Digital Sanskrit Buddhist Canon

२२ चन्द्रप्रभबोधिसत्त्वचर्यावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२२ चन्द्रप्रभबोधिसत्त्वचर्यावदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः। तत्र भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः -पश्य भदन्त, यावदायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ। अत्रेदानीं भिक्षवः किमाश्चर्यं यदेतर्हि शारिपुत्रमौद्गल्यायनौ भिक्षू विगतरागौ विगतद्वेषौ विगतमोहौ परिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः निस्तृष्णौ निरुपादानौ प्रहीणसर्वाहंकारममकारास्मिमानाभिनिवेशानुशयौ तिष्ठति बुद्धप्रमुखे भिक्षुसंघे तत्प्रथमतरं निरुपधिशेषे निर्वाणधातौ परिनिर्वृतौ, न त्वेव पितृमरणमागमितवन्तौ। यत्त्वतीतेऽध्वनि शारिपुत्रमौद्गल्यायनौ सरागौ सद्वेषौ समोहावपरिमुक्तौ जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर्ममान्तिके चित्तमभिप्रसाद्य कालं कृत्वा कामधातुमतिक्रम्य ब्रह्मलोक उपपन्नौ, न त्वेव पितृमरणमागमितवन्तौ, तच्छ्रूयताम्॥



भूतपूर्वं भिक्षवोऽतीतेऽध्वन्युत्तरापथे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च। द्वादशयोजनान्यायामेन द्वादशयोजनानि विस्तरेण चतुरस्रा चतुर्द्वारा सुविभक्ता उच्चैस्तोरणगवाक्षवातायनवेदिकाप्रतिमण्डिता नानारत्नसंपूर्णा सुसमृद्धसर्वद्रव्यवणिग्जननिकेता पार्थिवामात्यगृहपतिश्रेष्ठिराष्ट्रिकनीति (?) मौलिधराणामावासो वीणावेणुपणवसुघोषकवल्लरीमृदङ्गभेरीपटहशङ्खनिर्नादिता। तस्यां च राजधान्यामगुरुगन्धाश्चन्दनगन्धाश्चूर्णगन्धाः सर्वकालिकाश्च कुसुमगन्धा नानावातसमीरिता अतिरमणीया वीथीचत्वरशृङ्गाटकेषु वायवो वायन्ति स्म। हस्त्यश्वरथपत्तिबलकायसंपन्ना युग्ययानोपशोभिता विस्तीर्णातिरमणीयवीथीमहापथा उच्छ्रितविचित्रध्वजपताका तोरणगवाक्षार्धचन्द्रावनद्धा अमरालय इव शोभते। उत्पलपद्मकुमुदपुण्डरीकानि सुरभिजलजकुसुमपरिमण्डितानि स्वादुस्वच्छशीतलजलपरिपूर्णपुष्किरिणीतडागोदपानप्रस्रवणोपशोभिता शालतालतमालसूत्र(?) कर्णिकाराशोकतिलकपुंनागनागकेशरचम्पकबकुलातिमुक्तकपाटलापुष्पसंछन्ना कलविङ्कशुकशारिकाकोकिलबर्हिगणजीवंजीवकोन्नादितवनषण्डोद्यानपरिमण्डिता। भद्रशिलायां च राजधान्यामन्यतरं मणिगर्भं नाम राजोद्यानं नानापुष्पफलवृक्षविटपोपशोभितं सोदपानं हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकशकुनिमनोज्ञरवनिर्नादितमतिरमणीयम्। एवं सुरमणीया भद्रशिला राजधानी बभूव। भद्रशिलायां राजधान्यां राजाभूच्चन्द्रप्रभो नाम अभिरूपो दर्शनीयः प्रासादिको दिव्यचक्षुश्चतुर्भागचक्रवर्ती धार्मिको धर्मराजा जम्बुद्वीपे राज्यैश्वर्याधिपत्यं कारितवान् स्वयंप्रभुः। न खलु राज्ञश्चन्द्रप्रभस्य गच्छतोऽन्धकारं भवति, न च मणिर्वा प्रदीपो वा उल्का वा पुरस्तात् नीयते, अपि तु स्वकात् कायात् राज्ञश्चन्द्रप्रभस्य प्रभा निश्चरन्ति तद्यथा चन्द्रमण्डलाद्रश्मयः। अनेन कारणेन राज्ञश्चन्द्रप्रभस्य चन्द्रप्रभ इति संज्ञा बभूव॥



