Digital Sanskrit Buddhist Canon

१९ ज्योतिष्कावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१९ ज्योतिष्कावदानम्।



बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे। राजगृहे नगरे सुभद्रो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः। सोऽत्यर्थं निर्ग्रन्थेष्वभिप्रसन्नः। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविक्षत्। राजगृहं पिण्डाय चरन् येन सुभद्रस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। अद्राक्षीत् सुभद्रो गृहपतिर्भगवन्तं दूरादेव। दृष्ट्वा च पुनः पत्नीमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्-भगवन्, इयं मे पत्नी आपन्नसत्त्वा संवृत्ता। किं जनयिष्यतीति। भगवानाह-गृहपते, पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। तेन भगवतः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरो दत्तः। भगवानारोग्य इत्युक्त्वा पिण्डपातमादाय प्रक्रान्तः। तस्य नातिदूरे भूरिकस्तिष्ठति। स संलक्षयति-यदप्यस्माकमेकं भिक्षाकुलम्, तदपि श्रमणो गौतमोऽन्वावर्तयति। गच्छामि, पश्यामि किं श्रमणेन गौतमेन व्याकृतमिति। स तत्र गत्वा कथयति-गृहपते, श्रमणो गौतम आगत आसीत् ? आगतः। किं तेन व्याकृतम् ? आर्य, मया तस्य पत्नी दर्शिता-किं जनयिष्यति ? स कथयति-पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। स भूरिको गणित्रे कृतावी श्वेतवर्णां गृहीत्वा गणयितुमारब्धः-पश्यति यथा भगवता व्याकृतं तत्सर्वं तथैव। स संलक्षयति-यदि अनुसंवर्णयिष्याम्यहम्, गृहपतिर्भूयस्या मात्रया श्रमणस्य गौतमस्याभिप्रशंस्यति। तदत्र किंचिद् संवर्णयितव्यं किंचित् विवर्णयितव्यमिति विदित्वा हस्तौ संपरिवर्तयति, मुखं च विभण्डयति। सुभद्रो गृहपतिः कथयति-आर्य, किं हस्तौ संपरिवर्तयसि मुखं च विभण्डयसीति ? स कथयति-गृहपते, अत्र किंचित् सत्यं किंचिन्मृषा। आर्य, किं सत्यं किं वा मृषा ? गृहपते, यदनेनोक्तं पुत्रं जनयिष्यतीति, इदं सत्यं कथयति। कुलमुद्द्योतयिष्यतीतीदमपि सत्यम्। अग्रज्योतिरिति संज्ञा। मन्दभाग्यः स सत्त्वो जातमात्र एवाग्निना कुलं धक्ष्यति। यत् कथयति-दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति, इदं मृषा। गृहपते, अस्ति कश्चित् त्वया दृष्टो मनुष्यभूतो दिव्यमानुषीं श्रियं प्रत्यनुभवन् ? यत्कथयति-मम शासने प्रव्रजिष्यतीति, इदं सत्यम्। यदा अस्य न भक्तं न वस्त्रम्, तदा निश्चयेन श्रमणस्य गौतमस्यान्तिके प्रव्रजिष्यति। सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति, इदं मृषा। श्रमणस्यैव तावद्गौतमस्य सर्वक्लेशप्रहाणादर्हत्त्वं नास्ति, प्रागेवास्य भविष्यतीति। सुभद्रो विषादमापन्नः कथयति-आर्य, अत्र मया कथं प्रतिपत्तव्यमिति ? भूरिकः कथयति-गृहपते, वयं प्रव्रजिताः शमानुशिक्षाः। त्वमेव जानीषे। इत्युक्त्वा प्रक्रान्तः। सुभद्रः संलक्षयति -सर्वथा परित्याज्योऽसौ इति विदित्वा स भैषज्यं दातुमारब्धः। चरमभविकोऽसौ सत्त्वः। तदस्य भैषज्यार्थाय स्यादिति। स तस्या वामकुक्षिं मर्दितुमारब्धः। स गर्भो दक्षिणं कुक्षिं गतः। सुभद्रो दक्षिणकुक्षिं मर्दितुमारब्धः। स वामं कुक्षिं गतः। अस्थानमेतदनवकाशो यच्चरमभविकः सत्त्वोऽन्तरादुच्छिद्य कालं करिष्यति अप्राप्ते आश्रवक्षये। सा गृहपतिपत्नी कुक्षिणा मृद्यमानेन विक्रोष्टुमारब्धा। प्रातिवेश्यैः श्रुतम्। ते त्वरितत्वरितं गताः पृच्छन्ति-भवन्तः, किमियं गृहपतिपत्नी विरौति ? सुभद्रः कथयति-कुक्षिमत्येषा। नूनमस्याः प्रसवकाल इति। ते प्रक्रान्ताः। सुभद्रः संलक्षयति-न शक्यमस्या अत्रोपसंक्रमं कर्तुम्। अरण्यं नयामीति। सा तेनारण्यं नीत्वा तथोपक्रान्ता यथा कालगता। स तां प्रच्छन्नं गृहमानीय सुहृत्संबन्धिबान्धवानां प्रातिवेशकानां च कथयति-भवन्तः, पत्नी मे कालगतेति। ते विक्रोष्टमारब्धाः। सा तैर्विक्रोशद्भिर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य शीतवनं श्मशानमभिनिर्हृता। निर्ग्रन्थैः श्रुतम्-ते हृष्टतुष्टप्रमुदिताश्छत्रपताका उच्छ्रयित्वा राजगृहस्य नगरस्य रथ्यावीथीचत्वरशृङ्गाटके उपाहिण्डमाना आरोचयन्ति-शृण्वन्तु भवन्तः। श्रमणेन गौतमेन सुभद्रस्य गृहपतेः पत्नी व्याकृता-पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। सा च कालगता शीतवनश्मशानमभिनिर्हृता। यस्य तावद्वृक्षमूलमेव नास्ति, कुतस्तस्य शाखापत्रफलं भविष्यतीति ? अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां [ चतु ]रृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां चतुर्वैशारद्यविशारदानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानामसंहतविहारिणां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलवलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेः त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते-को हीयते, को वर्धते, कः कृच्छ्रप्राप्तः, कः संकटप्राप्तः, कः संबाधप्राप्तः, कः कृच्छ्रसंकटसंबाधप्राप्तः, कोऽपायनिम्नः, कोऽपायप्रवणः, कोऽपायप्राग्भारः, कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयम्, कस्यानवरोपितानि कुशलमूलान्यवरोपयेयम्, कस्यावरोपितानि परिपाचयेयम्, कस्य परिपक्कानि विमोचयेयम्। आह च-



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥१॥ इति॥



अथ भगवानन्यतरस्मिन् प्रदेशे स्मितमकार्षीत्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहवमुत्पलं पद्म महापद्मं नरकं गत्वा ये उष्णनरकास्तेषु शीतीभूता निपतन्ति। तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रब्धाः। तेषामेवं भवति-किं नु वयं भवन्त इतश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति। तेषां निर्मितं दृष्ट्वा एवं भवति-न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्नाः। अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावादस्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति। या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजकायिकान् देवंस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानतपान् सुदृशान् सुदर्शनानकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। गाथाद्वयं च भाषन्ते-



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥२॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥३॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुगच्छन्ति। भगवत आस्येऽन्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ-



