेदयति। पश्चिमतो यदि वाशति, चौरतोऽहितमस्य दुःखदौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति, महाव्याधिमनर्थं चौरा मुषन्ति तन्निवेदयति। ग्लानस्य यदि वाशति, दक्षिणमुखं, "न स चिकित्सितुं शक्यो मृत्युदूतेन दोचितः"। ग्लानस्य यदि वाशति, उत्तरमुखं स्थित्वा आरोग्यधनलाभं च निवेदयति। अथ मूर्ध्ना वाशति, या उपक्लेशंं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते, यमशासनं (निवेदयति)। नानाहारे यदि वाशति, या संक्षोभं निवेदयति। इत्याह भगवांस्त्रिशङ्कुः॥



शिवा पुरतः पुरुषस्य मार्गप्रयातस्य यदि वाशति, या अग्रतः क्षेममार्गं विज्ञापयति। अर्थसिद्धिं निवेदयति। मार्गं व्रजतोऽस्य शिवा वामेनागत्य गच्छते, दक्षिणमुखं क्षेममार्गं विजानीयादर्थसिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेनागत्य पुरतो वाशति, या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः। दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत " न तन्मार्गेण गन्तव्यं त्रिशङ्कुवचनं यथा"। पुरतः शिवा गत्वा अग्रतश्च निषीदति, सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः शिवा पुरत आगत्य वामेन परिवर्तते, ' भयमेतीह' तेनापि भयं जानीयाद्विचक्षणः। सेनायामावाहितायां शिवा वाशति, पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत्पराजयः। सेना न गच्छेत्। सेनायां व्रजमानायां शिवा आगच्छेदग्रतः सेनाजयं निवेदयति। परचक्रपराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्यग्रतः क्षेममार्गं निवेदयति। अर्थसिद्धिं तथैव च। पुरुषस्य पथि व्रजतो वामतो वाशति, मार्गं निवेदयति। "तन्मार्गेण (हि) गन्तव्यं त्रिशङ्कुवचनं यथा।"



"ग्रामस्य नगरस्यापि चैत्यस्थाने तथैव च"। पूर्वेणोत्तरेणापि शिवा वाशति, क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति, या भयं तत्र निवेदयति।



वामतो न प्रशंसन्ति तथैव विदिशासु च।

अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा।

अधरां तु भयं वक्ष्ये त्रिशङ्कुस्वचनं यथा॥ ७५१॥



मधुस्वरां शिवां ज्ञात्वा काले वेले उपस्थिते।

क्षेमं चैवार्थसिद्धिश्च चिन्तितव्यं विचक्षणैः॥७५२॥



व्याधिरुपद्रवाश्च, "सर्वं तु प्रशमं यान्ति त्रिशङ्कुवचनं यथा"। शिवारुतस्योपचारो दिग्विदिशासु निमित्ता ग्रहीतव्याः। यः शिवायां दिवसो भवति, स दिवसो ज्ञातव्यः। पुष्पगन्धमाल्योपहारस्तद्दिवसे उपपादयितव्यः। नित्यं देवतागुरुकेण भवितव्यम्। देव्या गुरुकेण भवितव्यम्। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् संपादयिष्यति। सर्वकार्याणि निवेदयति॥



यत्किंचित्कार्यमारभिष्यति, तत्सर्वं निवेदयति। देव्यै सर्जरसो गुग्गुलु च धूपयितव्यम्। पुष्पबलिश्च यथाकाले दापयितव्यः। इत्याह भगवांस्त्रिशङ्कुः॥



शिवारुतकथनेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।

नम आरण्यायै। चीरिण्यै स्वाहा सर्जरसधूपम्।



अयं भोः पुष्करसारिन् शिवारुतनामाध्यायः।



अथातः पुष्करसारिन् पाणिलेखानामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम् कथयतु भगवांस्त्रिशङ्कुः-