तेन खलु समयेनास्मिन् जम्बुद्वीपेऽष्टषष्टिनगरसहस्राणि बभूवुर्भद्रशिलाराजधानीप्रमुखानि ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। अपीदानीं जम्बुद्वीपका अकरा अभूवन् अशुल्का अतरपण्याः। कृषिसंपन्नाः सौम्या जनपदा बभूवुः। कुक्कुटसंपातमात्राश्च ग्रामनिगमराष्ट्रराजधान्यो बभूवुः। तेन खलु समयेन चतुश्चत्वारिंशद्वर्षसहस्राणि जम्बुद्वीपे मनुष्याणामायुषः प्रमाणमभूत्। राजा चन्द्रप्रभो बोधिसत्त्वोऽभूत् सर्वंददः सर्वपरित्यागी निःसङ्गपरित्यागी च। महति त्यागे वर्तते। तेन भद्रशिलायां राजधान्यां निर्गत्य बहिर्धा नगरस्य चतुर्षु नगरद्वारेषु चत्वारो महायज्ञवाटा मापिताश्छत्रध्वजयूपपताकात्युच्छ्रिताः। ततः सुवर्णभेरीः संताड्य दानानि दीयन्ते, पुण्यानि क्रियन्ते, तद्यथा-अन्नमन्नार्थिभ्यः, पानं पानार्थिभ्यः, खाद्यभोज्यमाल्यविलेपनवस्त्रशयनासनापाश्रयावासप्रदीपच्छत्राणि रथा आभरणान्यलंकाराः, सुवर्णपात्र्यो रूप्यचूर्णपरिपूर्णाः, रूप्यपात्र्यः सुवर्णपरिपूर्णाः, सुवर्णशृङ्गाश्च गावः कामदोहिन्यः। कुमाराः कुमारिकाश्च सर्वालंकारविभूषिताः कृत्वा प्रदानानि दीयन्ते। वस्त्राणि नानारङ्गानि नानादेशसमुच्छ्रितानि नानाविचित्राणि, तद्यथा-पट्टांशुकचीनकौशेयधौतपट्टवस्त्राण्यूर्णादुकूलमयशोभनवस्त्राण्यपरान्तकफलकहर्यणिकम्बलरत्नसुवर्णप्रावरकाकाशिकांशुक्षोमकाद्याः। राज्ञा चन्द्रप्रभेण तावन्तं दानमनुदत्तम्, येन सर्वे जम्बुद्वीपका मनुष्या आढ्या महाधना महाभोगाः संवृत्ताः। राज्ञा चन्द्रप्रभेण तावन्ति हस्त्यश्वरथच्छत्राणि प्रदानमनुप्रदत्तानि, यथा अस्मिन् जम्बुद्वीपे एकमनुष्योऽपि पद्भ्यां न गच्छति। सर्वे जम्बुद्वीपका मनुष्या हस्तिपृष्ठैश्च चतुरश्वयुक्तैश्च रथैरुपरिसुवर्णमयै रूप्यमयैश्चातपत्रैरूद्यानेनोद्यानं ग्रामेण ग्राममनुविचरन्ति स्म। ततो राज्ञश्चन्द्रप्रभस्यैतदभवत्-किं पुनर्मे इत्वरेण दानेन प्रदत्तेन ? यन्न्वहं यादृशान्येव मम वस्त्रालंकाराण्याभरणानि, तादृशान्येव दानमनुप्रयच्छेयम्, यत् सर्वे जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडेयुः। अथ राजा चन्द्रप्रभो जम्बुद्वीपकेभ्यो मनुष्येभ्यो मौलिपट्टवस्त्रालंकाराभरणाण्यनुप्रयच्छति, तद्यथा-हर्षकटककेयूराहारार्धहारादीन् प्रदानमनुप्रयच्छति स्म। राज्ञा चन्द्रप्रभेण तावन्ति राजार्हाणि वस्त्राण्यलंकाराणि मौलयः पट्टाश्चानुप्रदत्ताः, येन सर्वे जम्बुद्वीपका मनुष्या मौलिधराः पट्टधराश्च संवृत्ताः। या राज्ञश्चन्द्रप्रभस्याकृतिस्तादृशा एव सर्वे जम्बुद्वीपका मनुष्याः संवृत्ताः। ततो राज्ञा चन्द्रप्रभेणाष्टषष्टिषु नगरसहस्रेषु घण्टावघोषणं कारितम्-सर्वे भवन्तो जम्बुद्वीपका मनुष्या राजक्रीडया क्रीडन्तु, यावदहं जीवामीति। अथ जम्बुद्वीपका मनुष्या राज्ञश्चन्द्रप्रभस्य घण्टावघोषणां श्रुत्वा सर्व एव राजक्रीडया क्रीडितुमारब्धाः। वीणावेणुपणवसुघोषकवल्लरीभेरीपटहमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म। तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजलीलया क्रीडतां यश्च वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गपटहशब्दो यश्चाष्टषष्टिषु नगरसहस्रेषु तालवंशनिर्घोषो यश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वर्णमनोज्ञशब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनादितोऽभूत् तद्यथा देवानां त्रायस्त्रिंशानामभ्यन्तरं देवपुरं नृत्तगीतवादितशब्देन निर्नादितम्। एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपवासिनां जनकायस्तेन गीतवादितशब्देन एकान्तसुखसमर्पितोऽत्यर्थं रमते। तेन खलु समयेन भद्रशिलायां राजधान्यां द्वासप्ततिरयुतकोटीशतानि मनुष्याणां प्रतिवसन्ति स्म। तेषां राजा चन्द्रप्रभ इष्टो बभूव प्रियो मनापश्च। अपीदानीं वर्णाकृतिलिङ्गस्थैर्यमस्य निरीक्षमाणा न तृप्तिमुपयान्ति स्म। यस्मिंश्च समये राजा चन्द्रप्रभो महायज्ञवाटं गच्छति, तस्मिन् समये प्राणिकोटीनियुतशतसहस्राण्यवलोकयन्ति, एवं चाहुः-देवगर्भो बतायं राजा चन्द्रप्रभ इह जम्बुद्वीपे राज्यं कारयति। न खलु मनुष्या ईदृग्वर्णसंस्थाना यादृशा देवस्य चन्द्रप्रभस्येति । राजा चन्द्रप्रभो येन येनावलोकयति, तेन तेन स्त्रीसहस्राण्यवलोकयन्ति-धन्यास्ताः स्त्रियो यासामेष भर्तेति। तच्च शुद्धैर्मनोभिर्नान्यथाभावात्। एवं दर्शनीयो राजा चन्द्रप्रभो बभूव। चन्द्रप्रभस्य राज्ञोऽर्धत्रयोदशामात्यसहस्राणि। तेषां द्वौ अग्रामात्यौ महाचन्द्रो महीधरश्च। व्यक्तौ पण्डितौ मेधाविनौ गुणैश्च सर्वामात्यमण्डलप्रतिविशिष्टौ सर्वाधिकृतौ राजपरिकर्षकौ राजपरिपालकौ। अल्पोत्सुको राजा सर्वकर्मान्तेषु। महाचन्द्रश्चाग्रामात्योऽभीक्ष्णं जम्बुद्वीपकान् मनुष्यान् दशसु कुशलेषु कर्मपथेषु नियोजयति-इमान् भवन्तो जम्बुद्वीपका मनुष्या दश कुशलान् कर्मपथान् समादाय वर्तथेति। यादृशी च राज्ञश्चक्रवर्तिनोऽववादानुशासनी, तादृशी महाचन्द्रस्यामात्यस्याववादानुशासनी बभूव। महाचन्द्रस्याग्रामात्यस्य राजा चन्द्रप्रभ इष्टश्चाभूत् प्रियश्च मनापश्च। अपीदानीं वर्णाकृतिलिङ्गसंस्थानमस्य निरीक्षमाणो न तृप्तिमुपयाति॥



