Digital Sanskrit Buddhist Canon

२० कनकवर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 20 kanakavarṇāvadānam
२० कनकवर्णावदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः। सत्कृतो भगवान् गुरुकृतो मानितः पूजितो भिक्षुभिर्भिक्षुणीभिरुपासकैरुपासिकाभी राजभी राजमात्रैर्नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकैर्देवैर्नागैर्यक्षैरसुरैर्गरूडैर्गन्धर्वैः किन्नरैर्महोरगैः। लाभी भगवान् प्रभूतानां प्रणीतानां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां दिव्यानां मानुषाणां च। तैश्च भगवाननुपलिप्तः पद्ममिव वारिणा। भगवतश्चायमेवंरूपो दिग्विदिक्षु उदारकल्याणकीर्तिशब्दश्लोकोऽभ्युद्गतः-इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स इमं सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमानुषीं दृष्ट एव धर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयते। स धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम्। स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति। तत्र भगवान् भिक्षूनामन्त्रयते स्म-सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, अपीदानीं योऽसौ अपश्चिमः कवलश्चरम आलोपः, ततोऽप्यदत्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्। न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठेत्। यस्मात् तर्हि भिक्षवः सत्त्वा न जानन्ते दानस्य फलं दानसंविभागस्य च फलविपाकं यथाहं जानामि दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्माद्धेतोरदत्त्वा असंविभज्य परिभुज्यन्ते आगृहीतेन चेतसा। उत्पन्नं चैषा मात्सर्यं चित्तं पर्यादाय तिष्ठति। तत्कस्य हेतोः ?



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि राजाभूत् कनकवर्णो नाम अभिरूपो दर्शनीयः प्रासादिकः परमया सुवर्णपुष्कलतया समन्वागतः। राजा भिक्षवः कनकवर्ण आढ्यो महाधनो महाभोगः। प्रभूतसत्त्वस्वापतेयः प्रभूतवित्तोपकरणः प्रभूतधनधान्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालरजतजातरूपः प्रभूतहस्त्यश्वगवेडकः परिपूर्णकोशकोष्ठागारः। राज्ञः कनकवर्णस्य खलु भिक्षवः कनकावती नाम राजधानी बभूव पूर्वेण पश्चिमेन च द्वादश योजयान्यायामेन, दक्षिणेनोत्तरेण च सप्त योजनानि च विस्तारेण। ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च रमणीया च। राज्ञः कनकवर्णस्याशीतिर्नगरसहस्राण्यभूवन्। अष्टादश कुलकोटी ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। सप्तपञ्चाशद्ग्रामकोट्य ऋद्धाः स्फीताः क्षेमाः सुभिक्षा रमणीया महाजनाकीर्णमनुष्याः। षष्टिः कर्वटसहस्राण्यभूवन् ऋद्धानि स्फीतानि क्षेमाणि सुभिक्षाण्याकीर्णबहुजनमनुष्याणि। राज्ञः कनकवर्णस्याष्टादशामात्यसहस्राण्यभूवन्। विंशतिस्त्रीसहस्राण्यन्तःपुरमभूत्। राजा भिक्षवः कनकवर्णो धार्मिको बभूव। धर्मेण राज्यं कारयति।