पाणिलेखा।



अथातः संप्रवक्ष्यामि नराणां करसंस्थितम्।

लक्षणं सुखदुःखानां जीवितं मरणं तथा॥ ७५३॥



अङ्गुष्ठमूलमाश्रित्य ऊर्ध्वरेखा प्रवर्तते।

तत्र जातं सुखतरं द्विर्तीया ज्ञानमन्तरे॥७५४॥



तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।

तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्विधाः॥७५५॥



अपर्वसु च पर्वाणि नक्षत्राणामुपद्रवः।

द्विनिःसृतो विशुद्धात्मा जीवेद्वर्षशतं हि सः॥ ७५६॥



त्रिंशत् त्रिभागेन जानीयादर्धे पञ्चाशदायुषः।

सप्ततिस्त्र्यंशभागेषु अत्यन्तानुगते शतम्॥७५७॥



आयुर्लेखा प्रदृश्यैवं व्यन्तरायः प्रकाश्यते।

नक्षत्रसंज्ञया ज्ञेया मनुजैरर्थशस्तथा॥७५८॥



अङ्गुष्ठोदरमार्गे तु यावत्यो यस्य राजयः।

तस्यापत्यानि जानीयात् तावन्ति नात्र संशयः॥७५९॥



दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।

ह्रवायुषं विजानीयाद्ध्रस्वलेखा तु या भवेत्॥७६०॥



अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेत्।

दिवा तु जन्म निर्दिष्टमङ्गुष्ठयवके ध्रुवम्॥७६१॥



अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।

लग्नं पुंसंज्ञको ज्ञेयोऽहोरात्रं विनिर्दिशेत्॥७६२॥



दिवसं जन्म निर्दिशेद् रात्रौ स्त्रीसंज्ञको भवेत्।

रात्रिः संध्या समाख्याता भागैरन्यैर्न संशयः।

पुंसंज्ञादुदयं तेषामहोरात्रान्तिकं वदेत्॥७६३॥



अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।

अश्वाद् भद्रं विजानीयादङ्गुष्ठयवकेष्विह॥७६४॥



यवलामा च मत्स्यः स्यादङ्गुष्ठयवको रतौ।

बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥७६५॥



यस्य स्याद् यवकश्चापि चापो वा स्वस्तिकस्तथा।

तलेषु येषु दृश्यन्ते धन्यास्ते पुरुषा ह्यमी॥७६६॥



मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनम्।

भोगसौभाग्यं जानीयान्मीनादौ नात्र संशयः॥७६७॥



पताकाभिर्ध्वजैर्वापि शक्तिभिस्तोमरैस्तथा।

तलस्थैरङ्कुशैश्चापि विज्ञेयः पृथिवीपतिः।

राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत्॥७६८॥



प्रेक्ष्यन्ते शाखया पञ्च हस्ते चत्वार एव च।

क्षत्रियो वा भवेद् भोगी राजभिश्चापि सत्कृतः॥ ७६९॥



वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः।

शूद्रो विपुलभागी स्यात् पर्वशीलोऽथ नैष्ठिकः॥७७०॥


सततमभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।

विशीलः शीलकुञ्चो वा बहुभिर्न बहुस्तथा॥ ७७१॥



श्यामवर्णाथः भिन्ना वा सा लेखा दुःखभागिनी।

त्रिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करस्थिताः।

महाभोगो महाविद्वान् जीवेद्वर्षशतं च सः॥ ७७२॥



अजपदं राजच्छत्रं शङ्खचक्रपुरस्कृतम्।

तलेषु यस्य दृश्यन्ते तं विद्यात् पृथिवीपतिम्॥७७३॥



भगस्तु भाग्याय ध्वजैः पताकै -

र्हस्त्यश्वमालाङ्कुशतश्च राजा।

मत्स्यो नु पानाय यवो धनाय

वेदिस्तु यज्ञाय गवां च गोष्ठः॥७७४॥



अनामिकापर्व अतिक्रमेद् यदि

कनिष्ठिका वर्षशतं स जीवति।

समे त्वशीतिर्वर्षाणि सप्तभि-

र्यथा नदीनां भरिताय निर्दिशेद्॥७७५॥



शरीरवर्णप्रभवां तु लेखां

सवैशिखां वर्णविहीनकां च।

समीक्ष्य नीचोत्तममध्यमानां

दारिद्र्यमध्ये चरतां विजानताम्॥ ७७६॥



अभ्यञ्जनोद्वर्तनसत्करी (षै)-

रध्यक्षचूर्णैश्च विमृज्य पाणिम्।

प्रक्षाल्य चैकान्तरघृष्टलेखा-

मेकाग्रचित्तस्तु करं परीक्षेत्॥७७७॥



वलयसमनराधिपं भजन्त्यः

समनुगता मणिबन्धने तु तिस्रः।

द्विरपि च (स) भवान्तरे महात्मा

विपुलधनश्रिय आह वस्त्रलाभः॥७७८॥



ददति सततमुन्नतस्तु पाणि-

र्भवति चिराय तु दीर्घपीनपाणिः।

परिपतति शिराविरुद्धपाणि-

र्धनमधिगच्छति मांसगूढपाणिः॥७७९॥



सुदृश (करलतैश्च) साधवस्ते

कुटिलकृतैर्विनिमीलितैश्च धूर्ताः।

भवति रुधिरसंनिभः सुरक्त-

श्चिरमिह पिण्डितपाणिरीश्वरः स्यात्॥७८०॥



धृतरुचिरमनाः शिलारविन्दै-

र्ज्वलनकषायसुवर्णपाणिरा(जिः)।

भवति बहुधनो निगूढपाणि -

श्चिरमिह जीवति पानभोगभोगी॥७८१॥



सुभग इह तथोष्णदीर्घपाणि-

र्ध्रुवमिह शीतलपाणिकस्तु षण्ढः।

इह हि बहुधनो बलेन युक्तः

सुतनुसुसंचितपाणिरेखको यः॥७८२॥



धनमुपनयतीह पाणिलेखा

कृतजनिता जलवच्च या सुदीर्घा।

जलवदनुगता सुवर्णवर्णा

धनमधिगच्छति निग्मशोन्नता या॥७८३॥



धनमुपलभते सुरक्तपाणि-

र्विपुलमथो च निरन्तराङ्गुलिः स्यात्।

बलिपुरुषमपि त्यजेद्धि वित्तं

दितविवशा (?) च विशीर्णवर्णलेखा॥ ७८४॥



अपगतघृतवर्णपाणिलेखो

भवति नरो धनवान् बलेन युक्तः।

असुभृतिसदृशा भवेत्तथा

भूषणवृत (रूपवती शुभा) एकभार्या॥७८५॥



भवति बहुधनो धनैर्विहीनः

श्रुतमधिगम्य विशालपाणिलेखः।

(सु) ऋजुभिरहिनीलनिर्मला (भिः)

करतलराजि (भिरीश्वरः स धन्यः)॥७८६॥



अयं भोः पुष्करसारिन् करतललेखानामाध्यायः॥



अथ खलु भोः पुष्करसारिन् वायसरुतं नामाध्यायं व्याख्यास्यामि। तच्छ्र्यूयताम्। अथ किम्। कथयतु भगवांस्त्रिशङ्कुः। नमोऽर्हताम्। तेषां नमस्कृत्वा -



