Digital Sanskrit Buddhist Canon

३२ रूपावत्यवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३२ रूपावत्यवदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः। सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिक्षुण्युपासकोपासिकै राज्ञा राजमात्रैर्नानावणिक्छ्रमणब्राह्मणपरिव्राजकनैगमजनपदैर्नागैर्यक्षैर्गन्धर्वैरसुरगरूडकिन्नरमहोरगैः। लाभी च भगवान् प्रभूतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां च मनुष्याणां च, तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा। तेन खलु पुनः समयेन अयमेव भगवतोऽनुरूप उदारः कल्याणकीर्तिशब्दश्लोकोऽभ्युद्गतः-इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्न सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। स इमां सदेवकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषीं स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य विहरति। स धर्मं देशयत्यादौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म। तत्र भगवान् भिक्षूनामन्त्रयते स्म-एवं च भिक्षवः सत्त्वा जानीयुः-दानं दानफलं दानसंविभागस्य च विपाकम्, अपीदानीं योऽसौ चरमः कवलः पश्चिम आलोपः, तमपि नासंविभज्य परेष्वात्मना वा परिभुञ्जीरन्, न चोत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेयुः। यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमेवादत्त्वा इममसंविभज्य परेष्वात्मना वा परिभुञ्जते, उत्पन्नं चैषां मात्सर्यमलं चित्तं पर्यादाय तिष्ठति॥



भिक्षवः सर्वसंशयजाताः सर्वसंशयानां छेत्तारं बुद्धं भगवन्तमपृच्छन्-आश्चर्यं भदन्त यावच्च भगवत एतर्हि यावकाः प्रियाः। न भिक्षव एतर्हि मम, यथा अतीतेऽप्यध्वनि याचनकाः प्रियाः। तच्छ्रूयताम्॥



भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथेषु जनपदेषु उत्पलावती नाम नगरी राजधानी बभूव ऋद्धा च स्फीता च क्षेमा च आकीर्णबहुजनमनुष्या च। अथापरेण समयेन उत्पलावत्यां नगरराजधान्यां दुर्भिक्षमभूद् दुर्जीवं दुर्लभपिण्डं नसुकरमपताने प्रग्रहणे यापयितुम्। तेन खलु समयेनोत्पलावत्यां राजधान्यां रूपावती नाम स्त्री बभूव अभिरूपा दर्शनीया प्रासादिका शुभवर्णपुष्कलनया समन्वागता। अथ रूपावती स्त्री स्वान्निवेशनान्निष्क्रम्य उत्पलावत्यां राजधान्यां जङ्घाविहारमनुक्रामति। अन्यतरदपवरकं प्राविशत्। तस्मिन् खलु समये तस्मिन्नपवरके स्त्री प्रसूता, दारकं प्रजाता अभिरूपं दर्शनीयं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्। तं सा स्त्री क्षुत्क्षामपरीता रौक्षचित्ता दारकं गृह्णाति, इच्छति च स्वानि पुत्रमांसानि भक्षयितुम्। तां दृष्ट्वा रूपावती स्त्री एतदवोचत्-किमिदं भगिनि कर्तुकामासि ? सा आह-जिघत्सितास्मि भगिनि। इच्छामि स्वकानि पुत्रमांसानि भक्षयितुम्। रूपावती आह-तेन भगिनि निवेशने किंचित्संविद्यतेऽन्नं वा पानं वा भोजनं वा स्वादनीयं वा लेह्यं वा ? दुर्लभः पुत्रशब्दो लोकस्य। न मे भगिनि किंचित्संविद्यते निवेशने अन्नं वा पानं वा खाद्यं वा भोजनं वा स्वादनीयं वा लेह्यं वा। दुर्लभं जीवितं लोकस्य। रूपावत्याह- तेन हि भगिनि मुहूर्तमागमय, यावदहं निवेशनं गत्वा तवार्थाय भोजनमानयिष्यामि। सा आह-यत्खलु भगिनि जानीयाः कुक्षिर्भे लुप्यति, पृथिवी मे स्फुटति, हृदयं मे धूमायति, दिशो मे न प्रतिभान्ति। न तावत्त्वं द्वारशालाया निर्गता भविष्यसि यावन्मे वायव आक्रमिष्यन्ति। यथा रूपावत्या एतदभवत्-यदि दारकं गृहीत्वा गमिष्यामि, एषा स्त्री क्षुत्क्षामपरीता कालं करिष्यति। अथ दारकमपहाय यास्यामि, नियतं दार्कं भक्षयिष्यति। यथाकथं पुनर्मम कुर्वन्त्या द्वयोर्जीवितलाभः स्यात् ? तस्या एतदभवत्- अनपराध्याशयवति संसारे बहूनि दुःखान्यनुभूतानि असकृन्नरकेष्वसकृत्तिर्यक्ष्वसकृद् यमलोकेऽसकृन्मनुष्यलोकेषु हस्तच्छेदाः पादच्छेदाः कर्णच्छेदा नासाच्छेदाः कर्णनासाच्छेदा अङ्गप्रत्यङ्गच्छेदास्तथान्यानि विविधानि बहूनि दुःखान्यनुभूतानि। को मया तेनार्थोऽनुप्राप्तो यदा अहमात्मनः स्थामं च बलं च वीर्यं च संजनयित्वा इमां स्त्रियं स्वेन रुधिरेण मांसेन संतर्प्य इमं दारकं परिमोचयेयम्। रूपावती पृच्छति-अस्ति ते भगिनि निवेशने शस्त्रम्? सा स्त्री आह-अस्तीति। तेन हि यत्र भवति, तदुपदर्शय। सा तं प्रदेशमुपदर्शयामास। ततो रूपावत्या स्वयमेव शस्त्रं तीक्ष्णं गृहीत्वा तौ स्तनौ छित्त्वा तां स्त्रियं स्वकेन मांसरुधिरेण संतर्पयति स्म। संतर्प्य च तां स्त्रियमेतदवोचत्- यत्खलु भगिनि जानीयाः-अयं दारको मया स्वकेन मांसरुधिरेण क्रीतः। साहं तव निक्षेपमनुप्रयच्छामि-मा भूयो दारकं भक्षयिष्यासि, यावदहं निवेशनं गत्वा त्वार्थाय भोजनमानयिष्यामि। सा आह- अद्य तावन्न भूयः। अथ रूपावती स्त्री रुधिरेणोद्धरता प्रघरता येन स्वं निवेशनं तेनोपसंक्रान्ता। अद्राक्षीद्रूपावत्याः स्त्रियाः स्वामी रूपवतीं स्त्रीं रुधिरेणोद्धरता प्रघरता दूरत एवागच्छन्तीम्। दृष्ट्वा च पुना रूपावतीमेतदवोचत्-केनेदमेवंरूपं रूपवति विप्रकारं कृतम् ? सैतां प्रकृतिं विस्तरेणारोचयति स्म। आरोचयित्वा एतदवोचत्-प्रज्ञपय आर्यपुत्र तस्या स्त्रिया भक्तम्। स आह-प्रज्ञपय आर्यदुहितस्तस्या भक्तम्। अपि तु सत्यवचनं तावत्करिष्यामि। येनार्यदुहितः सत्येन सत्यवचनेन अयमेवंरूप आश्चर्याद्भुतो धर्मो न कदाचिद् दृष्टो वा श्रुतो वा, तेन सत्येन सत्यवचनेन उभौ तव स्तनौ यथापौराणौ प्रादुर्भवेताम्। सहकृतेनास्मिन्नेवंरूपे सत्यवचने तस्या अस्मिन्नेव क्षणे उभौ स्तनौ यथापौराणौ प्रादुर्भूतौ॥



