Digital Sanskrit Buddhist Canon

२९ अशोकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 29 aśokāvadānam
२९ अशोकावदानम्।



यदा राज्ञा अशोकेन अर्धामलकदानेन भगवच्छासने श्रद्धा प्रतिलब्धा, स भिक्षूनुवाच- केन भगवच्छासने प्रभूतं दानं दत्तम् ? भिक्षव ऊचुः-अनाथपिण्डदेन गृहपतिना। राजा आह- कियत्तेन भगवच्छासने दानं दत्तम् ? भिक्षव ऊचुः कोटिशतं तेन भगवच्छासने दानं दत्तम्। श्रुत्वा च राजा अशोकश्चिन्तयति-तेन गृहपतिना भूत्वा कोटिशतं भगवच्छासने दानं दत्तम्। तेनाभिहितम् - अहमपि कोटिशतं भगवच्छासने दानं दास्यामि। तेन यावच्चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, सर्वत्र च शतसहस्राणि दत्तानि- जातौ, बोधौ, धर्मचक्रे, परिनिर्वाणे च, सर्वत्र शतसहस्रं दत्तम्। पञ्चवार्षिकं कृतम्। तत्र च चत्वारि शतसहस्राणि दत्तानि, त्रीणि शतसहस्राणि भिक्षूणां भोजितानि यत्रैकर्महतां द्वौ शैक्षाणां पृथग्जनकल्याणकानां च। कोशं स्थापयित्वा महापृथिवीमन्तः- पुरामात्यगणमात्मानं कुणालं च आर्यसंघे निर्यातयित्वा चत्यारि शतसहस्राणि दत्त्वा निष्क्रीतवान्। षण्णवतिकोट्यो भगवच्छासने दानं दत्तम्। स यावद् ग्लानीभूतः। अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः। तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तम्। तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच-



यच्छत्रुसंघैः प्रबलैः समेत्य

नोद्वीक्षितं चण्डदिवाकराभम्।

पद्माननश्रीशतसंप्रपीतं

कस्मात् सबाष्पं तव देव वक्त्रम्॥ १॥



राजा आह- राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि, किं तु शोचामि- आर्यैर्यद्विप्रयुक्ष्यामि।



नाहं पुनः सर्वगुणोपपन्नं

संघं समक्षं नरदेवपूजितम्।

संपूजयिष्यामि वरान्नपानै-

रेतं विचिन्त्याश्रुविमोक्षणं मे॥२॥



अपि च राधगुप्त, अयं मे मनोरथो बभूव-कोटिशतं भगवच्छासने दानं दास्यामीति, स च मेऽभिप्रायो न परिपूर्णः। ततो राज्ञा अशोकेन चत्वारः कोट्यः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रेषयितुमारब्धः॥



तस्मिंश्च समये कुणालस्य संपदिर्नाम पुत्रो युवराज्ये प्रवर्तते। तस्यामात्यैरभिहितम्- कुमार, अशोको राजा स्वल्पकालावस्थायी। इदं च द्रव्यं कुर्कुटारामं प्रेषयते। कोशबलिनश्च राजानः। निवारयितव्यः। आवत् कुमारेण भाण्डागारिकः प्रतिषिद्धः। यदा राज्ञोऽशोकस्याप्रतिषिद्धा (तस्य) सुवर्णभाजने आहारमुपनाम्यते। भुक्त्वा तानि सुवर्णभाजनानि कुर्कुटारामं प्रेषयति। तस्य सुवर्णभाजनं प्रतिषिद्धम्। रूप्यभाजने आहरंमुपनाम्यते, ताण्यपि कुर्कुटारामं प्रेषयति। ततो रूप्यभाजनमपि प्रतिषिद्धम्, यावल्लोहभाजन आहार-मुपनाम्यते। तान्यपि राजा अशोकः कुर्कुटारामं प्रेषयति। तस्य यावन्मृद्भाजन आहारमुपनाम्यते। तस्मिंश समये राज्ञोऽशोकस्य अर्धामलकं करान्तरगतम्। अथ राजा अशोकः संविग्नोऽमात्यान् पौरांश्च संनिपात्य कथयति- कः सांप्रतं पृथिव्यामीश्वरः ? ततोऽमात्य उत्थायासनाद्येन राजा अशोकस्तेनाञ्जलिं प्रणम्योवाच- देवः पृथिव्यामीश्वरः। अथ राजा अशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच-