नानाविधो रङ्गसहस्रचित्रो

वक्त्रान्तरान्निष्कसितः कलापः।

अवभासिता येन दिशः समन्ता-

द्दिवाकरेणोदयता यथैव॥४॥



गाथाश्च भाषते-

विगतोद्भवा दैन्यमदप्रहीणा

बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणं शङ्खमृणालगौरं

स्मितमुपदर्शयन्ति जिना जितारयः॥५॥



तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥६॥



नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयन्ति धीराः।

यस्यार्थे स्मितमुपदर्शयन्ति नाथा-

स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥७॥ इति॥



भगवानाह-एवमेतदानन्द, एवमेतत्। नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। गच्छ आनन्द, भिक्षूणामारोचय-तथागतो भिक्षवः श्मशानचारिकां गन्तुकामः। यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकां गन्तुम्, स चीवरकाणि गृह्णातु। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति- तथागत आयुष्मन्तः श्मशानचारिकां गन्तुकामः। यो युष्माकमुत्सहते तथागतेन सार्धं श्मशानचारिकां गन्तुम्, स चीवरकाणि गृह्णातु। एवमायुष्मन्निति ते भिक्षवः सर्वे संश्रुत्य भगवत्सकाशमुपगताः। अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गजराज इव कलभगणपरिवृतः सिंह इव दंष्टगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरजनपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतोऽशीत्या चानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिर्वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्याश्वजिद्बाष्पमहानामभद्रिकशारिपुत्रमौद्गल्यायनकाश्यपयशःपूर्णप्रभृतिमहाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन अनेकैश्च प्राणिशतसहस्रैः शीतवनं महाश्मशानं संप्रस्थितः। अष्टादशानुशंसा बुद्धचारिकायामित्यनेकानि देवताशतसहस्राणि भगवतः पृष्ठतः पृष्ठतोऽनुबद्धानि। शीतवनानुगुणाश्च वायवो वायितुमारब्धाः॥



राजगृहात् द्वौ बालदारकौ ब्राह्मणदारकः क्षत्रियदारकश्च बहिर्निर्गत्य क्रीडतः। तयोः क्षत्रियदारकोऽवगाढश्राद्धो ब्राह्मणदारको न तथा। स ब्राह्मणदारकः क्षत्रियदारकस्य कथयति-वयस्य, भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता-पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। सा च मृता कालगता शीतवनं श्मशानं निर्हृता-मा हैव भगवता भाषितं वितथं स्यादिति। स क्षत्रियदारको गाथां भाषते-



सचन्द्रतारं प्रपतेदिहाम्बरं

मही सशैला सवना नभो व्रजेत्।

महोदधीनामुदकं क्षयं व्रजे-

न्महर्षयः स्युर्न मृषाभिधायिनः॥८॥ इति।



स च ब्राह्मणदारकः कथयति-वयस्य, यद्येवम्, गच्छामः शीतवनं महाश्मशानं पश्यामः ? वयस्य, गच्छामः। तौ संप्रस्थितौ। भगवांश्च राजगृहान्निर्गतः। अद्राक्षीत् स क्षत्रियदारको भगवन्तं दूरादेव। दृष्ट्वा च पुनर्गाथां भाषते -



अनुद्धतो विगतकुतूहलो मुनि -

र्यथा व्रजत्येष जनौघसंवृतः।

निःसंशयं परगणवादिमर्दनो

नदस्यते मृगपतिनादमुत्तमम्॥ ९॥



यथा ह्यमी शीतवनोन्मुखोत्सुकाः

प्रवान्ति वाता हिमपङ्कशीतलाः।

प्रयान्ति नूनं बहवो दिवौकसो

निरीक्षितुं शाक्यमुनेर्विकुर्वितम्॥१०॥ इति।



राज्ञा बिम्बिसारेण श्रुतम्-भगवता सुभद्रस्य गृहपतेः पत्नी व्याकृता -पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति। सा च मृता कालगता शीतवनं श्मशानमभिनिर्हृता। भगवांश्च सश्रावकसंघः शीतवनं संप्रस्थित इति। श्रुत्वा च पुनरस्यैतदभवत्-न भगवान् निरर्थकं शीतवनं गच्छति। नूनं भगवान् सुभद्रस्य गृहपतेः पत्नीमागम्य महद्विनेयकार्यं कर्तुकामो भविष्यति। पश्यामीति। सोऽप्यन्तःपुरकुमारामात्यपौरजानपदपरिवृतो राजगृहान्निर्गन्तुमारब्धः। अद्राक्षीत् स क्षत्रियकुमारको राजानं मागधश्रेण्यं बिम्बिसारं दूरादेव। दृष्ट्वा च पुनर्गाथां भाषते-



यथा हि श्रेण्यो मगधाधिपो ह्ययं

विनिर्ययौ राजगृहात् सबान्धवः।

प्रवर्तते मे हृदि निश्चिता मति-

र्महाजनस्याभ्युदयो भविष्यति॥ ११॥ इति।



जनकायेन भगवन्तं दृष्ट्वा विवरमनुप्रदत्तम्। भगवान् स्मितोन्मुखो महाजनमध्यं प्रविष्टः। निर्ग्रन्था भगवन्तं स्मितोन्मुखं दृष्ट्वा संलक्षयन्ति-यथा श्रमणो गौतमः स्मितोन्मुखो महाजनमध्यं प्रविष्टः, नूनमयं बोधिसत्त्वो न कालगतः। तैः सुभद्रो गृहपतिरुक्तः-गृहपते, नन्वयं सत्त्वो मन्दभाग्यो न कालगत इति। स कथयति-आर्य यद्येवम्, कथमत्र प्रतिपत्तव्यमिति ? ते कथयन्ति-गृहपते, वयं शमात्तशिक्षाः, त्वमेव ज्ञास्यसीति। स तां पत्नीं चितायामारोप्य ध्मापयितुमारब्धः। तस्याः सर्वः कायो दग्धः स्थापयित्वा कुक्षिसामन्तकम्। तथासौ कुक्षिः स्फुटितः, पद्मं प्रादुर्भूतम्। तस्य चोपरिपद्मकर्णिकायां कुमारो निषण्णोऽभिरूपो दर्शनीयः प्रासादिकः। तं दृष्ट्वा अनेकानि प्राणिशतसहस्राणि परं विस्मयमुपगतानि। निर्ग्रन्था निपातमदमाना नच(नष्ट?) प्रभावाः संवृत्ताः। तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते-गृहपते, गृहाण कुमारम्। स निर्ग्रन्थानां मुखमवलोकितुमारब्धः। ते कथयन्ति-गृहपते, यदि प्रज्वलितामेतां चितां प्रवेक्ष्यसि, सर्वेण सर्वं न भविष्यसीति। स न प्रतिगृह्णाति। तत्र भगवान् जीवकं कुमारभूतमामन्त्रयते-गृहाण जीवक कुमारकमिति। स संलक्षयति-अस्थानमनवकाशो भगवान् मामस्थाने नियोक्ष्यति। गृह्णामीति। तेन निर्विशङ्केन चितां विगाह्य गृहीतः।



