Digital Sanskrit Buddhist Canon

१८ धर्मरुच्यवदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 18 dharmarucyavadānam
१८ धर्मरुच्यवदानम्।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। तेन खलु समयेन पञ्चमात्राणि वणिक्शतानि भाण्डं समुदानीय अनुपूर्वेण ग्रामनिगमपल्लीपत्तनराजधानीषु चञ्चूर्यमाणानि महासमुद्रतटमनुप्राप्तानि। तैर्निपुणतः सामुद्रं यानपात्रं प्रतिपादितम्। यतो वणिजस्तं महासमुद्रं दृष्ट्वा संभिन्नमनसो न प्रसहन्ते समवतरितुम्। पश्चात्तैर्वणिग्भिः कर्णधार उक्तः-उद्धोषय नः पुरुष महासमुद्रस्य भूतं वर्णम्। यतः कर्णधार उद्धोषयितुं प्रवृत्तः-शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन् महासमुद्रे एवंविधानि रत्नानि, तद्यथा-मणयो मुक्ता वैडूर्यशङ्खशिला प्रवालो रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्ताः। य इच्छति एवंरूपै रत्नैरात्मानं सम्यक्सुखेन प्रीणयितुं मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितम्, कालेन च कालं दक्षिणीयेभ्यः श्रमणब्राह्मणेभ्यो दक्षिणां प्रतिष्ठापयितुमूर्ध्वगामिनीं सौभाग्यकरीं सुखविपाकामायत्यां स्वर्गसंवर्तनीम्, सोऽस्मिन् महासमुद्रे अवतरतु धनहेतोः। एवमुक्ते च पुनः सर्व एव सत्त्वाः संपत्तिकामा विपत्तिप्रतिकूलास्तं श्रुत्वा तस्मिन् महासमुद्रे व्यवसिताः समवतरितुम्। यतस्तद्वहनमतिप्रभूतैर्मनुष्यैरतिभारेण च आक्रान्तत्वात् तत्रैवावसीदति। ततः कर्णधारेणोक्तम्-असह्यं वहनम्। यतो वणिजः कथयन्ति-कस्येदानीं वक्ष्यामः वहनात् प्रत्यवतरस्वेति। तैर्वणिग्भिः कर्णधारस्योक्तम्-महासमुद्रस्य भूतं वर्णमुद्धोषयत। ततः स उद्धोषयितुं प्रवृत्तः-शृण्वन्तु भवन्तो जम्बुद्वीपका मनुष्याः, सन्त्यस्मिन् महासमुद्रे इमानि एवंरूपाणि महान्ति महाभयानि, तद्यथा तिमिभयं तिमिंगिलभयमूर्मिभयं कूर्मभयं स्थले उत्सीदनभयं जले संसीदनभयमन्तर्जलगतानां पर्वतानामाघट्टनभयं कालिकावातभयम्। चौरा अपि आगच्छन्ति नीलवाससो धनहारिणः। येन चात्मनो जीवितपरित्यागो व्यवस्थितो मातापितरौ पुत्रदारं दासीदासकर्मकरपौरुषेयं मित्रामात्यज्ञातिसालोहितं चित्रं च जम्बुद्वीपं परित्यक्तुम्, स महासमुद्रमवतरतु। अल्पाः शूरा बहवः कातराः। तं श्रुत्वा तथोद्धुष्य तु तस्माद्यानपात्रादवतीर्णा बहवः, केचिदवशिष्टाः। ततस्तैर्वणिग्भिर्वहनस्यैकं वरत्रं छिन्नम्। पश्चाद् द्वौ त्रयो यावदनुपूर्वेण सर्वे वरत्राश्छिन्नाः। तासु छिन्नासु तद्वहनं महाकर्णधारसंप्रेरितं गगने महावातसंप्रेरितो मेघ इव बलवद्वायुसंप्रेरितं क्षिप्रमेव संप्रस्थितम्। यावद्रत्नद्वीपमनुप्राप्तः। स तं प्रदेशमनुप्राप्तानां कर्णधारः कथयति-सन्त्यस्मिन् रत्नद्वीपे काचमणयो रत्नसदृशाः, ते भवद्भिरुपपरीक्ष्योपपरीक्ष्य गृहीतव्याः। मा वः पश्चाज्जम्बुद्वीपगतानां ताप्यं भविष्यति। तत्रैव च क्रोञ्चकुमारिका नाम स्त्रियो भवन्ति। ताः पुरुषं लब्ध्वा तथोपलांस्ताडयन्ति, यथा अत्रैवानयेन व्यसनमापद्यते। अत्रैव च मदनीयानि फलानि भवन्ति। तानि यो भक्षयति, स सप्त रात्रिंदिवसान् सुप्तस्तिष्ठति। अस्मिन्नेव च रत्नद्वीपे सप्ताहात् परेण अमनुष्या न सहन्ते, तावद्विधान् विपरीतान् वायूनुत्पादयन्ति यैर्वहनमपह्रियते यथापि तदकृतकार्याणाम्। तानि भवद्भिर्लब्धानि न भक्षयितव्यानि। तच्छ्रुत्वा वणिजोऽवहितमनसोऽप्रमादेनावस्थिताः। प्राप्य च तं रत्नद्वीपं प्रयत्नमास्थाय रत्नान्वेषणं कृत्वा अनुपूर्वेणोपपरीक्ष्य रत्नानां तद्वहनं पूरितं तद्यथा यवानां वा यवसस्यानां वा मुद्गानां वा माषाणां वा। वहनं पूरयित्वा तेऽनुकूलं जम्बुद्वीपाभिमुखेन वायुना संप्रस्थिताः। महासमुद्रे च त्रिभिः स्कन्धैः प्राणिनः संमिश्रिताः। प्रथमे योजनशतिका आत्मभावाः, द्विस्त्रियोजनशतिका आत्मभावाः। द्वितीये स्कन्धेऽष्टयोजनशतिका आत्मभावा नवदशयावच्चतुर्दशयोजनशतिका आत्मभावाः। तृतीये स्कन्धे पञ्चदशयोजनशतिका आत्मभावाः, षोडशयोजनशतिका यावदेकविंशतिका आत्मभावाः। तत्र च महासमुद्रे ता मत्स्यजातयः परस्परान्योन्यभक्षणपराः। ये प्रथमायां भूमौ अवस्थिताः, ते द्वितीयभूमिस्थैर्भक्ष्यन्ते। ये द्वितीयभूमिस्थाः, ते तृतीयभूमिस्थैर्भक्ष्यन्ते। तत्र तिमिंगिलो नाम मत्स्यस्तृतीयादुदकस्कन्धादभ्युद्गम्य उपरिमन्दकस्कन्धमादाय चरति। स यस्यां वेलायां मुखमावृणोति, तस्यां वेलायां महासमुद्रात् पानीयं महता वेगेनाक्षिप्तं मुखद्वारं यतो धावति। तेनैवोदकस्कन्धेनाक्षिप्ता मत्स्यकच्छपवल्लभकशुशुमारमकराद्या मत्स्यजातयो मुखद्वारेणोदरे पतन्ति। तस्यैवं चरत आत्मभावाच्छिर एवं लक्ष्यते दूरत एव, तद्यथा-पर्वतो नभःप्रमाणः। अक्षीणि चास्य दूरत एव संलक्ष्यन्ते नभसीवादित्यौ। यतस्तैर्वणिग्भिर्दूरत एवोपधारितम्। तन्महार्णवरूपमुपधार्य चिन्तयितुं प्रवृत्ताः-किमेतद्भवन्त आदित्यद्वयस्योदयनम् ? तेषामेवं चिन्तयतां तद्वहनं तस्य मुखद्वारं यतो वेगेनोपहर्तुमारब्धम्। तेषां वहनं वेगेनापह्रियमाणं दृष्ट्वा आदित्यद्वयोत्पादनं च संलक्ष्य संवेग उत्पन्नः - किं भवन्तो यत् तच्छ्रूयते सप्तादित्याः कल्पसंवर्तन्यां समुदागमिष्यन्तीति, तदेवेदानीं प्रोदिताः स्युः। यतः कर्णधारेण तेषां विमर्शजातानामुक्तम्-यत् तद्भवन्तः श्रूयते तिमितिमिंगिल इति, तिमितिमिंगिलभयमिदम्। तत् पश्यन्तु भवन्तः। पानीयादभ्युद्गतपर्वतवदालोक्यते एतत्तस्य शिरः। पश्यथ चैषा परा लोहितिका राजिर्यदेतौ तस्योष्ठौ। पश्यथ एतामपरा अवदाता माला चैषा तस्य दन्तमाला। पश्यथ एतौ दूरत एव सूर्यवदवलोक्येते एतौ अक्षितारकौ। पुनरसौ कर्णधारो वणिजां कथयति- शृण्वन्तु भवन्तः, नास्माकमिदानीं जीवितोपायः कश्चिद्येन वयमस्माद्भयात् मुच्येम। सर्वेषामेवास्माकं मरणं प्रत्युपस्थितम्। तदिदानीं भवद्भिः किं करणीयम् ? यस्य वो यस्मिन् देवे भक्तिः स तमायाचतु। यदि तेनापि तावदायाचनेन काचिद्देवता अस्माकमस्मान्महाभयाद्विमोक्षणं कुर्यात्। न चान्योऽस्ति कश्चिदुपायो जीवितस्य। यतस्तैर्वणिग्भिर्मरणभयभीतैः शिववरुणकुबेरमहेन्द्रोपेन्द्रादयो देवा जीवितपरित्राणार्थमायाचितुमारब्धाः। नैव च तेषामायाचतां तस्मान्मरणभयात् जीवितपरित्राणविशेषः कश्चित्। तथैव तद्वहनं सलिलवेगात् क्षिप्तं तिमिंगिलमुखद्वारं यतोऽपह्रियते। तत्र चोपासकोऽभिरूढः। तेनोक्तम्-भवन्तः, नास्माकमस्मान्मरणभयान्मोक्षः कश्चित्। सर्वैरेवास्माभिर्मर्तव्यम्। किं तु सर्व एवैकरवेण नमो बुद्धायेति वदामः। सति मरणे बुद्धावलम्बनया स्मृत्या कालं करिष्यामः। सुगतिगमनं भविष्यति। यतस्तैर्वणिग्भिरेकरवेण नमो बुद्धायेति प्रणामः कृतः सर्वैरेव। भगवता च जेतवनस्थेन स वादः श्रुतो दिव्येन श्रोत्रेण विशुद्धेन अतिक्रान्तमानुषेण। श्रुत्वा च पुनर्भगवता स नादस्तथा अधिष्ठितो यथा तेन तिमिंगिलेन श्रुतम्। तस्य तं नमो बुद्धायेति रावं श्रुत्वा मनसोऽमर्ष उत्पन्नो विक्लवीभूतश्च-बुद्धो बत लोक उत्पन्नः। न मम प्रतिरूपं स्यात् यदहं बुद्धस्य भगवतो नामोद्धोषं श्रुत्वा आहारमाहरेयम्। स चिन्तयितुं प्रवृत्तः-यद्यहमिदानीं सहसैव मुखद्वारं पिधास्यामि, सलिलवेगप्रत्याहतस्य वहनस्य विनाशो भविष्यति, एतेषां चानेकानां जीवितविनाशः। यन्न्वहं मृदुनोपक्रमेण स्वैरं स्वैरं मुखद्वारं संपिदध्याम्। ततस्तेन तिमिंगिलेनात्मीयं मुखद्वारं मृदुनोपक्रमेण स्वैरं स्वैरं पिहितम्। पश्चात् तद्वहनं तस्मान्महाग्राहमुखाद्विनिर्मुक्तमनुगुणं वायुमासाद्य तीरमनुप्राप्तम्। अथ ते वणिजस्तीरमासाद्य तद्भाण्डं शकटोष्ट्रगोगर्दभादिभिः पूरयित्वा अनुपूर्वेण ग्रामनिगमपल्लीपत्तनादिषु चञ्चूर्यमाणाः श्रावस्तीमनुप्राप्ताः। ते तत्र गत्वा संलक्षयन्ति-धर्मतैषा यस्य नाम्ना वहनं संसिद्धयानपात्रमागच्छति, तस्यैव तानि रत्नानि गम्यानि भवन्ति। यन्नु वयमेतानि रत्नानि बुद्धस्य भगवतो दद्यामः। ते तानि रत्नानि संगृह्य भगवतः सकाशमुपगताः। अनुपूर्वेण भगवतः पादौ शिरसा वन्दित्वा भगवतः कथयन्ति-भगवन्, अस्माकं समुद्रे यानपात्रेणावतीर्णानां तिमिंगिलग्राहेण तस्मिन् यानपात्रेऽपह्रियमाणे जीवितविनाशे प्रत्युपस्थिते भगवतः स्मरणपरायणानां नामग्रहणं तस्मात् महाग्राहमुखाद्विनिर्मुक्तम्, ततो वयं भगवन् संसिद्धयानपात्राः क्षेमस्वस्तिना इहागताः। धर्मता चैषा यस्य नाम्ना वहनं संसिद्धयानपात्रा आगच्छन्ति, तस्य तद्गम्यं भवति। तद्वयं भगवतो नामग्रहणेन मरणभयादुत्तीर्णाः। तदस्माकमेतानि रत्नानि भगवान् गृह्णातु। भगवानाह-येन मयेन्द्राय (?) बलबोध्यङ्गरत्नान्यधिगतानि, किं तथागतस्य भूयः प्राकृतरत्नैः करणीयम् ? यदि चेच्छत अस्मच्छासने वत्साः प्रव्रजितुम्, आगच्छथ। यतस्ते संलक्षयन्ति वणिजः-यदस्माकं किंचित् जीवितम्, तत्सर्वं बुद्धस्य भगवतस्तेजसा। यद्वयमेतानि रत्नानि त्यक्त्वा भगवतोऽन्तिके प्रव्रजेम इति। पश्चात् ते तानि रत्नानि मातापितृभ्यः पुत्रदारदासीदासकर्मकरमित्रामात्यज्ञातिसालोहितेभ्यो यथान्यायतः संविभज्य प्रव्रजिताः। प्रव्रज्य तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिर्यावदर्हत्त्वं साक्षात्कृतम्॥



यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-कीदृशानि कर्माणि भगवन्, एभिर्वणिग्भिः कृतान्युपचितानि, येषां कर्मणां विपाकेन भगवानारागितो न विरागितः ? भगवानाह-



भूतपूर्वं भिक्षवः काश्यपः सम्यक्संबुद्धो लोक उत्पन्नोऽभूत्। तस्य च शासने एत एव च प्रव्रजिता अभूवन्। तत्र प्रव्रज्य च न कश्चित् तद्रूपो गुणगणोऽधिगतो नान्यत्र सब्रह्मचारिणामुद्दिष्टमधीतं स्वाध्यायितं च। मरणकालसमये प्रणिधानं कृतवन्तः - यदस्माभिः काश्यपं सम्यक्संबुद्धमासाद्योद्दिष्टमधीतं स्वाध्यायितं च, न कश्चित् गुणगणोऽधिगतोऽस्ति, अस्य कर्मणो विपाकेन वयं योऽसौ अनागतेऽध्वनि काश्यपेन सम्यक्संबुद्धेन शाक्यमुनिनर्मा सम्यक्संबुद्धो व्याकृतः, तं वयमारागयेमो न विरागयेमः॥



भगवानाह-किं मन्यध्वे भिक्षवो यानि तानि पञ्चभिक्षुशतान्यतीतेऽध्वन्यासन् काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितानि, एतावन्त्येतानि पञ्चभिक्षुशतानि। तदा चैषामिन्द्रियाणि परिपाचितानि, एतर्हि अर्हत्त्वं साक्षात्कृतम्। यश्चासौ महासमुद्रे तिमिस्तिमिंगिलो नाम मत्स्यो बुद्धशब्दं श्रुत्वा अनाहारतायां व्यवस्थितः, स स्वभावेनैव तीक्ष्णाग्नितया क्षुद्दुःखस्यासहत्वाच्च्युतः कालगतः। तेन श्रावस्त्यां षट्कर्मनिरते ब्राह्मणकुले प्रतिसंधिर्गृहीतः। तस्य तच्छरीरं कलेवरं महासमुद्रे उत्प्लुतम्। नागैश्च तस्य स्वभवनसमीपस्थस्य गन्धमसहद्भिरन्यतो विक्षिप्तम्। यत्र च विक्षिप्तं तत्रापि समीपे नागस्यैव भवनम्। तेनापि गन्धमसहता अन्यतः क्षिप्तम्। एवं क्षिप्तेन पारंपर्येण तत् कलेवरं महासमुद्रतटं समुदानीतम्। यतोऽनन्तरं समुद्रवेलयोत्सार्य स्थले प्रक्षिप्तम्। तच्चानेकैः काकगृध्रश्वशृगालश्वापदाद्यैः पक्षिभिस्तत्समुच्छ्रितैश्च कृमिभिर्भक्ष्यमाणमस्थिकरङ्कजीर्णमांसं श्वेतं श्वेतं व्यवस्थितम्।

अस्यां च श्रावस्त्यां तस्य ब्राह्मणस्य यदा पत्नी अन्तर्वर्तिनी संवृत्ता, तदेव तस्या गर्भोत्पादादतीव क्षुद्दुःखेन पीड्यमानया गृहस्वाम्यभिहितः - आर्यपुत्र, क्षुद्दुःखेनातीव बाध्ये। तस्या एवं वदन्त्या गृहस्वामिनोक्तम्-भद्रे, यदस्मद्गृहेऽन्नपानं तत्सर्वमभ्यवहरस्व। तया अभ्यवहर्तुमारब्धम्। सा च तदन्नपानं सर्वमभ्यवहृत्य नैव तृप्तिमुपयाति। पुनरपि गृहस्वामिनं विज्ञापयति-आर्यपुत्र, नैव तृप्तिमुपगच्छामि। यतस्तेन तिरःप्रातिवेश्यसुहृत्स्वजनादिभ्योऽन्तिकदन्नपानमन्विष्य तस्या अनुप्रदत्तम्। सा तमप्यवहृत्य नैव तृप्तिं गच्छति। भूयो गृहस्वामिनः कथयति-आर्यपुत्र, नैव तृप्तिमुपगच्छामि। यतोऽसौ ब्राह्मणः संविग्नमनाः खेदमापन्नः। किमेतद्भवन्तः स्यात्-अस्याः सत्त्वमुदरे उत्पन्नं यस्योत्पादान्नैव तृप्तिमुपयाति ? यतः स ब्राह्मणो नैमित्तकानां दर्शयित्वा संशयनिर्णयनार्थं वैद्यादीन् भूततन्त्रविदश्च-पश्यन्तु भवन्तः, इयं ब्राह्मणी किं महता रोगेणाभिभूता स्यादथ भूतग्रहाविष्टा स्यादन्यद्वा स्याद्रूपं मरणलिङ्गमनेनोपक्रमेण प्रत्युपस्थिता स्यात्। तैः श्रुत्वा तथाविध उपक्रमः कृतः। तस्या ब्राह्मण्यास्ते इन्द्रियाणामन्यथात्वमुपलक्षयन्ति। यदा अस्या इन्द्रियाणामन्यथात्वं नोपलक्षयन्ति, तदा तैर्वैद्यनैमित्तकभूततन्त्रविद्भिश्चिकित्सकैः सा ब्राह्मणी पर्यनुयुक्ता-कस्मात् कालादारभ्य तवैवंविधा दीप्ताग्निता समुत्पन्ना ? तया अभिहितम्-गर्भलम्भसमकालमेव स एवंविध उपक्रमः कृतः। यतो नैमित्तकवैद्यचिकित्सकैरभिहितम्-नास्याः कश्चिदन्यस्तद्रुपो रोगो नापि भूतग्रहावेशो बाधाकर उत्पन्नः। अस्यैवैषा गर्भस्यानुभावेनैवंविधा दीप्ताग्निता। यतोऽसौ ब्राह्मण उपलब्धवृत्तान्तः स्वस्थीभूतः। सापि ब्राह्मणी नैव कदाचिदन्नपानस्य तृप्ता। अनुपूर्वेण समकालमेव पुत्रो जातः। तस्य दारकस्य जातमात्रस्य सा ब्राह्मणी विनीतक्षुद्दुःखा संवृत्ता। स दारको जातमात्र एव अत्यर्थं बुभुक्षयोपपीड्यते। तस्य बुभुक्षया पीड्यमानस्य माता स्तनं दातुं प्रवृत्ता। स च दारकः स्तनं पीत्वापि सर्वं नैव तृप्तिमुपयाति। पश्चात् तेन ब्राह्मणेन तया च ब्राह्मण्या तिरस्कृतप्रातिवेश्यस्वजनयुवत्यश्चाभ्यर्थ्य स्तनं तस्य दारकस्य दापयितुं प्रवृत्ताः। स च दारकः सर्वासामपि स्तनं पीत्वा नैव तृप्तिमभ्युपगच्छते। पश्चात् तेन ब्राह्मणेन तस्यार्थे छगलिका कृता। स दारकस्तस्या अपि च्छगलिकायाः क्षीरं पीत्वा जनिकायाश्च स्तनं नैव तृप्यते। तत्र गृहे कालेन कालं भिक्षवो भिक्षुण्यश्च पिण्डपातं प्रविश्य परिकथां कुर्वन्ति। स दारकस्तां परिकथां श्रुत्वा तस्यां वेलायां न रोदिति, अवहितश्रोत्रस्तूष्णीभूत्वा तां धर्मश्रवणकथां शृणोति। प्रत्यवसृतेषु भिक्षुभिक्षुणीषु च पुनः पिपासादुःखं प्रतिसंवेदयमानो रोदितुं प्रवृत्तः। तैः संलक्षितम्-धर्मे वत्साय रुचिरिति। तस्य धर्मरुचीति नाम प्रतिष्ठापितम्। स च दारकोऽनुपूर्वेण मासार्धमासादीनामत्ययाद्भुञ्जानो नैव कदाचिदन्नपानस्य तृप्यति। यदा च विशिष्टे वयसि स्थितः, तदा तस्य मातापितृभ्यां भैक्षभाजनं दत्तम्। गच्छ वत्स, इदं ते भैक्षभाजनम्। गृहीत्वा श्रावस्त्यां भिक्षां पर्यटित्वा आहारकृत्यं कुरु। यतः स दारको भैक्षभाजनं गृहीत्वा श्रावस्त्यां भैक्षं पर्यटति। पर्यटन्नेव च भुक्त्वा भुक्त्वा अतृप्यमान एव गृहमागच्छति। यतोऽसौ संलक्षयति- किं मया कर्म कृतं यस्य कर्मणो विपाकेन न कदाचित् वितृप्यमान आहारमारागयामि ? स विषण्णचेताश्चिन्तयितुं प्रवृत्तः-किं तावदग्निप्रवेशं करोमि, उत जलप्रवेशमथ तटप्रपातं करोमि ? स एवं चिन्तया स्थितः। उपासकेनोपलक्षितः। तस्य तेनोक्तम्-किं चिन्तापर एवं तिष्ठसि ? गच्छ त्वम्। महान्तं बुद्धशासनं महर्द्धिकं महानुभावम्। तत्र प्रव्रज। तत्र च त्वं प्रव्रजितः कुशलानां धर्माणां संचयं करिष्यसि। अकुशलाश्च ते धर्मा येऽस्मिन्नपि जन्मनि संचिता भविष्यन्ति, ते तन्वीभविष्यन्ति। यदि तावद्गुणगणानधिगमिष्यसि, पर्यन्तीकृतस्ते संसारो भविष्यति। अथ स महात्मा उपासकेन चोदितो जेतवनं गतः। जेतवनं गत्वा तत्र भिक्षून् पाठस्वाध्यायमनसिकारोद्युक्तान् दृष्ट्वा अतीव प्रसादजातः। भिक्षुमुपसंक्रम्यैवं वदति-आर्य, प्रव्रजितुमिच्छामि। यतो भिक्षुभिरुक्तः-मातापितृभ्यामनुज्ञातोऽसि ? स कथयति- नाहं मातापितृभ्यामनुज्ञातः। तैरुक्तः-गच्छ वत्स, मातापितृभ्यामनुज्ञां मार्गस्व। यतः स मातापितृभ्यां सकाशादनुज्ञां मार्गितुं प्रवृत्तः। स मातापितृभ्यामभिहितः-गच्छ वत्स, यथाभिप्रेतं कुरु। स लब्धानुज्ञो भिक्षुसकाशं गतः। पश्चाद्भिक्षुणा प्रव्राजितः। तत्र च भिक्षूणां कदाचित् पिण्डपातो भवति, कदाचित् निमन्त्रणं भवति। स च यस्मिन् दिवसे पिण्डपातो भवति, तत्रोपाध्यायेनोच्यते-वत्स, किं तृप्तोऽसि उत न ? स उपाध्यायस्य कथयति-नास्ति तृप्तिः। यत उपाध्यायेनास्य संलक्षितः-तरुणवयसा प्रव्रजितो दीप्ताग्नितया न तृप्तिमुपयाति। स आत्मीयादपि पिण्डपातात् तस्य संविभागं प्रारब्धः कर्तुम्। पुनश्च पृच्छति-वत्स, किमिदानीं तृप्तोऽसि ? अथ स तमुपाध्यायं वदति-न तृप्तोऽस्मि। यत उपाध्यायस्तं श्रुत्वा सप्रेमान् भिक्षूनन्यांश्च सार्धविहारिणः प्रारब्धो वक्तुम्। यतः समानोपाध्यायैः समानाचार्यैरन्यैश्च सप्रेमकैर्भिक्षुभिरुपसंहार आरब्धः कर्तुम्। तेषामन्तिकाल्लभमानो नैव तृप्तिमुपयाति। यदा च निमन्त्रणं भवति, तदापि ते तथैव तस्योपसंहारं कुर्वन्ति। दानपतिरपि विदित्वा यद्यदधिकं तत्तदस्मै दत्वा आगच्छति। अथ पानकं भवति तदपि तथैव यदधिकं भवति तत्तस्यानुप्रदीयते। तस्य च यतः प्रव्रजितस्य न कदाचिदन्नपानेन कुक्षिः पूर्णः। तेन खलु समयेन अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघ उपनिमन्त्रितः। भगवान् भिक्षुसंघेन सार्धमन्तर्गृहं प्रविष्टः पूर्वाह्णे निवास्य पात्रचीवरमादाय। धर्मरुचिर्विहारे उपधिवारिको व्यवस्थापितः॥