अथ शक्रस्य देवानामिन्द्रस्यैतदभवत्-अतित्यागोऽतित्यागगौरवता या रूपावत्या स्त्रिया कृतः। मा हैव सा रूपावती स्त्री अतः शक्रभवनाच्च्यावयेत्। यान्न्वहमेनां मिमांसेयम्। अथ शक्रो देवेन्द्र उदारब्राह्मणरूपमात्मानमभिनिर्माय सौवर्णदण्डकमण्डलुमादाय सुवर्णदण्डेन मणिवालव्यजनेन वीज्यमानस्तद्यथा बलवान् पुरुषः संमिञ्जितं बाहुं प्रसारयेत् प्रसारितं संमिञ्जयेत्, एवमेव शक्रो देवानामिन्द्रो देवेषु त्रायस्त्रिंशेष्वन्तर्हित उत्पलावत्यां राजधान्यां प्रत्यस्थात्। अथ शक्रो देवानामिन्द्र उत्पलावत्यां राजधान्यां भैक्ष्यमन्वाहिण्डन् येन रूपावत्याः स्त्रिया निवेशनं तेनोपसंक्रम्य द्वारि स्थित्वा भैक्ष्यमुत्क्रोशते। ततो रूपावती स्त्री भैक्षमादाय येन स ब्राह्मणवेषधरः शक्रः, तेनोपसंक्रम्य भैक्षमुपनामयते। अथ स शक्रो देवानामिन्द्रो रूपावतीं स्त्रियमेतदवोचत्- सत्यं ते रूपावति दारकस्यार्थायोभौ स्तनौ परित्यक्तौ ? सा आह - आर्यम् ब्राह्मण सत्यम्। स तामाह- एवं ते रूपावती उभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा अभूच्चित्तस्य विप्रतिसारः ? सा आह-न मे उभौ स्तनौ परित्यजन्त्या अभूच्चित्तस्य विप्रतिसारः। शक्र आह-अत्र कः श्रद्धास्यति ? रूपावत्याह- तेन हि ब्राह्मण सत्यवचनं करिष्यामि। येन सत्येन ब्रह्मन् सत्यवचनेनोभौ स्तनौ परित्यजामीति परित्यजन्त्याः परित्यज्य वा नाभूच्चित्तस्यान्यथात्वम्, नाभूच्चित्तस्य विप्रतिसारः, अपि च ब्रह्मन् येन सत्येन मया दारकस्यार्थायोभौ स्तनौ परित्यक्तौ, न राज्यार्थं न भोगार्थं न स्वर्गार्थं न शक्रार्थं न राज्ञां चक्रवर्तिनां विषयार्थं नान्यत्राहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य अदान्तान् दमयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मम स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवेत्। तस्यास्तस्मिन्नेव क्षणे स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्। अथ खलु शक्रो देवेन्द्रस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः तत एव ऋद्ध्या वैहायसमभ्युग्दम्योदानमुदानयति-रूपावत्याः स्त्रीन्द्रियमन्तर्हितम्, पुरुषेन्द्रियं प्रादुर्भूतम्। रूपावत्याः स्त्रियः रूपावतः कुमार इति संज्ञा उत्पादिता॥