विगाहतस्तस्य जिनाज्ञया चितां

प्रतिगृह्णतश्चाग्निगतं कुमारकम्।

जिनप्रभावान्महतो हुताशनः

क्षणेन जातो हिमपङ्कशीतलः॥१२॥



ततो जीवकं कुमारभूतमिदमवोचत्-जीवक, मासि क्षत उपहतो वेति ? स कथयति-राजकुलेऽहं भदन्त जातो राजकुले वृद्धः। नाभिजानामि गोशीर्षचन्दनस्यापीदृशं शैत्यं यद्भगवता अधिष्ठितायाश्चितायाः। तत्र भगवान् सुभद्रं गृहपतिमामन्त्रयते-गृहाणेदानीं गृहपते कुमारमिति। स मिथ्यादर्शनविहतः। तथापि न संप्रतिपद्यते। निर्ग्रन्थानामेव मुखं व्यवलोकयति। ते कथयन्ति-गृहपते, अयं सत्त्वोऽतीव मन्दभाग्यो यो हि नाम सर्वभक्षेणाप्यग्निना न दग्धः। किं बहुना ? यद्येवं गृहं प्रवेशयसि, नीयताम्। ते गृहमुत्सादयद् भविष्यसि, त्वं च प्राणैर्वियुज्यस इति। नास्ति आत्मसमं प्रेमेति। तेनासौ न प्रतिगृहीतः। तत्र भगवान् राजानं बिम्बिसारमामन्त्रयते-गृहाण महाराज कुमारमिति। तेन ससंभ्रमेण हस्तौ प्रसार्य गृहीतः। ततः समन्ततो निरीक्ष्य कथयति-भगवन्, किं भवतु अस्य दारकस्य नामेति। भगवानाह-महाराज, यस्मादयं दारको ज्योतिर्मध्याल्लब्धः, तस्माद्भवतु दारकस्य ज्योतिष्क इति नामेति। तस्य ज्योतिष्क इति नामधेयं व्यवस्थापितम्। ततो भगवता तस्य जनकायस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा बहुभिः सत्त्वशतैर्महान् विशेषोऽधिगतः। कैश्चिच्छ्रोतापत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चिदुष्मगतानि कुशलमूलान्युत्पादितानि, कैश्चिन्मूर्धानः, कैश्चित् मृदुमध्याः क्षान्तयः, कैश्चिच्छ्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ, कैश्चिच्छरणगमनानि, कैश्चिच्छिक्षापदानि। यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। ज्योतिष्को दारको राज्ञा बिम्बिसारेण अष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्॥



तस्य मातुलः पण्यमादाय देशान्तरं गतः। तेन श्रुतं यथा मम भगिनी सत्त्ववती संवृत्ता। सा भगवता व्याकृता-पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति,मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। स पण्यं विसर्जयित्वा प्रतिपण्यमादाय राजगृहमागतः। तेन श्रुतं यथा सा अस्माकं भगिनी कालगतेति। श्रुत्वा च पुनः संलक्षयति-भगवता असौ व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यां मानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। मा हैव तद्भगवतो भाषितं वितथं स्यात्। तेन तिरःप्रातिवेश्याः पृष्टाः-श्रुतं मया अस्माकं भगिनी सत्त्ववती संवृत्ता। सा भगवता व्याकृता पुत्रं जनयिष्यति, कुलमुद्द्योतयिष्यति, दिव्यमानुषीं श्रियं प्रत्यनुभविष्यति, मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। श्रुत्वा वयं परितुष्टाः। सा च श्रूयते मृता कालगतेति। मा हैव भगवतो भाषितं वितथं स्यादिति। ते गाथां भाषन्ते-



सचन्द्रतारं प्रपतेदिहाम्बरं

मही सशैला सवना नभो व्रजेत्।

महोदधीनामुदकं क्षयं व्रजे-

न्महर्षयः स्युर्न मृषाभिधायिनः॥१३॥



न भगवतो भाषितं वितथम्। कथं भगवतो भाषितं वितथं भविष्यति ? किं तु तेन स्वामिनापि असौ तथा तथा उपक्रान्ता, यथा कालगता। स दारको महर्द्धिको महानुभावः। अग्निना न दग्धः। अद्यापि राजकुले संवर्धत इति। स सुभद्रस्य गृहपतेः सकाशं गत्वा कथयति-न युक्तं गृहपते त्वया कृतम्। किं कृतम् ? अस्माकं सत्त्ववती भगिनी त्वया निर्ग्रन्थविग्राहितेन तथा तथा उपक्रान्ता, यथा कालगता। स दारको महर्द्धिको महानुभावः। अग्निनापि न दग्धः। अद्यापि राजकुले संवर्धते। तद्गतमेतत्। यदि तावत्कुमारमानयसि, इत्येवं कुशलम्। नो चेद्वयं त्वां ज्ञातिमध्यादुत्क्षिपामः। सलोकानां (सालोहितानां ?) संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः-अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। स्त्रीघातकोऽयम्। न केनचिदाभाषितव्यमिति। राजकुले च तेऽनर्थं कारयाम इति। स श्रुत्वा व्यथितः। यथैष परिभाषते, नूनमेवं करोमीति विदित्वा राज्ञः पादयोर्निपत्य कथयति-देव, मम ज्ञातय एवं परिभाषन्ते-यदि तावत् कुमारमानयसीत्येवं कुशलम्, नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः-अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। स्त्रीघातकोऽयम्। न केनचिदाभाषितव्यमिति। राजकुले च तेऽनर्थं कारयाम इति। तदर्हसि ज्योतिष्कं कुमारं दातुमिति। राजा कथयति-गृहपते, न मया त्वत्सकाशात् ज्योतिष्कः कुमारो गृहीतः, किं तु भगवता मम न्यस्तः। यदि त्वं कुमारेणार्थी, भगवत्सकाशं गच्छेति। स भगवत्सकाशं गतः। पादयोर्निपत्य कथयति-भगवन्, मम ज्ञातय एवं परिभाषन्ते-यदि तावत् कुमारमानयसीत्येवं कुशलम्। नो चेदानयसि, वयं त्वां ज्ञातिमध्यादुत्क्षिपामः, संकारं पातयामः, रथ्यावीथीचत्वरशृङ्गाटकेषु चावरणं निश्चारयामः। अस्माकं भगिनी सुभद्रेण गृहपतिना प्रघातिता। स्त्रीघातकोऽयम्। न केनचिदाभाषितव्य इति। राजकुले चानर्थं कारयाम इति। तदर्हसि ज्योतिष्कं कुमारं दापयितुमिति। भगवान् संलक्षयति-यदि सुभद्रो ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं रुधिरं छर्दयित्वा कालं करिष्यति। इति विदित्वा आयुष्मन्तमानन्दमामन्त्रयते-गच्छ आनन्द, राजानं बिम्बिसारं मद्वचनेनारोग्यय, एवं च वद-अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्। यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यदुष्णं शोणितं छर्दयित्वा कालं करिष्यतीति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन राजा बिम्बिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं बिम्बिसारमेतदवोचत्-भगवांस्ते महाराज आरोग्ययति, कथयति च-अनुप्रयच्छ महाराज सुभद्रस्य गृहपतेर्ज्योतिष्कं कुमारम्। यदि सुभद्रो गृहपतिर्ज्योतिष्कं कुमारं न लभते, स्थानमेतद्विद्यते यत् सुभद्रो गृहपतिरुष्णं शोणितं छर्दयित्वा कालं करिष्यति। राजा कथयति-वन्दे भदन्तानन्द बुद्धं भगवन्तम्। यथा भगवानाज्ञापयति तथा करिष्ये। आरोग्यमित्युक्ता आयुष्मानानन्दः प्रक्रान्तः। राजा बिम्बिसारः कथयति-गृहपते, मया अयं कुमारः संवर्धितः। प्रियश्च मे मनापश्च। समयतोऽहं मुञ्चामि, यदि मां दिवसे दिवसे त्रिष्कालं दर्शनायोपसंक्रामतीति। स कथयति-देव उपसंक्रमिष्यति। कोऽन्य उपसंक्रमितव्य इति ? स राज्ञा सर्वालंकारविभूषितं कृत्वा हस्तिस्कन्ध आरोप्य विसर्जितः॥



आचरितमेतल्लोकस्य-न तावत् पुत्रस्य नाम प्रज्ञायते यावत् पिता जीवति। यावदपरेण समयेन सुभद्रो गृहपतिः कालगतः। ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः। स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नः। बुद्धं शरणं गतो धर्मं संघं शरणं गतः। तेन यस्मिन् प्रदेशे तेन सुभद्रेण पत्नी आघातिता, तस्मिन् प्रदेशे विहारं कारयित्वा सर्वोपकरणसंपूर्णश्चातुर्दिशार्यभिक्षुसंघाय निर्यातितः। तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्-भगवान् राजगृहे विहरति मृदितकुक्षिके दाव इति॥