यावदपरेण समयेन महाचन्द्रेणाग्रामात्येन स्वप्नो दृष्टः-राज्ञश्चन्द्रप्रभस्य धूमवर्णैः पिशाचैर्मौलिरपनीतः। प्रतिबिबुद्धस्य चाभूद्भयम्, अभूच्छङ्कितत्वम्, अभूद्रोमहर्षः-मा हैव देवस्य चन्द्रप्रभस्य शिरोयाचनक आगच्छेत्। देवश्च सर्वंददः। सर्वपरित्यागे नास्त्यस्य किंचिदपरित्यक्तं दीनानाथकृपणवनीपकयाचनकेभ्य इति। तस्य बुद्धिरुत्पन्ना-न मया राज्ञश्चन्द्रप्रभस्य स्वप्नो निवेदयितव्यः। अपि तु रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारं प्रवेश्य स्थापयितव्यानि। यदि नाम कश्चिद्देवस्य शिरोयाचनक आगच्छेत्, तमेनमेभी रत्नमयैः शिरोभिः प्रलोभयिष्यामि। इति विदित्वा रत्नमयानि शिरांसि कारयित्वा कोषकोष्ठागारेषु प्रक्षिप्य स्थापितवान्। अपरेण समयेन महीधरेणाग्रामात्येन स्वप्नो दृष्टः-सर्वरत्नमयः पोतश्चन्द्रप्रभस्य कुलस्थः शतशो विशीर्णः। दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नः-मा हैव राज्ञश्चन्द्रप्रभस्य राज्यच्युतिर्भविष्यति जीवितस्य चान्तराय इति। तेन ब्राह्मणा ये नैमित्तिका विपश्चिकाश्चाहूय उक्ताः- भवन्तः, मयेदृशः स्वप्नो दृष्टः, निर्दोषं कुरुतेति। ततस्तैर्ब्राह्मणैर्नैमित्तिकैर्विपश्चिकैश्च समाख्यातम्-यादृशोऽयं त्वया स्वप्नो दृष्टः, नचिरादेव राज्ञश्चन्द्रप्रभस्य शिरोयाचनक आगमिष्यति। स चास्यामेव भद्रशिलायां राजधान्यामवतरिष्यतीति। ततो महीधरोऽग्रामात्यः स्वप्ननिर्देशं श्रुत्वा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः-अतिक्षिप्रं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति। अथापरेण समयेनार्धत्रयोदशभिरमात्यसहस्रैः स्वप्नो दृष्टः-राज्ञश्चन्द्रप्रभस्य चतुर्षु यज्ञवाटेषु करोटपाणिभिर्यक्षैश्च छत्रध्वजपताकाः पातिताः, सुवर्णभेर्यश्च भिन्नाः। दृष्ट्वा च पुनर्भीतास्त्रस्ताः संविग्नाः-मा हैव राज्ञश्चन्द्रप्रभस्य महापृथिवीपालस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानित्यताबलमागच्छेत्, मा हैव अस्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगः, मा हैव अत्राणोऽपरित्राणो जम्बुद्वीपो भविष्यतीति। राज्ञा चन्द्रप्रभेण श्रुतम्। तेन श्रुत्वा अष्टषष्टिनगरसहस्रेषु घण्टावघोषणं कारितम्-राजलीलया भवन्तः सर्वे जम्बुद्वीपका मानुष्याः क्रीडन्तु यावदहं जीवामि। किं युष्माकं मायोपमैः स्वप्नोपमैश्चिन्तितैः ? राज्ञश्चन्द्रप्रभस्य घण्टावघोषणं श्रुत्वा सर्व एव जम्बुद्वीपका मनुष्या राजलीलया क्रीडितुमारब्धाः, वीणावेणुपणवसुघोषकवल्लरीभेरीमृदङ्गतालशङ्खसहस्रैस्तूर्यशब्दशतैश्च वाद्यमानैः केयूरहारमणिमुक्ताभरणकुण्डलधराः सर्वालंकारविभूषितप्रमदागणपरिवृता राजश्रियमनुभवन्ति स्म। तेन खलु समयेन जम्बुद्वीपकानां मनुष्याणां राजक्रीडया क्रीडतां यश्च राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां वल्गुर्मनोज्ञः शब्दो निश्चरति, तेन सर्वो जम्बुद्वीपो मनोज्ञशब्दनिर्नादितोऽभूत्। तद्यथा देवानां त्रायस्त्रिंशानामन्यतरं देवपुरं नृत्तगीतवादितम्, एवमेव तस्मिन् काले तस्मिन् समये सर्वो जम्बुद्वीपनिवासी जनकायस्तेन गीतशब्देनैकान्तसुखसमर्पितोऽत्यर्थं रमते॥