अथापरेण समयेनोत्पलावत्यां राजधान्यां नगर्यां राजा अपुत्रः कालगतः। तत्र पण्डितजातीयानां महामात्राणामेतदभूत्- यन्नु वयमुत्पलावत्यां राजधान्यां राजानं स्थापयेम। तेषामेतदभूत्-नान्यत्र रूपावतकुमारात्कृतपुण्यात्कृतकुशलात्। ते रूपावतं कुमारमुत्पलावत्यां राजधान्यां राजानं स्थापयन्ति। अथ स षष्टिवर्षाणि राज्यं कारयति। धर्मेण राज्यं कारयित्वा कालमकार्षीत्। कायस्य भेदात्तस्यामेवोत्पलावत्यां राजधान्यामन्यतमस्य श्रेष्ठिनो गृहपतेरग्रमहिष्याः कुक्षावुपपन्नः। सा पूर्णानामष्टानां वा नवानां वा मासानामत्ययाद्दारकं जनयति अभिरूपं दर्शनीयं प्रासादिकं शुभवर्णपुष्कलतया समन्वागतम्। तस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया प्रभया चन्द्रस्य प्रभा निष्प्रभीकृता। अथान्यतरा स्त्री येन स श्रेष्ठी गृहपतिस्तेनोपसंक्रान्ता। उपसंक्रम्य श्रेष्ठिनं गृहपतिमेतेदवोचत्-यत्खलु गृहपते जानीयाः-ते दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः। तस्य जातमात्रस्य तादृशीकायात्प्रभा प्रमुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता। अथ स श्रेष्ठी गृहपतिस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातः तस्या एव रात्र्या अत्ययाद्ये जानन्ति ब्राह्मणा लक्षण्या नैमित्तिका वैपञ्चिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितज्ञाः, स तान् संनिपात्य दारकमुपदर्शयति- यत्खलु ब्राह्मणा जानीध्वम्-अयमग्रमहिष्या दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः। एतस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया चन्द्रस्य प्रभा निष्प्रभीकृता। तदस्य ब्राह्मणा दारकस्य लक्षणानि प्रेक्ष्य नाम अवस्थापयत। तस्ये त ब्राह्मणा लक्षणनैमित्तिका विपञ्चिका भूम्यन्तरीक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितेषु कोविदा दारकमुपगताः। ते संलक्ष्य वदन्ति-अयं ते गृहपते दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः शुभया वर्णपुष्कलतया समन्वागतः। अस्य जातमात्रस्य तादृशी कायात्प्रभा मुक्ता यया चन्द्रप्रभा निष्प्रभीकृता। तद्भवत्वस्य चन्द्रप्रभ इति नाम। अथ श्रेष्ठी गृहपतिस्तान् ब्राह्मणान् भोजयित्वा विसर्ज्य चन्द्रप्रभस्य दारकस्य चतस्रो धात्रीरनुप्रयच्छति अङ्कधात्री मलधात्री स्तनधात्री क्रीडापणिका धात्री। अङ्कधात्रीत्युच्यते या दारकमङ्केन परिकर्षयति, अङ्गप्रत्यङ्गानि च संस्थापयति। मलधात्रीत्युच्यते या दारकं स्नपयति, चीवरकान्मलं प्रपातयति। स्तन्यधात्र्युच्यते या दारकं स्तन्यं पाययति। क्रीडापनिका धात्र्युच्यते यानि तानि दारकाणां दक्षकाणां तरुणकानां क्रीडापनिकानि भवन्ति, तद्यथा-अकायिका सकायिका वित्कोटिका (?) स्यपेटारिका अघरिका वंशघटिका संघावणिका हस्तिविग्रहा अश्वविग्रहा बलीवर्दविग्रहाः कथयन्ति धनुर्ग्रहाः काण्डकटच्छुपूरकूर्चभैषज्यस्थविकाश्च पुरतः परिकृष्यन्ते। स आभिश्चतसृभिरुन्नीयते वर्ध्यते महता श्रीसौभाग्येन। यदा चन्द्रप्रभो दारकोऽष्टवर्षो जात्या संवृत्तः, तदैनं मातापितरौ सुस्नातं सुविलिप्तं सर्वालंकारविभूषितं कृत्वा संबहुलैर्दारकैः परिवृतं