वायसरुतम्।

इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभाशुभम्।

अयं पराजयं चैव लाभालाभं तथैव च॥७८७॥



सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।

वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥७८८॥



देवाः प्रवदन्ति श्रेष्ठा वायसानां नमो नमः।

आगता मानुषं लोकं वायसा बलिभोजनाः॥ ७८९॥



प्रस्थितस्य यदाध्वानमग्रतो वायसो भवेत्।

व्याहरन् क्षीरिवृक्षस्थो निर्दिशेदर्थसिद्धिताम्॥७९०॥



स्वरेण परितुष्टेन फलवृक्षसमाश्रितः।

पुनरागमनं चैव सिद्धमर्थनिवेदितम्॥७९१॥



विवृद्धवृक्षपत्राणि मधुरं चानुवासति।

असूपं निर्दिशेत् भोज्यं गुडमिश्रं तु गोरसम्॥७९२॥



दृष्टस्तु तुण्डपादेन आत्मनः परिमार्जति।

पायसं सर्पिषा मिश्रं तत्र विद्यान्न संशयः॥ ७९३॥



रूक्षं निर्घर्षते तुण्डं शिरश्च परिमार्जति।

सफलं वृक्षमास्थाय ध्रुवं मांसेन भोजनम्॥ ७९४॥



लोचयति व्याहरति फलवृक्षसमाश्रितः।

व्याधेन च हतं मांसं निवेदयति भोजनम्॥७९५॥



घोरं व्याहरते कार्यं वायसो वृक्षमाश्रितः।

कलहं संग्रामभयं तत्र विद्यान्न संशयः॥ ७९६॥



शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।

कलहं सुमहत् कृत्वा न चार्थं तत्र सिध्यति॥ ७९७॥



क्षीरिवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।

क्रमेण युगमात्रेण न चार्थं तत्र सिध्यति॥७९८॥



शुष्कवृक्षे निषीदित्वा 'कामुकाकं' प्रवाशति।

तत्क्षणं संनिवेदेति तत्र चौरभयं भवेत्॥७९९॥



शुष्कवृक्षे निषिदित्वा 'कामुकाकं' प्रवाशति।

पृष्ठेन दर्शयेद्भारं क्षुधापीडां च निर्दिशेत्॥८००॥



पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।

न तत्र गमनं कुर्याच्चौरैः पथमुपद्रुतम्॥८०१॥



रज्जुं वा फलकं वापि यदि कर्षति वायसः।

न तत्र गमनं श्रेयश्चौरैः पथमुपद्रुतम्॥८०२॥



गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।

कलहः कुवचो व्याधिर्न चार्थं तत्र सिध्यति॥८०३॥



तृणं वा यदि वा काष्ठं दर्शयेच्च सदा खगः।

पुरतः शुष्कपाणिस्तु तत्र चौरभयं भवेत्॥८०४॥



सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत्।

निपतेत् सार्थमध्येऽस्मिन् चौरसैन्यं न संशयः॥ ८०५॥



यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।

शुष्कवृक्षे निषीदित्वा तत्र विद्यान्महाभयम्॥८०६॥



भीतस्त्रस्तः परीतश्च यस्तु व्याहरते खगः।

परिबाधन् दिशः सर्वास्तत्र भयमुपस्थितम्॥८०७॥



गच्छन्तं समनुगच्छेत्पुरः स्थित्वा तु व्याहरेत्।

न तत्र गमनं कुर्यान्मार्गमत्र प्रशातनम्॥८०८॥



वास्तुमध्ये प्रतिष्ठाने क्षामं दीनं च व्याहरेत्।

व्याधिं तत्र विजानीयाद् वासे वा गृहस्वामिनाम्॥८०९॥



शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।

दूरादभ्यागतं ज्ञात्वा प्रसिद्धिं चाभिनिर्दिशेत्॥८१०॥



गर्गरे घटके चैव स्थालिकपिठरेषु वा।

निषण्णो वाशते काकः प्रसिद्धं गमनं ध्रुवम्॥८११॥



आसने शयने वापि स्थितो वाशति वायसः।

प्रसिद्धं गमनं ब्रूयात्प्रोषितेन समागमः॥८१२॥



ब्रह्मस्थाने निषीदित्वा ध्रुवं वाशति वायसः।

अर्थलाभं विजानीयाद्वनलाभं च आकरेत्॥८१३॥



ब्रह्मस्थाने निषीदित्वा क्षामं दीनं च वाशति।

संधिस्थाने हरेच्चौरस्तत्र वै नास्ति संशयः॥८१४॥



देवतादेवतानां च देवस्योपवनानि च।

यस्य वाचं वदेत्तस्य अर्थलाभं विनिर्दिशेत्॥८१५॥



लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।

यस्याहरेत्पुरस्तस्य स्वर्णलाभं विनिर्दिशेत्॥८१६॥



पात्रं च पात्रकं चैव मृत्तिकावरभाजनम्।

यस्य यस्य हरेत्तस्य द्रव्यलाभं विनिर्दिशेत्॥८१७॥



संघीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।

काष्ठं वा वायसा यत्र गृहमारोपयन्ति च।

निगदन्त्यत्र विजानीयाद् यावकात्तु महाभयम्॥८१८॥



नीलं पीतं लोहितं च प्रतिसंहरणानि च।

निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत्॥८१९॥



ग्रामान्ते भयमाख्याति काको वा वाशति ध्रुवम्।

प्रत्येकतो वा वाशन्ति विद्यात्तत्र महाभयम्॥८२०॥



वायसोऽस्थि गृहीत्वा वै प्रगच्छेदनुदक्षिणम्।

निषीदन् सफले वृक्षे स वदेन्मांसभोजनम्॥८२१॥



यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।

अभ्यन्तरे सप्तरात्रान्मरणं तस्य निर्दिशेत्॥८२२॥



करके चोदके चैव स्निग्धदेशेषु वाशति।

ऊर्ध्वमुखं निरीक्षंस्तु जगद् वृष्टिं विनिर्दिशेत्॥८२३॥



स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।

ऊर्ध्वमुखं तथा वक्ति वातवृष्टिं विनिर्दिशेत्॥८२४॥



कायं किलकिलायंस्तु स्निग्धदेशेषु वाशति।

वक्षो विधुन्वन् वायसः सद्यो वृष्टिं विनिर्दिशेत्॥८२५॥



स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।

सक्षरसद्रवं भागं वाशति भोजनं भवेत्॥८२६॥



प्राकारे तोरणाग्रे वा यदि वाशति वायसः।

अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत्॥८२७॥



मण्डलानि वावर्तानि बहिर्वा नगरस्य च।

वैरं च विग्रहं घोरं तत्र चैव विनिर्दिशेत्॥८२८॥



ग्रामे वा नगरे वापि कुर्वते यत्र मण्डलम्।

ऊर्ध्वमुखं वाशन्तो वै विषण्णत्वं समुत्थितम्॥८२९॥



पूर्वेण चैव ग्रामस्य यदा सूयति वायसी।

अल्पोदकेनोत्प्लवन्ति वनानि नगराणी च॥८३०॥



पुरस्ताद्दक्षिणे पार्श्वे यदि सूयति वायसी।

वर्षति प्रथमे मासे पश्चाद्देवो न वर्षति।

कृष्टधान्यानि वर्धन्ते माषधान्यं विनश्यति॥८३१॥



दक्षिणे वृक्षशिखरे यदा सूयति वायसी।

मण्डूककीटकमक्षा चौरश्च बहुलीभवेत्॥८३२॥



पश्चिमोत्तरपाश्व तु यदा सूयति वायसी।

अशनिर्निपतेत्तत्र भयं च मृगपक्षिणाम्॥ ८३३॥



उत्तरे वृक्षशिखरे यदा सूयति वायसी।

पूर्वमुप्तं विजानीयाच्छस्यं समुपजायते॥८३४॥



उपरि वृक्षशिखरे यदा सूयति वायसी।

अल्पोदकं विजानीयात्स्थले बीजानि रोपयेत्॥८३५॥



यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।

मध्यमं वर्षते वर्षं मध्यशस्यं प्रजायते॥८३६॥



स्कन्धमूले तु वृक्षस्य यदा सूयति वायसी।

अनावृष्टिर्भवेद् घोरा दुर्भिक्षं तत्र निर्दिशेत्॥८३७॥



चतुरः पञ्च वा पोतान् यदा सूयति वायसी।

सुभिक्षं च भवेत्तत्र फलानामुदितं भवेत्॥८३८॥



अयं भोः पुष्करसारिन् वायसरुतं नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवान् त्रिशङ्कुः -



द्वारलक्षणम्।

माहेन्द्रमथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतम्।

दक्षिणे तु दिशो भागे पूषा च पित्र्यमेव च॥८३९॥



सुग्रीवं पुष्पदन्तं च पश्चिमेनात्र निर्दिशेत्।

भल्लातकं राजयक्ष्मं विद्यादुत्तरतः शुभम्॥८४०॥



जन्मसंपद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनम्।

अथ वै धनमित्रं च परमं मैत्रमेव च॥८४१॥



उवाच विधिवत्प्राज्ञो विश्वकर्मा महामतिः।

वास्तूनां गुणदोषौ च प्रवक्ष्याम्यनुपूर्वशः॥८४२॥



समं स्याच्चतुरस्रं च विस्तीर्णा चैव मृत्तिका।

क्षीरिवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यते॥८४३॥



पूर्वायतनतया वास्तु रथचक्राकृति च यत्।

रक्तपांशुर्भवेद्यत्र राज्ञां तत्तु प्रशस्यते॥८४४॥



त्रिकोणं कुशसंस्तीर्णमुत्तानं मधुरं च यत्।

व्यायमतो जलं चैव वास्तु तस्य धनौषधी॥८४५॥



अङ्गाराकारसंस्थानं गोमुखं शकटाकृति।

अनावास्यं च तत् प्रोक्तं यच्च पुत्रक्षयावहम्॥८४६॥



यत्तु कञ्जरकक्षैस्तत् त्यक्तं वर्षोदकेन च।

अपसव्योदकं चैव दूरतः परिवर्जयेत्॥८४७॥



विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलम्।

दशद्वादशकं वैश्ये शूद्रस्य तत्र लेखनम्॥८४८॥



वास्तुपूर्वोत्तरे देशे गोकुलं तत्र कारयेत्।

तथैव चाग्निशालां तु पूर्वदक्षिणतो दिशि॥८४९॥



वर्षवृष्यायुधागारान् दक्षिणेन निवेशयेत्।

पश्चिमोत्तरतश्चात्र वणिग्भाण्डं निवेशयेत्॥८५०॥



उत्तरायां तु कर्तव्यं वर्चःस्थानमनुत्तरम्।

ऐशान्यामेव सर्वाणि प्रासादश्च परोमुखः॥८५१॥



अविधिपरिवर्तेन तत्र वैरं वधो भवेत्।

रचितसर्वद्वाराणामायामो द्विगुणो मतः॥८५२॥



कुर्यात्सुरभवनानां यथेष्टं द्वारकाण्यपि।

तद्‍द्वारबाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥८५३॥



विद्विषस्य सलोकस्य द्वारे स्यान्नु करग्रहः।

महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥८५४॥



सत्ये मृदुर्मृगे शूरोऽन्तरीक्षे धनक्षयः।

वायव्ये तु बहुव्याधिर्भगे भाग्याविपर्ययः॥८५५॥



पुष्पे तु सुभगो नित्यं वितथेऽप्यशुभो भवेत्।

शोके भूतविकारः स्यात् शोषे तस्य विषण्णता॥८५६॥



भल्लातके गृहे वासो राजयक्ष्मे समावृतिः।

ह्रदे रेणुपरिश्राव आदित्ये तु कलिर्ध्रुवम्॥८५७॥



नागराजे नागभयं महश्चेद् दीर्घमायुषम्।

भवेदस्य च यद् द्वारं तत्राग्निभयमादिशेत्॥८५८॥



क्षयं विद्यात्तस्य तस्य धनस्य च कुलस्य च।

यमे मृत्युं विजानीयात्कुले श्रेष्ठोत्तमस्य च।

भृङ्गिराजे तु मतिमान् गन्धर्वे गन्धमाल्यता॥८५९॥



भृङ्गे क्रोधः कलिश्चैव तिपति भोगसंपदः।

दौवारिके स्वल्पधनं सुग्रीवे राजपूजितः॥८६०॥



पुष्पदन्ते धनावाप्तिर्वरुणे हलचित्रता।

असुरे मरणं घोरं रोगे तु बहुदोषता॥८६१॥



बलींश्च उपहारांश्च प्रवक्ष्यामि यथागृहम्।

विचित्रैर्विदिशैर्गन्धैः परिपूज्य बलिं हरेत्॥८६२॥



कलत्रे हेतुबीजानि मध्यमेऽर्जितमेव तु।

महेन्द्रे मुक्तपुष्पाणि पावके च पयो दधि॥८६३॥



आदित्ये परिदेयं तु भक्तं चैव प्रियङ्गवः।

अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च॥८६४॥



नन्दा प्रतिपदा ज्ञेया षष्ठी त्रयोदशी जया।

तासु तासु ध्रुवं कुर्यात्प्राज्ञो ह्येवं विचक्षणः॥ ८६५॥



अयं भोः पुष्करसारिन् द्वारलक्षणं नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् द्वादशराशिकं नामाध्यायं व्याख्यास्यामि। तच्छ्रुयताम्। अथ किम्। कथयतु भगवान् त्रिशङ्कुः-