तेन खलु समयेन गन्धमादने पर्वते रौद्राक्षो नाम ब्राह्मणः प्रतिवसति स्म इन्द्रजालविधिज्ञः। अश्रौषीद्रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यां चन्द्रप्रभो नाम राजा सर्वंददोऽस्मीत्यात्मानं प्रतिजानीते। यन्न्वहं गत्वा शिरो याचेयमिति। तस्यैतदभवत्-यदि तावत् सर्वंददो भविष्यति, मम शिरो दास्यति। अपि तु दुष्करमेतदस्थानमनवकाशो यदेवमिष्टं कान्तं प्रियं मनापमुत्तमाङ्गं परित्यक्ष्यति यदुत शीर्षम्, नेदं स्थानं विद्यते। इति विदित्वा गन्धमादनात् पर्वतादवतीर्णः। अथ गन्धमादननिवासिनी देवता विक्रोष्टुमारब्धा- हा कष्टं राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य महाकारुणिकस्य सत्त्ववत्सलस्यानित्यताबलं प्रत्युपस्थितमिति। तेन खलु समयेन सर्वजम्बुद्वीप आकुलाकुलः, धूमान्धकारः, उल्कापाताः, दिशोदाहाः, अन्तरीक्षे देवदुन्दुभयोऽभिनदन्ति। भद्रशिलायां च राजधान्यां नातिदूरे पञ्चाभिज्ञो ऋषिः प्रतिवसति विश्वामित्रो नाम्ना पञ्चशतपरिवारो मैत्रात्मकः कारुणिकः सत्त्ववत्सलः। अथ स ऋषिः सर्वजम्बुद्वीपमाकुलं दृष्ट्वा माणवकानामन्त्रयते-यत्खलु माणवका जानीत सर्वजम्बुद्वीप एतर्ह्याकुलाकुलो धूमान्धकारः। सूर्याचन्द्रमसौ एवंमहानुभावौ न भासतो न तपतो न विरोचतः। नूनं कस्यचिन्महापुरुषस्य निरोधो भविष्यति। तथा हि -



रोदन्ति किन्नरगणा वनदेवताश्च

धिक्कारमुत्सृजन्ति देवगणा पि न स्थुः।

चन्द्रो न भाति न विभाति सहस्ररश्मि-

र्नैव वाद्यवादितरवोऽपि निशाम्यतेऽत्र॥१॥



एते हि पादपगणाः फलपुष्पनद्धा

भूमौ पतन्ति पवनैरपि चालितानि।

संश्रूयते ध्वनिरयं च यथातिभीमो

व्यक्तो भविष्यति पुरे व्यसनं महान्तम्॥२॥



एते भद्रशिलानिवासनिरताः सर्वे सदुःखा जना

अत्यन्तप्रतिशोकशल्यविहताः प्रस्पन्दकण्ठाननाः।

एताश्चन्द्रनिभानना युवतयो रोदन्ति वेश्मोत्तमे

सर्वे च प्ररुदन्ति तीव्रकरुणाः सन्तः श्मशाने यथा॥३॥



किं कारणं पुरनिवासिजनाः समग्राः

संपिण्डितं मनसि दुःखमिदं वहन्ति।

उत्क्रोशतामनिशमर्धकृताग्रहस्तै-

रैश्वर्यमप्रतिसमं निरुणद्धि वाचम्॥४॥



एते पयोदा विनदन्त्यतोया

जलाश्रयाः शोकममी व्रजन्ति।

भुवोरिवाम्भसि च बालसमीरणास्ता

वाताः प्रवान्ति च खरा रजसा विमिश्राः॥५॥



अशिवानि निमित्तानि प्रवराणि हि सांप्रतम्।

क्षेमां दिशमतोऽस्माकमितो गन्तुं क्षमो भवेत्॥६॥



अपि तु खलु माणवका राज्ञश्चन्द्रप्रभस्य चतुर्षु महायज्ञवाटेषु सुवर्णभेरीणां ताड्यमानानां न भूयो मनोज्ञः स्वरो निश्चरति। नूनं बत भद्रशिलायां महानुपद्रवो भविष्यतीति॥



