Digital Sanskrit Buddhist Canon

२५ संघरक्षितावदानम् (२)

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 25 saṁgharakṣitāvadānam (2)
२५ संघरक्षितावदानम् (२)



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-किं भदन्त आयुष्मता संघरक्षितेन कर्म कृतम्, यस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातो भगवतोऽन्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम् ? एवं तं च वैनेयकार्यं कृतम् ? भगवानाह- संघरक्षितेनैव भिक्षवः कर्माणि कृतानि उपचितानि पूर्ववत्। भूतपूर्वं भिक्षवोऽस्मिन् एव भद्रके कल्पे विंशतिवर्ससहस्रायुषि प्रजायां काश्यपो नाम शास्ता पूर्ववत्। तस्यायं शासने प्रव्रजित आसीद्वैयावृत्यकरः। अस्य तत्र पञ्च सार्धविहारिशतानि। यद्भूयसा एककर्वटनिवासी जनकायः, अस्यैवाभिप्रसन्नः। अनेन तत्र यावदायुःपर्यन्तं ब्रह्मचर्यं चीर्णम्, न कश्चिद्गुणगणोऽधिगतः। अपरेण समयेन ग्लानीभूतः। मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव। मरणसमये प्रणिधानं कर्तुमारब्धः-यन्मया काश्यपे भगवति सम्यक्संबुद्धेऽनुत्तरे महादक्षिणीये यावदायुर्ब्रह्मचर्यं चीर्णम्, न कश्चिद्गुणगणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेनोत्तरो नाम माणवो वर्षशतायुषि प्रजायामवश्यभागीयकस्य भाव्यतायां बुद्धो व्याकृतः, तस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्। ततः पश्चात् सार्धविहारिण उपसंक्रान्ताः। ते कथयन्ति-उपाध्याय, अस्ति किंचित् त्वया गुणगणमधिगतम् ? स कथयति- नास्ति। किं प्रणिधानं कृतम् ? इदं चेदं च। ते कथयन्ति- वयमप्युपाध्यायमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः। कर्वटनिवासिना जनकायेन श्रुतं ग्लान आर्यक इति। तेऽप्युपसंक्रान्ताः। अस्ति किंचिदार्येण गुणगणमधिगतम् ? नास्ति। किं प्रणिधानं कृतम् ? इदं चेदं च। ते कथयन्ति-वयमप्यार्यमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः॥



किं मन्यध्वे भिक्षवः ? योऽसौ वैयावृत्यकरः, एष एवासौ संघरक्षितो भिक्षुः। यानि तानि पञ्च सार्धविहारिशतानि, एतान्येव तानि पञ्चभिक्षुशतानि। योऽसौ कर्वटनिवासी जनकायः, एतान्येव तानि पञ्च वणिक्शतानि। यदनेन तत्र धर्मवैयावृत्यं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले उपपन्नः। यत् तन्मरणसमये प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन ममान्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्व साक्षात्कृतमेवं च वैनेयकार्यं कृतम्॥



इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः......पूर्ववत्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project