द्वादशराशिकः।

अतः परं प्रवक्ष्यामि चित्तविज्ञानकाण्डकम्।

यथादृष्टान्तेनैवेनं नराणां समुदाहृतम्॥८६६॥



तदहं संप्रवक्ष्यामि चित्तविज्ञानमुत्तमम्।

द्वादशैव तु चित्तास्ते ये लोके प्रचरन्ति वै॥८६७॥



तानहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः।

द्वादशैव तु कुर्याच्च मण्डलानि विचक्षणः॥८६८॥



प्रथमं मेषो नाम स्याद् द्वितीयं तु वृषः स्मृतः।

तृतीय मिथुनं नाम चतुर्थं चापि कर्कटः॥८६९॥



पञ्चमं चापि सिंहस्तु षष्ठं कन्या इति स्मृतम्।

तुला तु सप्तमं ज्ञेया वृश्चिकस्तु तथाष्टमम्॥८७०॥



धन्वी तु नवमं ज्ञेया दशमं मकरः स्मृतः।

कुम्भश्चैकादशं ज्ञेयो द्वादशं मीन उच्यते॥८७१॥



होरा शरीरं जातस्य द्वितीये चिन्तितं धनम्।

तृतीये भ्रातरश्चैव चतुर्थे स्वजनस्तथा॥८७२॥



चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता।

सप्तमे दारसंयोगो ह्यष्टमे नैधनं स्मृतम्॥८७३॥



नवमे चिन्त्यते धर्मो दशमे कर्मजं फलम्।

एकादशे चार्थलाभो द्वादशे व्यर्थसंभवः॥८७४॥



एते द्वादश चित्तास्तु यथा दृष्टा महर्षिभिः।

सर्वभूतात्मभूताश्च यथाज्ञेयास्त देहिनाम्॥८७५॥



आगत्य पृच्छते कश्चित् प्रथमं मण्डलं स्पृशेत्।

शिरस्तु स्पृशते यश्च शब्दश्च उपलक्ष्यते॥८७६॥



व्याधितं चैव ह्यात्मानमाग्नेयाश्च विनष्टयः।

यदि ब्रूयात्तदा तस्य आत्मार्थं चिन्तितं भवेत्॥८७७॥



काञ्चनं रजतं ताम्रं लोहं चैव भृशं भवेत्।

स च सर्वगतश्चैव अग्निरश्नाति निश्चितम्॥८७८॥



एतादृशं दृष्ट्वोत्पातमाग्नेयं तस्य निर्दिशेत्।

यादृशश्च भवेच्छब्दस्तादृशं तेन चिन्तितम्॥८७९॥



पुरुषः कश्चिदागत्य द्वितीयं मण्डलं स्पृशेत्।

ग्रीवां वा परिमार्जयेद् गलं च चिबुकं पुनः॥८८०॥



यदि शब्दश्च श्रूयते दृष्टा गावस्तथैव च।

ईदृशं च दृष्ट्वोत्पातं गोशब्दं तत्र निर्दिशेत्।

अथ वा याद्दशः शब्दस्तादृशं तेन चिन्तितम्॥८८१॥



पुरुषः कश्चिदागत्य तृतीयं मण्डलं स्पृशेत्।

मार्जयेन्मुखदेशं तु स्त्रीचित्तं तस्य निर्दिशेत्॥८८२॥



अथ शब्दो भवेत्तत्र श्रूयन्तां तादृशास्तु ते।

जातं प्रजातमुपजातं तथा जातो भविष्यति॥८८३॥



एतादृशं दृष्ट्वोत्पातं गर्भं तस्य विनिर्दिशेत्।

अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८८४॥



पुरुषः कश्चिदागत्य चतुर्थं मण्डलं स्पृशेत्।

कच्छपं स्पृशते यस्तु कलहं तत्र निर्दिशेत्।

स्वजनव्यवहारस्तु सति कलह न संशयः॥८८५॥



आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरम्।

एतादृशं दृष्टोत्पातं कलहं तत्र निर्दिशेत्॥८८६॥



पुरुषः कश्चिदागत्य पञ्चमं मण्डलं स्पृशेत्।

हृदयं स्पृशते यस्तु अपत्यं तत्र चिन्तितम्॥८८७॥



प्रवासकश्च विज्ञेयः परग्रामगतो मृतः।

शस्त्रद्रव्यं च यत्तस्य ब्राह्मणानां कुले स्थितम्॥८८८॥



अथ शब्दो भवेत्तत्र यं दृष्ट्वा तु महर्षिभिः।

पुत्रपुत्रेति यच्छब्दो यद्गतं गतमेव च।

एतादृशं दृष्ट्वोत्पातं मरणं तत्र निर्दिशेत्॥८८९॥



पुरुषः कश्चिदागत्य षष्ठं तु मण्डलं स्पृशेत्।

स्पृशते चापि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥८९०॥



विग्रहस्तु महाघोरः शत्रुश्चापि प्रवध्यते।

अथ वा तत्र ये शब्दाः श्रोतव्यास्ते न संशयः॥८९१॥



अयं तु प्रक्षरश्चैवं हतश्च विहतस्तथा।

एतादृशं दृष्ट्वोत्पातमरिविग्रहमादिशेत्।

अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥८९२॥



पुरुषः कश्चिदागत्य सप्तमं मण्डलं स्पृशेत्।

हस्तेन मर्दयेद् हस्तं तथा नाडीं च मर्दयेत्॥८९३॥



निवेशचिन्ता विज्ञेया अन्यग्रामगता भवेत्।

तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिमिच्छता॥८९४॥



स्थितं निविष्टं वर्तं च कृतं हस्तगतं तथा।

एतादृशं दृष्ट्वोत्पातं निवेशं तस्य निर्दिशेत्।

यादृशो वा श्रुतः शब्दस्तादृशं तेन चिन्तितम्॥८९५॥



पुरुषः कश्चिदागत्य अष्टमं मण्डलं स्पृशेत्।

उदरं चैव फिचकं द्वे इमे परिमार्जयेत्॥८९६॥



निधनं दृश्यते तस्य मरणं चापि दृश्यते।

यदि भवेद् भवेन्मृत्युर्यश्चान्यप्रियसंगमः॥ ८९७॥



तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति।

एतादृशं दृष्ट्वोत्पातं व्यापत्तिं तस्य निर्दिशेत्॥८९८॥



पुरुषः कश्चिदागत्य नवमं मण्डलं स्पृशेत्।

ऊरुं च स्पृशते भूयो धर्मचिन्ता च चिन्तिता॥८९९॥



तत्र शब्दाश्च श्रोतव्या भवन्ति हि न संशयः।

यजन् हि याजकश्चैव यजमानस्तथैव च।

शब्दानेवंविधान् श्रुत्वा यज्ञचिन्तां तु निर्दिशेत्॥९००॥


पुरुषः कश्चिदागत्य दशमं मण्डलं स्पृशेत्।

कर्मचिन्ता विचिन्त्येति गृहकर्म न संशयः॥९०१॥



स्पृशते जानुनी चैव कर्मचिन्तां तु निर्दिशेत्।

तत्र शब्दा भवन्तीमे श्रोतव्याश्च न संशयः॥९०२॥



भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथैव च।

एतादृशं दृष्ट्वोत्पातं कर्मचिन्ता विनिर्दिशेत्॥९०३॥



पुरुषः कश्चिदागत्य एकादशं तु संस्पृशेत्।

जङ्घे तु स्पृशते भूयो ह्यर्थलाभं विनिर्दिशेत्॥९०४॥



तत्रेमे शब्दाः श्रोतव्याः भवन्तीह न संशयः।

पणसुवर्णचेलानि धान्यं समणिकुण्डलम्॥९०५॥



एतादृशं रवं श्रुत्वा हिरण्यं तस्य निर्दिशेत्।

अथ वा यादृशः शब्दस्तादृशं फलमादिशेत्॥९०६॥



पुरुषः कश्चिदागत्य द्वादशं मण्डलं स्पृशेत्।

पादौ च स्पृशते पृच्छन् चित्तं चाप्यनर्थिकम्॥९०७॥



यस्तु तच्चिन्तितो ह्यर्थ आशा आगन्तुका च या।

अथ वा शब्दाः श्रोतव्या निमित्तज्ञानपारगैः॥९०८॥



निराशश्चैव घोषश्च निराशं तस्य निर्दिशेत्।

अथ वा यादृशः शब्दस्तादृशं तेन चिन्तितम्॥९०९॥



अय भोः पुष्करसारिन् द्वादशराशिको नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवांस्त्रिशङ्कुः-