अथ रौद्राक्षो ब्राह्मणो भद्रशिलायां राजधान्यामनुप्राप्तः। ततो नगरनिवासिनी देवता रौद्राक्षं ब्राह्मणं दूरादेव दृष्ट्वा येन राजा चन्द्रप्रभस्तेनोपसंक्रान्ता। उपसंक्रम्य राजानं चन्द्रप्रभमिदमवोचत्-यत्खलु देव जानीयाः-अद्य देवस्य याचनक आगमिष्यति हिंसको विहेठकोऽवतारप्रेक्षी अवतारगवेषी। स देवस्य शिरो याचिष्यतीति। तद्देवेन सत्त्वानामर्थायात्मानं परिपालयितव्यमिति। अथ राजा चन्द्रप्रभः शिरोयाचनकमुपश्रुत्य प्रमुदितमना विस्मयोत्फुल्लदृष्टिर्देवतामुवाच-गच्छ देवते, यद्यागमिष्यति, अहमस्य दीर्घकालाभिलषितं मनोरथं परिपूरयिष्यामीति। अथ सा देवता राज्ञश्चन्द्रप्रभस्य इदमेवंरूपं व्यवसायं विदित्वा दुःखिनी दुर्मनस्का विप्रतिसारिणी तत्रैवान्तर्हिता। अथ राज्ञश्चन्द्रप्रभस्यैतदभवत्-किमत्राश्चर्यं यदहमन्नमन्नार्थिभ्योऽनुप्रयच्छामि, पानं पानार्थिभ्यो वस्त्रहिरण्यसुवर्णमणिमुक्तादीन् तदर्थिभ्यः। यन्न्वहं याचनकेभ्यः स्वशरीरमपि परित्यजेयमिति। ततो रौद्राक्षो ब्राह्मणो दक्षिणेन नगरद्वारेण प्रविशन् देवतया निवारितः- गच्छ पापब्राह्मण, मा प्रविश। कथमिदानीं त्वं मोहपुरुष राज्ञश्चन्द्रप्रभस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसंपन्नस्य जम्बुद्वीपपरिपालकस्यादूषिणोऽनपकारिणः शिरश्छेत्स्यसि ? रौद्रचित्त पापब्राह्मण, मा प्रविशेति। यावदेतत् प्रकरणं राज्ञा चन्द्रप्रभेण श्रुतम्-याचनको मे नगरद्वारे देवतया विधार्यते इति। श्रुत्वा च पुनर्महाचन्द्रमग्रामात्यमामन्त्रयते-यत्खलु महाचन्द्र जानीयाः-याचनको मे नगरद्वारि देवतया विधार्यते। गच्छ, शीघ्रं मत्सकाशमानयेति। एवं देवेति महाचन्द्रोऽग्रामात्यो राज्ञश्चन्द्रप्रभस्य प्रतिश्रुत्य नगरद्वारं गत्वा तां देवतामुवाच-यत्खलु देवते जानीयाः-प्रविशत्वेष ब्राह्मणः, राजा चन्द्रप्रभ एनमाह्वापयत इति। ततो नगरनिवासिनी देवता महाचन्द्रमग्रामात्यमिदमवोचत्-यत्खलु महाचन्द्र जानीयाः-एष ब्राह्मणो रौद्रचित्तो निष्कारुणिको राज्ञश्चन्द्रप्रभस्य विनाशार्थं भद्रशिलामनुप्राप्तः। किमनेन दुरात्मना प्रवेशितेन ? एष राजानमुपसंक्रम्य शिरो याचिष्यतीति। अथ महाचन्द्रोऽग्रामात्यो देवतामाह-अस्ति मया देवते उपायश्चिन्तितो येनायं ब्राह्मणो न प्रभविष्यति देवस्य शिरो ग्रहीतुमिति। अथ महाचन्द्रोऽग्रामात्यो रौद्राक्षं ब्राह्मणमादाय नगरं प्रविश्य रत्नधरानाज्ञापयति-आनीयन्तां भवन्तो रत्नमयानि शिरांसि। अस्मै ब्राह्मणाय दास्यामीति। भाण्डागारिकै रत्नमयानां शीर्षाणां राजद्वारे राशिः कृतः। महाचन्द्रेणाग्रामात्येन रौद्राक्षस्य रत्नमयानि शीर्षाण्युपदर्शितानि-प्रतिगृह्ण त्वं महाब्राह्मण प्रभूतानि रत्नमयानि शीर्षाणि। यावदाप्तं च ते हिरण्यसुवर्णमनुप्रयच्छामि, येन ते पुत्रपौत्राणां जीविका भविष्यति। किं ते देवस्य शीर्षेण मज्जाशिङ्घाणकवसादिपूर्णेनेति ? एवमुक्ते रौद्राक्षो ब्राह्मणो महाचन्द्रमग्रामात्यमिदमवोचत्-न रत्नमयैर्मे शिरोभिः प्रयोजनम्। नापि हिरण्यसुवर्णेन। अपि त्वहमस्य महापृथिवीपालस्य सर्वंददस्य सकाशमागतः शिरसोऽर्थाय। एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ करे कपोलं दत्त्वा चिन्तापरौ व्यवस्थितौ-किमिदानीं प्राप्तकालमिति। अथैतद्वृत्तान्तमुपश्रुत्य राजा चन्द्रप्रभो महाचन्द्रमहीधरौ अग्रामात्यौ दूरेण प्रक्रोश्यैतदवोचत्-आनीयतामेष मत्समीपम्। अहमस्यैवं मनोरथं पूरयिष्यामीति। एवमुक्ते महाचन्द्रमहीधरौ अग्रामात्यौ साश्रुदुर्दिनवदनौ करुणकरुणं परिदेवमानौ अभिरुद्य देवस्य मैत्रात्मकस्य कारुणिकस्य सत्त्ववत्सलस्यानेकगुणसमुदितस्य ज्ञानकुशलस्य दिव्यचक्षुषोऽनित्यताबलं प्रत्युपस्थितम्, अद्यास्माकं देवेन सार्धं नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः। इति विदित्वा राज्ञः पादयोर्निपत्य एकान्ते निषण्णौ। अथ राजा चन्द्रप्रभः परमत्यागप्रतिविशिष्टं त्यागं परित्यक्तुकामो दूरत एव तं ब्राह्मणमामन्त्रयते-एहि त्वं ब्राह्मण, यच्छतां यत् प्रार्थयसे तद्गृहाणेति। अथ रौद्राक्षो ब्राह्मणो येन राजा चन्द्रप्रभस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं चन्द्रप्रभं जयेनायुषा च वर्धयित्वा राजानं चन्द्रप्रभमिदमवोचत्-



