Digital Sanskrit Buddhist Canon

३१ तोयिकामहावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३१ तोयिकामहावदानम्।



तत्र भगवानायुष्मन्तमामन्त्रयते स्म- आगमय आनन्द येन श्रावस्तीति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्। अथ भगवान् येन श्रावस्ती तेन चारिकां प्रक्रान्तः। यावदन्यतमस्मिन् प्रदेशे ब्राह्मणश्छिन्नभक्तो हलं वाहयति, तस्यार्थाय दारिका पेयामादाय गता। भगवांश्च तं प्रदेशमनुप्राप्तः। ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। सहदर्शनाच्चास्य भगवति प्रसाद उत्पन्नः। न तथा द्वादशवर्षाभ्यस्तः समथश्चित्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रप्रतिलम्भः, दरिद्रस्य वा निधिदर्शनम्, राज्याभिनन्दिनो वा राज्याभिषेकः, यथोपचितकुशलमूलस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। स तां पेयामादाय लघुलघ्वेव येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमेतदवोचत्-इयं भो गौतम पेया। यद्यस्ति ममान्तिकेऽनुकम्पा, पिबेद्भगवान् गौतमः पेयामिति। ततो भगवता ब्राह्मणस्य जीर्णकूपो दर्शितः-सचेत्ते ब्राह्मण परित्यक्ता, अस्मिन् जीर्णकूपे प्रक्षिपेति। तेन तस्मिन् जीर्णकूपे प्रक्षिप्ता। स जीर्णकूपो वाप्यायमानः पेयापूर्णः, यथापि तद्बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन। ततो भगवता स ब्राह्मणोऽभिहितः-चारय महाब्राह्मण पेयामिति। स चारयितुमारब्धः। भगवता तथा अधिष्ठिता यथा सर्वसंघेन पीता। स च जीर्णकूपो वाप्यायमानस्तथैव पेयापूर्णोऽवस्थितः। ततोऽसौ ब्राह्मणो भूयस्य मात्रया अभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदानादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत‍आपत्तिफलं साक्षात्कृतम्। अतिक्रान्तोऽहं भदन्त, अतिक्रान्तः। एषोऽहं भगवन्तं बुद्धं गच्छामि धर्मं च भिक्षुसंघं च। उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्। अथासौ ब्राह्मणो वणिगिव लब्धलाभः शस्यसंपन्न इव कृषीवलः शूर इव विजितसंग्रामः सर्वरोगनिर्मुक्त इवातुरो भगवतो भाषितमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रकान्तो यावत्क्षेत्रं गतः। पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्। दृष्ट्वा च पुनर्विस्मयोत्फुल्ललोचनो गाथां भाषते-



अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

अद्यैव वापितं बीजमद्यैव फलदायकम्॥१॥



ततोऽसौ ब्राह्मणस्त्वरितत्वरितं राज्ञः सकाशमुपसंक्रान्तः। उपसंक्रम्य जयेनायुषा वर्धयित्वा राजानमुवाच-देव, मया यवाः प्रकीर्णाः, तै सौवर्णाः संवृत्ताः। तस्याधिष्ठायकेन प्रसादः क्रियतामिति। राज्ञा अधिष्ठायकोऽनुप्रेषितः। ब्राह्मणेन राशीकृत्य भाजितः। राजभागः। स्वाभाविका यवाः संवृत्ताः। अधिष्ठायकेन राज्ञे निवेदितम्। राज्ञा समादिष्टम्‌पुनर्भाजयतेति। तैःपुनर्भाजितम्। तथैव राजभागः स्वाभाविका यवाः संवृत्ताः। एवं यावत् सप्तकृत्वो भाजितम्। तथैव। राजा कुतूहलजातः स्वयमेव गतः पश्यति-तथैव। तेनासौ ब्राह्मणोऽभिहितः-ब्राह्मण, तवैतत्पुण्यनिर्जातम्। अलं राजभागेन, यथाभिप्रेतं तन्ममानुप्रयच्छेति। ततस्तेन ब्राह्मणेन परितुष्टेन यद्दतम्, तत्सौवर्णाः संवृत्ताः॥



