Digital Sanskrit Buddhist Canon

२३ संघरक्षितावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२३ संघरक्षितावदानम्।



किं महल्लेनाधिगतम् ? एकोत्तरिका। अयं तावत् खुस्तिकया एकोत्तरिकया धर्मं देशयति-अमी भिक्षवो धर्मकथिका युक्तमुक्तप्रतिभानाः। कस्मान्नैतानध्येषयसि ? स तैरभिहितः-महल्ल, किं त्वया अधिगतम् ? स कथयति-एकोत्तरिका। ते कथयन्ति-त्वं तावन्महल्ल खुस्तिकया एकोत्तरिकया धर्मं देशयसि। अमी भिक्षवस्तृपिता धर्मकथिका युक्तमुक्तप्रतिभानाः। कस्मान्नैतानध्येषयसि ? स कथयति-आर्याः, यूयं कस्यार्थे न देशयत ? किमहं निवारयामीति ? ते कथयन्ति-नन्दोपनन्द, प्रतिवदत्येषोऽस्माकं महल्लः। कुरुत अस्योत्क्षेपणीयं कर्म। स संलक्षयति-यदि मे उत्क्षेपणीयं कर्म करिष्यन्ति, नागभवनेऽप्यहमवकाशं न लप्स्ये। स तेषां शयितकानां तं विहारमन्तर्हापयित्वा महासमुद्रं प्रविष्टः। ते वालुकास्थले शयितकास्तिष्ठन्ति। नन्दोपनन्द, उत्तिष्ठ सिंहासनं प्रज्ञापय, धर्मं देशयामः। ते कथयन्ति-कोऽप्यसौ देवो वा नागो वा यक्षो वा भगवत्यभिप्रसन्नः बुद्धे धर्मे संघे कारान् कुर्वन्, सोऽस्माभिर्विहेठितः। एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह-योऽसौ भिक्षवो निर्मितो यदि षड्वर्गिकैर्भिक्षुभिर्न विहेठितोऽभविष्यत्, यावच्छासनकोटिमुद्धाटको बुद्धे धर्मे संघे कारानकरिष्यत्। भगवान् संलक्षयति-यः कश्चिदादीनवो भिक्षवः, अनधीष्टो धर्मं देशयति, तस्मान्न भिक्षुणाऽन्धीष्टेन धर्मो देशयितव्यः। भिक्षुरनधीष्टो धर्मं देशयति, सारिसारो भवति। अनापत्तयस्तन्मुखिकया निर्गता भवन्ति॥



श्रवस्त्यां बुद्धरक्षितो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडते रमते परिचारयति। तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। आयुष्मान् शारिपुत्रो वैनेयापेक्षया तत्कुलमुपसंक्रान्तः। तेन स गृहपतिः सपत्नीकः शरणगमनशिक्षापदेषु प्रतिष्ठापितः। अपरेण समयेन सा तस्य पत्नी आपन्नसत्त्वा संवृत्ता। आयुष्मान् शारिपुत्रस्य च वैनेयकालं ज्ञात्वा एकाक्येव तत् कुलमुपसंक्रान्तः। स गृहपतिः कथयति-नास्त्यार्यशारिपुत्रस्य कश्चित् पश्चाच्छ्रमणः ? स कथयति-गृहपते, किमस्माकं काशधानाद्वा कुशधानाद्वा पश्चाच्छ्रमणा भवन्ति? अपि तु ये भवद्विधानां सकाशाल्लभ्यन्ते, अस्माकं ते पश्चाच्छ्रमणा भवन्ति। बुद्धरक्षितो गृहपतिः-आर्य, मम पत्नी आपन्नसत्त्वा संवृत्ता। यदि पुत्रं जनयिष्यति, तमहमार्यस्य पश्चाच्छ्रमणं दास्यामि। स कथयति-गृहपते, औपयिकम्॥



सा अष्टानां वा नवानां वा मासानां (अत्ययात्) प्रसूता। दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति-किं भवतु दारकस्य नाम ? अयं दारको बुद्धरक्षितस्य गृहपतेः पुत्रः। भवतु दारकस्य संघरक्षितो नाम। यस्मिन्नेव दिवसे संघरक्षितो जातः, तस्मिन्नेव दिवसे पञ्चानां वणिक्शतानां पञ्च पुत्रशतानि जातानि। तेषामपि कुलसदृशानि नामधेयानि व्यवस्थापितानि। संघरक्षितो दारक उन्नीयते बर्ध्यते क्षिरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महान् संवृत्तः, तदा आयुष्मान् शारिपुत्रस्तस्य वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रम्य निमित्तमुपदर्शयितुमारब्धः। बुद्धरक्षितेन गृहपतिना संघरक्षितोऽभिहितः-पुत्र, अजात एव त्वं मया आर्यशारिपुत्रस्य पश्चाच्छ्रमणो दत्त इति। चरमभविकः स आयुष्मता शारिपुत्रेण प्रव्राजित उपसंपादित आगमचतुष्टयं च ग्राहितः॥