कन्यालक्षणम्।



तत्त्वं विज्ञायते येन येन शुभमुपस्थितम्।

निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणम्॥९१०॥



पितरं मातरं चैव मातुलं भ्रातरं तथा।

विम्बाद्विम्बं परिक्ष्येत त्रिशङ्कुवचनं यथा॥९११॥



मुहूर्ते तिथिसंपन्ने नक्षेत्रे चापि पूजिते।

तद्विजैः सह संगम्य कन्यां पश्येत शास्त्रवित्॥९१२॥



हस्तौ पादौ निरीक्षत नखानि ह्यङ्गुलीस्तथा।

पाणीलेखाश्च जङ्घे च कटि नाभ्यूरुमेव च॥९१३॥



ओष्ठौ जिह्वां च दन्तांश्च कपोलौ नासिकां तथा।

अक्षिभ्रुवै ललाटं च कर्णौ केशांस्तथैव च॥९१४॥



रोमराजीं स्वरं वर्णं मन्त्रितं गीतमेव च।

मतिं सत्त्वं समीक्षेत कन्यानां शास्त्रकोविदः।

तत्र पूर्वं परीक्षेत स्वयमेव विचक्षणः॥९१५॥



हंसस्वरा मेघवर्णा नारी मधुरलोचना।

अष्टौ पुत्रान् प्रसूयेत् दासीदासैः समावृता॥९१६॥



व्यावर्ताश्चत्वारो यस्याः सर्वे चैव प्रदक्षिणाः।

समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयते॥९१७॥



मण्डूककुक्षिर्या नारी सैश्वर्यमधिगच्छति।

धन्यान् सा जनयेत्पुत्रांस्तेषां प्रीतिं च भुञ्जते॥९१८॥



यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको ध्वजः।

अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः।

एकं सा जनयेत्पुत्रं तं च राजानमादिशेत्॥९१९॥



यस्याः पाणौ प्रदृश्येत कोष्ठागारं सतोरणम्।

अपि दासकुले जाता राजपत्नी भविष्यति॥९२०॥



द्वात्रिंशद्दशना यस्याः सर्वे गोक्षीरपाण्डराः।

समशिखरिस्निग्धाभा राजानं सा प्रसूयते॥९२१॥



स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा।

रक्तोष्ठजिह्वा सुमुखी राजानमुपतिष्ठति॥९२२॥



सूक्ष्मा च तुङ्गनासा च मुक्तमारक्तिमोदरी।

सुभ्रूः सुवरकेशान्ता सा तु कन्या बहुप्रजा॥९२३॥



अङ्गुल्यः संहिताः कान्ता नखाः कमलसंनिभाः।

सुऋजुरक्तचरणा सा कन्या सुखमेधते॥९२४॥



यस्यावर्तौ समौ स्निग्धौ उभौ पार्श्वौ सुसंस्थितौ।

............ .. ... राजपत्नी तु सा भवेत्॥९२५



प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणम्।

प्रदक्षिणसमाचारां कन्यां भार्यार्थमावहेत्॥९२६॥



ऊरू जङ्गे च पार्श्वे च तथा विक्रमः संस्थितः।

रक्तान्ते विपुले नेत्रे सा कन्या सुखमेधते॥९२७॥



मृगाक्षी मृगजङ्घा च मृगग्रीवा मृगोदरी।

युक्तानामा तु या नारी राजानमुपतिष्ठते॥९२८॥



यस्याग्रललिताः केशा मुखं च परिमण्डलम्।

नाभिः प्रदक्षिणावर्ता सा कन्या कुलवर्धिनी॥९२९॥



नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठतनुत्वचा।

सुखसंस्पर्शकेशाग्रा सौभाग्यं नातिवर्तते॥९३०॥



कान्तजिह्वा तु या नारी रक्तोष्ठी प्रियभाषिणी।

तादृशीं वरयेत्प्राज्ञो गृहार्थं सुखमेधिनीम्॥९३१॥



नीलोत्पलसुवर्णाभा दीर्घाङ्गुलितला तु या।

सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥९३२॥



धनधान्यैः समायुक्तामायुषा यशसा श्रिया।

कन्यां लक्षणसंपन्नां प्राप्य वर्धति मानवः॥९३३॥



कीर्तितास्तु मया धन्या मङ्गल्यलक्षणाः स्त्रियः।

अप्रशस्तं प्रवक्ष्यामि यथोद्देशेन लक्षणम्॥९३४॥



ऊर्ध्वप्रेक्षी अधःप्रेक्षी या च तिर्यक च प्रेक्षिणी।

उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥९३५॥



भिन्नाग्रशतिका रूक्षाः केशा यस्याः प्रलम्बिकाः।

चित्रावली चित्रगात्रा भवति कामचारिणी॥९३६॥



कामुका पिङ्गला चैव गौरी चैवातिकालिका।

अतिदीर्घा अतिह्रस्वा वर्जनीया विचक्षणैः॥९३७॥



यस्यास्त्रीणि प्रलम्बन्ति ललाटमुदरं स्फिचौ।

त्रींश्च सा पुरुषान् हन्ति देवरं श्वशुर पतिम्॥९३८॥



पार्श्वतो रोमराजी तु विनता च कटिर्भवेत्।

दीर्घमायुरवाप्नोति दीर्घकालं च दुःखिता॥९३९॥



काकजङ्घा च या नारी रक्ताक्षी घर्घरस्वरा।

निःसुखा च निराशा च वर्जिता नष्टबान्धवा॥९४०॥



अतिस्थूलोदरं यस्याः प्रलम्बो निम्नसंनिभः।

अत्यन्तमवशा नारी बहुपुत्रा सुदुःखिता॥९४१॥



या तु सर्वसमाचारा मृद्वङ्गी समतां गता।

सर्वैः समैर्गुणैर्युक्ता विज्ञेया कामचारिणी॥९४२॥



यस्या रोमचिते जङ्गे मुखं च परिमण्डलम्।

पुत्रं वा भ्रातरं वापि जारमिच्छति तादृशी॥९४३॥



यस्या बाहुप्रकोष्ठौ द्वौ रोमराजीसमावृतौ।

उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिम्॥९४४॥



यस्या हस्तौ च पादौ च छिद्रौ दन्तान्तराणि च।

पतिनोपार्जितं द्रव्यं न तस्या रमते गृहे॥९४५॥



यस्यास्तु व्रजमानायाः स्फुटन्ते पर्वसंधयः।

सा ज्ञेया दुःखबहुला सुखं नैवाधिगच्छति॥९४६॥



यस्याः कनिष्ठिका पादे भूमिं न स्पृशतेऽङ्गुलिः।

कौमारं सा पतिं त्यक्त्वा आत्मनः कुरुते प्रियम्॥९४७॥



अनामाङ्गुलिः पादस्य महीं न स्पृशतेऽङ्गुलिः।

न सा रमति कौमारं बन्धकीत्वेन जीवति॥९४८॥



यस्याः प्रदेशिनी पादेऽङ्गुष्ठं समतिक्रमेत्।

कुमारी कुरुते जारं यौवनस्था विशेषतः॥९४९॥



आवर्तः पृष्ठतो यस्या नाभी सा चानुबन्धति।

न सा रमति कौमारं द्वितीयं लभते पतिम्॥९५०॥



विकृता स्थिरजाला च रूक्षगण्डशिरोरुहा।

अपि राजकुले जाता दासीत्वमधिगच्छति॥९५१॥



यस्यास्तु हसमानाया गण्डे जायति कूपकम्।

अग्निकार्येऽपि सा गत्वा क्षिप्रं दोषं करिष्यति॥९५२॥



समासमगता सुभ्रूर्गण्डावर्ता च या भवेत्।

प्रलम्बोष्ठी तु या नारी नैकत्र रमते चिरम्॥९५३॥



लम्बोदरी स्थूलशिरा रक्ताक्षी पिङ्गलानना।

अष्टौ भक्षयते वीरान्नवमे तिष्ठते चिरम्॥९५४॥



न देविका न नदिका न च दैवतनामिका।

वृक्षगुल्मसनामा च वर्जनीया विचक्षणैः॥९५५॥



नक्षत्रनामा या नारी या च गोत्रसनामिका।

सुगुप्ता रक्षिता वापि मनसा पापमाचरेत्॥९५६॥



दारान् विवर्जयेदेतान् या मया परिकीर्तिताः।

प्रशस्ता यास्तु पूर्वोक्तास्तादृशीयान्नरः (?) सदा॥९५७॥



पद्माङ्कुशस्वस्तिकवर्धमानै-

श्चक्रध्वजाभ्यां कलशेन पाणौ।

शङ्खातपत्रोत्तमलक्षणैश्च

संपत्तये साधु भवन्ति कन्याः॥९५८॥



अयं भोः पुष्करसारिन् कन्यालक्षणं नामाध्यायः॥



अथ खलु भोः पुष्करसारिन् वस्त्राध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवान् त्रिशङ्कुः-



वस्त्राध्यायः।

कृत्तिकासु दहत्यग्निरर्थलाभाय रोहिणी।

मृगशिरा मूषीदंशा आर्द्रा प्राणविनाशिनी॥९५९॥



पुनर्वसुश्च धन्या स्यात्पुष्ये वै वस्त्रवान् भवेत्।

आश्लेषासु भवेन्मोषः श्मशानं मघया व्रजेत्॥९६०॥



फाल्गुनीषु भवेद् विद्या उत्तरासु च वस्त्रवान्।

हस्तासु हस्तकर्माणि चित्रायां गमनं ध्रुवम्॥९६१॥



स्वात्यां च शोभनं वस्त्रं विशाखा प्रियदर्शनम्।

बहुवस्त्रा चानुराधा ज्येष्ठा वस्त्रविनाशिनी॥९६२॥



मूलेन क्लेदयेद्वास आषाडा रोगसंभवा।

उत्तरा मृष्टभोजी स्वाच्छ्रवणे चक्षुषो रुजम्॥९६३॥



धनिष्ठा धान्यबहुला विद्याच्छतभिषे भयम्।

पूर्वभाद्रपदे तोयं पुत्रलाभाय चोत्तरा॥९६४॥



रेवती धनलाभाय अश्विनी वस्त्रलाभदा।

भरणी च भयाकीर्णा चौरगम्या च सा भवेत्॥९६५॥



अयं भोः पुष्करसारिन् वस्त्राध्यायः।



अथ खलु भोः पुष्करसारिन् लुङ्गाध्यायं प्रवक्ष्यामि। तच्छ्रूयताम्। अथ किम्। कथयतु भगवान् त्रिशङ्कुः-