सुभद्रस्य गृहपतेः पौरुषेया ये पण्यमादाय देशान्तरं गताः, तैः श्रुतम्-सुभद्रो गृहपतिः कालगतः। ज्योतिष्कः कुमारः स्वगृहे प्रतिष्ठितः। स बुद्धेऽभिप्रसन्नो धर्मे संघेऽभिप्रसन्नो बुद्धं शरणं गतो धर्मं संघं शरणं गत इति। तेषां च गोशीर्षचन्दनमयं पात्रं संपन्नम्। तैस्तद्रत्नानां पूरयित्वा ज्योतिष्कस्य गृहपतेः प्राभृतमनुप्रेषितम्। तेन तद्दीर्घे स्तम्भे आरोप्य स्थापितम्। घण्टावघोषणं कारितम्-नेदं केनचित् विष्टया वा शीतया वा कर्कटकेन वा गृहीतव्यम्। य एतच्छ्रमणो वा ब्राह्मणो वा महर्द्धिको वा महानुभावः ऋद्ध्या गृह्णाति, तस्येदं यथासुखमिति। तीर्थ्याः कल्यमेवोत्थाय तीर्थ्यस्पर्शनं गच्छन्ति। तैस्तद् दृष्टम्। दृष्ट्वा च पुनर्ज्योतिष्कस्य गृहपतेः कथयन्ति-गृहपते, किमेतदिति ? तेन तेषां विस्तरेणारोचितम्। ते कथयन्ति-गृहपते, त्वं श्रमणशाक्यपुत्रेष्वभिप्रसन्नः। ते एवं ग्रहीष्यन्तीत्युक्त्वा प्रक्रान्ताः। यावत् स्थविरस्थविरा भिक्षवो राजगृहं पिण्डाय प्रविष्टाः। तैर्दृष्ट्वा तैरपि ज्योतिष्को गृहपतिः पृष्टः-किमेतदिति ? तेन तथैव विस्तरेण समाख्यातम्। ते कथयन्ति- गृहपते, किं पात्रमात्रस्यार्थायात्मानं संप्रकाशयामः ? उक्तं भगवता-प्रच्छन्नकल्याणैर्बो भिक्षवो विहर्तव्यं धूतपापैरित्युक्त्वा प्रक्रान्ताः। यावदायुष्मान् दशबलः काश्यपस्तमनुप्राप्तः। स पृच्छति-गृहपते, किमेतदिति ? तेन यथावृत्तमारोचितम्। आयुष्मान् दशबलकाश्यपः संलक्षयति-येन मया अनादिकालोपचितं क्लेशगणं वान्तं त्यक्तं छर्दितं प्रतिनिसृष्टम्, तं मां गृहपतिस्तीर्थिकसाधारणया ऋद्ध्या आह्वयति। तदस्य मनोरथं पूरयामीति। तेन गजभुजसदृशं बाहुमभिप्रसार्य तत्पात्रं गृहीतम्। स तद्गृहीत्वा विहारं गतो भिक्षुभिरुच्यते -स्थविर, कुतस्तव गोशीर्षचन्दनमयं पात्रमिति ? तेन यथावृत्तमारोचितम्। भिक्षवः कथयन्ति-स्थविर, कल्पते तव पात्रमात्रस्यार्थाय ऋद्धिं विदर्शयितुमिति ? कथयति-आयुष्मन्तः, कल्पतु वा मा वा। कृतमिदानीम्। किं क्रियतामिति ? एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह- न भिक्षुणा आगारिकस्य पुरस्तात् ऋद्धिर्विदर्शयितव्या। दर्शयति, सातिसारो भवति। अपि तु चत्वारि पात्राणि सुवर्णमयं रूप्यमयं वैडूर्यमयं स्फटिकमयम्। अपराण्यपि चत्वारि पात्राणि रीतिमयं ताम्रमयं कंसमयमभ्रमयं च। तत्र यानि पूर्वकाणि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उपस्थापितानि विसर्जयितव्यानि। यानि पश्चिमानि चत्वारि पात्राणि, एतान्यनुपस्थापितानि नोपस्थापयितव्यानि, उपस्थापितानि तु भैषज्यशरावपरिभोगेन परिभोक्तव्यानि। अपि त्वधीष्टानि ते द्वे पात्रे आयसं मृण्मयम्। यावदपरेण समयेन ज्योतिष्कस्य गृहपतेर्दिव्यमानुषी श्रीः प्रादुर्भूता। अन्तरा च राजगृहमन्तरा च चम्पामत्रान्तरे शुल्कशाला। तस्यां शुल्कशालिकः कालगतः। स व्यालयक्षेषूपपन्नः। तेन पुत्राणां स्वप्नदर्शनं दत्तम्-पुत्राः, यूयमेतस्मिन् स्थाने यक्षस्थानं कारयत। तत्र च घण्टां बद्ध्वा लम्बयत-यः कश्चित् पण्यमशुल्कयित्वा गमिष्यति, सा घण्टा तावद्विरविष्यति यावदसौ निवर्त्य शुल्कं दापयितव्यमिति (यिष्यतीति?)। तैस्तं स्वप्नं संबन्धिबान्धवानां निवेद्य दिवसतिथिमुहूर्तेन तस्मिन् प्रदेशे यक्षस्थानं कारितम्। तत्र च घण्टा बद्ध्वा लम्बिता॥