तत्र च श्रावस्त्यामन्यतमो गृहपतिः प्रतिवसति। तेन चैवमुपलब्धं योऽसंविदितमेव बुद्धप्रमुखं भिक्षुसंघं भोजयति स सहसैव भोगैरभ्युद्गच्छति। यतस्तेन पञ्चमात्राणां भिक्षुशतानामाहारः समुदानीतः। स तस्याहारस्य शकटं पूरयित्वा प्रणीतप्रणीतस्य शुचिनः सार्धं सर्वरूपैर्मित्रस्वजनसहायो बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति विहारं निर्गतः। स पश्यति तस्मिन् जेतवने भिक्षव एव न सन्ति। तेन तत्रान्वाहिण्डता उपधिवारिको धर्मरुचिर्दृष्टः। तस्य तेन गृहपतिनोक्तम्-आर्य, क्क गता भिक्षवः ? स कथयति-अन्तर्गृहे उपनिमन्त्रिताः प्रविष्टाः। स गृहपतिस्तच्छुत्वा दुर्मना व्यवस्थितः-कष्टम्, एवमस्माकं विफलः परिश्रमो जातः। संचिन्त्य च तस्य धर्मरुचेः कथयति- आर्य, भक्ष त्वमपि तावत्। स कथयति- यदि ते महात्मन् परित्यक्तं भवति। ततस्तेन गृहपतिना संलक्षयित्वा येनाहारेणैकस्य भिक्षोः पर्याप्तं भवति, तावदन्नपानं शकटं गृहीत्वा तं धर्मरुचिं परिवेषयितुं प्रवृत्तः। तेन धर्मरुचिना भोक्तुमारब्धं तन्निरवशिष्टम्। नैव तृप्तः। गृहपतिः संलक्षयति-नायं तृप्तः। तेन उच्यते-आर्य, पुनर्भोक्ष्यसे ? स कथयति-महात्मन्, यदि ते परित्यक्तम्। ततस्तेन गृहपतिना भूयस्तस्मात् शकटाद्येन भिक्षुद्वयस्याहारेण पर्याप्तं स्यात्, तावदन्नपानं शकटं गृहीत्वा भोजयितुं प्रवृत्तः। यतो धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। गृहपतिना भूयः संलक्षितम्-नायं तृप्तः। तेनोक्तम्-आर्य, पुनर्भोक्ष्यसे ? स कथयति-महात्मन्, यदि ते परित्यक्तम्। यतस्तस्माच्छकटादन्नपानं गृहीत्वा त्रयाणां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः। स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। पृष्टः- आर्य, पुनर्भोक्ष्यसे ? स कथयति-यदि ते परित्यक्तम्। यतः स गृहपतिस्तस्मादन्नपानं गृहीत्वा येन चतुर्णां भिक्षूणां पर्याप्तं स्यादिति पुनर्भोजयितुं प्रवृत्तः। स धर्मरुचिस्तदपि भुक्त्वा नैव तृप्तः। पृष्टः- आर्य, पुनर्भोक्ष्यसे ? भूयः स कथयति-यदि ते परित्यक्तम्। यतः पुनस्तस्माच्छकटाद्येन पञ्चभिक्षूणामन्नपानैस्तृप्तिः स्यात्, तावद्गृहीत्वा पुनर्भोजयितुं प्रवृत्तः। तदपि चाभ्यवहृतम्। नैव तृप्तः। विस्तरेण यावद्दशानां भिक्षूणामन्नपानेन पर्याप्तं स्यात्, तावद् भुक्त्वा नैव तृप्यते। यतस्तेन संलक्षितम्-नायं मनुष्यो मनुष्यविकारः। यतः श्रूयते पञ्चभिर्नीलवाससो यक्षशतैर्जेतवनमशून्यमिति तेषां भविष्यत्येव अन्यतमः। इति संचिन्त्य गर्भरूपाणि गृहेऽनुप्रवेशयितुं प्रवृत्तः- गच्छथ यूयं शीघ्रं गृहमेव, अहमेवैको यदि जीवामि म्रिये वेति। स गृहजनं विसर्ज्य मरणभयभीतस्तस्मात् शकटादन्नपानं गृहीत्वा परिवेषयितुमारब्धः। स च स्वैरं भुञ्जति। गृहपतिना उक्तम्- आर्य, त्वरितत्वरितं प्रतीच्छस्व। यतस्तेन धर्मरुचिना क्षिप्रं प्रतिगृहीत्वा भोक्तुमारब्धम्। स गृहपतिस्त्वरितत्वरितं परिवेषयित्वा निरवशेषतस्तदन्नपानं शकटं दत्त्वा दक्षिणादेशनामपि भयगृहीतोऽश्रुत्वा त्वरितत्वरितं वन्दाम्यार्येति पृष्ठमनवलोकयमानो नगरं प्रस्थितः। तस्मान्नगरात् पिण्डपातनिर्हारको भिक्षुः तस्यैव पिण्डपातं गृहीत्वा गतः। तेन तदपि भुक्तम्। तस्य धर्मरुचेर्न कदाचिद्यतो जातस्य कुक्षिः पूर्णः। तद्दिवसं चास्य तेनाहारेण तृप्तिर्जाता। तस्य च गृहपतेर्नगरं प्रविशतोऽभिमुखं भगवान् भिक्षुसंघपरिवृत्तः संप्राप्तः। स गृहपतिर्भगवतः कथयति- भगवन्, अहं बुद्धप्रमुखं भिक्षुसंघमुद्दिश्य पञ्चानां भिक्षुशतानां तृप्तितः शकटमन्नपानस्य पूरयित्वा जेतवनं गतो बुद्धप्रमुखं भिक्षुसंघं भोजयिष्यामीति। न च मे तत्र भिक्षवो लब्धाः। एको मे भिक्षुर्दृष्टः। तेन समाख्यातं बुद्धप्रमुखं भिक्षुसंघमन्तर्गृहं उपनिमन्त्रणं प्रविष्टम्। तस्य ममैवं चित्तमुत्पन्नम्-एषोऽपि तावदेको भुङ्क्तामिति। यतस्तस्य ममानुपूर्वेण सर्वं तदन्नपानं शकटं दत्तम्। तेन सर्वं निपुणतोऽभ्यवहृतम्। किं भगवन् मनुष्योऽथ वा अमनुष्यः ? भगवताभिहितम्-गृहपते, भिक्षुः स धर्मरुचिर्नाम्ना। प्रामोद्यमुत्पादय, अद्य स त्वदीयेनान्नपान्नेन तृप्तोऽर्हत्त्वं साक्षात्करिष्यति॥



अथ भगवान् जेतवनमभ्यागतः। भगवान् संलक्षयति-कोऽसौ दानपतिर्भविष्यति योऽस्य धर्मरुचेरेतावता आहारेण प्रतिदिवसं योगोद्वहनं करिष्यति ? यतोऽस्य भगवता अभिहितम्-दृष्टस्त्वया धर्मरुचे महासमुद्रः। स कथयति-नो भगवन्। यतो भगवानाह-गृहाण मदीयं चीवरकर्णिकम्, पश्चात् तेऽहं महासमुद्रं दर्शयामि। यतो धर्मरुचिना भगवतश्चीवरकर्णिकोऽवलम्बितः, पश्चाद्भगवान् विततपक्ष इव हंसराजः सहचित्तोत्पादात् ऋद्ध्या धर्मरुचिं गृहीत्वा समुद्रतटमनुप्राप्तः। यस्मिंश्चास्य स्थाने तिमितिमिंगिलभूतस्यास्थिशकला तिष्ठति, तत्र नीत्वा स्थापितः। उक्तं चास्य- गच्छ वत्स, मनसिकारं चिन्तय। यतोऽसौ धर्मरुचिस्तां समीक्षितुमारब्धः। किमेतत् काष्ठं स्यादथास्थिशकला, अथ फलकिनी स्यात्। स तस्माद् व्यक्तिमलभमानः पर्यन्तमन्वेषितुं प्रवृत्तः। व्यक्तिं चोपलब्धम्। स इतश्चामुतश्च तस्या अनुपार्श्वेन तां पर्येषमाणः श्रममुपगतः। न चास्य पर्यन्तमासादयति। तस्यैतदभवत्-नाहमस्य व्यक्तिं ज्ञास्यामि किमेतदिति, न च पर्यन्तमासादयिष्ये। गच्छामि, अस्मिन्नर्थे भगवन्तमेव पृच्छामि।यतोऽसौ भगवतोऽन्तिकं गत्वा भगवन्तं पृच्छति-किं तद्भगवन् ? नाहं तस्य व्यक्तिमुपलभामि। यतोऽस्य भगवानाह-वत्स, अस्थिशकलैषा। स कथयति-भगवन्, एवंविधोऽसौ सत्त्वो यस्येदृशी अस्थिशकला ? भगवतोक्तम्-तृप्यस्व धर्मरुचे भवेभ्यः, तृप्यस्व भवोपकरणेभ्यः। तवैषा अस्थिशकला। धर्मरुचिस्तं श्रुत्वा भगवद्वचो व्याकुलितचेताः कथयति-ममैषेदृशी अस्थिशकला ? तस्योक्तम्-एषा धर्मरुचे तवास्थिशकला। तथाविधमुपश्रुत्य अतीव संविग्नः। यतोऽस्य भगवता अववादो दत्तः-धर्मरुचे, इदं चेदं मनसिकुरु। इत्युक्त्वा भगवान् विततपक्ष इव राजहंस ऋद्ध्या जेतवनमनुप्रातः। अथ धर्मरुचिना चिन्तयता मनसिकारमनुतिष्ठता उष्मगतान्युत्पादितानि मूर्धानः क्षान्तयो लौकिका अग्रधर्मा दर्शनमार्गो भावनामार्गः। स्रोत‍आपत्तिफलं प्राप्तम्। सकृदागामिफलमनागामिफलमर्हत्त्वं प्राप्तम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तोऽनुनयप्रतिघप्रहीणो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखो वासीचन्दनकल्पः। सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। समन्वाहर्तुमात्मनः पूर्वजातिं प्रवृत्तः-कुतो ह्यहं च्युतः, कुत्रोपपन्न इति। यतः पश्यति अनेकानि जातिशतानि नरकतिर्यक्प्रेतच्युतश्चोपपन्नश्च। तस्यैतदभवत्-यदहं भगवता न समन्वाहृतोऽभविष्यम्, अनागतास्वपि जातिषु उपसृतोऽभविष्यम्। यतः संलक्षयति-अनागताप्यात्मनो जातिसंततिर्निरन्तरमनुपरतप्रबन्धेन नरकप्रेतोपपत्तिः। स एवं संलक्ष्य दुष्करकारको बत मे भगवान्। यदि च भगवता ममैवैकस्यार्थेऽनुत्तरा सम्यक्संबोधिरधिगता स्यात्, तन्महद्धि उपकृतं स्यात्, प्रागेवानेकेषां सत्त्वसहस्राणामपायगतिगमनमपनयति। ततोऽसौ धर्मरुचिरृद्ध्या जेतवनमनुप्राप्तो भगवन्तं दर्शनाय। तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णोऽभूत्। धर्मं देशयति। अथासौ धर्मरुचिर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्। एकान्तनिषण्णो भगवता अभिहितः-चिरस्य धर्मरुचे ? धर्मरुचिराह-चिरस्य भगवन्। भगवानाह-सुचिरस्य धर्मरुचे ? धर्मरुचिराह-सुचिरस्य भगवन्। भगवानाह-सुचिरचिरस्य धर्मरुचे ? धर्मरुचिराह-सुचिरचिरस्य भगवन्॥