अथापरेण समयेन तानि पञ्च वणिक्शतानि महासमुद्रगमनीयं पण्यं समुदानीय महासमुद्रमवतर्तुकामानि कथयन्ति-किंचिद्वयं भवन्त आर्यकमवतारयाम योऽस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति। ते कथयन्ति-भवन्तः, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः, एतमेवावतारयामः। ते तस्य सकाशमुपसंक्रान्ताः। आर्य संघरक्षितः, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। वयं च महासमुद्रं संप्रस्थिताः। त्वमप्यस्माभिः सार्धमवतर, समुद्रमध्यगतानां धर्मं देशयिष्यसि। स कथयति-नाहं स्वाधीनः। उपाध्यायमवलोकयत। ते येनायुष्मान् शारिपुत्रस्तेनोपसंक्रान्ताः। उपसंक्रम्य कथयन्ति - आर्य शारिपुत्र, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। वयं महासमुद्रं संप्रस्थिताः। एषोऽप्यस्माभिः सार्धमवतरतु, अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति। स कथयति-भगवन्तमवलोकयत। ते भगवतः सकाशमुपसंक्रान्ताः। भगवन्, वयं महासमुद्रं संप्रस्थिताः। अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। एषोऽप्यस्माभिः सार्धं महासमुद्रमवतरतु। अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति। भगवान् संलक्षयति-अस्त्येषां कानिचित् कुशलमूलानि ? अस्ति। कस्यान्तिके प्रतिबद्धानि ? संघरक्षितस्य भिक्षोः। तत्र भगवान् संघरक्षितमामन्त्रयते-गच्छसंघरक्षित, भयभैरवसहिष्णुना भवितव्यम्। अधिवासयत्यायुष्मान् संघरक्षितो भगवतस्तूष्णीभावेन॥



अथ तानि पञ्च वणिक्शतानि कृतकौतुकमङ्गलस्वस्त्ययनानि शकटैर्भारैर्मूढैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं पण्यमारोप्य महासमुद्रं अस्ंप्रस्थितानि। अनुपूर्वेण ग्रामनगरनिगमपल्लीपत्तनेषु चञ्चूर्यमाणानि समुद्रतटमनुप्राप्तानि। ते निपुणतः समुद्रयानपात्रं प्रतिपद्य महासमुद्रमवतीर्णां धनहारकाः। तेषां महासमुद्रमध्यगतानां नागैर्वहनं विधारितम्। ते देवतायाचनं कर्तुमारब्धाः-योऽस्मिन् महासमुद्रे देवो वा नागो वा यक्षो वा प्रतिवसति, स आचक्षतु किं मृगयतीति। महासमुद्राच्छब्दो निश्चरति-आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति। ते कथयन्ति-आर्यसंघरक्षितोऽस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनको भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुपरीतकः। श्रेयोऽस्माकमनेनैव सार्धं कालक्रिया, न त्वेव वयं संघरक्षितं परित्यक्ष्यामः। ते मन्त्रयन्त आयुष्मता संघरक्षितेन श्रुताः। स कथयति-भवन्तः, किं कथयन्ते ? कथयन्ति-आर्य संघरक्षित महासमुद्राच्छब्दो निश्चरितः-आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति। स कथयति-कस्मान्नानुप्रयच्छध्वम् ? ते कथयन्ति-आर्य, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः। भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुप्रदत्तकः। श्रेयोऽस्माकं त्वयैव सार्धं कालक्रिया। न त्वेव वयमार्य संघरक्षित त्वां परित्यक्ष्यामः। आयुष्मान् संघरक्षितः संलक्षयति-यदुक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमितीदं तत्। स पात्रचीवरं गृहीत्वा आत्मानं महासमुद्रे प्रक्षेप्तुमारब्धः। स तैर्दृष्टः। ते कथयन्ति-आर्यसंघरक्षित किं करोषि, आर्यसंघरक्षितं किं करोषीति। स तेष क्विक्रोशतां महासमुद्रे प्रपतितः। मुक्तं तद्वहनम्। स नागैर्गृहीत्वा नागभवनं प्रवेशितः॥



