Digital Sanskrit Buddhist Canon

२१ सहसोद्गतावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२१ सहसोद्गतावदानम्।



बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे। आचरितमायुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्रचारिकां चरितुं प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्। स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिरश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति। यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एनं सम्यगववदिष्यति, अनुशासिष्यतीति। तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति। एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति। तेन खलु समयेनायुष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिर्भिक्षुणीभिरुपासकै-रुपासिकाभिश्च। जानकाः पृच्छका बुद्धा भगवन्तः। पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्। स कथयति-आचरितं भदन्त आयुष्मतो महामौद्गल्यायनस्य कालेन कालं नरकचारिकां चरितुं तिर्यक्‍चारिकां प्रेतचारिकां देवचारिकां मनुष्यचारिकां चरितुम्। स यानि तानि नारकाणां सत्त्वानामुत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि, तिर्यश्चामन्योन्यभक्षणादीनि, प्रेतानां क्षुत्तृषादीनि, देवानां च्यवनपतनविकिरणविध्वंसनादीनि, मनुष्याणां पर्येष्टिव्यसनादीनि दुःखानि, तानि दृष्ट्वा जम्बुद्वीपमागत्य चतसृणां पर्षदामारोचयति। यस्य कस्यचित् सार्धंविहारी अन्तेवासी वा अनभिरतो ब्रह्मचर्यं चरति, स तमादाय येनायुष्मान् महामौद्गल्यायनस्तेनोपसंक्रामति, आयुष्मान् महामौद्गल्यायन एव सम्यगववदिष्यति सम्यगनुशासिष्यतीति, तमायुष्मान् महामौद्गल्यायनः सम्यगववदति सम्यगनुशास्ति। एवमपरमपरं ते आयुष्मता महामौद्गल्यायनेन सम्यगववादिताः सम्यगनुशिष्टा अभिरता ब्रह्मचर्यं चरन्ति, उत्तरे च विशेषमधिगच्छन्ति। अयं भदन्त हेतुरयं प्रत्ययो येनायुष्मान् महामौद्गल्यायनश्चतसृभिः पर्षद्भिराकीर्णो विहरति भिक्षुभिक्षुण्युपासकोपासिकाभिः। न सर्वत्र आनन्द मौद्गल्यायनो भिक्षुर्भविष्यति मौद्गल्यायनसदृशो वा। तस्माद् द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यम्। उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति। भिक्षवो न जानते कीदृशं कारयितव्यमिति। भगवानाह-पञ्च गतयः कर्तव्या नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च। तत्राधस्तात् नरकाः कर्तव्याः, तिर्यञ्चः प्रेताश्च, उपरिष्टात् देवा मनुष्याश्च। चत्वारो द्वीपाः कर्तव्याः पूर्वविदेहोऽपरगोदानीय उत्तरकुरुर्जम्बुद्वीपश्च। मध्ये रागद्वेषमोहाः कर्तव्याः, रागः पारावताकारेण, द्वेषो भुजङ्गाकारेण, मोहः सूकराकारेण। बुद्धप्रतिमाश्चैतन्निर्वाणमण्डलमुपदर्शयन्त्यः कर्तव्याः। अनुपपादुकाः सत्त्वा घटीयन्त्रप्रयोगेण च्यवमाना उपपद्यमानाश्च कर्तव्याः। सामन्तकेन द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुलोमप्रतिलोमः कर्तव्यः। सर्वमनित्यतया ग्रस्तं कर्तव्यम्, गाथाद्वयं च लेखयितव्यम् -



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥ इति।



उक्तं भगवता द्वारकोष्ठके पञ्चगण्डकं चक्रं कारयितव्यमिति भिक्षुभिः कारितम्। ब्राह्मणगृहपतय आगत्य पृच्छन्ति-आर्य, किमिदं लिखितमिति ? ते कथयन्ति-भद्रमुखाः, वयमपि न जानीम इति। भगवानाह-द्वारकोष्ठके भिक्षुरुद्देष्टव्यो य आगतागतानां ब्राह्मणगृह पतीनां दर्शयति। उक्तं भगवता भिक्षुरुद्देष्टव्य इति। ते अविशेषेणोद्दिशन्ति बालानपि मूढानपि अव्यक्तानपि अकुशलानपि। ते आत्मना न जानते, कुतः पुनरागतानां ब्राह्मणगृहपतीनां दर्शयिष्यन्ति ? भगवानाह- प्रतिबलो भिक्षुरुद्देष्टव्य इति॥



राजगृहेऽन्यतमो गृहपतिः प्रतिवसति। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। तस्य त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्। स पत्नीमामन्त्रयते-भद्रे, जातोऽस्माकं ऋणहरो धनहरः। तद्गच्छामि, पण्यमादाय महासमुद्रमवतरामीति। सा कथयति-आर्यपुत्र, एवं कुरुष्वेति। स सुहृत्संबन्धिपण्यमादाय महासमुद्रमवतरामीति। सा कथयति-आर्यपुत्र, एवं कुरुष्वेति। स सुहृत्संबन्धिबान्धवानामन्त्रयित्वा अन्तर्जनं च समाश्वास्य महासमुद्रगमनीयं पण्यमादाय दिवसतिथिमुहूर्तेन महासमुद्रमवतीर्णः। तत्रैव च निधनमुपयातः। तस्य पत्न्या स दारको ज्ञातिबलेन हस्तबलेन पालितः पोषितः संवर्धितो लिप्यामुपन्यस्तो लिप्यक्षरेषु च कृतावी संवृत्तः। स वयस्करेण सार्धं वेणुवनं गतो विहारं प्रविष्टः पश्यति द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितम्। स पृच्छति-आर्य, किमिदमभिलिखितमिति ? भिक्षुः कथयति-भद्रमुख, एताः पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च। आर्य, किमेभिः कर्म कृतं येनैवंविधानि दुःखानि प्रत्यनुभवन्तीति ? स कथयति-एते प्राणातिपातिका अदत्तादायिकाः काममिथ्याचारिका मृषावादिकाः पैशुनिकाः पारुषिकाः संभिन्नप्रलापिका अभिध्यालवो व्यापन्नचित्ता मिथ्यादृष्टिकाः। तदेभिरेते दशाकुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्युत्पाटानुपाटच्छेदनभेदनादीनि प्रत्यनुभवन्ति। आर्य, गतमेतत्। एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति? भद्रमुख, एभिरपि दशाकुशलाः कर्मपथा आसेविता भाविता बहुलीकृताः, येन एवंविधानि दुःखान्यन्योन्यभक्षणादीनि प्रत्यनुभवन्ति। आर्य, एतदपि गतम्। एभिरन्यैः किं कर्म कृतं येन एवंविधानि दुःखानि प्रत्यनुभवन्ति ? भद्रमुख, एतेऽपि मत्सरिण आसन् कुटुकुञ्चका आगृहीतपरिष्काराः। तत्तेन मात्सर्येणासेचितेन भावितेन बहुलीकृतेन एवंविधानि दुःखानि क्षुत्तृषादीनि दुःखानि प्रत्यनुभवन्ति। आर्य, एतदपि गतम्। एभिरन्यैः किं कर्म कृतं येन एवंविधानि सुखानि प्रत्यनुभवन्ति ? भद्रमुख, एते प्राणातिपातात् प्रतिविरता अदत्तादानात् काममिथ्याचारान्मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापादनभिध्यालवोऽव्यापन्नचित्ताः सम्यद्गृष्टयः। तदेभिरेते दश कुशलाः कर्मपथा अत्यर्थमासेविता भाविता बहुलीकृताः, येन एवंविधानि दिव्यस्त्रीललितविमानोद्यानसुखानि प्रत्यनुभवन्ति। आर्य, एतदपि गतम्। एभिरन्यैः किं कर्म कृतं येन एवंविधानि सुखानि प्रत्यनुभवन्ति ? भद्रमुख, एभिरपि दश कुशलाः कर्मपथास्तनुतरा मृदुतराश्चासेविता भाविता बहुलीकृताः, येन एवंविधानि हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानसुखानि प्रत्यनुभवन्ति। आर्य, आसां पञ्चानां गतीनां या एतास्तिस्रो गतयो नरकास्तिर्यञ्चः प्रेताश्च, एता मह्यं न रोचन्ते। ये तु एते देवा मनुष्याश्च एते रोचेते। तत्कथमेते दश कुशलाः कर्मपथाः समादाय वर्तयितव्याः ? भद्रमुख, स्वाख्याते धर्मविनये प्रव्रज्य सचेद् दृष्ट