अथापरेण समयेन राज्ञः कनकवर्णस्य एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरिवितर्कमुदपादि -यन्न्वहं सर्ववणिजोऽशुल्कानगुल्मान् मुञ्चेयम्। सर्वजाम्बुद्वीपकान् मनुष्यानकारानगुल्मान् मुञ्चेयमिति। अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते-अद्याग्रेण वो ग्रामण्यः सर्ववणिजोऽशुल्कान् मुञ्चामि, सर्वजाम्बुद्वीपकान् मनुष्यानकारानशुल्कान् मुञ्चामि। तस्यानेनोपायेन बहूनि वर्षाणि राज्यं कारयतोऽपरेण समयेन नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षति। अथ ब्राह्मणा लक्षणज्ञा नैमित्तिका भूम्यन्तरिक्षमन्त्रकुशला नक्षत्रशुक्रग्रहचरितेषु तत् संलक्षयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः। उपसंक्रम्य राजानं कनकवर्णमिदमवोचन् -यत्खलु देवो जानीयात्-नक्षत्रं विषमीभूतम्, द्वादश वर्षाणि देवो न वर्षिष्यति। अथ राजा कनकवर्ण इदमेवंरूपं निर्घोषं श्रुत्वा अश्रूणि प्रवर्तयति-अहो बत मे जाम्बुद्वीपका मनुष्याः, अहो बत मे जम्बुद्वीपः ऋद्धः स्फीतः क्षेमः सुभिक्षो रमणीयो बहुजनाकीर्णमनुष्यो नचिरादेव शून्यो भविष्यति रहितमनुष्यः। अथ राज्ञः कनकवर्णस्य मुहूर्तं शोचित्वा एतदभवत्-य इमे आढ्या महाधना महाभोगाः, ते शक्ष्यन्ति यापयितुम्। य इमे दरिद्रा अल्पधना अल्पान्नपानभोगाः, ते कथं यापयिष्यन्ति ? तस्यैतदभवत्-यन्न्वहं जम्बुद्वीपादन्नाद्यं संहरेयम्, सर्वजाम्बुद्वीपान् सत्त्वान् गणयेयम्। अथ गणयित्वा मापयेयम्, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं कारयेयम्। एकं कोष्ठागारं कारयित्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रत्यर्पयेयमिति। अथ कनकवर्णो राजा गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते-गच्छत यूयं ग्रामण्यः, सर्वजम्बुद्वीपादन्नाद्यं संहृत्य गणयत, गणयित्वा मापयत, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकं कोष्ठागारं स्थापयत। परं देवेति गणकमहामात्रामात्यदौवारिकपारिषद्या राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजम्बुद्वीपादन्नाद्यं गणयन्ति, गणयित्वा मापयन्ति, मापयित्वा सर्वग्रामनगरनिगमकर्वटराजधानीष्वेकस्मिन् कोष्ठागारे स्थापयन्ति। एकस्मिन् कोष्ठागारे स्थापयित्वा येन राजा कनकवर्णः, तेनोपसंक्रान्ताः। उपसंक्रम्य राजानं कनकवर्णमिदमवोचन्-यत् खलु देव जानीयाः-सर्वग्रामनगरनिगमकर्वटराजधानीष्वन्नाद्यं संहृतम्, संहृत्य गणितम्, गणयित्वा मापितम्, मापयित्वा सर्वग्रामनगरनिगमराजधानीष्वेकस्मिन् कोष्ठागारे स्थापितं यस्येदानीं देवः कालं मन्यते। अथ राजा कनकवर्णः संख्यागणकलिपिकपौरुषेयानामन्त्रयित्वा एतदवोचत्-गच्छत यूयं ग्रामण्यः, सर्वजाम्बुद्वीपकान् मनुष्यान् गणयत, गणयित्वा ग्रामण्यः सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रयच्छत। परं देवेति संख्यागणकलिपिकपौरुषेया राज्ञः कनकवर्णस्य प्रतिश्रुत्य सर्वजाम्बुद्वीपकान् मनुष्यान् गणयन्ति, संगण्य राजानं कनकवर्णमादौ कृत्वा सर्वजाम्बुद्वीपकानां मनुष्याणां समं भक्तं प्रज्ञपयन्ति। ते यापयन्त्येकादशवर्षाणि, द्वादशवर्षं न यापयन्ति। निर्गतो द्वादशस्य वर्षस्यैको मासो यावद्बहवः स्त्रीपुरुषदारकदारिका जिघत्सिताः पिपासिताः कालं कुर्वन्ति। तेन खलु पुनः समयेन सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणमन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा॥