लुङ्गाध्यायः।

कुत्रोत्पन्ना इमे बीजाः (?) शस्यानां च यवादयः।

यैरिदं ध्रियते विश्वं कृत्स्नं स्थावरजङ्गमम्॥९६६॥



वापयेत् तु कथं बीजं लाङ्गलं योजयेत्कथम्।

केषु नक्षत्रयोगेषु तिथियोगेषु केषु च॥९६७॥



शारदं वाथ ग्रैष्मं तु कस्मिन् मासे तु वापयेत्।

निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत्।

कस्य वा दापयेद् धूपं केन मन्त्रेण दापयेत्॥९६८॥



प्रदक्षिणसमावृत्ता यदि लुङ्गा प्रजायते।

तदा नागमुखी लुङ्गा दहति चित्रमुख्यपि॥९६९॥



दर्भसूचीमुखी वापि कारणं तत्र को भवेत्।

कति सौभिक्षिका लुङ्गाः कति दौर्भिक्षिका स्मृताः।

कतिवर्णाः समाख्याताः कतिवर्णा निदर्शिताः।९७०॥



नष्टापनष्टबीजस्य वर्षति यदि वासवः।

निर्घातो वा भवेत्तीव्रोऽथवापि मेदिनी चलेत्॥९७१॥



शस्यं फलस्य किं तत्र निमित्तमुपलक्षयेत्।

सर्वमेतत्समासेन श्रोतुमिच्छामि तत्त्वतः॥९७२॥



पुष्करसारिणो ब्राह्मणस्य वचनं श्रुत्वा त्रिशङ्कुर्मातङ्गाधिपतिरिदं वचनमब्रवीत्-



पुरा देवासुरैर्वौगैर्यक्षराक्षसकिन्नरैः।

सागरादमृतं दृष्टं मन्थिते तु समुद्भवम्॥९७३॥



अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः।

ततो दत्ताः सुरैर्भागा अमृताद्दशबिन्दवः॥९७४॥



तत उत्पन्ना इमे बीजा भुवि लोकसुखावहाः।

यवव्रीहितिलाश्चैव गोधूमा मुद्गमाषकाः॥९७५॥



श्यामकं सप्तमं विद्यादिक्षुश्चाष्टमकः स्मृतः।

शेषास्तु संगता जाता बहवः शस्यजातयः॥९७६॥



हतिरकेषु सर्वेषु ये चान्ये सत्त्वजातयः।

परितो नवमो बिन्दुः सर्वदेहेऽमृतोऽभवत्।

मूलेषु चैव सर्वेषु बिन्दुरेकः प्रपातितः॥९७७॥



आषाढे शुक्लपक्षेऽस्य व्रीहिधान्यानि वापयेत्।

शारदादीनि सर्वाणि मासे भाद्रपदे तथा॥९७८॥



कार्तिके मार्गशीर्षे वा ग्रीष्मधान्यानि वापयेत्।

पञ्चम्यां शुक्लसप्तम्यां षष्ठ्यामेकादशीषु च॥९७९॥



त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च।

विशेषतस्तु निम्नेषु सर्वबीजानि ह्युत्सृजेत्॥९८०॥



भरणीपुष्यमूलेषु हस्ताश्विनीमघासु च।

कृत्तिकासु विशाखासु विशेषेण तु शारदम्॥९८१॥



सौम्ये मैत्रेऽनुराधे च धनिष्ठाश्रवणासु च।

उत्सर्गः सर्वबीजानामुत्तरेषु प्रशस्यते।

वर्जयेज्जन्मनक्षत्रं संग्रहं च विवर्जयेत्॥९८२॥



ग्रामक्षेत्रे च यद् बीजं गृहे च गृहदेवता।

निमित्तमुपलक्षेत मङ्गलानि शुभानि च॥९८३॥



ब्राह्मणं क्षत्रियं कन्यामर्चिष्मन्तं च पावकम्।

वारणेन्द्रं वृषं चैव हयं वा स्वभ्यलंकृतम्॥९८४॥



पूर्णकुम्भं ध्वजं छत्रमाममांसं सुरां तथा।

उद्धृतां धारणीं चैव बद्धमेकपशुं दधि॥९८५॥



चक्रारूढं च शकटं काकारूढां च सूकरीम्।

परस्यारोपणं दृष्ट्वा सस्यसंपत्तिमादिशेत्॥९८६॥



सर्वे दक्षिणतो धन्याः पुरश्च मृगपक्षिणः।

दर्शनं शुक्लपुष्पाणां फलानां चैव शस्यते॥९८७॥



अजो वा वामतः शस्यो जम्बुकश्च प्रशस्यते।

विकृतं कुब्जकुष्ठिं च मुखं श्मश्रुधरं तथा॥ ९८८॥



नरं निर्भर्त्सितं दीनं शोकार्तं व्याधिपीडितम्।

वराहवृन्दं सर्पं च गर्दभं भारहीनकम्।

दृष्ट्वा निवर्तयेद् बीजं पुनर्ग्रामं प्रवेशयेत्॥९८९॥



तिलस्य बहुपूर्णस्य भाण्डे स्याद्वपनं तथा।

श्रुत्वा ह्येतानि व्रजतां सस्यसंपत्तिमादिशेत्॥९९०॥



राशिस्थं ग्रथितं धौतं स्वस्थमङ्कुरितं तथा।

श्रुत्वा संमार्जितं चैव इत्याशुकृतिनं विदुः॥९९१॥



श्रुत्वा म्लानं च शुष्कं च मन्दवृष्टिं च निर्दिशेत्।

श्रुत्वा निवर्तयेद् बीजं पुनर्ग्रामं प्रवेशयेत्॥९९२॥



नीयमानं च यद् बीजं वर्षते यदि वासवः।

स्वयमेव तु तच्छस्यं कामं कालेन भुज्यते॥९९३॥



नीयमानं च यद् बीजं कम्पते यदि मेदिनी।

भ्रम्यते कर्षकः स्थानान्न तच्छक्यं तु वापितुम्॥९९४॥



नीयमानस्य बीजस्य निर्घातो दारुणो भवेत्।

स्वामिनो मरणं क्षिप्रं शस्यपालस्य निर्दिशेत्॥९९५॥



अथ वा व्याकुलं कुर्याद्राजदण्डं निकृन्तति।

दृष्ट्वा निवर्तयेद् बीजं पुनर्ग्रामं निवेशयेत्॥९९६॥



ब्राह्मणेभ्यो यथाशक्ति दत्वा तु संप्रयोजयेत्।

कृत्वा सुविपुलां वेदीं दर्भानास्तीर्य सर्वतः॥९९७॥



समिद्भिरग्निं प्रज्वाल्य जुहुयाद् घृतसर्षपम्।

वेदशान्तिं जपेत्पूर्वं शस्यशान्तिमतः परम्॥९९८॥



जपेत्पाराशरं पूर्वं प्रियतां वाचयेद् द्विजैः।

प्रथमं प्राङ्मुखं बीजं प्रक्षिपेदुत्तरेऽथ वा॥९९९॥



पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति संचयम्।

सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१०००॥



हरन्ति चेत् तृणाद् बीजं तृणे शस्यापहा अपि।

परस्परं च हिंसन्ति धान्यं च निधनं व्रजेत्॥१००१॥



स्थलेषु संचयं दृष्ट्वा महावृष्टिं विनिर्दिशेत्।

दृष्ट्वा तु संचयं निम्नेऽनावृष्टिं च निर्दिशेत्॥१००२॥



यदा तु प्रोषितं बीजं सप्तरात्रेण जायते।

सुवृष्टिं च सुभिक्षं च सर्वशस्येषु संपदा॥१००३॥



यदा तु प्रोषितं बीजमर्धमासेन जायते।

अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र जायते॥१००४॥



त्रिरात्राच्चतूरात्राद्वा यदि लुङ्गः प्रजायते।

अतिवृष्टिर्भवेत्तत्र परचक्रभयं विदुः॥१००५॥



लुङ्गस्य तु ये पादाः पञ्च सप्त नव तथा।

सुवृष्टिं च सुभिक्षं च सर्वसस्येषु संपदा॥१००६॥



स्याल्लुङ्गस्य तु ये पादाश्चत्वारोऽष्टपदाथ वा।

अल्पं निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत्॥१००७॥



लुङ्गस्य यदि पादास्तु दृश्यन्ते द्वादश क्कचित्।

क्कचिन्निष्पद्यते शस्यं दुर्भिक्षं क्कचिदादिशेत्।

वामावर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत्॥१००८॥



यदा पूर्वमुखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत्।

यदा पश्चान्मुखी लुङ्गा अतिवृष्टिं च निर्दिशेत्॥१००९॥



क्षेमं सुभिक्षं चैवात्र यदा लुङ्गोत्तरामुखी।

हरितालसुवर्णाभा भद्रशोचिरिवोत्थिता॥१०१०॥



दर्भसूचीमुखी चापि दृश्यते तत्र कुत्रचित्।

क्कचिन्निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत्॥१०११॥



यदा नागमुखी लुङ्गा दृश्यते यत्र वा क्कचित्।

क्कचिन्निष्पद्यते शस्यं दुर्भिक्षं चात्र निर्दिशेत्।

तत्राशनिभयं चापि भयं मेघान्नं संशयः॥१०१२॥



कृषिमूलमिदं सर्वं त्रैलोक्यं सचराचरम्।

नास्ति कृषिसमावृत्तिः स्वयमुक्तं स्वयंभुवा॥१०१३॥



नाकृषेर्धर्ममाप्नोति नाकृषेः सुखमाप्नुयात्।

धरम्मर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥१०१४॥



इति लुङ्गाध्यायः॥



पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुं मातङ्गाधिपतिमेतदवोचत्-



कथं पृथिव्यां नागाश्च केन वा विनिवारिताः।

कुतो मूलसमुत्थानं निर्घातः कुत्र जायते॥१०१५॥



कुतश्चाभ्राणि जायन्ते नानावर्णा दिशो दश।

कस्यैष महतः शब्दः श्रूयते दुन्दुभिस्वरः॥१०१६॥



को हि सृजति दुर्भिक्षं सुभिक्षं चैवं प्राणिनाम्।