ततो भगवान् संप्रस्थितः। यावदन्यतमस्मिन् प्रदेशे पञ्चकार्यशतान्युत्पाडुत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लाङ्गलानि वाहयन्ति। तेऽपि बलीवर्दा बद्धैः प्रयोक्त्रैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्महुर्निश्वसन्तो वहन्ति। ददृशुस्ते कार्षका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववद्यावदुपचितकुशलमूलसत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। ततो येन भगवांस्तेनोपसंक्रान्ताः। अद्राक्षीद्भगवांस्तान् कार्षकान् दूरादेव। दृष्ट्वा च पुनर्विनेयापेक्षया मार्गादपक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। एते कार्षका भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णाः। ततो भगवता तेषां कार्षकाणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, पूर्ववद्यावदनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत‍आपत्तिफलं साक्षात्कृतम्। ते दृष्टसत्या येन भगवांस्तेनोपसंक्रान्तः। प्रणमय्य भगवन्तमिदमवोचन् - देशय भदन्त, स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेम भगवतोऽन्तिके ब्रह्मचर्यमिति। ते भगवता एहिभिक्षुकया प्रव्रजिताः पूर्ववद्यावत्तेऽवस्थिता बुद्धमनोरथेन। तेषां भगवता अववादो दत्तः। तैर्यज्यमानैः पूर्ववदभिवाद्याश्च संवृत्ताः। तेऽपि बलीवर्दा योक्र्क्त्राणि वरत्राणि च छित्त्वा येन भग्वांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवन्तं सामन्तकेन अनुपरिवार्यावस्थिताः। तेषां भगवता त्रिभिः पदार्थैर्धर्मो देशितः पूर्ववद्यावद्यथा गङ्गावतारे हंसमत्स्यकूर्माणां यावद् दृष्टसत्याः स्वर्भवनं गताः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं नु तैः कार्षकपूर्वकैर्भिक्षुभिः कर्म कृतं येन कार्षकाः संवृत्ताः, भगवतश्च शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? तैर्बलीवर्दपूर्वकैर्देवपुत्रैः किं कर्म कृतम्, येन बलीवर्देषूपपन्नाः, सत्यदर्शनंचकृतमिति ? भगवानाह-एभिरेव भिक्षवः कर्माणि कृतान्युपाचितानि लब्धसंभाराणि पूर्ववद्यावत्फलन्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि। पूर्ववत्। स वाराणसीनगरीमुपनिश्रित्य बिहरति ऋषिवदने (पतने) मृगदावे। तस्य शासने एतानि पञ्च कर्षकशतानि प्रव्रजितान्यभूवन्। तत्रैभिर्न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः। किं तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनाभिनामितम्॥



किं मन्यध्वे भिक्षवो यानि ताणि पञ्च भिक्षुशतानि, एतान्येव तानि पज़्न्च कर्षकशतानि। योऽसौ विहारस्वामी, स एवासौ गृहपतिर्यस्यैते कार्षकाः। यदेभिर्विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो विहितः, किं तु संगणिकाभिरतैः कौशीद्येनाभिनामितम्, तेन कर्मणा पञ्च जन्मशतानि तस्य विहारस्वामिनः कार्षकाः संवृत्ताः। यावदेतर्ह्यपि तस्यैव कार्षका जाताः। यदेभिः काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रज्य ब्रह्मचर्यं चरितम्, एनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। ते च बलीवर्दपूर्विणो देवपुत्राः काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजिता आसन्। तत्रैभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि। तेन कर्मणा बलीवर्देषूपपन्नाः। यन्ममान्तिके चित्तमभिप्रसादितम्, तेन देवेषुपपन्नाः। यत्काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं वासितम्, तेनेदानीं देवपुत्रभूतैः सत्यदर्शनं कृतम्। इति भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, पूर्ववाद्यावदाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