एव धर्मे आज्ञामारागयिष्यसि, एष एव तेऽन्तो दुःखस्य। अथ सावशेषसंयोजनः कालं करिष्यसि, देवेषूपपत्स्यते। उक्तं हि भगवता-पञ्चानुशंसान् समनुपश्यता पण्डितेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्। कतमानि पञ्च ? आवेणिका इमे स्वार्था अनुप्राप्तो भविष्यामीति संपश्यता पण्डितेनालमेव प्रव्रज्याधिमुक्तेन भवितुम्। येषामहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेन कामंगमः, तेषां पूज्यश्च भविष्यामि प्रशंस्यश्चेति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। अनुत्तरं योगक्षेमं निर्वाणमनुप्राप्स्यामीति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। अनुत्तरं वा योगक्षेमं निर्वाणमनुप्राप्नुवतोऽनापत्तिकस्य सतो देवेषूपपत्तिर्भविष्यतीति संपश्यता पण्डितेन अलमेव प्रव्रज्याधिमुक्तेन भवितुम्। अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश्च बुद्धश्रावकैश्च। आर्य, शोभनम्। किं तत्र प्रव्रज्यायां क्रियते ? भद्रमुख, यावज्जीवं ब्रह्मचर्यं चर्यते। आर्य, न शक्यमेतत्। अन्योऽस्ति उपायः ? भद्रमुख, अस्ति, उपासको भव। आर्य, किं तत्र क्रियते ? भद्रमुख, यावज्जीवं प्राणातिपातात् प्रतिविरतिः संरक्ष्या, अदत्तादानात् काममिथ्याचारात् सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतिः संरक्ष्या। आर्य, एतदपि न शक्यते। अन्यमुपायं कथयेति। भद्रमुख, बुद्धप्रमुखं भिक्षुसंघं भोजय। आर्य, कियद्भिः कार्षापणैर्बुद्धप्रमुखो भिक्षुसंघो भोज्यते ? भद्रमुख, पञ्चभिः कार्षापणशतैः। आर्य, शक्यमेतत्। स तस्य पादाभिवन्दनं कृत्वा प्रक्रान्तः। येन स्वं निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य मातरमिदमवोचत्-अम्ब, अद्याहं वेणुवनं गतः। तत्र मया द्वारकोष्ठके पञ्चगण्डकं चक्रमभिलिखितं दृष्टम्। तत्र पञ्च गतयो नरकास्तिर्यञ्चः प्रेता देवा मनुष्याश्च। तत्र नारका उत्पाटानुपाटनच्छेदनभेदनादीनि दुःखानि प्रत्यनुभवन्ति। तिर्यञ्चश्चान्योन्यभक्षणादीनि। प्रेताः क्षुत्तृषादीनि। देवा दिव्यस्त्रीललितोद्यानविमानसुखानि प्रत्यनुभवन्ति। मनुष्या हस्त्यश्वरथान्नपानशयनासनस्त्रीललितोद्यानानि प्रत्यनुभवन्ति। आसां मम तिस्रो गतयो नाभिप्रेताः, द्वे अभिप्रेते। तत्किमिच्छसि त्वं मां देवेषूपपद्यमानम् ? पुत्र, सर्वसत्त्वानिच्छामि देवेषूपपद्यमानान् प्रागेव त्वाम्। अम्ब, यद्येवम्, प्रयच्छ पञ्च कार्षापणशतानि। बुद्धप्रमुखं भिक्षुसंघं भोजयामि। पुत्र, मया त्वं ज्ञातिबलेन हस्तबलेन चाप्यायितः पोषितः संवर्धितः। कुतो मे पञ्चानां काषार्पणशतानां विभवः ? अम्ब, यदि नास्ति, भृतिकया कर्म करोमि। पुत्र, त्वं सुकुमारः। न शक्यसि भृतिकया कर्म कर्तुम्। अम्ब गच्छामि, शक्ष्यामि। पुत्र, यदि शक्तोऽसि, गच्छ। स तया अनुज्ञातो भृतकवीथीं गत्वा अवस्थितः। ब्राह्मणगृहपतयोऽन्यान् भृतकपुरुषान् गृह्णन्ति, तं न कश्चित् पृच्छति। स तत्र दिवसमतिनाम्य विकाले गृहं गतः। स मात्रा पृष्टः-पुत्र, कृतं ते भृतिकया कर्म ? अम्ब, किं करोमि ? न मां कश्चित् पृच्छति। पुत्र, न एवंविधा भृतकपुरुषा भवन्ति। पुत्र, स्फटितपरुषा रूक्षकेशा मलिनवस्त्रनिवसनाः। यद्यवश्यं त्वया भृतिकया कर्म कर्तव्यम्, ईदृशं वेषमास्थाय भृतकवीथीं गत्वा तिष्ठ। अम्ब, शोभनम्। एवं करोमि। सोऽपरस्मिन् दिवसे तादृशं वेषमास्थाय भृतकवीथीं गत्वा अवस्थितः। यावदन्यतरस्य