आर्य संघरक्षितः, इयं विपश्यिनः सम्यक्संबुद्धस्य गन्धकुटी। इयं शिखिनो विश्वभुवः क्रकुच्छन्दस्य कनकमुनेः काश्यपस्येयं भगवतो गन्धकुटी। आर्य संघरक्षित, भगवतः सूत्रं मातृका च देवमनुष्येषु प्रतिष्ठितम्। वयं नागा विनिपतितशरीराः। अहो बत आर्यः संघां रक्षित इहाप्यागमचतुष्टयं प्रतिष्ठापयेत्। स कथयति-एवं भवतु। तेन त्रयो नागकुमारा उत्साहिताः। एकोऽभिहितः-त्वं तावत् संयुक्तकमधीष्व। द्वितीयोऽभिहितः-त्वमपि मध्यमम्। तृतीयोऽभिहितः-त्वमपि दीर्घागममधीष्व। स कथयति-अहमपि तामेवैकोत्तरिकां विमृष्टरूपां प्रज्वालयामि। तेऽध्वेतुमारब्धाः। तत्रैकश्चक्षुषी निमीलयित्वोद्देशं गृह्णाति, द्वितीयः पृष्ठतोऽमुख उद्देशं गृण्हाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति। स एव तेषामेकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः। आर्य उत्तिष्ठ, दन्तकाष्ठं विसर्जय, भगवतो मण्डलकमामार्जय, चैत्याभिवन्दनं कुरु, भुङ्क्ष्व, शय्यां कल्पयेति। सर्वैस्तैरागमान्यधीतानि। स कथयति- आर्य, अधीतान्येभिरागमानि। किं धारयिष्यन्ति आहोस्विन्न धारयिष्यन्ति ? स कथयति-स्मृतिमत्तका ह्येते धारयिष्यन्ति, अपि तु दोषोऽस्त्येषाम्। स कथयति- आर्य, को दोषः ? सर्वे ह्येतोऽगौरवा अप्रतीशाः। एकस्तावच्चक्षुषी निमीलयित्वोद्देशं गृह्णाति, द्वितीय पृष्ठतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति। त्वमेवैकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः। स कथयति- आर्य, न ह्येतेऽगौरवा अप्रतीशाः। यस्तावदयं चक्षुषी निमीलयित्वोद्देशं गृह्णाति, अयं दृष्टिविषः। योऽप्ययं पृष्ठतोमुख उद्देशं गृह्णाति, एषोऽपि श्वासविषः। योऽप्येष दूरतः स्थित्वोद्देशं गृह्णाति, एषोऽपि स्पर्शविषः। अहमेको दंष्ट्राविषः। स भीत उत्पाण्डूत्पाण्डूकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तः। स कथयति-आर्य, कस्मात् त्वमुत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तः ? स कथयति-भद्रमुख, अमित्रमध्येऽहं वासं कल्पयामि। सचेत् युष्माकमन्यतमोऽन्यतमं प्रकुप्येत, मां नामावशेषं कुर्यात्। स कथयति-आर्यस्य वयं च प्रहरामः। अपि तु इच्छसि त्वं जम्बुद्वीपं गन्तुम् ? भद्रमुख, इच्छामि। तच्च वहनमागतम्। स तैरुत्क्षिप्तः॥



वणिग्भिर्दृष्टः। ते कथयन्ति-स्वागतमार्यसंघरक्षिताय। स कथयति-अनुमोदन्तां भवन्तः। मया नागेष्वागमचतुष्टयं प्रतिष्ठापितम्। ते कथयन्ति-आर्य संघरक्षित, अनुमोदयामः। ते तं वहने प्रक्षिप्य संप्रस्थिताः। तेऽनुपूर्वेणं समुद्रतीरं गत्वा सर्वे ते वणिजः शयिताः। आयुष्मान् संघरक्षितो महासमुद्रं द्रष्टुमारब्धः। उक्तं भगवता-पञ्चासेचनका दर्शनेन।