धर्मे स्थितोऽसि विमले शुभवुद्धिसत्त्व

सर्वज्ञतामभिलषन् हृदयेन साधो।

मह्यं शिरः सृज महाकरुणाग्रचेता

मह्यं ददस्व मम तोषकरो भवाद्य॥७॥



अथ राजा चन्द्रप्रभो ब्राह्मणस्यान्तिकादिदमेवंरूपं वाक्प्रव्याहारं श्रुत्वा प्रमुदितमनाः प्रीतिविस्फारिताक्षो रौद्राक्षं ब्राह्मणमुवाच-हन्तेदं ब्राह्मण शिरोऽविघ्नतः साधु प्रगृह्यतामुत्तमाङ्गमिति। आह च-



प्रियो यथा यद्यपि चैकपुत्रक-

स्तथापि मे खर्पमिदं गृहाण।

त्वच्चिन्तितानां फलमस्तु शीघ्रं

शिरःप्रदानाद्धि लभेय बोधिम्॥८॥



इत्युक्त्वा स्वयमेव स्वशिरसो मौलिमपनीतवान्। यदा च राज्ञा चन्द्रप्रभेण शिरसो मौलिरपनीतः, तत्समनन्तरमेव सर्वेषां जम्बुद्वीपकानां मनुष्याणां मौलयः शिरसः पतिताः। भद्रशिलायां च राजधान्यां चतुर्दिशमुल्कापाता दिशोदाहाश्च प्रादुर्भूताः। नगरदेवताभिश्च शब्दो निश्चारितः-अस्य राज्ञश्चन्द्रप्रभस्य पापब्राह्मणो शिरश्छेत्स्यतीति। तच्छ्रुत्वा महाचन्द्रमहीधरौ अग्रामात्यौ राज्ञश्चन्द्रप्रभस्येदमेवंरूपं शरीरपरित्यागं विदित्वा साश्रुदुर्दिदवदनौ राज्ञश्चन्द्रप्रभस्य पादौ परिष्वज्याहतुः-धन्यास्ते पुरुषा देव य एवमत्यद्भुतरूपदर्शनं वा द्रक्ष्यन्तीति। तौ अभिमुखमुद्वीक्ष्यमाणौ राजनि चन्द्रप्रभे चित्तमभिप्रसाद्य रौद्राक्षे च ब्राह्मणे मैत्र्यचित्तमुत्पाद्य नावां शक्ष्यामो निरुपमगुणाधारस्य देवस्यानित्यतां द्रष्टुमिति तस्मिन्नेव मुहूर्ते कालगतौ। कामधातुमतिक्रम्य ब्रह्मलोकमुपपन्नौ। राज्ञश्चन्द्रप्रभस्येदमेवंरूपं व्यवसायं बुद्ध्वा तां च नगरनिवासिनीनां देवतानामार्तध्वनिमुपश्रुत्य भौमा यक्षा अन्तरिक्षचराश्च यक्षाः क्रन्दितुमारब्धाः-हा कष्टमिदानीं राज्ञश्चन्द्रप्रभस्य शरीरनिक्षेपो भविष्यतीति॥