गृहपतेर्गृहमुत्तिष्ठते। स भृतकानामर्थे वीथीं गतः। तेन तं प्रत्याख्याय अन्ये भृतकपुरुषा गृहीताः। स कथयति-गृहपते, अहमपि भृतिकया कर्म करोमीति। गृहपतिः कथयति-पुत्र, त्वं सुकुमारः, न शक्ष्यसि भृतिकया कर्म कर्तुम्। तात, किं त्वं पूर्वं भृतिं ददासि, आहोस्वित् पश्चात् ? पुत्र पश्चात्। तात, अद्य तावत् कर्म करोमि। यदि तोषयिष्यामि, दास्यसि भृतिमिति। स संलक्षयति - शोभनमेष कथयति। अद्य तावत् जिज्ञास्यामि यदि शक्ष्यति कर्म कर्तुम्, दास्यामि। न शक्ष्यति, न दास्यामीति विदित्वा कथयति-पुत्र आगच्छ, गच्छाम इति। स तेन गृहं नीतः। तेऽन्यभृतकाः शाठ्येन कर्म कुर्वन्ति। स त्वरितत्वरितं कर्म करोति। तांश्च भृतकान् समनुशास्ति। वयं तावत् पूर्वकेण दुश्चरितेन दरिद्रगृहेषूपपन्नाः। तद्यदि शाठ्येन कर्म करिष्यामः, इतश्च्युतानां का गतिर्भविष्यति ? ते कथयन्ति-भागिनेय, त्वं नवदान्तः। स्थानमेतद्विद्यते यदस्माकं पृष्ठतो गमिष्यसि। आगच्छ पश्यामः। स लोकाख्यायिकायां कुशलः। तेन तेषां तादृशी लोकाख्यानकथा प्रस्तुता, यां श्रुत्वा ते भृतकपुरुषा आक्षिप्ताः। तस्यातिस्वरेण गच्छतोऽनुपदं गच्छन्ति, मा लोकाख्यायिकां न श्रोष्याम इति। तस्मिन् दिवसे तैर्भृतकपुरुषैस्तद्द्विगुणं कर्म कृतम्। गृहपतिः कर्मान्तान् प्रत्यवेक्षमाणस्तं प्रदेशमागतो यावद्द्विगुणं कर्म कृतम्। सोऽधिष्ठायकपुरुषं पृच्छति- भोः पुरुष, किं त्वया अपरे भृतका गृहीताः ? आर्य, न गृहीताः। अथ कस्मादद्य द्विगुणं कर्म कृतम् ? तेन यथावृत्तमारोचितम्। श्रुत्वा गृहपतिस्तस्य दारकस्य द्विगुणां भृतिं दातुमारब्धः। स कथयति-तात, किं द्विदैवसिकां भृतिं ददासीति ? स कथयति-पुत्र, न द्विदैवसिकां ददामि, अपि तु प्रसन्नोऽहं प्रसन्नाधिकारं करोमीति। स कथयति-तात, यदि त्वं ममाभिप्रसन्नः, यावत् तव गृहे कर्म कर्तव्यं तावत् तवैव हस्ते तिष्ठतु। पुत्र एवं भवतु। यदा तस्य गृहपतेस्तद्गृहं परिसमाप्तम्, तदा असौ दारको भृतिं गणयितुमारब्धो यावत् पञ्च कार्षापणशतानि न परिपूर्यन्ते। स रोदितुमारब्धः। स गृहपतिः कथयति-पुत्र, किं रोदिषि ? मासि मया किंचित् व्यंसितः। तात, महात्मा त्वम्, किं मां व्यंसयिष्यसि ? अपि तु अहमेव मन्दभाग्यः। मया पञ्चानां कार्षापणशतानामर्थाय भृतिकया कर्म प्रारब्धं बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामि, ततो देवेषूपपत्स्यामीति। तानि न परिपूर्णानि। पुनरपि मया अन्यत्र भृतिकया कर्म कर्तव्यमिति। स गृहपतिर्भूयसा मात्रया अतिप्रसन्नः। स कथयति-पुत्र, यद्येवम्, अहं पूरयामि। तात, मा देवेषूपपत्स्ये। पुत्र, अभिश्रद्दधासि त्वं भगवतः ? तात अभिश्रद्दधे। पुत्र गच्छ, भगवन्तं पृच्छ। येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। स गृहपतिपुत्रो भगवन्तमिदमवोचत्-भगवन्, मया पञ्चानां कार्षापणशतानामर्थाय भगवन्तं सश्रावकसंघं भोजयिष्यामीत्यमुकस्य गृहपतेर्भृतिकया कर्म कृतम्। तानि मम न परिपूर्णानि। स गृहपतिः परिपूरयति। भगवन् किम् ? आह-वत्स गृहाण, श्राद्धः स गृहपतिः। भगवन्, मा देवेषु नोपपत्स्ये ? वत्स उपपत्स्यसे, गृहाण। स परितुष्टो भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तो येन स गृहपतिस्तेनोपसंक्रान्तः। उपसंक्रम्य गृहपतेरन्तिकात् पञ्च कार्षापणशतानि गृहीत्वा मातुः सकाशं गतः। कथयति-अम्ब, एतानि पञ्च कार्षापणशतानि। भक्तं