हस्तिनागश्च राजा च सागरश्च शिलोच्चयः।

असेचनका दर्शनेन बुद्धश्च भगवतां वरः॥१॥ इति।



चिरं महासमुद्रं पश्यन् जागरितः। सोऽपश्चिमे यामे गाढनिद्रावष्टब्धः शयितः। तेऽपि वणिजः सरात्रमेवोत्थाय स्थोरांल्लर्दयित्वा संप्रस्थिताः। ते कथयन्ति प्रभातायां रजन्याम्-कुत्रायं संघरक्षितः ? तत्रैक एवमाहुः-पुरस्ताद्गच्छति। अपर एवमाहुः-पृष्ठत आगच्छति। अपर एवमाहुः-मध्ये गच्छतीति। ते कथयन्ति-आर्यसंघरक्षितोऽस्माभिश्छोरितः। न शोभनमस्माभिः कृतम्। प्रतिनिवर्तयामः। आर्यसंघरक्षितो भवन्तो महर्द्धिको महानुभावो यः समुद्रमध्ये न कालगतः। स इदानीं कालं करिष्यति ? स्थानमेतद्विद्यते यदसौ अग्रत एव यास्यति। आगच्छत, गमिष्यामः। ते संप्रस्थिताः॥



आयुष्मानपि संघरक्षितः सूर्यस्याभ्युद्गमनसमये सूर्यांशुभिस्ताडितः प्रतिबुद्धो यावन्न किंचित्पश्यति। प्रक्रान्ता वणिजः। सोऽपि पन्थलिकां गृहीत्वा संप्रस्थितः। यावदन्यतमस्यां सालाटव्यां विहारं पश्यत्युद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितम्, भिक्षूंश्च संप्रावृतान् संप्रच्छन्नान् शान्तेनेर्यापथेनावस्थितान्। स तेषां सकाशमुपसंक्रान्तः। स तैरुक्तः-स्वागतं भदन्तसंघरक्षिराय। स तैर्विश्रामितः। विश्रामयित्वा। विहारं प्रवेशितो यावत् पश्यति शोभनां शयनासनप्रज्ञप्तिं कृत्वा प्रणीतं चाहारमुपहृतम्। स तैरुक्तः-भदन्त संघरक्षित, मा तृषितोऽसि, मा बुभुक्षितोऽसि ? कथयति-आर्याः, तृषितोऽस्मि, बुभुक्षितोऽस्मि। भदन्त संघरक्षित भुङ्क्ष्व। स कथयति-संघमध्ये भोक्ष्यामि। ते कथयन्ति-भदन्त संघरक्षित, भुङ्क्ष्व, आदीनवोऽत्र भविष्यति। तेन भुक्तम्। स भुक्त्वा एकान्तेऽपक्रम्यावस्थितः। यावत् तेषां गण्डिराकोटिता। ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः। स च तेषां विहारोऽन्तर्हितः। अयोमुद्गराः प्रादुर्भूताः। तैस्तावदयोमुद्गरैः परस्परमार्तस्वरं क्रन्दद्भिः शिरांसि भग्नानि, यावत् कालादकालीभूतम्। ततः पश्चात् पुनरपि तेषाम् विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तेनेर्यापथेनावस्थिताः। आयुष्मान् संघरक्षितस्तेषां सकाशमुपसंक्रान्तः। के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाः ? भदन्त संघरक्षित, दुष्कुहका जम्बुद्वीपका मनुष्याः। नाभिश्रद्दधास्यसि। स कथयति-अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये ? ते कथयन्ति-भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन्। तैरस्माकं भक्ताग्रे रणमुत्पादितम्। ते वयं भक्ताग्रे रणमुत्पादयित्वा इह प्रत्येकनरकेषूपपन्नाः। स्थानमेतद्विद्यते यदस्माभिरितश्च्युतैर्नरकेषूपपत्तव्यं भविष्यति। साधु संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय-मा आयुष्मन्तः संघमध्ये रणमुत्पादयिष्यथ। मा अस्यैवंरूपस्य दूःखदौर्मनस्यस्य भगिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः॥