कस्तत्र स मुनिश्रेष्ठो नाम गोत्रं व्रवीहि मे॥१०१७॥



दैवतानि च मे ब्रूहि विधानानि स्वयंभुवः।

यज्ञं च यज्ञभागं च होतव्यश्च यथा बलिः॥१०१८॥



पृथिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि।

देवे तु दैवतं ब्रूहि केन देवी सा कल्पिता॥१०१९॥



पात्रस्य दैवतं ब्रूही पूर्णकुम्भस्य दैवतम्।

करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतम्॥१०२०॥



शस्यस्य दैवतं ब्रूहि शस्यपालस्य दैवतम्।

वायुस्कन्धैश्च कतिभिः शुक्रो वेगं प्रमुञ्चति॥१०२१॥



अथ त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्-



पृथ्वी वा वायुराकाशमापो ज्योतिश्च पञ्चमम्।

तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तते॥१०२२॥



एष व्याप्नोति चाकाशं वायुना जन्यते घनः।

आदित्यरश्मयो वारि समुद्रस्य नभस्तले॥१०२३॥



तज्जलं नागसंक्षिप्तं ततो वरुणसंक्षयः।

वायुर्नभो गर्जयते अग्निर्विद्योतते दिशः॥१०२४॥



मरुता क्षिप्यते पिण्डं संनिपातश्च गर्जते।

विरोधनं तु वायोश्च अग्नेश्च अनिलस्य च॥१०२५॥



आकाशे वर्तते पिण्डं पश्चात्पतति मेदिनीम्।

यद् ग्रहाणामधिपतिर्नक्षत्रज्योतिषामपि।

ततो मारुतसंसर्गात्पर्जन्यमपि वर्षति॥१०२६॥



वर्षते शैलशिखरे यत्र संप्रस्थितो जनः।

यत्र सत्यं च धर्मश्च हविर्मेघश्च वर्तते॥१०२७॥



तत्र बीजानि रोहन्ति अन्नपानं समृध्यति।

एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता।

दन्ताशनी तृतीया तु अशनिस्तु चतुर्थिका॥१०२८॥



पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास्तथा।

सप्तमी स्यादनावृष्टिरतिवृष्टिस्तस्तथाष्टमी॥१०२९॥



नवमी संबरः प्रोक्ता इत्याह भगवांस्त्रिशङ्कुः।

एतास्त्वशन्यो व्याख्यातास्तासां वै देवताः शृणु।

पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥१०३०॥



दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता।

अदेश ..................... . देवताः॥१०३१॥



शलभाः केतुदैवत्या आदित्या दितिदेवताः॥

शंसकामतिवर्षस्य अनावृष्टेस्तु ज्योति (षः)॥१०३२॥



(सम्ब) रस्य तु पर्जन्यमाख्याताः नव देवताः। अशन्या देवताः प्रोक्ता आकाशगमनार्थं बोधत।



पूर्वमधीन्द्रदैवत्यं दक्षिणे यमदैवतम्।

वरुणं पश्चिमे विद्यादुत्तरे धनदः स्मृतः।

... त्या दैवतं विष्णुराश्रमं विश्वदैवतम्॥१०३३॥



समिधादैवता देवास्तेभ्यो देवी प्रकल्पिता।

समिधादैवता .......... तोग्निहुताशनम्॥१०३४॥



वेद्यां तु दैवतं ........... .. कारादित्यदैवतम्।

पात्रस्य देवता धर्मः पूर्णकुम्भे जनार्दनः॥१०३५॥



चरुं चेति ...... धूपस्थानस्य ज्योतिषः।

शस्य ..... . शस्यपालो महामतिः।

वायुस्कन्धैश्चतुर्भिस्तु शुक्रो वेगं प्रमुञ्चति॥१०३६॥



अत्र मध्ये पृथिव्याप आश्रमो विश्वदैवतः।

तस्मिन् देशे ....... यस्मिन् प्रीतो वृषध्वजः॥१०३७॥



इत्याह भगवांस्त्रिशङ्कुः। पुनरपि पुष्करसारी ब्राह्मणस्त्रिशङ्कुमेवमाह-



किमर्थमाश्रमे नित्यं हूयते हव्यवाहनः।

तृणकाष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितम्॥१०३८॥



अति ......... ग्यते अग्निं सुदारुणम्।

सर्वलोकहितार्थाय ध्यात्वा दिव्येन चक्षुषा।

प्रशमेच्च समासेन तद्भवार्थं तु ........॥१०३९॥



एवमुक्ते त्रिशङ्कुर्मातङ्गाधिपतिर्ब्राह्मणं पुष्करसारिणमेतदवोचत्-



धूमिकाध्यायः।

पुरा हि खाण्डवद्वीपमर्जुनेन महात्मना।

...... ....... ज्वलितं जातवेदसा॥१०४०॥



............ प्रसन्नमानान्निधिगतम्।

तत्र दग्धा अनेका हि नागाः कोटिसहस्रशः॥१०४१॥



पुरा महोरगगणा यक्षराक्षसपन्नगाः।

पादहीनाः कृताः केचिद् बाहुहीनाः कृतापरे॥१०४२॥



वैकल्यं कर्णनासाभ्यां कृतां चैवाक्षिपातनम्।

तदाप्रभृति भूतानां दृष्ट्वं वै त्रासितं मनः॥१०४३॥



अग्निना तापिताः केचिद्वाणैरन्ये च सूदिताः।

वाचाटकेनापि पुरा काद्रवेयाः प्रपातिताः॥१०४४॥



अर्चिषा हविगन्धेन मुह्यमाना नभोन्तरे।

तद्विहीनाः पतन्त्यन्ये गुह्यका धरणीतले॥१०४५॥



सहांपतिस्तु नाम्ना स शस्यकाले तदाश्रमे।

शस्यपालैस्तु सततं होतव्यो हव्यवाहनः॥१०४६॥



गृहमेधी ज्वालयेदग्निं निर्मलेऽपि नभोन्तरे।

दिग्भागेषु च भूतानां तेषामर्थं दिने दिने॥१०४७॥



जाग्रतं सततं वह्निमाश्रमस्थोऽपि धारयेत्।

मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥१०४८॥



सधूमं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकम्।

भयमापतते तेषां नागसैन्यं विमुह्यते॥१०४९॥



अग्निं परिचरतोऽस्य शस्यपालस्य चाश्रमे।

अग्निना हूयमानेन सिध्यते सर्वकर्म च॥१०५०॥



अयं भोः पुष्करसारिन् धूमिकाध्यायः॥



अथ खलु भोः पुष्करसारिन् तिथिकर्मनिर्देशं नामाध्यायं व्याख्यास्यामि। तच्छ्रूयताम्। अथ कुम्। कथयतु भगवांस्त्रिशङ्कुः-



तिथिकर्मनिर्देशः।

नन्दां प्रतिपदामाहुः प्रश्स्तां सर्वकर्मसु।

विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥१०५१॥



द्वितीया कथिता भद्रा शस्ता भूषणकर्मसु।

जया तृतीया व्याख्याता प्रशस्ता जयकर्मसु॥१०५२॥



चतुर्थी कथिता रिक्ता ग्रामसैन्यवधे हिता।

चौर्याभिचारकूटाग्निदाहगोरससाधने॥ १०५३॥



पूर्णा तु पञ्चमी ज्ञेया चिकित्सागमनाध्वसु।

दानाध्ययनशिल्पेषु व्यायामे च प्रशस्यते॥१०५४॥



जयेति संज्ञिता षष्ठी गर्हिताध्वसु शस्यते।

गृहे क्षेत्रे विवाहे वा आवाहकर्मसु मित्रेति॥१०५५॥



भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृतेऽध्वनि।

नृपाणां शासने छत्रे शय्यानां करणेषु च॥१०५६॥



महाबलाष्टमी सा च प्रयोज्या परिरक्षणे।

भयमन्दरबद्धेषु योगेषु हरणेषु च॥१०५७॥



उग्रसेना तु नवमी तस्यां कुर्याद्रिपुक्षयम्।

तथा विषघ्नावस्कन्दविद्याबन्धवधक्रियाः॥१०५८॥



सुधर्मा दशमी शस्ता शास्त्रारम्भे धनोद्यते।

शान्तिस्वस्त्ययनारम्भे दानयज्ञोद्यतेषु च॥१०५९॥



एकादशी पुनर्मान्या स्त्रीषु च मांसमद्ययोः।

कारयेन्नगरं गुप्तं विवाहं शास्त्रकर्म च॥१०६०॥



यशेति द्वादशीमाहुर्वैरेऽध्वनि च गर्हिता।

विवाहे च गिरौ क्षेत्रे गृहकर्मसु पूजिता॥ १०६१॥



जया त्रयोदशी साध्वी मण्डलेषु च योषिताम्।

कन्यावरणवाणिज्यविवाहादिषु चेष्यते॥१०६२॥



उग्रा चतुर्दशी तु स्यात्कारयेदभिचारिकम्।

वधबन्धप्रयोगांश्च पूर्वं च प्रहरेदपि॥१०६३॥



सिद्धा पञ्चदशी साध्वी देवताग्निविधौ हिता।

गोसंग्रहवृषोत्सर्गबलिजप्यव्रतेषु च॥१०६४॥



नन्दादीनां क्रिया पूर्वे षष्ठ्यादीनां तु मध्यमे।

सुनन्दायाश्च संध्याभिर्दिनरात्र्योः प्रसिध्यति॥१०६५॥



अयं भोः पुष्करसारिन् तिथिकर्मनिर्देशो नामाध्यायः॥



अपि च महाब्राह्मण इदं पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायां विद्यायां चित्तमभिनिर्णयामि निवर्तयामि, अनेकविधपूर्वनिवासं समनुस्मरामि॥