लिपिं प्रापयन्ते। तेन खलु समयेन तस्यां लिपिशालायां पञ्चमात्रकदारकशतानि लिपिं शिक्षन्ति। अथ चन्द्रप्रभो दारकस्तान् दारकानेतदवोचत्-एतद्दारका वयं सर्वेऽनुत्तरां सम्यक्संबोधिमभिसंबोधौ चित्तमुत्पादयेम। ते आहुः- किं चन्द्रप्रभ बोधिसत्त्वेन करणीयम् ? स आह- षट् पारमिताः परिपूरयितव्याः। कतमाः षट् ? तद्यथा- दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता। तदहं दानं ददामि, यन्न्वहं तिर्यग्योनिगतेभ्योऽपि दानं दद्याम्। स तीक्ष्णं शस्त्रमादाय मधुसर्पिश्च येनान्यतरं महाश्मशानं तेनोपसंक्रान्तः। शस्त्रेणात्मनः कायं क्षणित्वा मधुसर्पिषा म्रक्षयित्वा तस्मिन् स महाश्मशाने आत्मानं वधायोत्सृजति। तेन च समयेन तस्मिन् महाश्मशाने उच्चंगमः पक्षी प्रतिवसति। स चन्द्रप्रभस्य दारकस्याङ्गे स्थित्वा दक्षिणं नयनं गृहीत्वा उत्पाटयति, पुनर्मुञ्चति। द्विरपि त्रिरपि उच्चंगमः प्राणी चन्द्रप्रभस्य दारकस्य दक्षिणं नयनं गृहीत्वा उत्पाटयित्वा पुनर्मुञ्चति। अथ चन्द्रप्रभो दारक उच्चंगमं पक्षिणमिदमवोचत्- किमिदं पक्षि मम नयनं गृहीत्वा उत्पाटयित्वा पुनः प्रमुञ्चसि ? स आह- न मम चन्द्रप्रभ किंचिदेवमिष्ये (?) यथा मनुष्याक्षि। तं मन्ये चन्द्रप्रभ वारयिष्यसि ? चन्द्रप्रभ आह- सचेन्मम पक्षी सहस्रकृत्वो नयनं गृहीत्वा उत्पाटयतु, पुनर्मुञ्च (?), न त्वेवाहं वारयेयम्। इत्युक्त्वा तावन्तः पक्षिणः संनिपतिताः। येन चन्द्रप्रभो निर्मांसोऽस्थिशकलीकृतः। स कालमकार्षीत्। तस्यामेवोत्पलावत्यां राजधान्यामन्यतरस्य ब्राह्मणमहाशालस्याग्रमहिष्याः कुक्षौ उपपन्नः। सा पूर्णानां नवानां मासानामत्ययाद्दारकं जनयति, अभिरूपं दर्शनीयं प्रासादिकं शुभया वर्णपुष्कलतया समन्वागतम्। तस्य सहजातमात्रस्य तादृशी कायात्प्रभा मुक्ता, यया ब्रह्मप्रभा निष्प्रभीकृता। तस्य मतापितरौ ब्रह्मप्रभ इति नाम स्थापितवन्तौ।यदा ब्रह्मप्रभो नाम माणवकोऽष्टवर्षजातीयः संवृत्तः, तेन सर्वे ब्राह्मणका मन्त्रा अधीताः। यदा ब्रह्मप्रभो माणवको द्वादशवर्षजातीयः संवृत्तः, स पञ्चमात्राणि माणवकानि स्वयमेव मन्त्रान् वाचयति। यदा ब्रह्मप्रभो माणवकः षोडशवर्षो जात्या संवृत्तः, तदैनं मातापितरौ आहतुः-ब्रह्मप्रभ, तवार्थाय निवेशनं करिष्यावः। स आह- अम्ब तात, न तावन्मम निवेशनेन प्रयोजनम्। तौ आहतुः -किं पुनस्त्वं ब्रह्मप्रभ करिष्यसि ? स आह- इच्छाम्यहं सत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्। तौ आहतुः-यस्येदानीं ब्रह्मप्रभ कालं मन्यसे। ब्रह्मप्रभमाणवको मातापित्रोः पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य उत्पलावत्या राजधान्या निष्क्रम्य येनान्यतरद्वनषण्डं तेनोपसंक्रान्तः। तेन खलु समयेन तस्मिन् वनषण्डे द्वौ व्राह्मणर्षी प्रतिवसतः। अपश्यतां तौ ब्राह्मणर्षी ब्रह्मप्रभं माणवकं दूरत एवागच्छन्तम्। दृष्ट्वा च ब्रह्मप्रभं माणवकमेतदवोचत्-एहि ब्रह्मप्रभ, स्वागतम्, मा श्रान्तोऽसि, मा क्लान्तः। किमर्थमिदं वनषण्डमभ्यागतः ? स आह- इच्छाम्यहं सर्वसत्त्वानामर्थाय तपस्तप्तुं दुष्करं चरितुम्। तौ आहतुः- एवमस्तु, भवतु, ऋद्ध्यन्तां संकल्पाः, परिपूर्यन्तां मनोरथाः॥