स संप्रस्थितः। यावत् पश्यति द्वितीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनपरिक्षिप्तं गवाक्षपरिमण्डितं भिक्षूंश्च सुप्रावृतान् सुप्रतिच्छन्नान् शान्तान् शान्तेर्यापथे व्यवस्थितान्। तेषामुपसंक्रान्तः। स तैरुक्तः-स्वागतं भदन्तसंघरक्षिताय। स तैर्विश्रामितः। विश्रामयित्वा विहारं प्रवेशितो यावत् पश्यति। शोभनां शयनासनप्रज्ञप्तिं कृत्वा प्रणीतं चाहारं समन्वाहृत्य स तैरुक्तः-भदन्त संघरक्षित भुङ्क्ष्व। तेन दृष्टादीनवेन भुक्तम्। भुक्त्वा एकान्तेऽपक्रम्यास्थितः। तेषां गण्ड्याकोटिता। ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः। स च विहारोऽन्तर्हितः, तदन्नपानमयोरसं प्रादुर्भूतम्। तैरार्यस्वरं क्रन्दद्भिस्तावदयोरसेन परस्परमात्मा सिक्तो यावत् कालादकालीभूतम्। ततः पश्चात् पुनरपि स तेषां विहारः प्रादुर्भूतः। ते च भिक्षवः पुनरपि शान्ताः शान्तेर्यापथेनावस्थिताः। स तेषां सकाशमुपसंक्रान्तः-के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाः ? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यन्ति। स कथयति-अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये ? ते कथयन्ति-भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन्। संघस्य च स्नेहलाभे संपन्ने आगन्तुका भिक्षव आगताः। तैरस्माभिरनार्यपरिगृहीतैरेवं चित्तमुत्पादितम्-न तावद्भोजयिष्यामो यावदेते आगन्तुका भिक्षवो न प्रक्रान्ता भविष्यन्तीति। तैरस्माभिस्तत्तथैव कृतम्। सप्ताहिकं चाकालदुर्दिनं प्रादुर्भूतम्। तेन तदन्नपानं क्लेदं गतम्। वयं श्रद्धादेयं विनिपातयित्वा इह प्रत्येकनरकेषूपपन्नाः। स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नकेषूपपत्तव्यं भविष्यति। साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय-मा आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ, मा अस्य एवंरूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ, तद्यथा ब्राह्मणाः काश्यपीयाः॥



स संप्रस्थितो यावत् पश्यति तृतीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितं पूर्ववद्यावदायुष्मान् संघरक्षितो भुक्त्वा एकान्तेऽपक्रम्यावस्थितः। गण्ड्याकोटिता। स तेन विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्मायितुमारब्धः। तेऽपि तस्मिन्नार्तस्वरं क्रन्दतस्तावद्दग्धा यावत् कालादकालीभूतम्। ततः पश्चात् पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तशान्तेनेर्यापथेनावस्थिताः। स तेषां सकाशमुपसंक्रान्तः-के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाः ? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि। स कथयति- अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये ? ते कथयन्ति- भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन्। दुःशीलास्ते वयं शीलवद्भिर्भिक्षुभिर्निष्कासिताः। तैरस्माभिरेकः शून्यविहार आवासितः। यावत् तत्रैकः शीलवान् भिक्षुरागतः। अस्माकं बुद्धिरुत्पन्ना-तिष्ठतु अयं भिक्षुः। अयमप्येकोऽस्माकं दक्षिणां शोधयिष्यति। स तत्रैवं स्थितो यावत् तस्यानिसङ्गेन (?) पुनरपि बहवः शीलवन्तो भिक्षव आगताः। ते वयं तत्रापि निर्वासिताः। तैरस्माभिरमर्षजातैः शुष्कानि काष्ठानि शुष्कानि तृणानि शुष्कानि गोमयानि उपसंहृत्य तस्मिन् विहारेऽग्निर्दग्धः। तत्र प्रभूताः शैक्षाशैक्षाः पुद्गला दग्धाः। ते वयं शैक्षाशैक्षान् पुद्गलान् दग्ध्वा इह प्रत्येकनरकेषूपपन्नाः। स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नरकेषूपपत्तव्यं भविष्यति। साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय-मा आयुष्मन्तः सब्रह्मचारिणामन्तिके प्रदुष्टचित्तमुत्पादयिष्यथ, मा अस्यैवंरूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः॥



आयुष्मान् संघरक्षितः संप्रस्थितो यावत् सत्त्वानद्राक्षीत् स्तम्भाकारान् कुड्याकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारानुदूखलाकारान् खट्वाकारान् स्थालिकाकारान्॥