सज्जीकुरु। बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति। सा कथयति-पुत्र, न मम भाण्डोपस्करो न शयनासनम्। स एव गृहपतिर्विस्तीर्णभाण्डोपस्करः श्राद्धश्च। तमेव गत्वा प्रार्थय। शक्नोत्यसौ संपादयितुमिति। स तस्य सकाशं गतः शिरःप्रणामं कृत्वा कथयति-त्वयैव एतानि पञ्च कार्षापणशतानि दत्तानि। अस्माकं गृहे न भाण्डोपस्करो नापि शयनासनम्। तदर्हसि ममानुकम्पया भक्तं सज्जीकर्तुम्। अहमागत्य स्वहस्तेन बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति। गृहपतिः संलक्षयति-ममेदं गृहमचिरोत्थितं बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तं भविष्यति, प्रतिजागर्भि। इति विदित्वा कथयति-पुत्र, शोभनम्। स्थापयित्वा कार्षापणान् गच्छ, श्वो बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रय। अहमाहारं सज्जीकरोमीति। स संजातसौमनस्यः शिरःप्रणामं कृत्वा प्रक्रान्तो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य वृद्धान्ते स्थित्वा कथयति-सोऽहं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्रयामीति। अधिवासयति भगवांस्तस्य गृहपतिपुत्रस्य तूष्णीभावेन। अथ स गृहपतिपुत्रो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतोऽन्तिकात् प्रक्रान्तः॥



तेनापि गृहपतिना तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय गृहं संमार्जितम्। सुकुमारी गोमयकार्षी दत्ता, आसनप्रज्ञप्तिः कारिता, उदकमणयः प्रतिष्ठापिताः। तेनापि गृहपतिपुत्रेण गत्वा भगवत आरोचितम्-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन तस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। षड्वर्गीयाः पृच्छन्ति-केनायं बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रित इति ? अपरे कथयन्ति-अमुकेन गृहपति-पुत्रेणेति। ते परस्परं संजल्पं कुर्वन्ति-नन्दोपनन्द, भृतकपुरुषः सः। किमसौ दास्यति ? गच्छाम कुलोपकगृहेषु गत्वा पुरोभक्तकां कुर्म इति। ते कुलोपकगृहाण्युपसंक्रान्ताः। तैरूक्ताः-आर्य, पुरोभक्तकां कुरुतेति। ते कथयन्ति-एवं कुर्म इति। तैः पुरोभक्तका कृता। भगवांस्तस्य गृहपतेर्निवेशने पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। षड्वर्गीया अपि पुरोभक्तकां कृत्वा संघमध्ये निषण्णाः। अथ स गृहपतिपुत्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। सततपरिवेषणं कुर्वाणः पश्यति षड्वर्गीयान् न सत्कृत्य परिभुञ्जानान्। दृष्ट्वा च पुनर्भगवन्तं विदित्वा धौतहस्तमपनीतपात्रं भगवतः पुरस्तात् स्थित्वा कथयति-भगवन्, कैश्चिदत्रार्यकैर्न सत्कृत्य परिभुक्तमाहारम्। देवेषु नोपपत्स्ये इति ? भगवानाह-वत्स, शयनासनपरिभोगेन तावत् त्वं देवेषूपपद्येथाः प्रागेवान्नपानपरिभोगेनेति। अथ भगवांस्तं गृहपतिपुत्रं च धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः॥



अत्रान्तरे पञ्चमात्राणि वणिक्शतानि महासमुद्रात् संसिद्धयानपात्राणि राजगृहमनुप्राप्तानि। राजगृहे च पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते। तत्रैको वणिग्भिक्षुगोचरिकः। स कथयति-भवन्तः, आगमयत कस्याद्य गृहे बुद्धप्रमुखेन भिक्षुसंघेन भक्तम्, तत्रावश्यं किंचिदुत्सदनधर्मकं भवतीति। ते श्रवणपरंपरया चान्वेषमाणास्तस्य गृहपतेः सकाशमुपसंक्रान्ताः। कथयन्ति-गृहपते, तवाद्य बुद्धप्रमुखेन भिक्षुसंघेन भुक्ते इह पर्व प्रत्युपस्थितमिति न