अथ ब्रह्मप्रभो माणवकोऽन्यतरस्मिन् प्रदेशे कुटीं कारयित्वा चंक्रमं प्रतिष्ठाप्य सत्त्वानामर्थाय तपस्तप्तवान्। अथापरेण समयेन ब्रह्मप्रभस्य कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता। तां ब्रह्मप्रभो माणवकोऽद्राक्षीत्। तां दृष्ट्वा च येन पुनस्तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः। उपसंक्रम्य तौ च ब्रह्मर्षी एतदवोचत्- यत्खलु ऋषी जानीताम्-इह मे कुट्या नातिदूरे व्याघ्री गुर्विणी वासमुपगता। तस्याः क उत्सहते भक्तं दातुम् ? तौ आहतुः-आवां तस्या भक्तं दास्यावः। अथापरेण समयेन व्याघ्री प्रसूता क्षुत्क्षामपरीता इच्छति स्वकौ पोतकौ भक्षयितुम्। एकं पोतकं गृह्णाति द्वितीयं मुञ्चति, न भक्षयति। तां ब्रह्मप्रभो माणवकोऽपश्यत्। दृष्ट्वा च पुनर्येन तौ ब्रह्मर्षी तेनोपसंक्रान्तः। उपसंक्रम्य पुनर्येन तौ द्वौ ब्रह्मर्षी तेनोपसंक्रान्तः। उपसंक्रम्य द्वौ ब्रह्मर्षी एतदवोचत्-यत्खलु ब्राह्मणौ जानीताम्- सा व्याघ्री प्रसूता क्षुत्क्षामपरीता स्वकौ पोतकौ भक्षयितुमिच्छति। एकं पोतकं गृहीत्वा द्वितीयं मुञ्चति न भक्षयति। तस्याः क उत्सहते भक्तं दातुम् ? तौ आहतुः-आवां तस्या भक्तं दास्यावः। अथ तौ ब्रह्मर्षी येन सा व्याघ्री तेनोपसंक्रान्तौ। अपश्यत्सा व्याघ्री ब्रह्मर्षी दूरत एवागच्छन्तौ। दृष्ट्वा च क्षुत्क्षामपरीता अभिद्रवितुकामा। तयोरेतदभूत्-क उत्सहते तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुमिति ? तौ तत एव ऋद्ध्या वैहायसमभिनिर्गतौ। ब्रह्मप्रभो माणवकोऽद्राक्षीत्। दृष्ट्वा च पुनस्तौ ब्रह्मर्षी एतदवोचत्-ननु ब्राह्मणौ, युवाभ्यामेतदुक्तम्-आवामस्या भक्तं दास्याव इति। एतत्खलु ब्राह्मणौ युवयोर्ब्राह्मणजात्योः सत्यम् ? तौ आहतुः-क उत्सहते तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम् ? ब्रह्मप्रभो माणवक आह-अहमुत्सहे तिर्यग्योनिगतस्यार्थाय जीवितं परित्यक्तुम्। अथ स ब्रह्मप्रभो माणवको येन सा व्याघ्री तेनोपसंक्रान्तः। तस्या व्याघ्र्याः पुरत आत्मानमवसृजति स्म। ब्रह्मप्रभो माणवो मैत्रीविहारी बभूव। सा तं न शक्ताभिद्रोतु(ग्धु) म्। अथ ब्रह्मप्रभस्य माणवस्यैतदभवत्-इयं मम व्याघ्री सविज्ञानकं कायं न भक्षयति। स इतश्वेतश्च विलोकितवान्। ततस्तीक्ष्णं च वेणुपेशीं तीक्षां गृहीत्वा इदमेवं रूपं सत्यवचनमकरोत्- समन्वाहरन्तु मे येऽस्मिन् वनषण्डेऽघ्युषिता उदारा देवा नागा यक्षा असुरा गरुडाः किन्नरा महोरगाः, तेऽपि सर्वे समन्वाहरन्तु। अयमहं त्यागं करिष्यामि, अतित्यागं त्यागातित्यागं स्वयं गलपरित्यागम्। अपि तु येनाहं सत्येन सत्यवचनेन परित्यजामि, न राज्यार्थं न भोगार्थं न शक्रार्थं न राजचक्रवर्तिविषयार्थम्, अन्यत्र कथमहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य अदान्तान् दमयेयम्, अतीर्णान् तारयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्, तेन सत्येन सत्यवचनेन मा मे परित्यागो निष्फलो भूदिति कृत्वा स्वयमेव गलं छित्त्वा तस्या व्याघ्याः पुरत उपनिक्षिपति।