चम्पायामन्यतमो ब्राह्मणः। तेन सदृशात् कुलात् कलत्रमानीतम्। सा ब्राह्मणी संलक्षयति-अयं ब्राह्मणो यैस्तैरुपायैर्धनोपार्जनं करोति। अहं भक्षयामि। न मम प्रतिरूपं यदहमकर्मिका तिष्ठेयमिति। तया वीथीं गत्वा कर्पासः क्रीतः। तं परिकर्मयित्वा श्लक्ष्णं सूत्रं कर्तितम्। शोभनेन कुविन्देन कार्षापणसहस्रमूल्या यमली वायिता। तया ब्राह्मण उक्तः-ब्राह्मण, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्। गृहीत्वा वीथीं गच्छ। यदि कश्चित् याचति, कार्षापणसहस्रेण दातव्या, नो चेदपत्तनं घोषयित्वा अन्यत्र गन्तव्यमिति। स तां गृहीत्वा वीथीं गतः। न कश्चित् कार्षापणसहस्रेण गृह्णाति। सोऽपत्तनं घोषयित्वा तां यमलीं छत्रदण्डे प्रक्षिप्य सार्थेन सार्धं राजगृहं संप्रस्थितो यावदनुपूर्वेण शुल्कशालामनुप्राप्तः। शुल्कशालिकेन सार्थः शुल्कितः। स शुल्कं दत्त्वा संप्रस्थितः। घण्टा रटितुमारब्धा। शौल्किकाः कथयन्ति-भवन्तः, यथेयं घण्टा रणति, नूनं सार्थो न निपुणं शुल्कितः। भूयः शुल्कयाम इति। तैरसौ सार्थः पुनः प्रतिनिवर्त्य शुल्कितः। नास्ति किंचिदशुल्कितम्। घण्टा रटत्येव। तैरसौ सार्थो भूयः प्रतिनिवर्त्य प्रत्यवेक्षितः। नास्त्येव किंचित्। सार्थिका अवध्यातुमारब्धाः-किं यूयमस्मान् मूषितुकामा येन भूयो भूयः प्रतिनिवर्तयध्वमिति ? तैरसौ सार्थो द्विधा कृत्वा मुक्तः। येषां मध्ये स ब्राह्मणो नास्ति, तेऽतिक्रान्ताः। अन्येषां गच्छतां सा घण्टा तथैव रटितुमारब्धा। तैस्ते पुनः प्रत्यवेक्षिताः। एवं तावत् द्विधाकृताः, यावत् स चैको ब्राह्मणोऽवस्थित इति। स तैर्गृहीतः। स कथयति-प्रत्यवेक्षत यदि मम किंचिदस्तीति। तैः सर्वतः प्रत्यवेक्ष्य मुक्तः। सा घण्टा रटत्येव। तैरसौ ब्राह्मणः प्रतिनिवर्त्योक्तः-भो ब्राह्मण कथय, नैव शुल्कं दापयामः। किं तु देवस्यैव सान्निध्यं ज्ञातं भवतीति। कथयति-सत्यं न दापयथ ? न दापयामः। तेन च्छत्रदण्डादपनीय सा यमली दर्शिता। ते परं विस्मयमापन्नाः-भवन्तः, ईदृशमपि देवस्य सान्निध्यमिति। तैस्तत एकं वस्त्रमुद्धाट्य देवः प्रावृतः। ब्राह्मणः कथयति-यूयं कथयथ शुल्कं न दापयाम इति। इदानीं सर्वस्वमपहरथ इति। ते कथयन्ति-ब्राह्मण, नास्माभिर्गृहीतम्। अपि देवस्यैतत् सान्निध्यमिति कृत्वा अस्माभिः प्रावृतः। गृहीत्वा गच्छेति। स तं पुनर्गृहीत्वा पुनश्छत्रनाडिकायां प्रक्षिप्य प्रक्रान्तः। अनुपूर्वेण राजगृहमनुप्राप्तः। स वीथ्यां प्रसार्यावस्थितः। तत्रापि तां न कश्चित् कार्षापणसहस्रेण याचते। स राजगृहमप्यपत्तनं घोषयितुमारब्धः। ज्योतिष्कश्च कुमारो राजकुलान्निष्क्रम्य हस्तिस्कन्धाभिरूढो वीथीमध्येन स्वगृहं गच्छति। तेन श्रुतम्। स कथयति- भवन्तः, किमर्थं ब्राह्मणोऽपत्तनं घोषयति ? शब्दयतैनम्। पृच्छाम इति। स तैः शब्दितः। ज्योतिष्केणोक्तः-भो ब्राह्मण, किमर्थं त्वं अपत्तनं घोषयसि ? गृहपते, अस्या यमल्याः कार्षापणसहस्रं मूल्यम्। न च कश्चिद्याचत इति। स कथयति-आनय, पश्यामः। तेनोपदर्शिता। ज्योतिष्कः कथयति-अस्त्येतदेव। किं तु अत्रैकं वस्त्रं परिभुक्तकम्। एकमपरिभुक्तकम्। यदपरिभुक्तम्, अस्य पञ्चकार्षापणशतानि मूल्यम्। यत्तु परिभुक्तकम्, अस्यार्धतृतीयानि। ब्राह्मणः कथयति-किमेतदेवं भविष्यति ? ज्योतिष्कः कथयति- ब्राह्मण, तव प्रत्यक्षीकरोमि। पश्येति। तेनासौ अपरिभुक्त उपरिविहायसा क्षिप्तः। वितानं कृत्वा अवस्थितः। परिभुक्तः क्षिप्तः। क्षिप्तमात्रक एव पतितः। ब्राह्मणो दृष्ट्वा परं विस्मयमापन्नः। कथयति-गृहपते, महर्द्धिकस्त्वं महानुभाव इति। ज्योतिष्कः कथयति-ब्राह्मण, पुनः पश्यैनं योऽसौ अपरिभुक्तक इति, स कण्टकवाटस्योपरिष्टात् क्षिप्तोऽसज्जमानो गतः। सोऽन्यः क्षिप्तः कण्टके लग्नः। स ब्राह्मणो भूयस्या मात्रया अभिप्रसन्नः कथयति-गृहपते, महर्द्धिकस्त्वं महानुभावः। यत् तवाभिप्रेतं तत्प्रयच्छेति। स कथयति-ब्राह्मण, अतिथिस्त्वम्। तवैव पूजा कृता भवति। सहस्रमेव प्रयच्छामीति। तेन तस्य कार्षापणसहस्रं दत्तम्। ब्राह्मणस्तमादाय प्रक्रान्तः। ज्योतिष्केण ततो यः परिभुक्तकः स दारकाय दत्तः, अपरिभुक्तकस्तु स्नानशाटकः कृतः। यावदपरेण समयेन राजा बिम्बिसार उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति। ज्योतिष्कस्य स स्नानशाटक उपरि गृहस्याभ्यवकाशे शोषितो वायुना ह्रियमाणो राज्ञो बिम्बिसारस्योपरि पतितः। राजा कथयति- भवन्तः, राजार्हमिदं वस्त्रम्। कुत एतदिति ?। ते कथयन्ति- देव, श्रूयते राज्ञो मान्धातुः सप्ताहं हिरण्यवर्षं पतितम्। देवस्यापि वस्त्रवर्षः पतितुमारब्धम्। नचिराद्धिरण्यवर्षः पतिष्यतीति। राजा कथयति-भवन्तः, ज्योतिष्को गृहपतिर्भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति। इदं च दिव्यं वस्त्रमाकाशात् पतितम्। स्थापयत। तस्यैवागतस्य दास्यामीति। ते चैवमालापं कुर्वन्ति, ज्योतिष्कश्चागतः। राजा कथयति-कुमार, त्वं भगवता व्याकृतो दिव्यमानुषीं श्रियं प्रत्यनुभविष्यतीति। मम चेदं दिव्यं वस्त्रमाकाशात् पतितम्। गृहाणेति। तेन हस्तः प्रसारितः। देव आनय, पश्यामीति। स निरीक्षितुमारब्धो यावत् पश्यत्यात्मीयं स्नानशाटकम्। स विस्मृत्य कथयति-देव, मदीयोऽयं स्नानशाटको वायुनोपक्षिप्त इहागत इति। कुमार, तव दिव्यमानुष्यकी श्रीः प्रादुर्भूता ? देव, प्रादुर्भूता। कुमार, यद्येवम्, किमर्थं मां न निमन्त्रयसि ? देव, निमन्त्रितो भव। गच्छ, भक्तं सज्जीकुरु। देव, यस्य दिव्यमानुषी श्रीः प्रादुर्भूता, किं तेन सज्जीकर्तव्यम् ? ननु सज्जीकृतमेव, गच्छेति। स ज्योतिष्कस्य गृहं गतः। राजा बाह्यं परिजनं दृष्ट्वा इन्द्रियाण्युत्क्षिपति। देव, किमर्थमिन्द्रियाण्युत्क्षिपसि। स