किंचित् क्रयेणापि लभ्यते। यदि किंचिदुत्सदनधर्मकमस्ति, मूल्येन दीयतामिति। न ममैतद्भक्तम्, अपि तु तस्यैतद्गृहपतिपुत्रस्य भक्तम्। एनं याचध्वमिति। ते तस्य सकाशमुपसंक्रम्य कथयन्ति-गृहपतिपुत्र, दीयतामस्माकं भुक्तशेषं यदस्ति। मूल्यं प्रयच्छाम इति। स कथयति- नाहं मूल्येनानुप्रयच्छामि। अपि तु एवमेव प्रयच्छामीति। ते तेनान्नपानेन संतर्पिता गृहपतेर्गत्वा कथयन्ति-तस्य ते गृहपते लाभाः सुलब्धा यस्य ते निवेशने बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितः, इमानि च पञ्च वणिक्शतानीति। स कथयति-अनेन गृहपतिपुत्रेण लाभाः सुलब्धाः। अनेन बुद्धप्रमुखो भिक्षुसंघोऽन्नपानेन संतर्पितो न मयेति। ते पृच्छन्ति-कतरस्यायं गृहपतेः पुत्रः ? अमुकस्य सार्थवाहस्य। सार्थवाहः कथयति-भवन्तः, ममैष वयस्यपुत्रो भवति। तस्य पिता महासमुद्रमवतीर्णोऽनयेन व्यसनमापन्नः। शक्यं बहुभिरेकः समुद्धर्तुम्, न त्वेव एकेन बहवः। तदयं पटकः प्रज्ञप्तो येन वो यत् परित्यक्तम्, सोऽस्मिन् पटकेऽनुप्रयच्छत्विति। ते पूर्वमेवाभिप्रसन्नाः सार्थवाहेन च प्रोत्साहिता इति तैर्यथासंभाव्येन मणिमुक्तादीनि रत्नानि दत्तानि। महान् राशिः संपन्नः। सार्थवाहः कथयति-पुत्र, गृहाणेति। स कथयति-तात, न मया मूल्येन दत्तमिति। सार्थवाहः कथयति-पुत्र, न वयं तव मूल्यं प्रयच्छामः। यदि च मूल्यं गण्यते, एकेन रत्नेनेदृशानां भक्तानामनेकानि शतानि संविद्यन्ते। किं तु वयं तवाभिप्रसन्नाः प्रसन्नाधिकारं कुर्मः, गृहाणेति। स कथयति-तात, मया बुद्धप्रमुखो भिक्षुसंघो भोजितो देवेषूपपत्स्ये इति। तस्मादवशिष्टं युष्मभ्यं दत्तम्। यदि ग्रहीष्यामि, स्थानमेतद्विद्यते यद्देवेषु नोपपत्स्ये ? सार्थवाहः कथयति- पुत्र, अभिश्रद्दधासि त्वं भगवतः ? तात, अभिश्रद्दधे। गच्छ, भगवन्तं पृच्छ। स येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। स गृहपतिपुत्रो भगवन्तमिदमवोचत्-भगवन्, मया बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा यदन्नपानमवशिष्टं तद्वणिजां दत्तम्। ते मम प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति। किं कल्पते तन्मम ग्रहीतुमाहोस्विन्न कल्पत इति ? भगवानाह-यदि प्रसन्नाः प्रसन्नाधिकारं कुर्वन्ति, गृहाण। भगवन्, मा देवेषु नोपपत्स्ये ? भगवानाह- वत्स, पुष्पमेतत्, फलमन्यद्भविष्यति। तेन भगवद्वचनाभिसंप्रत्ययात् परितुष्टेन गत्वा रत्नानि गृहीतानि॥



अत्रान्तरे राजगृहेऽपुत्रः श्रेष्ठी कालगतः। ततो राजगृहनिवासिनः पौराः संनिपत्य संजल्पं कुर्वन्ति -भवन्तः, श्रेष्ठी कालगतः। कं श्रेष्ठिनमभिषिञ्चाम इति ? तत्रैके कथयन्ति-यः पुण्यमहेशाख्य इति। अपरे कथयन्ति-कथमस्माभिर्ज्ञातव्यमिति ? ते कथयन्ति-नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिपामः, य एकवर्णान्युद्धरिष्यति, तं श्रेष्ठिनमभिषिञ्चाम इति। तैर्नानावर्णानि बीजानि पक्ककुम्भे प्रक्षिप्तानि। आरोचितं च-भवन्तः, य एकवर्णानि बीजानि एतस्मात् कुम्भादुद्धरेत्, स श्रेष्ठ्यभिषिच्यते। यस्य वः श्रेष्ठित्वमभिप्रेतं च, उद्धरतु इति। त उद्धर्तुमारब्धाः। सर्वैर्नानावर्णान्युद्धृतानि। तेन तु गृहपतिपुत्रेणैकवर्णान्युद्धृतानि। पौरजानपदाः कथयन्ति-भवन्तः, अयं पुण्यमहेशाख्यः। सर्व एनं श्रेष्ठिनमभिषिञ्चामः। तत्रैके कथयन्ति-भवन्तः, अयं भृतकपुरुषः। कथमेनं श्रेष्ठिनमभिषिञ्चाम इति ? अपरे कथयन्ति-पुनरपि