तेन खलु समयेन अन्यतमश्चत्वारिंशत्कल्पसंप्रस्थितो बोधिसत्त्व इमां सहालोकधातुमनुप्राप्तो बभूव। अद्राक्षीद् बोधिसत्त्वोऽन्यतरस्मिन् वनषण्डे पुत्रं मात्रा सार्धं विप्रतिपद्यमानम्। दृष्ट्वा च पुनरस्यैतदभवत्-क्लिश्यन्ति बतेमे सत्त्वाः, संक्लिश्यन्ति बतेमे सत्त्वाः, यत्र हि नाम अस्यामेव नव मासान् कुक्षौ उषित्वा, अस्या एव स्तनौ पीत्वा, अत्रैव कालं करिष्यति इति। अलं मे ईदृशैः सत्त्वैरधार्मिकैरधर्मरागरक्तैर्मिथ्यादृष्टकैर्विषमलोभाभिभूतैरमातृरज्ञैश्रामण्यरैब्राह्मण्यैरकुले ज्येष्ठापचायकैः। क उत्सहत ईदृशानां सत्त्वानामर्थाय बोधिसत्त्वचर्यां चरितुम् ? यन्न्वहं स्वके कार्ये प्रतिपद्येयम्। अथ बोधिसत्त्वो येनान्यतरद्वृक्षमूलं तेनोपसंक्रान्तः। उपसंक्रम्य तस्मिन् वृक्षमूले निषण्णः। पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरति यदुतेदं रूपम्, अयं रूपसमुदयः, अयं रूपस्यास्तंगमः, इयं वेदना, इयं संज्ञा, इमे संस्काराः, इदं विज्ञानम्, अयं विज्ञानसमुदयः, अयं विज्ञानस्यास्तंगम इति। स एवं पञ्चसूपादानस्कन्धेषूदयव्ययानुदर्शी विहरन्नचिरादेव यत्किंचित् समुदयधर्मकं तत् सर्वं निरोधधर्मकमिति विदित्वा तत्रैव प्रत्येकां बोधिमधिगतवान्। अथ भगवान् प्रत्येकबुद्धो यथाप्राप्तानवलोक्य तस्यां वेलायां गाथां भाषते-



संसेवमानस्य भवन्ति स्नेहाः

स्नेहान्वयं संभवतीह दुःखम्।

आदीनवं स्नेहगतं विदित्वा

एकश्चरेत् खङ्गविषाणकल्पः॥१॥ इति॥



अथ तस्य भगवतः प्रत्येकबुद्धस्यैतदभवत्-बहूनां मे सत्त्वानामर्थाय दुष्कराणि चीर्णानि, न च कस्यचित् सत्त्वस्य हितं कृतम्। कमद्याहमनुकम्पेयम्, कस्याहमद्य पिण्डपातमाहृत्य परिभुञ्चीय ? अथ भगवान् प्रत्येकबुद्धो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सर्वावन्तमिमं जम्बुद्वीपं समन्तादनुविलोकयन्नद्राक्षीत् स भगवान् प्रत्येकबुद्धः सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र राज्ञः कनकवर्णस्यैका मानिका भक्तस्यावशिष्टा। तस्यैतदभवत्-यन्न्वहं राजानं कनकवर्णमनुकम्पेयम्। यन्न्वहं राज्ञः कनकवर्णस्य निवेशनात् पिण्डपातमपहृत्य परिभुञ्जीय। अथ भगवान् प्रत्येकबुद्धस्तत एव ऋद्ध्या विहायसमभ्युद्गम्य दृश्यता कायेन शकुनिरिव ऋद्ध्या येन कनकावती राजधानी तेनोपसंक्रान्तः। तेन खलु समयेन राजा कनकवर्ण उपरिप्रासादतलगतोऽभुत् पञ्चमात्रैरमात्यसहस्रैः परिवृतः। अद्राक्षीदन्यतमो महामात्रस्तं भगवन्तं प्रत्येकबुद्धं दूरत एवागच्छन्तम्। दृष्ट्वा च पुनर्महामात्रानामन्त्रयते-पश्यत पश्यत ग्रामण्यः। दूरत एव लोहितपक्षः शकुन्त इहागच्छति। द्वितीयो महामात्र एवमाह-नैष ग्रामण्यो लोहितपक्षः शकुन्तः, राक्षस एव ओजोहार इहागच्छति। एषोऽस्माकं भक्षयिष्यति। अथ राजा कनकवर्ण उभाभ्यां पाणिभ्यां मुखं संपरिमार्ज्य महामात्रानामन्त्रयते-नैष ग्रामण्यो लोहितपक्षः शकुन्तः, न च राक्षस ओजोहारः। ऋषिरेषोऽस्माकमनुकम्पयेहागच्छति। अथ स भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्य प्रासादे प्रत्यष्ठात्॥



अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमुत्थायासनात् प्रत्युद्गम्य पादौ शिरसा वन्दित्वा प्रज्ञप्त एवासने निषीदयति। अथ राजा कनकवर्णस्तं भगवन्तं प्रत्येकबुद्धमिदमवोचत्-किमर्थम् ऋषे इहाभ्यागमनम् ? भोजनार्थं महाराज। एवमुक्ते राजा कनकवर्णः प्रारोदीत्। अश्रूणि प्रवर्तयन्नेवमाह-अहो मे दारिद्य्रम्, अहो दारिद्य्रम्, यत्र हि नाम जम्बुद्वीपैश्चर्याधिपत्यं कारयित्वा एकस्यापि ऋषेरसमर्थः पिण्डपातं प्रतिपादयितुम्। अथ या कनकावत्यां राजधान्यामध्युषिता देवता, सा राज्ञः कनकवर्णस्य पुरस्ताद्गाथां भाषते -



किं दुःखं दारिद्य्रं किं दुःखतरं तदेव दारिद्य्रम्।

मरणसमं दारिद्य्रम्॥२॥



अथ राजा कनकवर्णः कोष्ठागारिकं पुरुषमामन्त्रयते-अस्ति भोः पुरुष, मम निवेशने किंचिद्भक्तम्, यदहमस्य ऋषेः प्रदास्यामि ? स एवमाह-यत् खलु देव जानीयाः-सर्वजम्बुद्वीपादन्नाद्यं परिक्षीणम्, अन्यत्र देवस्यैका मानिका भक्तस्यावशिष्टा। अथ राज्ञः कनकवर्णस्यैतदभवत्-सचेत् परिभुञ्जे, जीविष्ये। अथ न परिभोक्ष्ये, मरिष्ये। तस्यैतदभवत्-यदि परिभोक्ष्ये, यदि वा न परिभोक्ष्ये, अवश्यं मया कालः कर्तव्यः। अलं मे जीवितेन। कथं नामेहेदृश ऋषिः शीलवान् कल्याणधर्मा मम निवेशनेऽद्य यथाधौतेन पात्रेण निर्गमिष्यति ? अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यान् संनिपात्यैवमवोचत्-अनुमोदत यूयं ग्रामण्यः, अयं राज्ञः कनकवर्णस्यापश्चिम ओदनातिसर्गः। अनेन कुशलमूलेन सर्वजाम्बुद्वीपकानां मनुष्याणां दारिद्य्रसमुच्छेदः स्यात्। अथ राजा कनकवर्णस्तस्य महर्षेस्तत् पात्रं गृहीत्वा एकां मानिकां भक्तस्य पात्रे प्रक्षिप्य उभाभ्यां पाणिभ्यां पात्रं गृहीत्वा जानुभ्यां निपत्य तस्य भगवतः प्रत्येकबुद्धस्य दक्षिणे पाणौ पात्रं प्रतिष्ठापयति। धर्मता पुनर्भगवतां प्रत्येकबुद्धानां कायिकी धर्मदेशना न वाचिकी। अथ भगवान् प्रत्येकबुद्धो राज्ञः कनकवर्णस्यान्तिकात् पिण्डपात्रमादाय तत एव ऋद्ध्या उपरिविहायसा प्रक्रान्तः। अथ राजा कनकवर्णः प्राञ्जलिर्भूत्वा तावदनिमिषं प्रेक्षमाणोऽस्थात्, यावच्चक्षुष्पथादतिक्रान्त इति। अथ राजा कनकवर्णो गणकमहामात्रामात्यदौवारिकपारिषद्यानामन्त्रयते-गच्छत ग्रामण्यः स्वकस्वकानि निवेशनानि। मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ। त एवमाहुः-यदा देवस्य श्रीसौभाग्यसंपदासीत्, तदा वयं देवेन सार्धं क्रीडता रमता कथं पुनर्वयमिदानीं देवं पश्चिमे काले पश्चिमे समये परित्यक्ष्याम इति। अथ राजा कनकवर्णः प्रारोदीत्। अश्रूणि प्रवर्तयति। अश्रूणि संपरिमार्ज्य गणकमहामात्रामात्यदौवारिकपारिषद्यानिदमवोचत्-गच्छत ग्रामण्यो यथास्वकस्वकानि निवेशनानि। मा इहैव प्रासादे जिघत्सापिपासाभ्यां सर्व एव कालं करिष्यथ। एवमुक्ता गणकमहामात्रामात्यदौवारिकपारिषद्याः प्ररुदन्तोऽश्रूणि प्रवर्तयन्तोऽश्रूणि संपरिमार्ज्य येन राजा कनकवर्णस्तेनोपसंक्रान्ताः। उपसंक्रम्य राज्ञः कनकवर्णस्य पादौ शिरसा वन्दित्वा अञ्जलिं कृत्वा राज्ञः कनकवर्णस्यैतदूचुः-क्षन्तव्यं ते यदस्माभिः किंचिदपराद्धम्। अद्यास्माकं देवस्यापश्चिमं दर्शनम्॥