यतो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-भगवन् धर्मरुचिरिहैव श्रावस्त्यां जातोऽस्मिन्नेव जेतवने प्रव्रजितो न कुतश्चिदागतो न कुत्रचिद्गतः। इहैव तिष्ठन् भगवता धर्मरुचिरेवमुच्यते-चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुचे। किं संधाय भगवान् कथयति ? एवमुक्ते भगवान् भिक्षूनामन्त्रयते स्म-न भिक्षवः प्रत्युत्पन्नं संधाय कथयामि। अतीतं संघाय कथयामि। अतीतं संघाय मयैवमुक्तम्। इच्छथ भिक्षवोऽस्य धर्मरुचेः पूर्विकां कर्मप्लोतिमारभ्य धर्मिकथां श्रोतुम् ? एतस्य भगवन् कालः, एतस्य सुगत समयो यद्भगवान् धर्मरुचिमारभ्य भिक्षूणां धर्मिकथां कुर्यात्। भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति॥



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि प्रथमेऽसंख्येये क्षेमंकरो नाम तथागतो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। स च क्षेमावतीं राजधानीमुपनिश्रित्य विहरति। तस्यां च क्षेमावत्यां क्षेमो नाम राजा राज्यं कारयति। तस्यां च क्षेमावत्यां राजधान्यामन्यतमो वणिक्श्रेष्ठी प्रतिवसति। तेनासौ क्षेमंकरः सम्यक्संबुद्धः षष्टिं त्रैमासान् सार्धं भिक्षुसंघेन सर्वोपकरणैरुपस्थितः। यतोऽसौ श्रेष्ठी संलक्षयति-गच्छामि महासमुद्रम्। भाण्डं समुदानीय तस्माच्च रत्नान्यानीय संघे पञ्चवार्षिकं करिष्यामीति। एवं संचिन्त्य भाण्डं समुदानीय ग्रामनिगमपल्लीपत्तनराजधानीष्वनुपूर्वेण चञ्चूर्यमाणः समुद्रमनुप्राप्तः। घण्टावघोषणं कृत्वा सामुद्रेण यानपात्रेण महासमुद्रमवतीर्णः। अस्य तस्मिन् महासमुद्रेऽवतीर्णस्य क्षेमंकरः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः। तस्य परिनिर्वृतस्य वशिनो भिक्षवः परिनिर्वृताः। सप्ताहपरिनिर्वृतस्य शासनमन्तर्हितम्। स च श्रेष्ठी संसिद्धयानपात्रेण देवतामानुष्यपरिगृहीतेन तस्मान्महासमुद्रात् तीर्णः। उत्तीर्य च तं भाण्डं शकटैरुष्ट्रैर्गोभिर्गर्दभैश्च चोत्क्षिप्य अनुपूर्वेण संप्रस्थितः। स च पन्थानं गच्छन् प्रातिपथिकान् पृच्छति-किं भवन्तो जानीध्वं क्षेमावत्यां राजधान्यां प्रवृत्तिः ? तैरुक्तम्-जानीमः। स कथयति-अस्ति कश्चित् क्षेमावत्यां राजधान्यां क्षेमंकरो नाम सम्यक्संबुद्धः ? ते कथयन्ति-परिनिर्वृतः स भगवान् क्षेमंकरः सम्यक्संबुद्धः। स च तच्छ्रुत्वा परं खेदमुपगतः। संमूर्छितश्च भूमौ पतितः। तस्माच्च जलाभिषेकेण प्रत्यागतप्राणो जीवित उत्थाय भूयः पृच्छति-किं भवन्तो जानीध्वं श्रावका अपि तावत्तस्य भगवतस्तिष्ठन्ति ? तैरुक्तः-तेऽपि वशिनो भिक्षवः परिनिर्वृताः। सप्ताहपरिनिर्वृतस्य च बुद्धस्य भगवतः क्षेमंकरस्य सम्यक्संबुद्धस्य क्षेमेण राज्ञा चैत्यमल्पेशाख्यं प्रतिष्ठापितम्। तेन च गत्वा श्रेष्ठिना जनपदाः पृष्टाः। अस्ति भवन्तस्तस्य भगवतो बुद्धस्य किंचित् स्तूपं प्रतिष्ठापितम्। तैरुक्तम्-अस्ति, क्षेमेण राज्ञा अल्पेशाख्यं चैत्यं प्रतिष्ठापितम्। तस्य एतदभवत्-एतं मया सुवर्णं क्षेमंकरं सम्यक्संबुद्धं उद्दिश्यानीतम्। स च परिनिर्वृतः। यन्न्वहमेतेनैव सुवर्णेन तस्यैव भगवतश्चैत्यं महेशाख्यतरं कारयेयम्। एवं विचिन्त्य क्षेमं राजानं विज्ञापयति-महाराज, इदं मया सुवर्णं क्षेमंकरं सम्यक्संबुद्धमुद्दिश्यानीतम्। स च भगवान् परिनिर्वृतः। इदानीं महाराज यदि त्वमनुजानीयात्, अहमेतेनैव सुवर्णेनैतत् तस्य भगवतश्चैत्यं महेशाख्यतरं कारयेयम्। स राज्ञा अभिहितः-यथाभिप्रेतं कुरु। ततो ब्राह्मणा नगरं प्रति निवासिनः संभूय सर्वे तस्य महाश्रेष्ठिनः सकाशं गत्वा कथयन्ति-भो महाश्रेष्ठिन्, यदा क्षेमंकरो बुद्धो लोकेऽनुत्पन्न आसीत्, तदा वयं लोकस्य दक्षिणीया आसन्। यदा तूत्पन्नः, तदा दक्षिणीयो जातः। इदानीं तु तस्य परिनिर्वृतस्य वयमेव दक्षिणीयाः। एतत् सुवर्णमस्माकं गम्यम्। स तेषां कथयति-नाहं युष्माकमेतत् सुवर्णं दास्यामि। ते कथयन्ति-यद्यस्माकं न दास्यसि, न वयं तव कामकारं दास्यामः। ते ब्राह्मणा बहवः, श्रेष्ठी चाल्पपरिवारः। तेषां तथा व्युत्पद्यतां न लेभे तच्चैत्यं यथेप्सितं तेन सुवर्णेन कारयितुम्। अथ स श्रेष्ठी राज्ञः सकाशं गत्वा कथयति-महाराज, तच्चैत्यं न लभे ब्राह्मणानां सकाशाद्यथाभिप्रेतं कारयितुम्। यतोऽस्य राज्ञा स्वपुरुषो दत्तः सहस्रयोधी । एवं च राज्ञा स्वपुरुष आज्ञप्तः-यद्यस्य महाश्रेष्ठिनः स्तूपमभिसंस्कुर्वतः कश्चिदपनयं करोति, स त्वया महता दण्डेन शासयितव्यः। एवं देवेति सहस्रयोधी पुरुषो राज्ञः प्रतिश्रुत्य निर्गतः। निर्गम्य च तान् ब्राह्मणानेवं वदति-शृण्वन्तु भवन्तः, अहं राज्ञास्य महाश्रेष्ठिनः स्वपुरुषो दत्तः-यद्यस्य स्तूपमभिसंस्कुर्वतः कश्चिद्विघातं कुर्यात्, स त्वया महता दण्डेन शासयितव्य इति। यदि यूयमत्र किंचिद् विघ्नं करिष्यथ, अहं वो महता दण्डेनानुशासयिष्यामि। ते ब्राह्मणाः सहस्रयोधिनः पुरुषस्यैवं श्रुत्वा भीताः। यतस्तेन महाश्रेष्ठिना संचिन्त्य यथैतत् सुवर्णं तत्रैव गर्भसंस्थं स्यात् तथा कर्तव्यमिति तस्य स्तूपस्य सर्वैरेव चतुर्भिः पार्श्वैः प्रतिकण्ठुकया चत्वारि सोपानानि आरब्धानि कारयितुम्। यावदनुपूर्वेण प्रथमा मेढी ततोऽनुपूर्वेण द्वितीया ततस्तृतीया मेढी यावदनुपूर्वेणाण्डम्। तथाविधं च स्तूपस्याण्डं कृतं यत्र सा यूपयष्टिरभ्यन्तरे प्रतिपादिता। पश्चात् तस्यातिनवाण्डस्योपरि हर्मिका कृता। अनुपूर्वेण यष्ट्यारोपणं कृतम्। वर्षस्थाले महामणिरत्नानि तान्यारोपितानि। तत्र च क्रियमाणे सहस्रयोधिनः पुरुषस्यैवमुत्पन्नम्-नात्र कश्चिदिदानीं प्रहरिष्यति। विश्वस्तमनाः केनचित्कार्येण जनपदेषु गतः। तेन च महाश्रेष्ठिना तस्य स्तूपस्य चतुर्भिः पार्श्वैश्चत्वारो द्वारकोष्ठका मापिताः, चतुर्भिः पार्श्वैश्चत्वारि महाचैत्यानि कारितानि, तद्यथा जातिरभिसंबोधिर्धर्मचक्रप्रवर्तनं परिनिर्वाणम्। तच्च स्तूपाङ्गणं रत्नशिलाभिश्चितम्। चत्वारश्चोपाङ्गाश्चतुर्दिशं मापिताः। पुष्किरिण्यश्चतुर्दिशमनुपार्श्वेन मापिताः। तत्र च विविधानि जलजानि माल्यानि रोपितानि तद्यथा उत्पलं पद्मं कुमुदं पुण्डरीकं सुगन्धिकं मृदुगन्धिकम्। विविधानि च पुष्किरिणीतीरेषु स्थलजानि माल्यानि रोपितानि, तद्यथा अतिमुक्तकं चम्पकपाटलावार्षिकामल्लिकासुमनायूथिका धातुष्कारी। सर्वर्तुकालिकाः पुष्पफलाः स्तूपपूजार्थम्। स्थावरा वृत्तिः प्रज्ञप्ताः। स्तूपदासा दत्ताः। शङ्खपटहवाद्यानि तूर्याणि दत्ताणि। ये तस्मिंश्चैत्ये गन्धैर्धूपैर्माल्यैश्च चूर्णैः काराः कुर्वन्ति। तस्माच्चाधिष्ठानाद्विषयाच्चागम्य जनपदा गन्धैर्माल्यैर्धूपैश्चूर्णैस्तस्मिंश्चैत्ये कारां कुर्वन्ति। यदि च दक्षिणो वायुर्वाति, दक्षिणेन वायुना सर्वपुष्पजातीनां गन्धेन तच्चैत्यमङ्गणं चास्य स्फुटं भवत्यनुभावितम्। एवं पश्चिमेन वायुना, अनुपूर्वेणापि च वायुना। वायता वायता तच्चैत्याङ्गणं च तेन विविधेन गन्धमाल्येन स्फुटं भवत्यनुभावितम्। तस्मिंश्च स्तूपे सर्वजातकृतनिष्ठिते सहस्रयोधी अभ्यागतः। स तं स्तूपं दृष्ट्वा सर्वजातकृतनिष्ठितं कथयति-अस्मिंश्चैत्ये कारां कृत्वा किमवाप्यते ? यतोऽसौ श्रेष्ठी बुद्धोदाहरणं प्रवृत्तः कर्तुम्-एवं त्रिभिरसंख्येयैर्वीर्येण व्यायमता अनुत्तरा बोधिरवाप्यते। स तं श्रुत्वा विषादमापन्नो हीनोत्साहतया कथयति-नाहं शक्ष्यामि अनुत्तरां सम्यक्संबोधिं समुदानयितुम्। ततोऽसौ श्रेष्ठी प्रत्येकबुद्धोदाहरणं प्रवृत्तः कर्तुम्-एवं सहस्रयोधी तस्यापि वर्णोदाहरणं श्रुत्वा विषण्णचेताः कथयति- एतामप्यहं प्रत्येकबोधिं न शक्तः समुदानयितुम्। ततः स महाश्रेष्ठी श्रावकवर्णोदाहरणं कृत्वा कथयति-अस्मिन्नपि तावत् प्रणिधत्स्व चित्तम्। यतः सहस्रयोध्याह-त्वया पुनर्महाश्रेष्ठिन् कतमस्यां बोधौ प्रणिधानं कृतम् ? तेन महाश्रेष्ठिनोक्तम्-अनुत्तरस्वां बोधौ चित्तमुत्पादितम्। सहस्रयोध्याह-यदि त्वया अनुत्तरस्यां बोधौ चित्तमुत्पादितम्, अहं तवैव श्रावकः स्याम्। त्वयाहं समन्वाहर्तव्यः। यतोऽस्य श्रेष्ठी आहबहुकिल्बिषकारी बत भवान्। किं तु लोके यदा त्वं बुद्धोत्पादशब्दं श्रुत्वा स्मृतिं प्रतिलभेथाः। स च श्रेष्ठी तं चैत्यं कृत्वा निरीक्ष्य पादयोर्निपत्य प्रणिधानं करोति-