आयुष्मान् संघरक्षितो जनपदान् गतः। अन्यतमस्मिन्नाश्रमपदे पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति। तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः। ते कथयन्ति-भवन्तः, क्रियाकारं तावत् कुर्मः-बहुबोल्लकाः श्रमणाः शाक्यपुत्रीया भवन्ति। नास्य केनचिद्वचनं दातव्यम्। ते क्रियाकारं कृत्वा अवस्थित्वाः। आयुष्मांश्च संघरक्षितस्तेषां सकाशमुपसंक्रान्तः। उपसंक्रम्य प्रतिश्रयं याचितुमारब्धः। न कश्चिद्वाचमनुप्रयच्छति। तत्रैक ऋषिः स शुक्लधर्मः। कथयति-किं युष्माकं प्रतिश्रयं न दीयते ? अपि तु युष्माकं दोषोऽस्ति। बहुबोल्लका यूयम्। समयेनाहं भवतः प्रतिश्रयं दास्ये, सचेत् किंचिन्न मन्त्रयसि। आयुष्मान् संघरक्षितः कथयति-ऋषेः एवं भवतु। तत्रैक ऋषिर्जनपदचारिकां गतः। तस्य कुतिः शून्यावतिष्ठति। स कथयति-अस्यां कुटीकायां श्य्यां कल्पय। आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा संमार्जिता सुकुमारीं गोमयकासिं चानुप्रदत्ता। तैर्दृष्टः। ते कथयन्ति- भदन्त, शुच्यपि मार्जन्त्येते श्रमणाः शाक्यपुत्रीयाः। आयूष्मान् संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य। या तस्मिन्नाश्रमपदे देवता प्रतिवसति, सा रात्र्याः प्रथमे यामे येनायुष्मान् संघरक्षितस्तेनोपसंक्रान्ता। उपसंक्रम्य कथयति-आर्य संघरक्षित, धर्मं देशय। आयुष्मान् संघरक्षितः कथयति-सुखिता त्वम्। न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम् ? किं निष्कासापयितुमिच्छसि ? सा संलक्षयति- श्रान्तकायोऽयम्, स्वपितु। मध्यमे यामे उपसंक्रमिष्यामि। सा मध्यमे याम उपसंक्रान्ता। उपसंक्रम्य कथयति-आर्य संघरक्षित, धर्मं देशय। आयुष्मान् संघरक्षितः कथयति-सुखिता त्वम्। न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम् ? किं निष्कासापयितुमिच्छसि ? सा संलक्षयति -श्रान्तकायोऽयम्, स्वपितु। पश्चिमे यामे उपसंक्रमिष्यामि। सा पश्चिमे यामे उपसंक्रान्ता। उपसंक्रम्य कथयति- आर्य संघरक्षित, धर्मं देशय। आयूष्मान् संघरक्षितः कथयति - सुखिता त्वम्। न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम् ? किं निष्कासापयितुमिच्छसि ? सा कथयति-आर्य संघरक्षित, प्रभातमिदानीम्। सचेन्निष्कासयिष्यन्ति, गमिष्यसि। अपि तु ननूक्तं भगवता भयभैरजसहिष्णूना ते भवितव्यमिति। आयुष्मान् संघरक्षितः संलक्षयति- शोभनं भगवता भयभैरवसहिष्णूना ते भवितव्यमिति। आयुष्मान् संघरक्षितः संलक्षयति-शोभनं कथयति-सचेत् स निष्कासयिष्यति, गमिष्यामि। स संलक्षयति-ब्राह्मणा ह्येते। ब्राह्मणप्रतिसंयुक्तं भाषयामीत्यायुस्मान् संघरक्षितो ब्राह्मणवर्गं स्वाध्यायितुमारब्धः -



न नग्नचर्या न जटा न पङ्को

नानाशनं स्थण्डिलशायिका वा।

न रजोमलं नोत्कुटुकप्रहाणं

विशोधयेन्मोहमविशीर्णकाङ्क्षम्॥ २॥



अलंकृतश्चापि चरेत धर्मं

दान्तेन्द्रियः शान्तः संयतो ब्रह्मचारी।

सर्वेषु भूतेषु निधाय दण्डं

स ब्राह्मणः स श्रमणः स भिक्षुः॥३॥



तैः श्रुतम्। ते संलक्षयन्ति-ब्राह्मणप्रतिसंयुक्तम्। इत्येक उपसंक्रान्तो द्वितीयस्तृतीयो यावत् सर्वे उपसंक्रान्ताः। तथा तया देवतया अधिष्ठितम्, यथा परस्परं न पश्यन्ति। ततः पश्चादायुष्मता संघरक्षितेन नगरोपमं सूत्रमुपनिक्षिप्तम्। गाथां च भाषते -