तावत् जिज्ञासामः। तेन यावत् त्रिरप्येकवर्णान्युद्धृतानि। ते कथयन्ति-भवन्तः, मनुष्यका अप्यस्य साक्षेपमनुप्रयच्छन्ति। आगच्छत, एनमेवाभिषिञ्चाम इति। स तैः श्रेष्ठी अभिषिक्तः। स गृहपतिः संलक्षयति-यदप्यनेन मम भृतिकया कर्म कृतम्, तथाप्ययं पुण्यमहेशाख्यः सत्त्वः। संग्रहोऽस्य कर्तव्य इति। तेन तस्य सर्वालंकारविभूषिता दुहिता भार्यार्थं दत्ता। तच्च गृहम्, प्रभूतं स्वापतेयम्। सहसैवं भोगैरभ्युद्गत इति तस्य सहसोद्गतो गृहपतिः सहसोद्गतो गृहपतिरिति संज्ञा संवृत्ता॥



स संलक्षयति-या काचिदस्माकं श्रीसौभाग्यसंपत्, सर्वासौ बुद्धं भगवन्तमागम्य। यन्न्वहं पुनरपि बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहे उपनिमन्त्र्य भोजयेयम्। इति विदित्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णं सहसोद्गतं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ सहसोद्गतो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अधिवासयतु भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति। अधिवासयति भगवान् सहसोद्गतस्य गृहपतेस्तूष्णीभावेन। अथ सहसोद्गतो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः। अथ सहसोद्गतो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येन सहसोद्गतस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ सहसोद्गतो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय। तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सहसोद्गतेन गृहपतिना विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यस्त्रिरुदानमुदानयति-इदमस्माकं भदन्त न मात्रा कृतं न पित्रा नेष्टेन न स्वजनबन्धुवर्गेण न राज्ञा न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवता अस्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, विवृतानि स्वर्गमोक्षद्वाराणि, प्रतिष्ठापिताः स्मो देवमनुष्येषु। अभिक्रान्तोऽहं भदन्त अभिक्रान्तः। एषोऽहं बुद्धं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च। उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतमभिप्रसन्नमिति। अथ भगवान् सहसोद्गतं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त सहसोद्गतेन गृहपतिना कर्म कृतं येन भृतिकया कर्म कृतम्, येन सहसा भोगैरभिवृद्धः, सत्यदर्शनं च कृतमिति ? भगवानाह-सहसोद्गतेनैव भिक्षवो गृहपतिना कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि। सहसोद्गतेन गृहपतिना कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥३॥



भूतपूर्वं भिक्षवोऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता। दारको जातः। तस्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितम्। स उन्नीतो वर्धितो महान् संवृत्तः। यावदपरेण समयेन स गृहपतिः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवंजीवकोन्नादितं वनखण्डमन्तर्जनसहाय उद्यानभूमिं निर्गतः। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। प्रान्तशयनासनसेविनस्ते न। सोऽप्रविश्यैव कर्वटकं येन तदुद्यानं तेनोपसंक्रान्तः। अद्राक्षीत् स गृहपतिस्तं प्रत्येकबुद्धं कायप्रासादिकं च शान्तेनेर्यापथेनोद्यानं प्रविशन्तम्। दृष्ट्वा च पुनः प्रीतिप्रामोद्यजातस्त्वरितत्वरितं प्रत्युद्गतः। प्रत्येकबुद्धः संलक्षयति-आकीर्णमिद-मुद्यानम्। अन्यत्र गच्छे। इति विदित्वा प्रतिनिवर्तितुमारब्धः। स गृहपतिः पादयोर्निपत्य कथयति-आर्य, किं निवर्तसे त्वम् ? पिण्डकेनार्थी। अहमपि पुण्येन। अस्मिन्नेवोद्याने विहर, पिण्डकेनाविघातं करोमीति। परानुग्रहप्रवृत्तास्ते महात्मानः। स तस्यानुकम्पाचित्तमुपस्थाप्य तस्मिन्नेवोद्याने विहर्तुमारब्धः। सोऽपि तस्य पिण्डकेन योगोद्वहनं कर्तुं प्रवृत्तः। यावदपरेण समयेन तस्य गृहपतेरन्यतरकर्वटके किंचित् करणीयमुत्पन्नम्। स पत्नीमामन्त्रयते- भद्रे, ममामुष्मिन् कर्वटके किंचित् करणीयमुत्पन्नम्। तत्राहं गच्छामि। त्वया तस्य महात्मनः प्रव्रजितस्यान्नपानेनाविघातः कर्तव्यः। इत्युक्त्वा प्रक्रान्तः। अपरस्मिन् दिवसे सा गृहपत्नी काल्यमेवोत्थाय तदर्थमन्नपानं साधयितुमारब्धा। सा पुत्रेणोच्यते-अम्ब, कस्यार्थेऽन्नपानं साध्यत इति ? सा कथयति-पुत्र, योऽसौ उद्याने शान्तात्मा प्रव्रजितस्तिष्ठति, तस्यार्थे साध्यत इति। स रुषितः कथयति-अम्ब, किमर्थं भृतिकया कर्म कृत्वा न भुङ्क्त इति ? सा कथयति-पुत्र, मा एवं वोचः। अनिष्टोऽस्य कर्मणो विपाक इति। स निवार्यमाणोऽपि नावतिष्ठते। यावदसौ गृहपतिरागतः। पत्नीमामन्त्रयते-भद्रे, कृतस्ते तस्य पिण्डकेनाविघातः ? आर्यपुत्र कृतः। किं तु अनेन दारकेण तस्यान्तिके खरा वाग्निश्चारिता। स कथयति-भद्रे, किं कथयति ? तया विस्तरेण समाख्यातम्। स संलक्षयति-क्षमोऽयं तपस्वी। गच्छामि, तं महात्मानं क्षमापयामि-मा अत्यन्तमेव क्षतो भविष्यति। इति विदित्वा तं दारकमादाय येन प्रत्येकबुद्धस्तेनोपसंक्रान्तः। अद्राक्षीत् स प्रत्येकबुद्धस्तं गृहपतिमात्मना द्वितीयमागच्छन्तम्। स संलक्षयति-न कदाचिदयं गृहपतिरात्मना द्वितीयमागच्छति। तत् किमत्र कारणमिति ? असमन्वाहृत्य श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तते। स समन्वाहर्तुं प्रवृत्तः। तेन समन्वाहृत्य विज्ञातम्। कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी। स तस्यानुकम्पार्थं विततपक्ष हव हंसराज उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। आशु पृथग्जनस्य ऋद्धिरावर्जनकरी। स मूलनिकृत्त इव द्रुमः सपुत्रः पादयोर्निपतितः। ततः स दारक आहृष्टरोमकूपः कथयति-अवतर अवतर सद्भूतदक्षिणीय, मम कामपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति। स तस्यानुकम्पार्थमवतीर्णः। स गृहपतिपुत्रस्तीव्रेणाशयेन पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः-यन्मया एवंविधे सद्भूतदक्षिणीये खरा वाग्निश्चारिता, मा तस्य कर्मणो भागी स्याम्। यत्तु इदानीं चित्तमभिप्रसादितम्, अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



किं मन्यध्वे भिक्षवः ? योऽसौ गृहपतिपुत्रः, एष एवासौ सहसोद्गतो गृहपतिः। यदनेन प्रत्येकबुद्धस्यान्तिके खरा वाग्निश्चारिता, तेन पञ्च जन्मशतानि भृतकपुरुषो जातः। यावदेतर्ह्यपि भृतिकया कर्म कृतम्। यत् पुनस्तस्यैवान्तिके चित्तमभिप्रसाद्य प्रणिधानं कृतम्, तेन सहसैव भोगैरभिवृद्धः। ममान्तिके सत्यदर्शनं कृतम्। अहं चानेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥ (इयं तावदुत्पत्तिर्न तावत् बुद्धो भगवान् श्रावकाणां विनये शिक्षापदम्। ?)



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



सहसोद्गत(स्य प्रकरणा) वदानमेकविंशतिमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project