अनेन दानेन महद्गतेन

बुद्धो भवेयं सुगतः स्वयंभूः।

तीर्णोऽहं तारयेयं जनौघा-

नतारिता ये पौर्वकैर्जिनेन्द्रैः॥१॥



भगवानाह-योऽसौ अतीतेऽध्वनि श्रेष्ठी अभूत्, अहमेव स तस्मिन् समये बोधिसत्त्वचर्यां वर्तामि। योऽसौ सहस्रयोधी, एष एव धर्मरुचिस्तेन कालेन तेन समयेन। इदं मम प्रथमेऽसंख्येये एतस्य धर्मरुचेर्दर्शनम्। तत्संधाय कथयामि-चिरस्य धर्मरुचे। यतो धर्मरुचिराज्ञायाह-चिरस्य भगवन्॥



द्वितीये दीपंकरो नाम सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसम्यक्संबुद्धः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। अथ दीपंकरः सम्यक्संबुद्धो जनपदेषु चारिकां चरन् द्वीपावतीं राजधानीमनुप्राप्तः। द्वीपावत्यां राजधान्यां द्वीपो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। तत्र दीपेन राज्ञा दीपंकरः सम्यक्संबुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। तस्य च दीपस्य राज्ञो वासवो नाम सामन्तराजोऽभूत्। तेन तस्य दूतोऽनुप्रेषितः-आगच्छ, इह मया दीपंकरः सम्यक्संबुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। तस्य पूजां करिष्याम इति। तदा च वासवेन राज्ञा द्वादशवर्षाणि यज्ञमिष्ट्वा यज्ञावसाने राज्ञा पञ्च महाप्रदानानि व्यवस्थापितानि, तद्यथा-सौवर्णकं दण्डकमण्डलु, सौवर्णा सपात्री, चतूरत्नमयी शय्या, पञ्च कार्षापणशतानि, कन्या च सर्वालंकारविभूषिता। तेन खलु समयेन अन्येषु जनपदेषु द्वौ माणवकौ प्रतिवसतः। ताभ्यां चोपाध्यायसकाशाद्वेदाध्ययनं कृतम्। धर्मता आचार्यस्याचार्यधनमुपाध्यायस्योपाध्यायधनं प्रदेयमिति ज्ञात्वा चिन्तयतः। ताभ्यां च श्रुतं वासवेन राज्ञा पञ्च महाप्रदानानि यज्ञावसाने समुदानीतानि, यो ब्राह्मणःस्वाध्यायसंपन्नो भविष्यति स लप्स्यतीति। तयोरेतदभवत्-गच्छावस्तत्र, तं प्रदानं प्रतिगृह्णीवः। कोऽस्माकं तत्र बहुश्रुततमो वा स्वाध्यायतमो भविष्यतीति संचिन्त्य येन वासवस्य राज्ञो महानगरं तेन संप्रस्थितौ। तस्य च राज्ञो देवतया आरोचितम्। यौ एतौ द्वौ माणवकौ आगच्छतः सुमतिश्च मतिश्च, अनयोर्द्वयोः सुमतेरेतत्प्रदानं दद। यदेवं महाराज त्वया द्वादश वर्षाणि यज्ञ इष्टः, अस्मात् पुण्यफलान्महत्तमपदस्य सुमतेर्माणवकस्य महाप्रदानं दास्यसि। स राजा संलक्षयति-नूनमेतौ महात्मानौ येषामर्थाय देवता अप्यारोचयन्ति। यतोऽसौ राजा पश्यति माणवकौ दूरत एवागच्छन्तौ प्रासादिकौ अभिरूपौ। तौ च गत्वा तत्र यज्ञे ब्राह्मणपङ्क्तिषु प्रज्ञप्तेषु आसनेषु अग्रासनमभिरुह्यावस्थितौ। यतो राजा वासवस्तौ दृष्ट्वा एवं चिन्तयति- योऽसौ सुमतिर्नाम मम देवतैरारोचितः, स एष भविष्यति। स राजा तमग्रासनमुपगम्य सुमतिं माणवं पृच्छति-भवान् सुमतिः ? तेनोक्तम्-अहम्। यतो राजा वासवः सुमतिं माणवमग्रासने भोजयित्वा पञ्च प्रदानानि प्रयच्छति। सुमतिर्माणवश्चत्वारि महाप्रदानानि गृह्णाति दण्डकमण्डलुप्रभृतीनि, एकं कन्याप्रदानं न प्रतिगृह्णाति। स कथयति-अहं ब्रह्मचारी। यतः सा कन्या सुमतिं माणवं प्रासादिकमभिरूपं दृष्ट्वा लुब्धा स्नेहोत्पन्ना, तं सुमतिं माणवमेवमाह-प्रतिगृह्ण मां ब्राह्मण। स कथयति-न शक्यं मया प्रतिगृहीतुम्। यतः सा कन्या राज्ञा प्रदानबुद्ध्या परित्यक्ता न पुनर्गृहीता, सुमतिनापि माणवेनाप्रतिगृह्यमाणा राज्ञो दीपस्य दीपावतीं नगरीं गता। सा तत्र गत्वा तदात्मीयमलंकारं शरीरादवतार्य मालाकारायानुप्रयच्छति-अस्यालंकारस्य मूल्यं मे प्रतिदिवसं देवस्यार्थे नीलोत्पलानि ददस्व। सा तेनोपक्रमेण तदलंकारिकं सुवर्णं दत्वा देवशुश्रूषिका संवृत्ता। स च माणवकः सुमतिस्तानि चत्वारि महाप्रदानानि गृह्य उपाध्यायसकाशं गतः। गत्वा चोपाध्यायाय तानि चत्वारि महाप्रदानान्यनुप्रयच्छति। तेभ्यश्चोपाध्यायस्त्रीणि प्रतिगृह्णाति, कार्षापणानां तु पञ्च शतानि तस्यैव सुमतेर्ददाति। स च सुमतिस्तस्यामेव रात्रौ दश स्वप्नानद्राक्षीत्-महासमुद्रं पिबामि, वैहायसेन गच्छामि, इमौ चन्द्रादित्यौ एवंमहर्द्धिकौ एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि, राज्ञो रथे योजयामि ऋषीन्, श्वेतान् हस्तिनः, हंसान्, सिंहान्, महाशैलं पर्वतानिति। स तान् दृष्ट्वा प्रतिबुद्धः। प्रतिबुद्धस्यैतदभवत्-क एषां स्वप्नानां मम व्याकरणं करिष्यति ? तत्र पञ्चाभिज्ञ ऋषिर्नातिदूरे प्रतिवसति। अथ सुमतिर्माणवः संशयनिर्णयनार्थं ऋषेः सकाशं गतः। सुमतिस्तस्य ऋषेः प्रतिसंमोदनं कृत्वा स्वप्नानाख्यायाह-कुरुष्व मे एषां स्वप्नानां निर्णयम्। स ऋषिराह-नाहमेषां स्वप्नानां व्याकरणं करिष्यामि। गच्छ दीपावतीं राजधानीम्। तत्र दीपेन राज्ञा दीपंकरो नाम सम्यक्संबुद्धः साभिसंस्कारेण नगरप्रवेशेनोपनिमन्त्रितः। स एषां स्वप्नानां व्याकरणं करिष्यति। अथ वासवो राजा तस्य दीपस्य राज्ञः प्रतिश्रुत्य अशीत्यमात्यसहस्रपरिवृतो दीपावतीं राजधानीमनुप्राप्तः। तेन च दीपेन राज्ञा सप्तमाद्दिवसाद्दीपंकरस्य सम्यक्संबुद्धस्य साभिसंस्कारेण नगरप्रवेशं करिष्यामीति सर्वविषयाधिष्ठानाच्च सर्वपुष्पाणां संग्रहं कर्तुमारब्धः। तत्र च यस्मिन् दिवसे राज्ञा दीपेन तस्य दीपंकरस्य सम्यक्संबुद्धस्य साभिसंस्कारेण नगरप्रवेश आरब्धः कर्तुम्, तस्मिन्नेव दिवसे सुमतिरपि तत्रैवागतः। तत्र राज्ञा सर्वपुष्पाणां संग्रहः कारितः। सा च देवोपस्थायिका दारिका मालाकारसकाशं गता-प्रयच्छ मे नीलोत्पलानि, देवार्चनं करिष्यामीति। मालाकार आह-अद्य राज्ञा सर्वपुष्पाणि गृहीतानि दीपंकरनगरप्रवेशस्यार्थे। सा कथयति-गच्छत, पुनरपि तत्र पुष्किरिण्यां यदि मत्पुण्यैर्नीलोत्पलपद्ममनुद्धृतमासाद्येत। तत्र पुष्किरिण्यां सुमतेः पुण्यानुभावात् सप्त नीलपद्मानि प्रादुर्भूतानि। यतः स मालाकारो गतः, स तानि पश्यति। दृष्ट्वा च दारिकया मालाकारस्योक्तम्-उद्धरैतानि पद्मानि। मालाकारः कथयति-नाहमुद्धरिष्यामि। राजकुलान्ममोपालम्भो भविष्यति। यतः सा कथयति-न। त्वया सर्वपुष्पाण्युद्धृत्य राज्ञः पूर्वं दत्तान्येव। मालाकार आह-दत्तानि। यतः सा दारिका कथयति-मदीयैः पुण्यैरेतानि प्रादुर्भूतानि, प्रयच्छोद्धृतानि मम। मालाकारः कथयति-कथमेतानि प्रवेशकानि भविष्यन्त्यसंविदितं राजकुलस्य ? दारिका आह-उद्धरतु भवान्। अहमुदककुम्भे प्रक्षिप्तं प्रवेशयिष्यामि। तेन मालाकारेणैवं श्रुत्वा तस्या दारिकायास्तान्युद्धृत्य अनुप्रदत्तानि। सा तानि गृहीत्वा उदककुम्भे प्रक्षिप्य तत्कुम्भमुदकस्य पूरयित्वा अधिष्ठानं गता प्रस्थिता। स च सुमतिस्तत्स्थानमनुसंप्राप्तः। तस्यैतदभवत्-कथमहं बुद्धं भगवन्तं दृष्ट्वा न पूजयामि ? स मालाकारगृहाण्यन्वाहिण्डति सर्वपुष्पान्वेषणपरः, न च किंचिदेकपुष्पमासादयति। पश्चाद्बाह्येनाधिष्ठानान्निर्गम्य आरामेणारामं पुष्पाणि पर्येषमाणः पर्यटति, न चैकपुष्पमासादयति। अथ पर्यटमानस्तदुद्यानं संप्राप्तः।सा च दारिका तस्मादुद्यानात् तस्य सुमतेर्माणवस्याभिमुखमागता। यतः पुण्यानुभावेन तानि नीलपद्मानि तस्मादुदककुम्भादभ्युद्गतानि। यतस्तानि सुमतिर्दृष्ट्वा तस्या दारिकायाः कथयति- प्रयच्छ ममैतानि पद्मानि। मत्सकाशादेषां निष्क्रयं पञ्चकार्षापणशतं गृहाण। सा दारिका तस्य सुमतेः कथयति- तदा नेच्छसि मां प्रतिगृहीतुम्। इदानीं मां पद्मानि याचसे। नाहं दास्यामि। एवमुक्त्वा तं सुमतिं माणवमुवाच- किमेभिः करिष्यसि ? सुमतिराह-बुद्धं भगवन्तमर्चयिष्यामि। पश्चाद्दारिका कथयति-किं मम कार्षापणैः कृत्यम् ? एवमहं बुद्धाय दास्ये, यदि त्वमेषां पद्मानां प्रदानफलेन ममापि जात्यां जात्यां पत्नीमिच्छसि, अस्य दानस्य प्रदानकाले यद्येवं प्रणिधानं करोषि-जात्यां जात्यां मम भार्या स्यादिति। सुमतिराह-वयं दानाभिरताः स्वगर्भरूपपरित्यागं स्वमांसपरित्यागं च कुर्मः। ततः सा दारिका सुमतेः कथयति-त्वमेवं प्रणिधानं कुरु, पश्चाद्येनाभ्यर्थीयसे, तस्य मामनुप्रयच्छेथाः। एवमुक्ते तया दारिकया तस्य सुमतेः पञ्च पद्मान्यनुप्रदत्तानि, आत्मना द्वे गृहीते। गाथां च भाषते -