तत्र भगवानायुष्मन्तमामन्त्रयते स्म-आगमय आनन्द येन तोयिका। एवं भदन्तेत्यायुष्मानानन्दो भगवतोऽश्रौषीत्। भगवांस्तोयिकामनुप्राप्तः। तस्मिंश्च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति। अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रं पूर्ववद्यावत्समन्ततो भद्रकम्। दृष्ट्वा संलक्षयति-यदि भगवन्तं गौतममुपेत्य अभिवादयिष्यामि, कर्मपरिहाणिर्मे भविष्यति। अथ नोपेत्याभिवादयिष्यामि, पुण्यपरिहाणिः। तत्कोऽसावुपायः स्याद्येन मे न कर्मपरिहाणिः स्यान्नापि पुण्यपरिहाणिरिति ? तस्य बुद्धिरुत्पन्ना-अत्रस्थ एवाभिवादनं करोमि। एवं न कर्मपरिहाणिर्भवति नापि पुण्यपरिहाणिरिति। तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनाभिवादनं कृतम्-अभिवादये बुद्धं भगवन्तम्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-क्षण आनन्द एष ब्राह्मणः। सचेदस्यैवं सम्यक्प्रत्यात्मज्ञानदर्शनं प्रवर्तते। एतस्मिन् प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति। अथानेनोपसंक्रम्य वन्दितो भवेयम्। एवमनेन द्वाभ्यां सम्यक्संबुद्धाभ्यां वन्दना कृता भवेत्। तत्कस्य हेतोः ? अस्मिन् आनन्द प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितोऽस्थिसंघातस्तिष्ठतीति। अथायुष्मानानन्दो लघुलघ्वेव चतुर्गुणमुत्तरासङ्गं प्रज्ञप्त भगवन्तमिदमवोचत्-निषीदतु भगवान् प्रज्ञप्त एवासने। एवमयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्संबुद्धाभ्यां परिभुक्तो भविष्यति, यच्च काश्यपेन सम्यक्संबुद्धेन, यच्चैतर्हि भगवतेति। निषण्णो भगवान् प्रज्ञप्त एवासने। निषद्य भगवान् भिक्षूनामन्त्रयते स्म-इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुम् ? एतस्य भगवन् कालः, एतस्य सुगत समयोऽयम्। भगवान् भिक्षूणां कास्यपस्य सम्यक्संबुद्धस्याविकोपितं शरीरसंघातमुपदर्शयतु, दृष्टु भिक्षवश्चित्तमभिप्रसादयिष्यन्ति। भगवता लौकिकं चित्तमुत्पादितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये कुन्तपिपीलिकादयोऽपि प्राणिनो भगवतश्चेतसा चित्तमाजानन्ति। नागाः संलक्षयन्ति- किं कारणं भगवता लौकिकं चित्तमुत्पादितम् ? भगवान् काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातमविकोपितं द्रष्टुकामः। ततस्तैः काश्यपस्य सम्यक्संबुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः। तत्र भगवान् भिक्षूनामन्त्रयते स्म-गृह्णीत भिक्षवो निमित्तम्। अन्तर्धास्यतीति। अन्तर्हितः॥



राज्ञा प्रसेनजिता श्रुतम्-भगवता श्रावकाणां दर्शनाय अविकोपितः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघात उच्छ्रापित इति। श्रुत्वा च पुनः कुतूहलजातः सार्धमन्तः- पुरेण कुमारैरमात्यैर्भटबक्लाग्रैर्नैगमजनपदैश्च द्रष्टुं संप्रस्थितः। एवं विरूढकोऽनाथपिण्डदो गृहपतिः, ऋषिदत्तः पुराणस्थापतिः, विशाखा मृगारमाता, अनेकानि च प्राणिशतसहस्राणि कुतूहलजातानि द्रष्टुं संप्रस्थितानि पूर्वकैश्च कुशलमूलैः संचोद्यमानानि। यावदसौ अन्तर्हितः। तैः श्रुतम्-अन्तर्हितोऽसौ भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघात इति। श्रुत्वा च पुनस्तेषां दुःखदौर्मनस्यमुत्पन्नम्-वृथा अस्माकमागमनं जातमिति॥



अथान्यतमेन चिपासकेन स प्रदेशः प्रदक्षिणीकृतः। एवं चेतसा चित्तमभिसंस्कृतम्- अस्मान्मे पदाविहारात् कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणिसुवर्णनिष्का

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तः

पदाविहारं प्रकरोति विद्वान्॥२॥



अन्यतमेनाप्युपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः। एवं चित्तमभिसंस्कृतम्-पदाविहारस्य तावदियत्पुण्यमाख्यातं भगवता। अस्य तु मृत्तिकापिण्डस्य कियत्पुण्यं भविष्यतीति ? अथ भगवान् तस्यापि चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणिसुवर्णपिण्डं