तद्यथा तेन भगवता प्रत्येकबुद्धेन स पिण्डपात्रः परिभुक्तः, अथ तस्मिन्नेव क्षणे समन्ताच्चतसृषु दिक्षु चत्वार्यभ्रपटलानि व्युत्थितानि, शीतलाश्च वायवो वातुमारब्धाः, ये जम्बूद्वीपादशुचिं व्यपनयन्ति, मेघाश्च प्रवर्षयन्तः पांशून् शमयन्ति। अथ तस्मिन्नेव दिवसे द्वितीयेऽर्धभागे विविधस्य खादनीयभोजनीयस्य वर्षं प्रवर्षति। इदमेवंरूपं भोजनमोदनसक्तवः कुल्माषमत्स्यमांसम्, इदमेवंरूपं खादनीयं मूलखादनीयं स्कन्धखादनीयं पत्रखादनीयं पुष्पखादनीयं फलखादनीयं तिलखादनीयं खण्डशर्करगुडखादनीयं पिष्टखादनीयम्। अथ राजा कनकवर्णो हृष्टतुष्टः उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो गणकमहामात्रामात्यदौवारिकपार्षद्यानामन्त्रयते-पश्यथ यूयं ग्रामण्यः, अद्यैव तस्यैकपिण्डपातदानस्याङ्कुरः प्रादुर्भूतः। फलमन्यद्भविष्यति॥



अथ द्वितीये दिवसे सप्ताहं धान्यवर्षं प्रवर्षन्ति, तद्यथा-तिलतण्डुला मुद्गमाषा यवा गोधूममसूराः शालयः। सप्ताहं सर्पिवर्षं प्रवर्षन्ति, सप्ताहं कर्पासवर्षं प्रवर्षन्ति, सप्ताहं नानाविधदूष्यवर्षं प्रवर्षन्ति, सप्ताहं सप्तरत्नानां वर्षं प्रवर्षन्ति, सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य। सर्वमस्य राज्ञः कनकवर्णस्यानुभावेन जाम्बुद्वीपकानां मनुष्याणां दारिद्य्रसमुच्छेदो बभूव॥



स्यात् खलु भिक्षवो युष्माकं काङ्क्षा विमतिर्वा अन्यः स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव। न खल्वेवं द्रष्टव्यम्। अहं स तेन कालेन तेन समयेन राजा कनकवर्णो बभूव। तदनेन भिक्षवः पर्यायेण वेदितव्यम्। सचेद्भिक्षवः सत्त्वा जानीयुर्दानस्य फलं दानसंविभागस्य च फलविपाकम्-अपीदानीं योऽसौ अपश्चिमकः कवलश्चरम आलोपः, ततोऽप्यदत्त्वा असंविभज्य न परिभुञ्जीरन्, सचेल्लभेरन् दक्षिणीयं प्रतिग्राहकम्। न चैषामुत्पन्नं मात्सर्यं चित्तं पर्यादाय तिष्ठति। यस्मात् तर्हि भिक्षवः सत्त्वा न जानते दानस्य फलं दानसंविभागस्य च फलविपाकम्-यथा अहं जाने दानस्य फलं दानसंविभागस्य च फलविपाकम्, तस्मात्तेऽदत्त्वा असंविभज्य परिभुञ्जते आगृहीतेन चेतसा, उत्पन्नं चैषां मात्सर्यं चित्तं पर्यादाय तिष्ठति।



न नश्यते पूर्वकृतं शुभाशुभं

न नश्यते सेवनं पण्डितानाम्।

न नश्यते आर्यजनेषु भाषितं

कृतं कृतज्ञेषु न जातु नश्यति॥ ३॥



सुकृतं शोभनं कर्म दुष्कृतं वाप्यशोभनम्।

अस्ति चैतस्य विपाको अवश्यं दास्यते फलम्॥४॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भिक्षुण्युपासकोपासिकादेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयः सर्वावती च पर्षद्भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने कनकवर्णावदानं विंशतिमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project