व्याघ्रीनखावलिविलासविलुप्यमाना

वक्षःस्थली क्षणमलक्ष्यत वीक्षतारा (?)।

रोमाञ्चचर्चिततनोस्तुहिनांशुशुभ्र-

सत्त्वा प्रकाशकिरणङ्कुरपूरितेव॥१॥



तस्यामिषाहरणशोणितपानमत्तां

व्याघ्रीं सहस्रमवलोकयतश्चकार।

दीर्घप्रवाससमयाकुलिता मुहूर्तं

कण्ठावलम्दनधृतिं निजजीववृत्तिः॥२॥



सहपरित्यक्ते खलु भिक्षवो ब्रह्मप्रभेण माणवेन स्वके गले, अयं त्रिसाहस्रमहासाहस्रो लोकधातुः कम्पति संकम्पति संप्रकम्पति, चलति संचलति संप्रचलति, वेधति संवेधति संप्रवेधति, पूर्वा दिगुन्नमति पश्चिमा अवनमति, पश्चिमा दिगुन्नमति पूर्वा दिगवनमति, दक्षिणा दिगुन्नमति उत्तरा दिगवनमति, उत्तरा दिगुन्नमति दक्षिणा दिगवनमति, मध्यमुन्नमति, अन्तोऽवनमति, अन्त उन्नमति, मध्यमवनमति, सूर्यचन्द्रमसौ न तपतो न भासतो न विराजतः॥