स्यात्ते ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूत्। नह्येवं द्रष्टव्यम्। अहमेव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूवम्। सोऽहं ततश्च्युतः समान इन्द्रः कौशिकोऽभूवम्। ततश्च्युतः समानोऽरणेमिर्गौतमोऽभूवम्। ततश्च्युतः समानः श्वेतकेतुर्नाम महर्षिरभूवम्। ततश्च्युतः समानः शुकपण्डितोऽभूवम्। मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः। तद्यथा पुष्यो बह्‍वृचानां पङ्क्तिश्छन्दोगानाम्। एकविंशतिचरणा अध्वर्यवः। क्रतुरथर्वणिकानाम्॥



स्यात्तव ब्राह्मण काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूत्। न ह्येवं द्रष्टव्यम्। अहमेव स तेन कालेन तेन समयेन वसुर्नाम महर्षिरभूवम्। मया सा तक्षकवधूकायाः कपिला नाम माणविका दुहिता आसादिता भार्यार्थाय। सोऽहं तत्र संरक्तचित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः। सोऽहमात्मानं जुगुप्समानस्तस्यां वेलायामिमां गाथां बभाषेः- ॐ भूर्भुवः स्वः। तत्सवितुवरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्॥

सोऽहं ब्राह्मण त्वां ब्रवीमि-सामान्यसंज्ञामात्रकमिदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शुद्र इति वा। एकमेवेदं सर्वं सर्वमिदमेकम्। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरमनुप्रयच्छ भार्यार्थाय। यावतकं कुलशुल्कं मन्यसे तावतकमनुप्रदास्यामि। इदं च वचनं पुनः श्रुत्वा त्रिशङ्कोर्मातङ्गराजस्य ब्राह्मणः पुष्करसारी इदमवोचात्-



भगवान् श्रोत्रियः श्रेष्ठस्त्वत्तो भूयान्न विद्यते।

सदेवकेषु लोकेषु महाब्रह्मसमो भवान्॥१०६६॥



पुत्राय ते भोः प्रकृतिं ददामि

शीलेन रूपेण गुणैरुपेतः।

शार्दूलकर्णः प्रकृतिस्तु भद्रा

उभौ रमेतां रुचितं ममेदम्॥१०६७॥



तत्र तानि पञ्चमात्राणि माणवकशतानि उच्चैःशब्दानि प्रोचुर्महाशब्दानि - मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं रोचय। नार्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं संबन्धं कर्तुम्॥



अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेनैतानर्थानभाषत-



एवमेतद्यथा ह्येष त्रिशङ्कुर्भाषते गिरम्।

तत्त्वं ह्यवितथं भूतं सत्यं नित्यं तथा ध्रुवम्॥१०६८॥



अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य त्रिशङ्कुं मातङ्गराजमिदमवोचत् -अयं भोस्त्रिशङ्को ब्रह्मणा सहापतिना चातुर्महाभौतिको महापुरुषः प्रज्ञप्तः। यस्य



शिरः सतारं गगनमाकाशमुदरं तथा।

पर्वताश्चाप्युभावूरू पादौ च धरणीतलम्॥१०६९॥



सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती।

सागराश्चाप्यमेध्यं वै नद्यो मूत्रस्रवोऽस्य तु॥१०७०॥



अश्रूणि वर्षणं चास्य एष ब्रह्मा सहापतिः।

भवांस्तु परमज्ञोऽसि तन्मे ब्रूहि यथा तथा॥१०७१॥



इह भोस्त्रिशङ्को किमाह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व। पित्रा च मात्रा च कृतानि कर्माणि भवन्ति। अश्वस्तनास्तेन वञ्चिताः।



गच्छन्ति सत्त्वा बहुगर्भयोनिं

न चैव कश्चिन्मनुजो ह्ययोनिः।

समस्तजातौ प्रचरन्ति सत्त्वा

न मारुताज्जायते कश्चिदेव॥१०७२॥



स्वभावभाव्यं ह्यवगच्छ लोके

के ब्राह्मणक्षत्रियवैश्यशूद्राः।

सर्वत्र काणाः कुणिनश्च खञ्जाः

कुष्ठी किलासी ह्यपस्मारिणोऽपि॥१०७३॥



कृष्णाश्च गौराश्च तथैव श्यामाः

सत्त्वाः प्रजा ह्यन्यतमे विशिष्टाः।

सहास्थिचर्माः सनखाः समांसा

दुःखी सुखी मूत्रपुरीषयुक्ताः।

न चेन्द्रियाणां प्रविविक्तिरस्ति

तस्मान्न वर्णाश्चतुरो भवन्ति॥१०७४॥



मन्त्रैर्हि यदि लभ्येत स्वर्गं तु गमनं द्विजः।

कृष्णशुक्लानि कर्माणि भवेयुर्निष्फलानि हि॥१०७५॥



यस्मात्कृष्णानि शुक्लानि कर्माणि सफलानि हि।

पच्यमानानि दृश्यन्ते गतिष्वेतानि पञ्चसु॥१०७६॥



माणवकशतेषु स तत्र विनिहतो महायशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणोऽब्रवीत्-ब्राह्मणोऽसौ मातङ्गराजो हि त्रिशङ्कुर्नाम। भवान् हि ब्रह्मा इन्द्रश्च कौशिकः। त्वमरणेमिश्च गौतमः। त्वं श्वेतकेतुश्च शुकपण्डितः। वेदः समाख्यातस्त्वया चतुर्धा। भगवान्वसू राजर्षिर्महायशा भगवान्।



ज्ञानेन हि त्वं परमेण युक्तः

सर्वेषुं शास्त्रेषु भवान् कृतार्थः।

श्रेष्ठो विशिष्टो परमोऽसि लोके

भवान् हि विद्याचरणेन युक्तः॥१०७७॥



ददामि तेऽहं प्रकृतिं ममामलां

शीलेन रूपेण गुणैरुपेतः।

शार्दूलकर्णः प्रकृतिश्च भद्रा

उभौ रमेतां रुचितं ममेदम्॥१०७८॥



प्रगृह्य भृङ्गारमुदकप्रपूर्ण-

मावर्जितो ब्राह्मणो हृष्टचित्तः।

अनुप्रदासीदुदकेन कन्यकां

शार्दूलकर्णस्य इयमस्तु भार्या॥१०७९॥



उदग्रचित्तं आसीन्मातङ्गराजः।

कृत्वा निवेशं स तदात्मजस्य

गत्वाश्चमेऽसौ नगरं यशस्वी।

धर्मेण वै कारयति स्वराज्यम्

क्षेमं सुभिक्षं च सदोत्सवाढ्यम्॥१०८०॥ इति॥



स्याद् भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूत् ? नैवं द्रष्टव्यम्। अहमेव स तेन कालेन तेन समयेन त्रिशङ्कुर्नाम मातङ्गराजोऽभूवम्। स्यादेवं च भिक्षवो युष्माकम्-अन्यः स तेन कालेन तेन समयेन शादूलकर्णो नाम मातङ्गराजकुमारोऽभूत्। नैवं द्रष्टव्यम्। एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णो नाम मातङ्गराजकुमारोऽभूत्। स्यादेवं युष्माकम्-अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। नैवं द्रष्टव्यम्। एष शारिद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। नान्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत्। नैवं द्रष्टव्यम्। एषा सा प्रकृतिर्भिक्षुणी तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर्नाम माणविका दुहिताभूत्। सा एतर्हि तेनैव स्नेहेन तेनैव प्रेम्णा आनन्दं भिक्षुं गच्छन्तमनुगच्छति तिठन्तमनुतिष्ठति। यद्यदेव कुलं पिण्डाय प्रविशति, तत्र तथैव द्वारे तूष्णींभूता अस्थात्॥



अथ खलु भगवानेतस्मिन्निदाने एतस्मिन् प्रकरणे तस्यां वेलायामिमां गाथामभाषत-



पूर्वकेण निवासेन प्रत्युत्पन्नेन तेन च।

एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥१०८१॥



तस्मात्तर्हि भिक्षवोऽनभिसमितानां चतुर्णामार्यसत्यानामभिसमयाय, अधिमात्रं वीर्यं तीव्रच्छन्दो वीर्यं शब्दापयामि। उत्साह उन्नतिरप्रतिवाणिः। स्मृत्या संप्रजन्येन अप्रमादतो योगः करणीयः। द्रुतमेषां चतुर्णां दुःखस्यार्यसत्यस्य दुःखसमुदयस्य निरोधस्य विरोधगामिन्याः प्रतिपद आर्यसत्यस्य अमीषां चतुर्णामार्यसत्यानामनभिसमितानामभिसमयाय अधिमात्रं तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उन्नतिरप्रतिवाणिः स्मृत्या संप्रजन्येनाप्रमादतो योगः करणीयः॥



अस्मिंश्च खलु पुनर्धर्मपर्याये भाष्यमाणे भिक्षूणां षष्टिमात्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि। संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनां च विरजस्कं विगतमलं धर्मचक्षुरुदपादि विशुद्धम्॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने शार्दूलकर्णावदानम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project