प्रणिधां यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।

तत्र तेऽहं भवेत् पत्नी नित्यं सहधर्मचारिणी॥२॥



तेन राज्ञा तत्र सर्वमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकातोरणमामुक्तपट्टदामं गन्धोदकचूर्णपरिषिक्तम्। नगरद्वारादारभ्य यावच्च विहारो यावच्च नगरमेतदन्तरमपगतपाषाणशर्करकपालं कारितमुच्छ्रितध्वजपताकतोरणमामुक्तपट्टदाम गन्धोदकचूर्णपरिषिक्तम्। स च राजा शतशलाकं छत्रं गृहीत्वा दीपंकरस्य सम्यक्संबुद्धस्य प्रत्युद्गतः। एवमेवामात्याः। एवमेव वासवो राजा अमात्यैः सह प्रत्युद्गतः। दीपो राजा भगवतो बुद्धस्य पादयोर्निपत्य विज्ञापयति-भगवन्, अधिष्ठानं प्रविश। यतः स भगवान् भिक्षुसंघपुरस्कृतोऽधिष्ठानप्रवेशाभिमुखः संप्रस्थितः। स च राजा दीपः शतशलाकं छत्रं दीपंकरस्य सम्यक्संबुद्धस्य धारयति। तथैवामात्याः, वासवो राजा अमात्यसहायः। भगवता ऋद्ध्या तथा अधिष्ठितं यथा एकैकः संलक्षयति-अहं भगवतश्छत्रं धारयामीति। अथ भगवांस्तथाविधया शोभया जनमध्यमनुप्राप्तः। तत्र भगवता साभिसंस्कार इन्द्रकीले पादो व्यवस्थापितः। यदैव भगवता इन्द्रकीले पादो व्यवस्थापितः, तदैव समनन्तरकालं पृथिवी षड्विकारं प्रकम्पिता-चलिता प्रचलिता संप्रचलिता, वेधिता प्रवेधिता संप्रवेधिता। धर्मता च बुद्धानां भगवतां यदेन्द्रकीले साभिसंस्कारेण पादौ व्यवस्थापयन्ति, चित्राण्याश्चर्याण्यद्भुतधर्माः प्रादुर्भवन्ति-उन्मत्ताः स्वचित्तं प्रतिलभन्ते, अन्धाश्चक्षूंषि प्रतिलभन्ते, बधिराः श्रोत्रश्रवणसमर्था भवन्ति, मूकाः प्रव्याहरणसमर्था भवन्ति, पङ्गवो गमनसमर्था भवन्ति, मूढा गर्भिणीनां स्त्रीणां गर्भा अनुलोमीभवन्ति, हडिनिगडबद्धानां च सत्त्वानां बन्धनानि शिथिलीभवन्ति, जन्मजन्मवैरानुबद्धास्तदनन्तरं मैत्रचित्ततां प्रतिलभन्ते, वत्सा दामानि च्छित्त्वा मातृभिः संगच्छन्ति, हस्तिनः क्रोशन्ति, अश्व ह्रेषन्ते, ऋषभा गर्जन्ति, शुकसारिकाकोकिलजीवंजीवका मधुरं निकूजन्ति, अनेरितानि वादित्रभाण्डानि मधुरशब्दान् निश्चारयन्ति, पेडाकृता अलंकारा मधुरशब्दान्निश्चरन्ति, उन्नताः पृथिवीप्रदेशा अवनमन्ति, अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालास्तिष्ठन्ति, अन्तरिक्षाद्देवता दिव्यान्युत्पलानि क्षिपन्ति, पद्मानि कुमुदानि पुण्डरीकान्यगुरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि दिव्यानि मान्दारवाणि पुष्पाणि क्षिपन्ति, पूर्वो दिग्भाग उन्नमति पश्चिमोऽवनमति, पश्चिम उन्नमति पूर्वोऽवनमति, दक्षिण उन्नमत्युत्तरोऽवनमति, उत्तर उन्नमति दक्षिणोऽवनमति, मध्य उन्नमत्यन्तोऽवनमति, अन्त उन्नमति मध्योऽवनमति। तत्र च दीपावत्यां राजधान्यामनेकानि प्राणिशतसहस्राणि पुष्पैर्धूपैर्गन्धैश्च कारां कुर्वन्ति। तेऽपि च सुमतिश्च दारिका च येन दीपंकरः सम्यक्संबुद्धस्तेनानुगच्छन्ति पद्मानि गृह्य। ते च तत्र महाजनकायेन पूजार्थं संपरिवृतस्य भगवत उपश्लेषं न लभन्ते। भगवान् संलक्षयति-बहुतरं सुमतिर्माणवोऽस्मान्महाजनकायात् पुण्यप्रसवं करिष्यति इति। मत्वा महतीं तुमुलां वातवृष्टिमभिनिर्मिणोति।यतस्तेन जनकायेनावकाशो दत्तः। लब्धावकाशश्च सुमतिर्माणवो भगवन्तमसेचनकदर्शनं दृष्ट्वा अतीव प्रसादजातः। प्रसादजातेन च तानि पञ्च पद्मानि भगवतः क्षिप्तानि। तानि च भगवता दीपंकरेण सम्यक्संबुद्धेन तथा अधिष्ठितानि, यथा शकटीचक्रमात्राणि वितानं बद्ध्वा व्यवस्थितानि। गच्छतोऽनुगच्छन्ति, तिष्ठतोऽनुतिष्ठन्ति। तथा दृष्ट्वा तया दारिकया प्रसादजातया द्वौ पद्मौ भगवतः क्षिप्तौ। तौ चापि भगवता तथा अधिष्ठितौ यथा शकटीचक्रमात्रौ कर्णसमीपे वितानं बद्ध्वा व्यवस्थितौ। तत्र च प्रदेशे तुमुलेन वातवर्षेण कर्दमो जातः। पश्चात् सुमतिर्माणवो बुद्धं भगवन्तं सकर्दमं पृथिवीप्रदेशमुपगतः। तस्मिन् सकर्दमे पृथिवीप्रदेशे जातं संतीर्य भगवतः पुरतो गाथां भाषते -



यदि बुद्धो भविष्यामि बोधाय बुधबोधन।

आक्रमिष्यसि मे पभ्द्यां जटां जन्मजरान्तकाम्॥३॥



ततस्तेन दीपंकरेण सम्यक्संबुद्धेन तस्य सुमतेर्माणवस्य जटासु पादौ व्यवस्थापितौ। तस्य च सुमतेः पृष्ठतोऽनुबद्ध एव मतिर्माणवस्तिष्ठति। तेन कुपितेनाभिहितं भगवतो दीपंकरस्य-पश्य तावद्भोः, अनेन दीपंकरेण सम्यक्संबुद्धेनास्य सुमतेर्माणवस्य तिरश्चां यथा पद्भ्यां जटा अवष्टब्धाः। पश्चात् दीपंकरेण सम्यक्संबुद्धेन सुमतिर्माणवो व्याकृतः -



भविष्यसि त्वं नृभवाद्विमुक्तो

मुक्तो विभुर्लोकहिताय शास्ता।

शाक्यात्मजः शाक्यमुनीति नाम्ना

त्रिलोकसारो जगतः प्रदीपः॥४॥



यदा च स सुमतिर्माणवो दीपंकरेण सम्यक्संबुद्धेन व्याकृतः, तत्समकालमेव वैहायसं सप्ततालानभ्युद्गतः। ताश्चास्य जटाः शीर्णाः, अन्याः प्रविशिष्टतरा जटाः प्रादुर्भूताः। स वैहायसस्थो महता जनकायेन दृष्टः। दृष्ट्वा च प्रणिधानं कृतम्-यदा अनेनानुत्तरज्ञानमधिगतं भवेत्, तदास्य वयं श्रावका भवेम। सापि च दारिका प्रणिधानं करोति -



प्रणिधिं यत्र कुर्यास्त्वं बुद्धमासाद्य नायकम्।

तत्र तेऽहं भवेत्पत्नी नित्यं सहधर्मचारिणी॥५॥



यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।

श्राविका ते भविष्यामि तस्मिन् काल उपस्थिते॥६॥



खगस्थं माणवं दृष्ट्वा सहस्राणि शतानि च।

श्रावकत्वं प्रार्थयन्ते सर्वे तत्र ह्यनागते॥७॥



यदा भवसि संबुद्धो लोके ज्येष्ठविनायकः।

श्रावकास्ते भविष्यामस्तस्मिन् काले ह्युपस्थिते॥८॥



यदा च सुमतिर्माणवो दीपंकरेण सम्यक्संबुद्धेन व्याकृतः, तदास्य दीपेन राज्ञा जटा गृहीताः। वासवो राजा कथयति-ममैता जटा अनुप्रयच्छ। ततस्तस्य दीपेन राज्ञा अनुप्रदत्ताः। तेन गृहीत्वा गणिताः अशीतिर्वालसहस्राणि। तस्य राज्ञोऽमात्याः कथयन्ति-देव, अस्माकमेकैकं वालमनुप्रयच्छ। वयमेषां चैत्यानि करिष्यामः। तेन राज्ञा तेषां भृत्यानामेकैको वालो दत्तः। तैरमात्यैः स्वके विजिते गत्वा चैत्यानि प्रतिष्ठापितानि। यदा सुमतिर्माणवोऽनुत्तरायां सम्यक्संबोधौ व्याकृतः, तदा दीपेन राज्ञा वासवेन च राज्ञा तैरनेकैश्च नैगमजानपदैः सर्वोपकरणैः प्रवारितोऽनागतगुणावेक्षतया। ततः स मतिर्माणव उच्यते-अहमनुत्तरस्यां सम्यक्संबोधौ व्याकृतः-त्वया कुत्र चित्तमुत्पादितम् ? स कथयति-क्षतोऽहं सुमते माणव। स कथयति-कथं कृत्वा क्षतोऽसि ? ततः स कथयति-यदा तव दीपंकरेण सम्यक्संबुद्धेन पद्भ्यां जटा अवष्टब्धाः, तदा कुपितेन वाग् निश्चारिता-दीपंकरेण सम्यक्संबुद्धेन श्रोत्रियस्य जटा तिरश्चां यथा पद्भ्यामवष्टब्धाः। यतस्तस्य सुमतिः कथयति-आगच्छस्व, बुद्धस्य भगवतोऽन्तिके प्रव्रजावः। ततस्तौ सुमतिर्मतिश्च दीपंकरस्य सम्यक्संबुद्धस्य प्रवचने प्रव्रजितौ। सुमतिना च प्रव्रज्य त्रीणि पिटकान्यधीतानि, धर्मेण पर्षत् संगृहीता। स च सुमतिर्माणवश्च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः। मतिर्माणवश्च्युतः कालगतो नरकेषूपपन्नः॥