कथयति-कुमार, वधूजनोऽयमिति कृत्वा। देव नायं वधूजनः, बाह्योऽयं परिजनः। स परं विस्मयमापन्नः। पुनर्मध्यं जनं दृष्ट्वा इन्द्रियाण्युत्क्षिप्तुमारब्धः। तथैव पृच्छति। राजा अपि तथैव कथयति। ज्योतिष्कः कथयति-देव, अयमपि न वधूजनः, किं तु मध्योऽयं जनः। स भूयस्या मात्रया परं विस्मयमापन्नः। तस्य मध्यमायां द्वारशालायां मणिभूमिरुपरचिता। तस्यां मत्स्या उदकपूर्णायामिव यन्त्रयोगेनोपरि भ्रमन्तो दृश्यन्ते। राजा प्रवेष्टुकामो वापीति कृत्वोपानहौ मोक्तुमारब्धः। ज्योतिष्कः कथयति-देव कस्यार्थे उपानहौ अपनयसीति ? स कथयति-कुमार, पानीयमुत्तर्त्तव्यमिति। ज्योतिष्कः कथयति- देव नेदं पानीयम्, मणिभूमिरेषा। स कथयति-कुमार, इमे मत्स्या उपरि भ्रमन्तः पश्यन्ति। देव यन्त्रयोगेनैते परिभ्रमन्ति। स न श्रद्धत्ते। तेनाङ्गुलिमुद्रा क्षिप्ता। सा रणरणाशब्देन भूमौ पतिता। ततो विस्मयमापन्नः प्रविश्य सिंहासने निषण्णः। वधूजनः पादाभिवन्दन उपसंक्रान्तः। तासामश्रुपातो जातः। राजा कथयति-कुमार, कस्मादयं वधूजनो रोदिति ? देव नायं रोदिति, किं तु देवस्य काष्ठधूमेन वस्त्राणि धूपितानि, तेन आसामश्रुपातो जात इति। राजा तत्र दिव्यमानुष्या श्रिया उपचर्यमाणः प्रमत्तो न निष्क्रामति। राजकृत्यानि राजकरणीयानि परिहातुमारब्धानि। अमात्यैरजातशत्रुः कुमारोऽभिभूतः-कुमार, देवो ज्योतिष्कस्य गृहं प्रविश्य प्रमत्तः। गच्छ, निवेदयेति। तेन गत्वा उक्तः-देव, किमत्र प्रविश्यावस्थितः ? अमात्याः कथयन्ति-राजकृत्यानि राजकरणीयानि परिहीयन्त इति। स कथयति-कुमार, न शक्नोषि त्वमेकं दिवसं राज्यं कारयितुम् ? किं देवो जानीते-ममैको दिवसः प्रविष्टस्य? अद्य देवस्य सप्तमो दिवसो वर्तते। राजा ज्योतिष्कस्य मुखं निरीक्ष्य कथयति-कुमार सत्यम् ? देव सत्यम्। सप्तम एव दिवसो वर्तते। कुमार, कथं रात्रिर्ज्ञायते दिवसो वा ? देव, पुष्पाणां संकोचविकासान्मणीनां ज्वलनाज्वलनयोगाच्छकुनीनां च कूजनाकूजनात्। सन्ति तानि पुष्पाणि यानि रात्रौ विकसन्ति, दिवा म्लायन्ति ? सन्ति यानि दिवा विकसन्ति रात्रौ म्लायन्ति ? सन्ति ते मणयो ये रात्रौ ज्वलन्ति, न दिवा ? सन्ति ते दिवा ज्वलन्ति, न रात्रौ ? सन्ति ते शकुनयो ये रात्रौ कूजन्ति, न दिवा ? सन्ति ये दिवा कूजन्ति, न रात्रौ ? राजा विस्मयमापन्नः कथयति-कुमार, अवितथवादी भगवान्। यथा त्वं भगवता व्याकृतस्तथैव नान्यथेत्युक्त्वा ज्योतिष्कगृहात् निष्क्रान्तः। अजातशत्रुकुमारेण ज्योतिष्कसन्तको मणिरपहृत्य दारकस्य हस्ते दत्तः। तेन यत एव गृहीतस्तत्रैव गत्वावस्थितः। अजातशत्रुः कथयति-दारक, आनय तं मणिं पश्यामीति। स मुष्टिं विघाट्य कथयति-कुमार, न जाने कुत्र गत इति। स तं ताडयितुमारब्धः। ज्योतिष्कः कथयति-कुमार, किमर्थमेनं ताडयसि ? गृहपते, अहं चौरः, एष महाचौरः। मया त्वदीयो मणिरपहृतः, सोऽप्यनेनापहृत इति। स कथयति-कुमार, न त्वया अपहृतो नाप्यनेन, अपि तु यत एव त्वया गृहीतस्तत्रैव गत्वा अवस्थितः। अपि तु कुमार, स्वकं ते गृहम्। यावद्भिर्मणिभिरन्येन वा प्रयोजनं तावद्गृहाण यथासुखमिति। स प्रतिभिन्नकः संलक्षयते-यदा पितुरत्ययाद्राजा भविष्यामि, तदा ग्रहीष्यामीति। यदा अजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः, स्वयमेव च पट्टं बद्ध्वा प्रतिष्ठितः, तदा तेन ज्योतिष्कोऽभिहितः-गृहपते, त्वं मम भ्राता भवसि। गृहं भाजयाम इति। स संलक्षयति-येन पिता धार्मिको धर्मराजः प्रघातितः, स मां मर्षयतीति कुत एतत् ? नूनमयं मद्गृहमागच्छतु, कामं प्रयच्छामीति विदित्वा कथयति-देव, विभक्तमेव, किमत्र विभक्तव्यम् ? मदीयं गृहमागच्छ, अहं त्वदीयं गृहमागच्छामीति। अजातशत्रुः कथयति-शोभनम्। एवं कुरु। स तस्य गृहं गतः। ज्योतिष्कोऽप्यजातशत्रोर्गृहं गतः। सा श्रीस्तस्माद्गृहादन्तर्हिता, यत्र ज्योतिष्कस्तत्रैव गता। एवं यावत् सप्तवारानन्तर्हिता प्रादुर्भूता च। अजातशत्रुः संलक्षयते-एवमपि मया न शकितं ज्योतिष्कस्य मणीनपहर्तुम्। अन्यदुपायं करोमि। तेन धूर्तपुरुषाः प्रयुक्ताः-गच्छत, ज्योतिष्कस्य गृहान्मणीनपहरतेति। ते हि शीटाकर्कटकप्रयोगेनाभिरोढुमारब्धाः। तेऽन्तःपुरिकया उपरिप्रासादतलगतया दृष्टाः। तया धूर्तधूर्तका इति नादो मुक्तः। ज्योतिष्केण श्रुतम्। तेनाशयतो वाग्निश्चारिता-तिष्ठन्तु धूर्तका इति। तेषां यो यत्राभिरूढः स तत्रैवास्थितो यावत् प्रभाता रजनी संवृत्ता। महाजनकायेन दृष्ट्वाः। ते कथयन्ति- भवन्तः, अनेन कलिराजेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः। इदानीं गृहाण्यपि मोषयति। तत्किं न मे मोषिष्यत इति ? पुरक्षोभो जातः। अजातशत्रुणा ज्योतिष्कस्य दूतोऽनुप्रेषितः - मुञ्चत ममायं खलीकार इति। ज्योतिष्केणाशयतो वाग् निश्चारिता-गच्छन्तु धूर्तका इति। ते गताः। ज्योतिष्कः संलक्षयते-येन नाम पिता जीविताद् व्यपरोपितः, स मां न प्रघातयिष्यतीति कुत एतत् ? सर्वथा अहं भगवता व्याकृतः-मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यतीति। गच्छामि, प्रव्रजामीति। तेन सर्वं धनजातं दीनानाथकृपणेभ्यो दत्तम्। अधनाः सधना व्यवस्थापिताः। अथ ज्योतिष्को गृहपतिः सुहृत्संबन्धिबान्धवानवलोक्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतःः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो ज्योतिष्को गृहपतिर्भगवन्तमिदमवोचत्-लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति। स भगवता एहिभिक्षुकया आभाषितः-एहि भिक्षो, चर ब्रह्मचर्यमिति। भगवतो वाचावसानमेव मुण्डः संवृत्तः। संघाटीप्रावृतः पात्रकरव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थितः।