दाक्षिण्यादनृतं हि किं कथयत भ्रष्टाधिराज्या वयं

शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम।

ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमं

मर्त्येन्द्रस्य ममापि यत्प्रतिभयं दारिद्र्यमभ्यागतम्॥३॥



अथवा को भगवतो वाक्यमन्यथा करिष्यति ? संपत्तयो हि सर्वा विपत्तिनिधना इति प्रतिज्ञातं यदवितथवादिना गौतमेन, न हि तद्विसंवदति॥



प्रतिशिष्यतेऽस्मन्ने चिरादाज्ञा मम यावती यथा मनसा।

साद्यैव महाद्रिशिलातलविहतनदीवत् प्रतिनिवृत्ता॥४।



आज्ञाप्य व्यवधूतडिम्बडमरामेकातपत्रां मही-

मुत्पाट्य प्रतिगर्वितानरिगणानाश्वास्य दीनातुरान्।

भ्रष्टस्वायतनो न भाति कृपणः संप्रत्यशोको नृपः

छिन्नाम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा॥ ५॥



ततो राजा अशोकः समीपं गतं पुरुषमाहूयोवाच- भद्रमुख, पूर्वगुणानुरागाद्भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु। इदं ममार्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय। मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यम्- जम्बुद्वीपैश्वर्यस्य राज्ञ एष सांप्रतं विभव इति। इदं तावदपश्चिमं दानं तथा परिभोक्तव्यं यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति। आह च-



इदं प्रदानं चरमं ममाद्य

राज्यं च तं चैव गतं स्वभावम्।

आरोग्यवैद्योषधिवर्जितस्य

त्राता न मेऽस्त्यार्यगणाद्बहिर्धा॥६॥



तत्तथा भुज्यतां तेना प्रदानं मम् पश्चिमम्।

यथा संघगता मेऽद्य विस्तीर्णा दक्षिणा भवेत्॥७॥



एवं देवेति स पुरुषो राज्ञोऽशोकस्य प्रतिश्रुत्य तदर्धामलकं गृह्य कुर्कुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं संघे निर्यातयन्नुवाच-



एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा

लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः।

भाग्यच्छिद्रमवेक्ष्य सोऽद्य नृपतिः स्वैः कर्मभिर्वञ्चितः

संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः॥८॥



भक्त्यवनतेन शिरसा प्रणम्य संघाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिह्नितम्। ततः संघस्थविरो भिक्षूनुवाच- भदन्ता भवन्तः, शक्यमिदानीं संवेगमुत्पादयितुम्। कुतः ? एवं ह्युक्तं भगवता-परविपत्तिः संवेजनीयं स्थानमिति। कस्येदानीं सहृदयस्य संवेगो नोत्पद्यते ? कुतः ?



त्यागशूरो नरेन्द्रोऽसावशोको मौर्यकुञ्जरः।

जम्बुद्वीपेश्वरो भूत्वा जातोऽर्धामलकेश्वरः॥९॥



भृत्यैः स भूमिपरितद्य हृताधिकारो

दानं प्रयच्छति किलामलकार्धमेतत्।

श्रीभोगाविस्तरमदैरतिगर्वितानां

प्रत्यादिशन्निव मनांसि पृथग्जनानाम्॥१०॥



यावत्तदर्धामलकं चूर्णयित्वा यूषे प्रक्षिप्य संग़्हे चारितम्। ततो राजा अशोको राधगुप्तमुवाच- कथय राधगुप्त, कः सांप्रतं पृथिव्यामीश्वरः ? अथ राधगुप्तोऽशोकस्य पादयोर्निपत्य कृताञ्जलिरुवाच-द् एवः पृथिव्यामीश्वरः। अथ राजा अशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य संघाय अञ्जलिं कृत्वोवाच- एष इदानीं महत्कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसंघे निर्यातयामि। आह च-