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्त

आरोपयेन्मृत्तिकपिण्डमेकम्॥३॥ इति॥



तच्छ्रुत्वा अनेकैः प्राणिशतसहस्रैर्मृत्पिण्डसमारोपणं कृतम्। अपरैस्तत्र मुक्तपुष्पाणि क्षिप्तानि, एवं चित्तमभिसंस्कृतम्-पदाविहारस्य मृत्तिकापिण्डस्य चेयत्पुण्यमुक्तं भगवता, अस्माकं तु मुक्तपुष्पाणां कियत्पुण्यं भविष्यतीति? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणिसुवर्णमूढं

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्त

आरोपयेन्मुक्तकपुष्पराशिम्॥४॥ इति।



अपरैस्तत्र मालाविहारः कृतः, चित्तं चाभिसंस्कृतम्-मुक्तपुष्पाणां भगवता इयत्पुण्यमुक्तम्। अस्माकं मालाविहारस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणीसुवर्णवाहा

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तो

मालाविहारं प्रकरोति विद्वान्॥५॥ इति।



अपरैस्तत्र दीपमाला दत्ता, चित्तं चाभिसंस्कृतम्-मालाविहारस्य भगवता इयत्पुण्यमुक्तम्। अस्माकं प्रदीपदानस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथा भाषते-



शतंसहस्राणिसुवर्णकोट्यो

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तः

प्रदीपदानं प्रकरोति विद्वान्॥६॥ इति।



अपरैस्तत्र गन्धाभिषेको दत्तः, चित्तं चाभिसंस्कृतम्-प्रदीपदानस्य भगवता इयत् पुण्यमुक्तम्। अस्माकं गन्धाभिषेकस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषां चेतसा चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणिसुवर्णराशयो

जाम्बूनदा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्तो

गन्धाभिषेकं प्रकरोति विद्वान्॥७॥ इति।



अपरैस्तत्र ध्वजपताकारोपणं कृतम्, चित्तं चाभिसंस्कृतम्-पदाविहारस्य मृत्पिण्डदानस्य मुक्तपुष्पाणां मालाविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य च इयत्पुण्यमुक्तं भगवता, अस्माकं छत्रध्वजपताकारोपणस्य कियत्पुण्यं भविष्यतीति ? अथ भगवांस्तेषां चित्तमाज्ञाय गाथां भाषते-



शतंसहस्राणिसुवर्णपर्वता

मेरोः समा नास्य समा भवन्ति।

यो बुद्धचैत्येषु प्रसन्नचित्त

आरोपयेच्छत्रध्वजपताकम्॥८॥



एषां हि दक्षिणा प्रोक्ता अप्रमेये तथागते।

समुद्रकल्पे संबुद्धे सार्थवाहे अनुत्तरे॥ ९॥ इति।



तेषामेतदभवत् -परिनिर्वृतस्य तावद्भगवतः पूजाकरणादि यत्पुण्यमुक्तं भगवता, तिष्ठतः कियत्पुण्यं भविष्यतीति। अथ भगवांस्तेषामपि चेतसा चित्तमाज्ञाय गाथां भाषते-



तिष्ठन्तं पूजयेद्यच्च यच्चापि परिनिर्वृतम्।

समं चित्तप्रसादेन नास्ति पुण्यविशेषता।

एवं ह्यचिन्तिया बुद्धा बुद्धधर्माप्यचिन्तिया॥१०॥



अचिन्तियैः प्रसन्नानामप्रतिहतधर्मचक्रप्रवर्तिनाम्।

सम्यक्संबुद्धानां नालं गुणपारमधिगन्तुम्॥११॥ इति॥



ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः। कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदुष्मगतानि प्रतिलब्धानि, कैश्चिद् मूर्धानः, कैश्चित्सत्यानुलोमाः क्षान्तयः, कैश्चिच्छ्रोत‍आपत्तिफलं साक्षात्कृतम्, कैश्चित्सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित्सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। सार्धं तत्र ब्राह्मणगृहपतिभिस्तस्मिन् प्रदेशे महः स्थापितः- तोयिकामहस्तोयिकामह इति संज्ञा संवृत्ता॥



इति तोयिकामहावदानमेकत्रिंशत्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project