एहीति चोक्तः स तथागतेन

मुण्डश्च संघाटिपरीतदेहः।

सद्यः प्रशान्तेन्द्रिय एव तस्था-

वुपस्थितो बुद्धमनोरथेन॥१४॥



तस्य भगवता अववादो दत्तः। तेनोद्यच्छमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्भुखः। सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त आयुष्मता ज्योतिष्केण कर्म कृतं येन चितामारोपितः, दिव्यमानुषी श्रीः प्रादुर्भूता, भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमिति ? भगवानाह-ज्योतिष्केणैव भिक्षवः कर्माणि कृतान्युपचितानि लब्धसंहाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। ज्योतिष्केण कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१५॥



भूतपूर्वं भिक्षव एकनवतिकल्पे विपश्यी नाम शास्ता लोक उदपादि तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीं राजधानीमनुप्राप्तो बन्धुमत्यां विहरति स्म बन्धुमतीयके दावे। तेन खलु समयेन बन्धुमत्यां राजधान्यां बन्धुमान् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्। धार्मिको धर्मराजा धर्मेण राज्यं कारयति। तस्यानङ्गणो नाम गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। स संलक्षयते-बहुशो मया विपश्यी सम्यक्संबुद्धोऽन्तर्गृहे उपनिमन्त्र्य भोजितः। न तु कदाचित् त्रैमासीं सर्वोपकरणैः प्रवारितः। यन्न्वहं विपश्यिनं सम्यक्संबुद्धं त्रैमासीं सर्वोपकरणैः प्रवारयेयम्। इति विदित्वा येन विपश्यी सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णमनङ्गणं गृहपतिं विपश्यी सम्यक्संबुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथानङ्गणो गृहपतिरूत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्संबुद्धमिदवोचत्-अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति। अधिवासयति विपश्यी सम्यक्संबुद्धोऽनङ्गणस्य गृहपतेस्तूष्णींभावेन। अथानङ्गणो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः। अश्रौषीद्बन्धुमान् राजा-विपश्यी सम्यक्संबुद्धो द्वाषष्टिभिक्षुसहस्रपरिवारो जनपदचारिकां चरन् बन्धुमतीमनुप्राप्तो बन्धुमत्यां विहरति बन्धुमतीये दावे इति। श्रुत्वा च पुनरस्यैतदभवत्-बहुशो मया भगवानन्तर्गृहे उपनिमन्त्र्य भोजितः। न तु कदाचित् त्रैमासीं सर्वोपकरणैः प्रवारितः। यन्न्वहं विपश्यिनं सम्यक्संबुद्धं सर्वोपकरणैः प्रवारयेयम्। इति विदित्वा येन विपश्यी सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णं बन्धुमन्तं राजानं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ बन्धुमान् राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य विपश्यिनं सम्यक्संबुद्धमिदमवोचत्-अधिवासयतु मे भगवांस्त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन। उपनिमन्त्रितोऽस्मि महाराज त्वत्प्रथमतोऽनङ्गणेन गृहपतिना। अधिवासयतु भगवान्, अहं तथा करिष्ये यथा अनङ्गणो गृहपतिराज्ञास्यति। सचेत् ते महाराज अनङ्गणो गृहपतिरनुजानीते, एवं तेऽहमधिवासयामि। अथ बन्धुमान् राजा विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तो येन स्वं निर्वेशनं तेनोपसंक्रान्तः। बन्धुमान् राजा अनङ्गणं गृहपतिं दूतेन प्रक्रोश्येदमवोचत्-यत्खलु गृहपते जानीयात्-अहं त्वत्प्रथमतो विपश्यिनं सम्यक्संबुद्धं भोजयामि, ततः पश्चात् तवापि न दुष्करं भविष्यति विपश्यिनं सम्यक्संबुद्धं भोजयितुमिति। स कथयति-देव, मया विपश्यी सम्यक्संबुद्धस्त्वत्प्रथमत उपनिमन्त्रितः। अहमेव भोजयामि। राजा कथयति-गृहपते, यद्यप्येवम्, तथापि त्वं मम विषयनिवासी। नार्हाम्यहं त्वत्प्रथमतो भोजयितुम् ? देव, यद्यप्यहं तव विषयनिवासी, तथापि येन पूर्वनिमन्त्रितः स एव भोजयति। नात्र देवस्य निर्बन्धो युक्तः। न ते गृहपते कामकारं ददामि। अपि तु यो भक्तोत्तरिकया जेष्यति, सोऽवशिष्टं कालं भोजयिष्यति। तथा भवतु इत्यनङ्गणो गृहपतिः प्रत्यश्रौषीत्। तथा अनङ्गणो गृहपतिस्तामेव रात्रिं शुचिं प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थायोदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते। अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो येनानङ्गणस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथानङ्गणो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय। अथ विपश्यी सम्यक्संबुद्धोऽनङ्गणं गृहपतिं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समुत्तेज्य संप्रहर्ष्य प्रक्रान्तः। एवं बन्धुमता राज्ञा भोजितः। एष एव ग्रन्थो विस्तरेण कर्तव्यः। न क्कचिद्भक्तोत्तरिकया पराजयति। ततो बन्धुमान् राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। अमात्याः कथयन्ति-देव, कस्मात् त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति ? स कथयति-भवन्तः, कथमहं न चिन्तापरस्तिष्ठामि योऽहं मम विषयनिवासिनं कुटुम्बिनं न शक्नोमि भक्तोत्तरिकया पराजयितुम् ? ते कथयन्ति, देव, तस्य गृहपतेः काष्ठं नास्ति।काष्ठविक्रयो विधार्यतामिति। राज्ञा घण्टावघोषणं कारितम्। भवन्तः, न केनचित् मद्विषयनिवासिना काष्ठं विक्रेतव्यम्। यो विक्रीणीते, तेन मद्विषये न वस्तव्यमिति। अनङ्गणो गृहपतिर्गन्धकाष्ठैर्भक्तं साधयितुमारब्धः। सुगन्धतैलेन च वस्त्राणि तीमयित्वा खाद्यकान्युल्लाडयितुम्। सुरभिणा गन्धेन सर्वा बन्धुमती नगरी स्फुटा संवृत्ता। बन्धुमान् राजा पृच्छति-भवन्तः, कुत एष मनोज्ञगन्ध इति ? तैर्विस्तरेण समाख्यातम्। स कथयति-अहमप्येवं करोमि। किं मम विभवो नास्तीति ? अमात्याः कथयन्ति-देव, कस्यार्थे एवं क्रियते ? अयं गृहपतिरपुत्रो नचिरात् कालं करिष्यति। देवस्यैव सर्वं सन्तस्वापतेयं भविष्यति। काष्ठविक्रयोऽनुज्ञास्यतामिति। तेन काष्ठविक्रयोऽनुज्ञातः। अनङ्गणेन गृहपतिना श्रुतम्-राज्ञा काष्ठविक्रयोऽनुज्ञात इति। तेन चित्तं प्रदूष्य खरा वाग् निश्चारिता-तावन्मे भक्तकाष्ठमस्ति, येनाहं एनं सहामात्यं चितामारोप्य ध्मापयामीति। राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। अमात्याः कथयन्ति-देव, किमर्थं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति ? तेन विस्तरेण समाख्यातम्। ते कथयन्ति-देव, अलं विषादेन। वयं तथा करिष्यामो यथा देवश्चानङ्गणं गृहपतिं पराजयतीति। तैरपरस्मिन् दिवसे बन्धुमती राजधानी अपगतपाषाणशर्करकठल्या व्यवस्थापिता चन्दनवारिपरिषिक्ता सुरभिधूपघटिकोपनिबद्धा आमुक्तपट्टदामकलापा उच्छ्रितध्वजपताका नानापुष्पावकीर्णा नन्दनवनोद्यानसदृशा। तत्प्रतिस्पर्धशोभाविभूषितो मण्डवाटः कारितः। तस्मिन् नानारत्नविभूषितासनवसनसंपन्नशोभासनप्रज्ञप्तिः कारिता। मृदुविशदसुरभिगन्धसंपन्नो विविधभक्तव्यञ्जनसहितो दिव्यसुधामनोज्ञसंकाशस्त्रैलोक्यगुरोरनुरूप आहार उपसमन्वाहृतः। ततो बन्धुमतो राज्ञो निवेदितम्-देव, ईदृशी नगरशोभा ईदृशश्चाहारः। प्रामोद्यमुत्पादयेति। बन्धुमान् राजा दृष्ट्वा परं विस्मयमापन्नः। ततो विस्मयावर्जितचित्तसंततिर्विपश्यिनः सम्यक्संबुद्धस्य दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन बन्धुमतो राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। बन्धुमतो राज्ञो मङ्गल्याभिषेको हस्तिनागो विपश्यिनः सम्यक्संबुद्धस्य शतशलाकं छत्रमुपरि मूर्घ्नो धारयति, अवशिष्टा हस्तिनागा भिक्षूणाम्। बन्धुमतो राज्ञोऽग्रमहिषी विपश्यिनं सम्यक्संबुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अन्तःपुरिका अवशिष्टानां भिक्षूणाम्। अनङ्गणेन गृहपतिना अवचरकः पुरुषः प्रेषितः-गच्छ भोः पुरुष, पश्य कीदृशेनाहारेण बन्धुमान् राजा बुद्धप्रमुखं भिक्षुसंघं भोजयतीति। स गतस्तां विभूतिं दृष्ट्वा विस्मयावर्जितमनास्तत्रैवावस्थितः। एवं द्वितीयः, तृतीयः प्रेषितः। सोऽपि तत्रैव गत्वा अवस्थितः। ततोऽनङ्गणो गृहपतिः स्वयमेव गतः। सोऽपि तां विभूतिं दृष्ट्वा परं विषादमापन्नः संलक्षयति-शक्यमन्यत् संपादयितुम्। किं तु हस्तिनामन्तःपुरस्य च कुतो मम विभवः ? इति विदित्वा निवेशनं गतो दौवारिकं पुरुषमामन्त्रयते-भोः पुरुष, यदि कश्चिद्याचनक आगच्छति, स यत् प्रार्थयते तद्दातव्यम्, नो तु प्रवेशः। इत्युक्त्वा शोकागारं प्रविश्य अवस्थितः। शक्रस्य देवेन्द्रस्याधस्तात् ज्ञानदर्शनं प्रवर्तते। स संलक्षयति-ये केचिल्लोके दक्षिणीयाः, विपश्यी सम्यक्संबुद्धस्तेषामग्रः, दानपतीनामप्यनङ्गणो गृहपतिः। साहाय्यमस्य कल्पयितव्यम्। इति विदित्वा कौशिको ब्राह्मणवेषमभिनिर्माय येनानङ्गणस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते-गच्छ भोः पुरुष, अनङ्गणस्य गृहपतेः कथय-कौशिकगोत्रो ब्राह्मणो द्वारे तिष्ठति भवन्तं द्रष्टुकाम इति। स कथयति-ब्राह्मण, गृहपतिना अहं स्थापितः-यः कश्चिद् याचनक आगच्छति, स यत् प्रार्थयते, तद्दातव्यं न तु प्रवेश इति। येन ते प्रयोजनं तद्गृहीत्वा गच्छ। किं ते गृहपतिना दृष्टेनेति ? स कथयति-भोः पुरुष, न मम केनचित् प्रयोजनम्। अहं गृहपतिमेव द्रष्टुकामः। गच्छेति। तेनानङ्गणस्य गृहपतेर्गत्वा निवेदितम्-आर्य, कौशिकसगोत्रो ब्राह्मणो द्वारे तिष्ठति आर्यं द्रष्टुकाम इति। स कथयति-गच्छ भोः पुरुष, येन तस्य प्रयोजनं तत् प्रयच्छ-किं तेनात्र प्रविष्टेनेति? स कथयति-आर्य, उक्तो मया एवं कथयति-नाहं किंचित् प्रार्थयामि, अपि तु गृहपतिमेव द्रष्टुकाम इति। स कथयति-भोः पुरुष यद्येवम्, प्रवेशय। स तेन प्रवेशितः। ब्राह्मणः कथयति-कस्मात् त्वं गृहपते करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति ? स गृहपतिर्गाथां भाषते -