अत्रान्तरे च राजकुलद्वारेऽनेकानि प्राणिशतसहस्राणि संनिपतितान्यभूवन्। ततो रौद्राक्षो ब्राह्मणस्तं महाजनकायमवेक्ष्य चन्द्रप्रभं राजानमुवाच-यत्खलु देव जानीयाः-नाहं शक्ष्यामि महाजनकायस्य पुरस्ताद्देवस्य शिरो ग्रहीतुम्। यदि च ते शिरः परित्यक्तम्, एकान्तं गच्छाव इति। एवमुक्ते राजा चन्द्रप्रभो रौद्राक्षं ब्राह्मणमवोचत्-एवं महाब्राह्मण क्रियताम्। ऋद्ध्यन्तां तव संकल्पाः, परिपूर्यन्तां मनोरथा इति। अथ राजा चन्द्रप्रभो राजा आसनादुत्थाय तीक्ष्णमसिमादाय येन मणिरत्नगर्भमुद्यानं तेनोपसंक्रान्तः। अथ राज्ञश्चन्द्रप्रभस्य इदमेवंरूपं व्यवसायं दृष्ट्वा भद्रशिलायां राजधान्यामनेकानि प्राणिशतसहस्राणि विक्रोशमानानि पृष्ठतः पृष्ठतः समनुबद्धानि। सोऽद्राक्षीद्राजा चन्द्रप्रभो महाजनसंनिपातं विक्रोशन्तम्। दृष्ट्वा च पुनः समाश्वासयन्नाह-अप्रमादः करणीयः कुशलेषु धर्मेष्विति। संक्षेपेण धर्मदेशनां कृत्वा रौद्राक्षं ब्राह्मणमादाय मणिरत्नगर्भमुद्यानं प्रविष्टः। समनन्तरप्रविष्टस्य राज्ञश्चन्द्रप्रभस्य मणिरत्नगर्भ उद्याने भद्रशिलायां छत्राणि ध्वजपताकाश्च येन मणिरत्नगर्भमुद्यानं तेनावनामिताः। ततो राजा चन्द्रप्रभो मणिरत्नगर्भस्योद्यानस्य द्वारं पिधाय तं रौद्राक्षं ब्राह्मणमामन्त्रयते-प्रतिगृह्यतां ब्राह्मण ममोत्तमाङ्गमिति। एवमुक्ते रौद्राक्षो ब्राह्मणो राजानं चन्द्रप्रभमुवाच-नाहं शक्ष्यामि देवस्य शिरश्छेत्तुमिति। मणिरत्नगर्भस्य चोद्यानस्य मध्ये कुरबकः। तत्र सर्वकालिकश्चम्पकवृक्षो जातः। ततो राजा चन्द्रप्रभस्तीक्ष्णमसिं गृहीत्वा येन सर्वकालिकश्चम्पकवृक्षस्तेनोपसंक्रान्तः। अथ या देवतास्तस्मिन्नुद्यानेऽध्यवसिताः, ता राज्ञश्चन्द्रप्रभस्येदमेवंरूपं स्वशरीरपरित्यागं विदित्वा विक्रोष्टुमारब्धाः। एवं चाहुः-कथमिदानीं त्वं पापब्राह्मण राज्ञश्चन्द्रप्रभस्यादूषिणोऽनपकारिणो महाजनवत्सलस्यानेकगुणसंपन्नस्य शिरश्छेत्स्यसीति ? ततो राजा चन्द्रप्रभ उद्यानदेवता निवारयति-मा देवता मम शिरोयाचनकस्यान्तरायं कुरुत। तत्कस्य हेतोः ? भूतपूर्वं देवता ममोत्तमाङ्गं याचनकस्य देवतया अन्तरायः कृतः। तया देवतया बहु अपुण्यं प्रसूतम्। तत्कस्य हेतोः ? यदि तया देवतया अन्तरायो न कृतोऽभविष्यत्, मया लघु लध्वेवानुत्तरज्ञानमधिगतमभविष्यत्। अतश्च त्वामहमेवं ब्रवीमि-मा मे त्वमुत्तमाङ्गयाचनकस्यान्तरायं कुरुष्वेति। अस्मिन्नेव ते मणिरत्नगर्भ उद्याने मया सहस्रशः शिरःपरित्यागः कृतः, न च मे केनचिदन्तरायः कृतः। तस्मात् त्वं देवते ममोत्तमाङ्गयाचनकस्यान्तरायं मा कुरु। एष एव देवते स पृष्ठीभूतो मैत्रेयो यो व्याघ्र्या आत्मानं परित्यज्य चत्वारिंशत्कल्पसंप्रस्थितो मैत्रेयो बोधिसत्त्व एकेन शिरःपरित्यागेनावपृष्ठीकृतः। अथ सा देवता राज्ञश्चन्द्रप्रभस्य महर्द्धितामवेत्य तस्मिन् राजनि परं प्रसादं प्रवेदयन्ती तूष्णीमवस्थिता। अथ राजा चन्द्रप्रभः सम्यक्प्रणिधानं कर्तुमारब्धः-शृण्वन्तु भवन्तः, ये दशदिक्षु स्थिता देवतासुरगरुडगन्धर्वकिन्नरा अध्युषिताः, इहाहमुद्याने त्यागं करिष्यामि, अस्मिन् त्यागं स्वशिरःपरित्यागं येन चाहं सत्येन स्वशिरः परित्यजामि, न राज्यार्थाय न स्वर्गार्थाय न भोगार्थाय न शक्रत्वाय न ब्रह्मत्वाय न चक्रवर्तिविजयाय नान्यत्र कथमहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य अदान्तान् सत्त्वान् दमयेयम्, अशान्तान् शमयेयम्, अतीर्णांस्तारयेयम्, अमुक्तान् मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्। अनेन सत्येन सत्यवचनेन सफलः परिश्रमः स्यात्, परिनिर्वृतस्य च सर्षपफलप्रमाणधातवो भवेयुः, अस्य च मणिरत्नगर्भस्योद्यानस्य मध्ये महान् स्तूपः स्यात् सर्वस्तूपप्रतिबिशिष्टः। ये च