इमां समुद्रोत्तमनीलकञ्चुका-

मनेकरत्नकरभूषिताननाम्।

ददाम्यहं भूतधरां समन्दरां

संघायं तस्मिन्नुपभुज्यते फलम्॥११॥



अपि च।



दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं

काङ्क्षामि द्रुतवारिवेगचपलां प्रागेव राजश्रियम्।

दानस्यास्य फलं तु भक्तिमहतो यन्मेऽस्ति तेनाप्नुयां

चित्तैश्वर्यमहार्यमार्यमहितं नायाति यद्विक्रियाम्॥१२॥



यावत् पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितम्। ततो राजा महापृथिवीं संघे दत्वा कालगतः। यावदमात्यैर्नीलपीताभिः शिबिकाभिर्निर्हरित्वा शरीरपूजां कृत्वा राजानं प्रतिष्ठापयिष्याम इति , यावद्राधगुप्तेनाभिहितम्। राज्ञा अशोकेन महापृथिवी संघे निर्यातिता इति। ततोऽमात्यैरभिहितम्- किमर्थमिति ? राधगुप्त उवाच - एष राज्ञोऽशोकस्य मनोरथो बभूव- कोटिशतं भगवच्छासने दानं दास्यामिति। तेन षण्णवतिकोट्यो दत्ता यावद्राश्या प्रतिषिद्धा। तदभिप्रायेण राज्ञा महापृथिवी संघे दत्ता। यावदमात्यैश्चतस्रः कोट्यो भगवच्छास्ने दत्त्वा पृथिवीं निष्क्रीय संपदिः राज्ये प्रतिष्ठापितः। संपदेर्वृहस्पतिः पुत्रः, बृहस्पतेर्वृषसेनः, वृषसेनस्य पुष्यधर्मा, पुष्यधर्मणः पुष्यमित्रः। सोऽमात्यानामन्त्रयते-क उपायः स्याद्यदस्माकं नाम चिरं तिष्ठेत् ? तैरभिहितम्-देवस्य च वंशादशोको नाम्ना राजा बभूवेति। तेन चतुरशीतिर्धमराजिकासहस्रं प्रतिष्ठापितम्। यावद्भगवच्छासनं प्राप्यते, तावत्तस्य यशः स्थास्यति। देवोऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु। राजा आह-महेशाख्यो राजा अशोको बभूव। अन्यः कश्चिदुपाय ईति ? तस्य ब्राह्मणपुरोहितः पृथग्जनोऽश्राद्धः। तेनाभिहितम्-देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति। यावद्राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः। द्वारे च सिंहनादो मुक्तः। यावत्स राजा भीतः पाटलिपुत्रं प्रविष्टः। एवं द्विरपि त्रिरपि। यावद्भिक्षूंश्च संघमाहूय कथयति- भगवच्छासनं नाशयिष्यामीति। किमिच्छथ स्तूपं संघारामान् वा ? भिक्षुभिः परिगृहीताः। यावत्पुष्यमित्रो यावत् संघारामं भिक्षूंश्च प्रघातयन् प्रस्थितः। स यावच्छाकलमनुप्राप्तः। तेनाभिहितम्-यो मे श्रमणशिरो दास्यति, तस्याहं दीनारशतं दास्यामि। धर्मराजिकावार्हद्बुद्ध्या (?) शिरो दातुमारब्धम्। श्रुत्वा च राजा अर्हत्प्रघातयितुमारब्धः। स च निरोधं समापन्नः। तस्य परोपकर्मो न क्रमते। स यत्नमुत्सृज्य यावत्कोष्ठकं गतः। दंष्ट्रनिवासी यक्षश्चिन्तयति-इदं भगवच्छासनं विनश्यति। अहं च शिक्षां धारयामि। न मया शक्यं कस्यचिदप्रियं कर्तुम्। तस्य दुहिता कृमिशेन यक्षेण याच्यते, न चानुप्रयच्छति-त्वं पापकर्मकारीति। यावत्सा दुहिता तेन कृमिशस्य दत्ता भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च। पुष्यमित्रस्य राज्ञः पृष्ठतः यक्षो महान् प्रमाणे यूयम् (?)। तस्यानुभावात्स राजा न प्रतिहन्यते। यावद्दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबन्धयक्षं ग्रहाय पर्वतचर्येऽचरत्। यावद्दक्षिणा महासमुद्रं गतः। कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनोऽवष्टब्धः। तस्य मुनिहत इति संज्ञा व्यवस्थापिता। यदा पुष्यमित्रो राजा प्रघातितस्तदा मौर्यवंशः समुच्छिन्नः॥



इति श्रीदिव्यावदाने अशोकावदानं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project