स्याद्युष्माकं भिक्षवोऽन्या सा तेन समयेनोत्तरापथेषु जनपदेषूत्पलावतीनाम नगरी राजधानी बभूव। न ह्येवं द्रष्टव्यम्। पुष्कलावतं तेन कालेन तेन समयेनोत्पलावतं नाम नगरं राजधानी बभूव। स्याद्भिक्षवो युष्माकं काङ्क्षा विमतिर्वा-अन्यः स तेन कालेन तेन समयेनोत्पलावते नगरे राजधान्यां रूपावती स्त्री बभूव। न ह्येवं द्रष्टव्यम्। अहं स तेन कालेन तेन समयेन रूपावती नाम स्त्री बभूव। स्याद्भिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन तेन समयेनापरवरके स्त्री प्रसूता। न चैवं द्रष्टव्यम्। चन्द्रप्रभमाणविका तेन कालेन तेन समयेनापवरके स्त्री प्रसूता। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा- अन्यस्तेन कालेन तेन समयेन दारको बभूव। न ह्येवं द्रष्टव्यं। राहुलः कुमारः स तेन कालेन तेन समयेन दारकोऽभूत्। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव। न ह्येवं द्रष्टव्यम्। अहमेव स तेन कालेन तेन समयेन चन्द्रप्रभो नाम दारको बभूव। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यः स तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतान्यभूवन्। न ह्येवं द्रष्टव्यम्। इमानि तानि पञ्च एतद्भद्रिकशतानि तेन कालेन तेन समयेन पञ्चमात्राणि दारकशतानि अभूवन्। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतीर्वा-अन्यः स तेन कालेन तेन समयेन तस्मिन् महाश्मशाने उच्चंगमो नाम पक्षी बभूव। न ह्येवं द्रष्टव्यम्। कौण्डिन्यो भिक्षुस्तेन कालेन तेन समयेनोच्चंगमो नाम पक्षी बभूव। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यः स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत्। न हैवं द्रष्टव्यम्। अहमेव स तेन कालेन तेन समयेन ब्रह्मप्रभो नाम माणवोऽभूत्। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यौ तौ तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूताम्। न हैवं द्रष्टव्यम्। राजा शुद्धोदनो मायादेवी तेन कालेन तेन समयेन ब्रह्मप्रभस्य माणवस्य मातापितरौ अभूवताम्। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा- अन्यः स तेन कालेन तेन समयेन वनमभूत्।..... स्याभ्दिक्षवो युष्माकं काङ्क्षा वा विमतिर्वा-अन्यौ तौ तेन कालेन तेन समयेन द्वौ ब्रह्मर्षी अभूताम्। न हैवं द्रष्टव्यम्। मैत्रेयो बोधिसत्त्वः सुप्रभश्च बुद्धस्तेन कालेन तेन समयेन तस्मिन् वनषण्डे द्वौ ब्रह्मर्षी अभूताम्। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा -अन्यः स तेन कालेन तेन समयेन व्याघ्री बभूव। न हैवं द्रष्टव्यम्। कौण्डिन्यो भिक्षुः स तेन कालेन तेन समयेन (व्याघ्री) बभूव। स्याद्युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यौ पोतौ तेन कालेन तेन समयेन द्वौ व्याघ्रतोपौ बभूवतुः। न हैवं द्रष्टव्यम्। नन्दो भिक्षुः राहुलश्च तेन कालेन तेन समयेन व्याघ्रपोतकौ अभूताम्। तदा मे भिक्षवश्चत्वारिंशत्कल्पसंप्रस्थितो मैत्रेयो बोधिसत्त्व एकेन गलपरित्यागेन पश्चान्मुखीकृतः। तदनेन भिक्षवः पर्यायेण वेदितव्यम्। एवं सचेत् सर्वे सत्त्वा जानीयुः-दानस्य फलं दानसंविभागस्य च विपाकं यथा अहं जानामि दानस्य फलं दानसंविभागस्य च विपाकम्, योऽसौ चरमः कवलः पश्चिम आलोपः, तमपि नादत्त्वा नासंविभज्यापरेष्वात्मना नोपभुञ्जीरन्, नाप्युत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्। यस्मात्तर्हि भिक्षवः सत्त्वा न जानन्ति दानस्य फलं दानसंविभागस्य च विपाकम्, तस्मात्सत्त्वा योऽसौ चरमः कवलः पश्चिम आलोपः, तमप्यदत्त्वा अंसविभज्य अपरेषामात्मना परिभुञ्जते, उत्पन्नश्चैषां मात्सर्यमलश्चित्तं पर्यादाय तिष्ठति॥



पुराकृतं न पश्यति नो शुभाशुभं न सेवितम्।

न पश्यति पण्डिते जने न नाशमेत्यार्यगणे॥३॥



शुभाशुभं कृतं कृतज्ञेषु न जातु नश्यति।

सुकृतं शोभनं कर्म दुष्कृतं चाप्यशोभनम्।

उभयस्य विपाकोऽस्ति ह्यवश्यं दास्यते फलम्॥४॥



इदमवोचद्भगवान्। आत्तमनसो भिक्षवो भिक्षुण्य उपासका उपासिका देवनागयक्षासुरगरुडकिन्नरमहोरगाः सर्वावती च परिषद्भगवतो भाषितमभ्यनन्दन्॥



रूपावत्यवदानं द्वात्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project