सत्त्वाः शान्तकाया महाचैत्यं बन्दितुकामा गच्छेयुः, ते तं सर्वस्तूपप्रतिविशिष्टं धातुपरं दृष्ट्वा विश्रान्ता भवेयुः। परिनिर्वृतस्यापि मम चैत्येषु जनकाया आगत्य कारां कृत्वा स्वर्गमोक्षपरायणा भवेयुरिति। एवं सम्यक् प्रणिधानं कृत्वा तस्मिंश्चम्पकवृक्षे शिखां बद्ध्वा रौद्राक्षं ब्राह्मणमुवाच-आगच्छ महाब्राह्मण, प्रतिगृह्यताम्। मा मे विघ्नं कुरुष्वेति। ततो राजा चन्द्रप्रभ आत्मनः कायस्य स्थाम च बलं च संजन्य तस्मिंश्च ब्राह्मणे करुणासहगतं मैत्रचित्तमुत्पाद्य शिरश्छित्त्वा रौद्राक्षाय ब्राह्मणाय निर्यातितवान्। कालं च कृत्वा अतिक्रम्य ब्रह्मलोकं प्रणीतत्वाच्छुभकृत्स्ने देवनिकाये उपपन्नः। समनन्तरपरित्यक्ते राज्ञा चन्द्रप्रभेण शिरसि अयं त्रिसाहस्रमहासाहस्रो लोकधातुः त्रिः कम्पितः संकम्पितः संप्रकम्पितः, चलितः संचलितः संप्रचलितः, व्यधितः प्रव्यधितः संप्रव्यधितः। गगनतलस्थाश्च देवता दिव्यान्युत्पलानि क्षेप्तुमारब्धाः, पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्राणि दिव्यानि मान्दारवाणि पुष्पाणि, दिव्यानि च वाद्यानि प्रवादयितुमारब्धाः, चैलविक्षेपांश्च चाकार्षुः। ततो रौद्राक्षो ब्राह्मणः शिरोग्रहायोद्यानान्निर्गतः। अथास्मिन्नन्तरेऽनेकैः प्राणिशतसहस्रैर्नादो मुक्तः-हा कष्टम्। प्रघातितो देवः सर्वजनमनोरथपरिपूरक इति। तत एकत्याः पृथिव्यामावर्तन्ते परिवर्तन्ते, एके बाहुभिः प्रक्रोशन्ति, काश्चित् प्रकीर्णकेश्यो रुदन्ति। अनेकानि च प्राणिशतसहस्राणि संनिपतितानि। तत एकत्यास्तस्मिन्नेव प्रदेशे स्थित्वा ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा शुभकृत्स्ने देवनिकाये उपपन्ना राज्ञश्चन्द्रप्रभस्य सभागतायाम्। अपरे ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा भास्वरे देवनिकाये उपपन्नाः। अपरे प्रथमध्यानमुत्पाद्य कालं कृत्वा ब्रह्मलोकसभागतायामुपपन्नाः। अपरैः संनिपात्य राज्ञश्चन्द्रप्रभस्य शरीरं सर्वगन्धकाष्ठैश्चितां चित्वा, ध्मापितानि च अस्थीनि सौवर्णकुम्भे प्रक्षिप्य, चतुर्महापथे शरीरस्तूपः प्रतिष्ठापितः। छत्रध्वजपताकाश्चारोपिताः। गन्धैर्माल्यैर्धूपैर्दीपैः पुष्पैः पूजां कृत्वा चन्द्रप्रभे राजनि स्वचित्तमभिप्रसाद्य कालगताः षट्सु देवनिकायेषु कामावचरेषु देवेषूपपन्नाः। यैश्च तत्र काराः कृताः, सर्वे ते स्वर्गमोक्षपरायणाः संवृत्ता इति॥



स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन तेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति। न खलु एवं द्रष्टव्यम्। तत्कस्य हेतोः ? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव। स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम राजाभूदिति। न खलु एवं द्रष्टव्यम्। तत्कस्य हेतोः ? अहमेव तेन कालेन तेन समयेन राजा चन्द्रप्रभो बभूव। स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा-अन्यः स तेन कालेन तेन समयेन रौद्राक्षो नाम ब्राह्मणोऽभूदिति। न खल्वेवं द्रष्टव्यम्। तत्कस्य हेतोः ? एष एव स तेन कालेन तेन समयेन देवदत्तो बभूव। स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा -अन्यौ तौ तेन कालेन तेन समयेन महाचन्द्रमहीधरौ अग्रामात्यौ बभूवतुरिति। न खल्वेवं द्रष्टव्यम्। तत्कस्य हेतोः ? एतावेव महाचन्द्रमहीधरौ अग्रामात्यौ शारिपुत्रमौद्गल्यायनौ बभूवतुः। तदाप्येतौ तत्प्रथमतः कालगतौ, न त्वेव पितृमरणमारागितवन्तौ इति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवोऽन्ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥



चन्द्रप्रभबोधिसत्त्वचर्यावदानं नाम द्वाविंशतिमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project