यानीह भूतानि समागतानि

स्थितानि भूम्यामथवान्तरिक्षे।

कुर्वन्तु मैत्रीं सततं प्रजासु

दिवा च रात्रौ च चरन्तु धर्मम्॥४॥ इति।



अस्मिन् खलु धर्मपर्याये भाष्यमाणे सर्वैस्तैः सहसत्याभिसमयादनागामिफलमनुप्राप्तम्। ऋद्धिश्चापि निर्हृता। सर्वैस्तै सुभाषितं भदन्तसंघरक्षितायेत्येकनादो मुक्तः। तया देवतया ऋद्ध्यभिसंस्काराः प्रतिप्रस्रब्धाः। परस्परं द्रष्टुमारब्धाः। तेऽन्योन्यं कथयन्ति-त्वमप्यागतः ? आगतोऽहम्। शोभनम्। ते दृष्टसत्याः कथयन्ति-लभेमो वयं भदन्त संघरक्षित स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेमो वयं भगवतोऽन्तिके ब्रह्मचर्यम्। आयुष्मान् संघरक्षितः कथयति-किं मत्सकाशे प्रव्रजथ, आहोऽस्विद्भगवतः ? ते कथयन्ति-भगवतः। आयूष्मान् संघरक्षितः कथयति-यद्येवम्, आगच्छथ, भगवतः सकाशं गच्छामः। ते कथयन्ति- भदन्त संघरक्षित, किमस्मदीयया ऋद्ध्या गच्छामः, आहोस्वित् त्वदीयया ? आयुष्मान् संघरक्षितः संलक्षयति-एभिर्मददीयेनाववादेनैवंविधा गुणगणा अधिगताः, अहं लङ्घनकोपमः संवृत्तः। स कथयति-तिष्ठन्तु तावद्भवन्तो मुहूर्तम्। आयुष्मान् संघरक्षितोऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधायं प्रतिमुखं स्मृतिमुपस्थाप्य। उक्तं भगवता -पञ्चानुशंसा बाहुश्रुत्ये। धातुकुशलो भवति, प्रतीत्यसमुत्पादकुशलो भवति, स्थानास्थानकुशलो भवति, अपरप्रतिबद्धा चास्य भवति अववादानुशासनीति। तेनोद्यच्छता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः पूर्ववद्यावन्मान्यः पूज्यश्चाभिवाद्यश्च संवृत्तः। ते आयुष्मता संघरक्षितेनाभिहिताः - भवन्तः, गृह्णीध्वं मदीयं चीवरकर्णिकम्, यास्यामः। आयुष्मतः संघरक्षितस्य चीवरकर्णिके लग्नाः। अथायुष्मान् संघरक्षितो विततपक्ष इव हंसराजस्तत एव ऋद्ध्या उपरिविहारसा प्रक्रान्तः॥



यावत् तानि पञ्च वणिक्शतानि भाण्डं प्रतिसामयन्ति। तेषामुपरि छाया निपतिता। स तैर्दृष्टः। ते कथयन्ति- आर्य संघरक्षित, आगतस्त्वम् ? आगतोऽहम्। कुत्र गच्छसि ? स कथयति-इमानि पञ्च कुलपुत्रशतान्याकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। ते कथयन्ति -आर्य संघरक्षित, वयमपि प्रव्रजिष्यामः। अवतरस्व यावद्भाण्डं प्रतिसामयाम इति। आयुष्मान् संघरक्षितोऽवतीर्णः। तैर्भाण्डं प्रतिसामितम्। अथायुष्मान् संघरक्षितस्तत् कुलपुत्रसहस्रमादाय येन भगवांस्तेनोपसंक्रान्तः॥



तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति। अद्राक्षीद्भगवानायुष्मन्तं संघरक्षितं दूरादेव। दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म-एष भिक्षवः संघरक्षितो भिक्षु सप्राभृत आगच्छति। नास्ति तथागतस्यैवंविधं प्राभृतं यथा वैनेयप्राभृतम्। आयुष्मान् संघरक्षितो येन भगवांस्तेनोपसंक्रान्तः। उपस्रंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तमिदमवोचत्-इदं भदन्त कुलपुत्रसहस्रमाकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षु भावम्। तं भगवान् प्रव्राजयति उपसंपादयत्यनुकम्पामुपादाय। ते भगवता एहिभिक्षुकया आभाषिताःएत भिक्षवश्चरत ब्रह्मचर्यम्। भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्रवः पात्रकरकव्यग्रहस्ता वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थिताः॥



एहीति चोक्ता हि तथागतेन

मुण्डाश्च संघाटिपरीतदेहाः।

सद्यः प्रशन्तेन्द्रिया एव तस्थु-

रेवं स्थिता बुद्धमनोरथेन॥५॥



भगवता तेषामववादो दत्तः। तैरुद्यच्छमानैर्घटमानैर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्तः संवृत्तास्त्रैधातुकवीतरागाः पूर्ववद्यावत् मान्याश्च पूज्याश्च अभिवाद्याश्च संवृत्ताः॥



आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति-इहाहं भदन्त सत्त्वानद्राक्षं कुड्याकारान् स्तम्भाकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारान् खट्वाकारानुदूखकारान् स्थालिकाकारान्। मध्येऽवच्छिन्नं तन्तुना धार्यमाणं गच्छति। कस्य कर्मणो विपाकेन ? भगवानाह-यांस्त्वं संघरक्षितं सत्त्वानद्राक्षीः कुड्याकारांस्ते काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन्। तैः सांघिकं कुड्यं श्लेष्मणा सिंहाणकेन विनाशितम्। ते तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः। यथा कुड्याकाराः, एवं स्तम्भाकाराः सत्त्वाः। यान् संघरक्षित सत्त्वानद्राक्षीर्वृक्षाकारांस्ते काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन्। तैः सांघिकाः पुष्पवृक्षाः फलवृक्षाः पौद्गलिकपरिभोगेन भुक्ताः। ते तस्य कर्मणो विपाकेन वृक्षाकाराः संवृत्ताः। यथा वृक्षाकाराः, एवं पत्राकाराः फलाकाराः पुष्पाकाराः। यं त्वं संघरक्षित सत्त्वमद्राक्षी रज्ज्वाकारम्, स काश्यपस्य सम्यक्संबुद्धस्य श्रावक आसीत्। तेन संघिका रज्जुः पौद्गलिकपरिभोगेन परिभुक्ता। स तस्य कर्मणो विपाकेन रज्ज्वाकारः संवृत्तः। यथा रज्ज्वाकारः, एवं संमार्जन्याकारः। यं त्वं संघरक्षित सत्त्वमद्राक्षीस्तप्वाकारं (?) काश्यपस्य सम्यक्संबुद्धस्य श्रावक आसीत् श्रामणेरकः। सोऽपरेण समयेन पानकवारमुद्दिष्टस्तद्वारकं निर्मादयति। आगन्तुकाश्च भिक्षव आगताः। स तैः पृष्ट-श्रामणेरक, किं संघस्य पानकं भविष्यति ? स कथयति-नास्तीति। ते निराशीभूताः प्रक्रान्ताः। संघस्य च पानकं संपन्नम्। स तस्य कर्मणो विपाकेन तप्वाकारः संवृत्तः। यं त्वं संघरक्षित सत्त्वमद्राक्षीरुदूखलाकारम्, स काश्यपस्य सम्यक्संबुद्धस्य श्रावक आसीत्। तस्य पात्रकर्म प्रत्युपस्थितम्। तत्रैकः श्रामणेरकोपस्य सम्यक्संबुद्धस्य श्रावक आसीत्। तस्य पात्रकर्म प्रत्युपस्थितम्। तत्रैकः श्रामणेरकोऽर्हन्। स तेनोक्तः - श्रामणेरक, ददस्व मे खलस्तोकं कुट्टयित्वा। स कथयति-स्थविर, तिष्ठ तावन्मुहूर्तम्। व्यग्रोऽहम्। पश्चाद्दास्यामीति। सोऽमर्षजातः कथयति-श्रामणेरक, यदिरोचते, त्वामेवाहमस्मिन् उदूखले प्रक्षिप्य कुट्टये प्रागेव खलस्तोकम्। यत्तदर्हतोऽन्तिके खरं वाक्कर्म निश्चारितम्, स तस्य कर्मणो विपाकेन उदूखलाकारः संवृत्तः। यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः स्थाल्याकारांस्ते काश्यपस्य सम्यक्संबुद्धस्य कल्पिकारका आसन्। ते भिक्षूणां भैषज्यानि क्काथयमानाः स्थालिकां भञ्जते। तेषां भिक्षूणां विघातो भवति। ते तस्य कर्मणो विपाकेन स्थाल्याकाराः संवृत्ताः। यं त्वं संघरक्षित सत्त्वमद्राक्षीर्मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छसि, स काश्यपस्य सम्यक्संबुद्धस्य प्रवचने प्रव्रजित आसील्लाभग्राहिकः। तेन यद्वार्षिकं लाभं तत् हैमन्तिकं परिणामितम्, यद्धैमन्तिकं तद्वार्षिकम्। तस्य कर्मणो विपाकेन मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति॥



संघरक्षितावदानं त्रयोविंशतिमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project