भगवानाह-योऽसौ वासवो राजाभूत् तेन कालेन तेन समयेन, स राजा बिम्बिसारः। यानि तान्यशीतिरमात्यसहस्राणि तेन कालेन तेन समयेन, तान्येतर्ह्यशीतिर्देवतासहस्राणि। योऽसौ दीपावतीयको जनंकायः, यासौ दारिका, एषैव सा यशोधरा। योऽसौ सुमतिः, अहमेव तस्मिन् समये बोधिसत्त्वचर्यायां वर्तामि। योऽसौ मतिः, एष एव स धर्मरुचिः। एतद्द्वितीयेऽसंख्येये अस्य च धर्मरुचेर्मम च दर्शनं यदहं संधाय कथयामि -चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे॥



तस्मादप्यर्वाक् तृतीयेऽसंख्येये क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। तस्यां च राजधान्यामन्यतरो महाश्रेष्ठी प्रतिवसति। तेन च सदृशात् कुलात् कलत्रमानीतम्। स च कलत्रसहायः क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। स च गृहपतिः श्राद्धः। तस्य चार्हन् भिक्षुः कुलाववादकोऽस्ति। स च गृहपतिस्तां पत्नीमेवमाह-जातोऽस्माकं ऋणधरो धनहरः। गच्छाम्यहमिदानीं भद्रे वणिग्धर्माणां देशान्तरं भाण्डमादाय। स च वणिग्लोकेनावृतो दूरतरं गतो भाण्डमादाय। यतोऽस्य न भूयश्चिरमप्यागच्छति। स च दारकः कालान्तरेण महान् संवृत्तोऽभिरूपो दर्शनीयः प्रासादिकः। ततोऽसौ मातरं पृच्छति-अम्ब, किमस्माकं कुलार्थागतं कर्म ? सा कथयति-वत्स, पिता तव आपणं वाहयन्नासीत्। ततः स दारक आपणमारब्धो वाहयितुम्। सा च माता अस्य क्लेशैर्बाध्यमाना चिन्तयितुं प्रवृत्ता-क उपायः स्यात् यदहं क्लेशान् विनोदयेयम्, न च मे कश्चिज्जानीयात् ? तया संचिन्त्यैवमध्यवसितम्-एवमेव पुत्रकामहेतोस्तथा परिचरामि, यथा अनेनैव मे सार्धं रोगविनोदकं भवति, नैव स्वजनस्य शङ्का भविष्यति। ततस्तया वृद्धयुवती आहूय भोजयित्वा द्विः त्रिः पश्चान्नवेन पटेनाच्छादिता। तस्याः सा वृद्धा कथयति-केन कार्येणैव ममानुप्रसादादिना उपक्रमेणानुप्रवृत्तिं करोषि ? सा तस्या वृद्धाया विश्वस्ता भूत्वा एवमाह-अम्ब, शृणु विज्ञाप्यम्। क्लेशैरतीव बाध्ये, प्रियतां ममोत्पाद्य मनुष्यान्वेषणं कुरु, योऽभ्यन्तर एव स्यान्न च शङ्कनीयो जनस्य। वृद्धा कथयति-नेह गृहे तथाविधो मनुष्यः संविद्यते, नापि प्रणयवान् कश्चित् प्रविशति, यो जनस्याशङ्कनीयो भवेत्। कतमः स मनुष्यो भविष्यति यस्याहं वक्ष्यामि ? ततः सा वणिक्पत्नी तस्या वृद्धायाः कथयति-यद्यन्यो मनुष्य एवंविधोपक्रमयुक्तो नास्ति, एष एव मे पुत्रो भवति, नैष लोकस्य शङ्कनीयो भविष्यति। तस्यास्तया वृद्धया अभिहितम्-कथं नु पुत्रेण सार्धं रतिक्रीडां गमिष्यसि ? युक्तं स्यादन्येन मनुष्येण सार्धं रतिक्रीडामनुभवितुम्। ततः सा वणिक्पत्नी कथयति-यद्यन्योऽभ्यन्तरो मनुष्यो न संविद्यते, भवतु एष एव मे पुत्रः। तया वृद्धया अभिहितम्-यथेप्सितं कुरु। ततः सा वृद्धयुवती तस्य वणिजः पुत्रस्यैवागम्य पृच्छति-वत्स, तरुणोऽसि रूपवांश्च। किं प्रतिष्ठितोऽस्यार्थेन ? तेन तस्या अभिहितम्-किमेतत् ? ततः सा वृद्धा कथयति-भवानेवमभिरूपश्च युवा च अस्मिन् वयसि तरुणयुवत्या सार्धं शोभेथाः क्रीडन् रमन् परिचारयन्। किमेव कामभोगपरिहीनस्तिष्ठसि ? वणिग्दारकस्तं श्रुत्वा लज्जाव्यपत्राप्यसंलीनचेतास्तस्या वृद्धायास्तद्वचनं नाधिवासयति। ततः सा वृद्धा एवं द्विरपि त्रिरपि तस्य दारकस्य कथयति-तरुणयुवतिस्तवार्थे क्लेशैर्बाध्यते। स वणिग्दारको द्विरपि त्रिरप्युच्यमानस्तस्या वृद्धायाः कथयति-अम्ब, किं तस्यास्तरुणयुवत्याः संनिमित्ते किंचिदभिहितम्? ततः सा वृद्धा कथयति-उक्तं तस्या मया तन्निमित्तम्। तया मम निमित्ते न प्रतिज्ञातम्। सा च दारिका ह्रीव्यपत्राप्यगृहीता न किंचिद्वक्ष्यति। न च शरीरमावृतं करिष्यति। न त्वया तस्या वा अन्वेषणे यत्नः करणीयः। ततस्तेन वणिग्दारकेण तस्या वृद्धाया अभिहितम्-कुत्रास्माकं संगतं भविष्यति ? तया अभिहितम्-मदीये गृहे। तेनोक्तम्-कुत्रावकाशे तव गृहम् ? ततोऽस्य तया वृद्धया गृहं व्यपदिष्टम्। सा च वृद्धा तस्या वणिक्पत्न्याः सकाशं गत्वा कथयति- इच्छापितः स वोऽयं दारकः। सा कथयति-कुत्रावकाशे संगतं भविष्यति ? मदीये गृहे। स च दारकः कार्याणि कृत्वा गृहं गतः। अनुपूर्वेण भुक्त्वा तस्या मातुः कथयति-गच्छाम्यहम्। वयस्यगृहे स्वप्स्ये। ततोऽस्य मात्राप्यनुज्ञातम्-गच्छ। स दारको लब्धानुज्ञस्तस्या वृद्धाया गृहं गतः। तस्य दारकस्य तस्मिन् गृहे गतस्य रतिक्रीडाकालमागमयमानस्य तिष्ठतो निशिकालमप्रत्यभिज्ञातम्। रूपे काले सा माता अस्य वणिग्दारकस्य तस्मिन्नेव गृहे रतिक्रीडामनुभवनार्थं तत्रैव गता। गत्वा च तस्मिन् गृहे विकालमव्यक्तिं विभाव्यमाने रूपाकृतौ निर्गूढेनोपचारक्रमेण रतिक्रीडां पुत्रेण सार्धमनुभवितुं प्रवृत्ता पापकेनासद्धर्मेण। सा च परिक्षीणायां रात्रौ अनुभूतरतिक्रीडा सतमोन्धकारे कालायामेव रजन्यामविभाव्यमानरूपाकृतौ स्वगृहं गच्छति। स चापि वणिग्दारको रतिक्रीडामनुभूय प्रभातायां रजन्यां भाण्डावारिं गत्वा कुटुम्बकार्याणि करोति। एवं द्विरपि त्रिरपि। तत्र वृद्धाया गृहे रतिक्रीडामनुभवंश्च चिरकालमेवं वर्तमानेन रतिक्रीडाक्रमेण तस्य दारकस्य सा माता चिन्तयितुं प्रवृत्ता-कियत्कालमन्यद्गृहमहमेवमविभाव्यमानरूपा रतिक्रीडामनुभविष्यामि ? यन्न्वहमस्यैतत् रतिक्रीडाक्रमं तथाविधं क्रमेण संवेदयेयम्, यथा इहैव गृहे रतिक्रीडा भवेत्। इति संचिन्त्य तत्रैव वृद्धागृहे गत्वा रतिक्रीडां पुत्रेण सार्धमनुभूय रजन्याः क्षये सतमोन्धकारकाले तस्य दारकस्योपरिमं प्रावरणं निवस्यात्मनीयां च शिरोत्तरपट्टिकां त्यक्त्वा स्वगृहं गता। स च दारकः प्रभातकाले तां पट्टिकां शिरसि मञ्चस्यावतिष्ठन्तीं संपश्यति। आत्मीयामेवोपरिप्रावरणपोत्रीमलभमानस्तत्रैव तां पट्टिकां संलक्ष्य त्यक्त्वा भाण्डावारीं गत्वा युगलमन्यं प्रावृत्य स्वगृहं गतः। तत्र च गतः संपश्यति तमेवात्मीयं प्रावरणं तस्या मातुः शिरसि प्रावृतम्। दृष्ट्वा च तां मातरं पृच्छति-अम्ब, कुतोऽयं तब शिरसि प्रावरणोऽभ्यागतः ? यतस्तया अभिहितम्-अद्याप्यहं तवाम्बा ? एवं चिरकालं तव मया सार्धं कामान् परिभुञ्जतोऽद्याप्यहं तव सैवाम्बा ? यतः स वणिग्दारकस्तथाविधं मातृवचनमुपश्रुत्य संमूढो विह्वलचेता भूमौ निपतितः। ततस्तया स मात्रा घटजलपरिषेकेणावसिक्तः। स जलपरिषेकावसिक्तो दारकश्चिरेण कालेन प्रत्यागतप्राणस्तया मात्रा समाश्वास्यते -किमेवं खेदमुपागतस्त्वम् ? अस्मदीयं वचनमुपश्रुत्य धीरमना भवस्व। न ते विषादः करणीयः। स दारकस्तस्याः कथयति-कथमहं खेदं न करिष्यामि संमोहं वा, येन मया एवंविधं पापकं कर्म कृतम् ? ततः स तयाभिहितः -न ते मनःशूकमस्मिन्नर्थे उत्पादयितव्यम्। पन्थासमो मातृग्रामः। येनैवं हि यथा पिता गच्छति, पुत्रोऽपि तेनैव गच्छति। न चासौ पन्था पुत्रस्यानुगच्छतो दोषकारको भवति, एवमेव मातृग्रामः। तीर्थसमोऽपि च मातृग्रामः। यत्रैव हि तीर्थे पिता स्नाति, पुत्रोऽपि तस्मिन् स्नाति, न च तीर्थं पुत्रस्य स्नायतो दोषकारकं भवति। एवमेव मातृग्रामः। अपि च प्रत्यन्तेषु जनपदेषु धर्मतैवैषा यस्यामेव पिता असद्धर्मेणाभिगच्छति, तामेव पुत्रोऽप्यधिगच्छति। एवमसौ वणिग्दारको मात्रा बहुविधैरनुनयवचनैर्विनीतशोकस्तया मात्रा तस्मिन् पातकेऽसद्धर्मे पुनः पुनरतीव संजातरागः प्रवृत्तः। तेन च श्रेष्ठिना गृहे लेख्योऽनुप्रेषितः। भद्रे, धीरोर्जितमहोत्साहा भवस्व। अहमपि लेखानुपदमेवागमिष्ये। सा वणिक्पत्नी तथाविधं लेखार्थं श्रुत्वा वैमनस्यजाता चिन्तयितुं प्रवृत्ता-महान्तं कालं मम तस्यागमनमुदीक्षमाणायाः। तदा नागतः। इदानीं मया एवंविधेनोपक्रमेण पुत्रं च परिचरित्वा स चागमिष्यति। क उपायः स्यात् यदहं तमिहासंप्राप्तमेव जीवितात् व्यपरोपयेयम् ? इति संचिन्त्य तं पुत्रमाहूय कथयति- पित्रा ते लेख्योऽनुप्रेषितः आगमिष्यतीति। जानसेऽस्माभिरिदानीं किं करणीयमिति ? गच्छस्व, पितरमसंप्राप्तमेव घातय। स कथयति-कथमहं पितरं घातयिष्ये ? यदा