न तस्य कथयेच्छोकं यः शोकान्न प्रमोचयेत्।

तस्मै तु कथयेच्छोकं यः शोकात्संप्रमोचयेत्॥१६॥ इति॥



शक्रः कथयति-गृहपते, कस्तव शोकः ? कथय, अहं ते शोकात्प्रमोचयामीति। तेन विस्तरेण समाख्यातम्। अथ शक्रो देवेन्द्रः कौशिकब्राह्मणरूपमन्तर्धाप्य स्वरूपेण स्थित्वा कथयति-गृहपते, विश्वकर्मा ते देवपुत्रः साहाय्यं कल्पयिष्यतीत्युक्त्वा प्रक्रान्तः। अथ शक्रो देवेन्द्रो देवांस्त्रायस्त्रिंशान् गत्वा विश्वकर्माणं देवपुत्रमामन्त्रयते-गच्छ, विश्वकर्मन्, अनङ्गणस्य गृहपतेः साहाय्यं कल्पय। परं भद्रं तव कौशिकेति विश्वकर्मणा देवपुत्रेण शक्रस्य देवेन्द्रस्य प्रतिश्रुत्य आगतः। प्रतिविशिष्टतरा नगरशोभा निर्मिता, दिव्यो मण्डलवाटो दिव्यासनप्रज्ञप्तिर्दिव्य आहारः समन्वाहृतः। ऐरावणो नागराजो विपश्यिनः सम्यक्संबुद्धस्य शतशलाकं छत्रमुपरि मूर्घ्नो धारयति, अवशिष्टा नागा अवशिष्टानां भिक्षूणाम्। शची देवकन्या विपश्यिनं सम्यक्संबुद्धं सौवर्णेन मणिवालव्यजनेन वीजयति, अवशिष्टा अप्सरसो भिक्षून्। बन्धुमता राज्ञा अवचरकः पुरुषः प्रेषितः-गच्छ भोः पुरुष, कीदृशेनाहारेणानङ्गणो गृहपतिः बुद्धप्रमुखं भिक्षुसंघं तर्पयतीति ? स पुरुषस्तत्र गतस्तां विभूतिं दृष्ट्वा तत्रैव अवस्थितः। तेनामात्यः प्रेषितः। सोऽपि तत्रैवावस्थितः। कुमारः प्रेषितः। सोऽपि तत्रैवावस्थितः। ततो बन्धुमान् राजा स्वयमेव तद्द्वारं गत्वा अवस्थितः। विपश्यी सम्यक्संबुद्धः कथयति-गृहपते, बन्धुमान् राजा दृष्टसत्यः। तस्यान्तिके त्वया खरवाक्कर्म निश्चारितम्। स एव द्वारे तिष्ठति। गच्छ क्षमयेति। तेनासौ निर्गत्य क्षमित उक्तश्च-महाराज, प्रविश स्वहस्तेन परिवेषणं कुरु। स प्रविष्टः। पश्यति दिव्यां विभूतिम्। दृष्ट्वा च परं विस्मयमापन्नः कथयति-गृहपते, त्वमेवैकोऽर्हसि दिने दिने बुद्धप्रमुखं भिक्षुसंघं भोजयितुं न वयमिति। अथानङ्गणो गृहपतिर्विपश्यिनं सम्यक्संबुद्धमनया विभूत्या त्रैमास्यं प्रणीतेनाहारेण संतर्प्य पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः-यन्मया एवंविधे सद्भूतदक्षिणीये कारा कृता, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, दिव्यमानुषीं श्रियं प्रत्यनुभवेयम्, एवंविधानां धर्माणां लाभी स्याम्, एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति॥



किं मन्यध्वे भिक्षवो योऽसौ अनङ्गणो नाम गृहपतिः, एष एवासौ ज्योतिष्कः कुलपुत्रस्तेन कालेन तेन समयेन। यदनेन बन्धुमतो राज्ञो दृष्टसत्यस्यान्तिके खरा वाग्निश्चारिता, तस्य कर्मणो विपाकेन पञ्चशतानि समातृकश्चितायामारोप्य ध्मापितः। यावदेतर्हि अपि चितामारोप्य ध्मापितः। यद्विपश्यिनि तथागते कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः। दिव्यमानुषी श्रीः प्रादुर्भूता। मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अहमनेन विपश्यिना सम्यक्संबुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति दिव्यावदाने ज्योतिष्कावदानमूनविंशतिमम्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project