असौ न प्रसहते पितृवधं कर्तुम्, तदा तया मात्रा भूयोऽनुवृत्तिवचनैरभिहितः-तस्यानुवृत्तिवचनैरुच्यमानस्य कामेषु संरक्तस्याध्यवसायो जातः पितृवधं प्रति। कामान् खलु प्रतिसेवतो न हि किंचित् पापकं कर्माकरणीयमिति वदामि। ततस्तेनोक्तम्-केनोपायेन घातयामि ? तया अभिहितम्-अहमेवोपायं संविधास्ये। इत्युक्त्वा विषमादाय समितायां मिश्रयित्वा मण्डिलकान् पक्त्वा अन्येऽपि च निर्विषाः पक्ताः। यतस्तं दारकमाहूय कथयति-गच्छस्व। अमी सविषा मण्डिलका निर्विषाश्च। गृह्य पितृसकाशं गत्वा च तस्य विश्वस्तस्यैकत्र भुञ्जत एतान् सविषान् मण्डिलकान् प्रयच्छस्व, आत्मना च निर्विषान् भक्षय। ततः स दारकस्तेन लेखवाहिकमनुष्येण सार्धं तान् मण्डिलकान् गृह्य गतः पितृसकाशम्। आगम्य पिता अस्य अतीव तं पुत्रं दृष्ट्वा अभिरूपप्रासादिकं महेशाख्यं प्रामोद्यं प्राप्तः। सह्यासह्यं पृष्ट्वा तेषां वणिजामाख्याति-अयं भवन्तोऽस्माकं पुत्रः। यदा तेन दारकेण संलक्षितं सर्वत्र अहमनेन पित्रा प्रतिसंवेदित इति , ततस्तं पितरमाह-तात, अम्बया मण्डिलकाः प्रहेणकमनुप्रेषितम्। तत्तातः परिभुञ्जतु। पश्चात्तेन पित्रा सार्धमेकफलायां भुञ्जता तस्य पितुः सविषा मण्डिलका दत्ताः, आत्मना निर्विषाः प्रभक्षिताः। यतोऽस्य पिता तान् सविषान् मण्डिलकान् भक्षयित्वा मृतः। तस्य च पितुः कालधर्मणा युक्तस्य च दारको न केनचित् पापकं कर्म कुर्वाणोऽभिशङ्कितो वा प्रतिसंवेदितो वा। पश्चात्तैरिष्टस्निग्धसुहृद्भिर्वणिग्भिः शोचयित्वा यत्तत्तु किंचित्तस्य वणिजो भाण्डमासीद्धिरण्यसुवर्णं वा, तत्तस्य दारकस्य दत्तम्। स दारकस्तं भाण्डं हिरण्यसुवर्णं पैतृकं गृह्य स्वगृहमनुप्राप्तः। तस्य च गतस्य स्वगृहं सा माता प्रच्छन्नासद्धर्मेण तं पुत्रं परिचरमाणा रतिं नाधिगच्छति, अनभिरतरूपा च तं पुत्रं वदति-कियत्कालं वयमेवं प्रच्छन्नेन क्रमेण रतिक्रीडामनुभविष्यामः ? यन्नु वयमस्माद्देशादन्यदेशान्तरं गत्वा प्रकाशक्रमेण निःशङ्का भूत्वा जायापतीति विख्यातधर्माणः सुखं प्रतिवसेम। ततस्तौ गृहं त्यक्त्वा मित्रस्वजनसंबन्धिवर्गानपहाय पुराणदासीदासकर्मकरांस्त्यक्त्वा यावदर्थजातं हिरण्यसुवर्णं च गृह्य अन्यविषयान्तरं गतौ। तत्र गत्वा जनपदेषु विख्यापयमानौ जायापतिकमिति रतिक्रीडामनुभवमानौ व्यवस्थितौ। यावदर्हन् भिक्षुः केनचित् कालान्तरेण जनपदचारिकां चरन् तमधिष्ठानमनुप्राप्तः। तेन तत्र पिण्डपातमन्वाहिण्डता वीथ्यां निषद्य अयं वणिग्धर्मणा संव्यवहारमाणः स दारको दृष्टः। दृष्ट्वा चारोग्ययित्वा चाभिभाष्योक्तः -मातुस्ते कुशलम् ? स च दारकस्तमर्हन्तं तथा अभिवदमानमुपश्रुत्य संभिन्नचेताः स्वेन दुश्चरितेन कर्मणा शङ्कितमनाश्चिन्तयितुं प्रवृत्तः। स विचिन्त्य मातृसकाशं गत्वा संवेदयति-यतिरभ्यागतः, योऽसौ अस्मद्गृहमुपसंक्रामति, एष स इहाधिष्ठाने प्रतिसंवेदयिष्यति एषा अस्य दारकस्य मातेति। वयं चेह जायापतिकमिति ख्यातौ। कथमेष शक्यं घातयितुम् ? ततस्तयोः संचिन्त्य तं गृहमेनमुपनिमन्त्रयित्वा भुञ्जानं घातयामः। ततस्तयोरेवं संचिन्त्य सोऽर्हन् भिक्षुरन्तर्गृहमुपनिमन्त्रयित्वा भोजयितुमारब्धः। स दारको गूढशस्त्रो भूत्वा अर्हन्तं भोजयितुं मात्रा सह निर्जनं गृहं कृत्वा स चार्हद्भिक्षुर्भुक्त्वा तस्माद्गृहाद्विश्रब्धचारक्रमेण प्रतिनिर्गतः। ततस्तेन दारकेणैनमन्तर्गृहविश्रब्धचारक्रममवेक्ष्य निर्गच्छन्तं परापृष्ठीभूत्वा शरीरेऽस्य शस्त्रं निपात्य जीविताद् व्यपरोपयति। कामाश्च लवणोदकसदृशाः। यथा यथा सेव्यन्ति, तथा तथा तृष्णा वृद्धिमुपयाति। तस्य दारकस्य सा माता तं पुत्रमसद्धर्मेणानुवर्तमाना तस्मिन्नेवाधिष्ठाने श्रेष्ठिपुत्रेण सार्धं प्रच्छन्नकामा असद्धर्मेषु सक्तचित्ता जाता। तस्य दारकस्य तथाविध उपक्रमः प्रतिसंविदितः। ततस्तेन तस्य मातुरुक्तम् -अम्ब निवर्तस्वेदृशाद्दोषात्। सा च तस्मिन् श्रेष्ठिपुत्रे संरक्तचित्ता द्विरपि त्रिरप्युच्यमाना न निवर्तते। ततस्तेन निष्कोषमसिं कृत्वा सा माता जीविताद्व्यपरोपिता। यदा तस्य त्रीण्यानन्तर्याणि परिपूर्णानि, तदा देवताभिर्जनपदेष्वारोचितम्-पाप एष पितृघातकोऽर्हद्धातको मातृघातकश्च। त्रीण्यनेनानन्तर्याणि नरककर्मसंवर्तनीयानि कर्माणि कृतान्युपचितानि। ततस्तेनाधिष्ठानजनेन तच्छ्रुत्वा तदधिष्ठानान्निर्वासितः। स यदा निर्वासितस्तस्मादधिष्ठानात् तदा चिन्तयितुं प्रवृत्तः -अस्ति चास्य बुद्धशासने कश्चिदेवानुनयः ? एवं मनसि कृतम्-गच्छामि, इदानीं प्रव्रजामीति। स च विहारं गत्वा भिक्षुसकाशमुपसंक्रम्य एवं कथयति-आर्य, प्रव्रजेयम्। ततस्तेन भिक्षुणा उत्तम्-मा तावत् पितृघातकोऽसि ? तेन भिक्षुरभिहितः-अस्ति मया घातितः पिता। ततः पुनः पृष्टः-मा तावन्मातृघातकोऽसि ? तेनोक्तम्-आर्य, घातिता मया माता। स भूयः पृष्टः-मा तावदर्हद्वधस्ते कृतः ? ततः स कथयति-अर्हन्नपि घातितः। ततस्तेन भिक्षुणा अभिहितः -एकैकेन एषां कर्माणामाचरणान्न प्रव्रज्यार्हो भवसि, प्रागेव समस्तानाम्। गच्छ वत्स, नाहं प्रव्राजयिष्ये। ततः स पुरुषोऽन्यस्य भिक्षोः सकाशमुपसंक्रम्य कथयति-आर्य प्रव्रजेयम्। ततस्तेनापि भिक्षुणा अनुपूर्वेण पृष्ट्वा प्रत्याख्यातः। ततः पश्चादन्यस्य भिक्षोः सकाशं गतः। तमपि तथैव प्रव्रज्यामायाचते। तेनापि तथा अनुपूर्वक्रमेण पृष्ट्वा प्रत्याख्यातः। स यदा द्विरपि त्रिरपि प्रव्रज्यामायाचमानोऽपि भिक्षुभिर्न प्रव्राजितः, तदा अमर्षजातश्चिन्तयितुं प्रवृत्तः-या अपि सर्वसाधारणा प्रव्रज्या, तामहमप्यायाचन्न लभामि। ततस्तेन तस्मिन् विहारे शयितानां भिक्षूणामग्निर्दत्तः। तस्मिन् विहारेऽग्निं दत्वा अन्यत्र विहारं गतः। तत्रापि गत्वा भिक्षूणामुपसंक्रम्य प्रव्रज्यामायाचते। तैरपि तथैवानुपूर्वेण पृष्ट्वा प्रत्याख्यातः। तत्रापि तेन तथैव प्रतिहतचेतसा अग्निर्दत्तः। तत्रापि विहारे बहवो भिक्षवः शैक्षाशैक्षाश्च दग्धाः। एवं तस्यानेकान् विहारान् दहतः सर्वत्र शब्दो विसृतः-एवंविधश्चैवंविधश्च पापकर्मकारी पुरुषो भिक्षुभ्यः प्रव्रज्यामलभन् विहारान् भिक्षूंश्च दहतीति। स च पुरुषोऽन्यविहारं प्रस्थितः। तत्र च विहारे बोधिसत्त्वजातीयो भिक्षुः प्रतिवसति तृपितः। तेन श्रुतं स एवं दुष्करकर्मकारी पुरुष इहागच्छतीति। यतः स भिक्षुस्तस्य पुरुषस्यासंप्राप्तस्यैव तस्मिन् विहारे प्रत्युद्गतः। स तं पुरुषं समेत्य कथयति-भद्रमुख, किमेतत् ? यतोऽस्य पुरुषेणोक्तम्-आर्य, प्रव्रज्यां न लभामि। ततस्तेन भिक्षुणा उक्तम्-आगच्छ वत्स, अहं ते प्रव्राजयामीति। पश्चात् तेन भिक्षुणा तस्य पुरुषस्य शिरो मुण्डापयित्वा काषायाणि वस्राणि दत्तानि। पश्चात् स पुरुषः कथयति-आर्य, शिक्षापदानि मेऽनुप्रयच्छ। ततस्तेन भिक्षुणा उक्तः-किं ते शिक्षापदैः प्रयोजनम् ? एवं सर्वकालं वदस्व-नमो बुद्धाय, नमो धर्माय, नमः संघायेति। पश्चात् स भिक्षुस्तस्य पुरुषस्य धर्मदेशनामारब्धः कर्तुम्-त्वमेवंविधश्चैवंविधश्च पापकर्मकारी सत्त्वो यदि कदाचिद्बुद्धशब्दं शृणोषि, स्मृतिं प्रतिलभेथाः। अथासौ त्रिपिटो भिक्षुश्च्युतः कालगतो देवेषूपपन्नः। स चापि पुरुषश्च्युतः कालगतो नरकेषूपपन्नः॥



यतो भगवानाह- किं मन्यध्वे भिक्षवः ? योऽसौ अतीतेऽध्वनि भिक्षुः त्रिपिट आस, अहमेव स तेन कालेन तेन समयेन। योऽसौ पापकर्मकारी सत्त्वो मातापित्रर्हद्धातकः, एष एव धर्मरुचिः। इदं मम तृतीयेऽसंख्येयेऽस्य धर्मरुचेर्दर्शनम्। तदहं संधाय कथयामि- चिरस्य धर्मरुचे, सुचिरस्य धर्मरुचे, सुचिरचिरस्य धर्मरुचे। यावच्च मया भिक्षवस्त्रिभिरसंख्येयैः षड्भिः पारमिताभिरन्यैश्च दुष्करशतसहस्रैरनुत्तरा सम्यक्संबोधिः समुदानीता, तावदनेन धर्मरुचिना यद्भूयसा नरकतिर्यक्षु क्षपितम्॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



धर्मरुच्यवदानमष्टादशम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project