Digital Sanskrit Buddhist Canon

१७ मान्धातावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१७ मान्धातावदानम्।



एवं मया श्रुंतम्। एकस्मिन् समये भगवान् वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत्। वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिसमय्य येन चापालचैत्यं तेनोपसंक्रान्तः। उपसंक्रम्यान्यतमं वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-रमणीया आनन्द वैशाली वृजिभूमिश्चापालचैत्यं सप्ताम्रकं(बहुपत्रकं) गौतमन्यग्रोधः शालवनं धुरानिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्। चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्। यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत् कल्पावशेषं वा। तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा। एवमुक्ते आयुष्मानानन्दस्तूष्णीम्। द्विरपि त्रिरपि भगवानायुष्मन्तमानन्दमामन्त्रयते-रमणीया आनन्द वैशाली वृजिभूमिश्चापालं चैत्यं सप्ताम्रकं बहुपत्रकं गौतमन्यग्रोधः शालवनं धुरानिक्षेपनं मल्लानां मकुटबन्धनं चैत्यम्। चित्रो जम्बुद्वीपः, मधुरं जीवितं मनुष्याणाम्। यस्य कस्यचिदानन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षन् स कल्पं वा तिष्ठेत् कल्पावशेषं वा। तथागतस्य आनन्द चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा। द्विरपि त्रिरपि आयुष्मानानन्दस्तूष्णीम्। अथ भगवत एतदभवत्-स्फुटोऽभवदानन्दो भिक्षुर्मारेण पापीयसा यत्रेदानीं यावत् त्रिरपि औदारिके अवभासनिमित्ते प्राविष्क्रियमाणे न शक्नोति तन्निमित्तमाज्ञातुं यथापि ततः स्फुटो मारेण पापीयसा। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-गच्छ त्वमानन्द, अन्यतरवृक्षमूलं निश्रित्य विहर, मा उभावपि आकीर्णविहारिणौ भविष्यावः। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य अन्यतमवृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय। स मारः पापीयान् येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्-परिनिर्वातु भगवान्। परिनिर्वाणकालसमयः सुगतस्य। कस्मात् त्वं पापीयन् एवं वदसि-परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य ? एकोऽयं भदन्त समयः -भगवानुरुबिल्वायां विहरति नद्या नैरञ्जनायास्तीरे बोधिमूलेऽचिराभिसंबुद्धः। सोऽहं येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमेवं वदामि-परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य। भगवानेवमाह-न तावत् पापीयन् परिनिर्वास्यामि, यावन्न मे श्रावकाः पण्डिका भविष्यन्ति व्यक्ता विनीता विशारदाः, अलमुत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहीतारः, अलं स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उपासिकाः। वैस्तारिकं च ते ब्रह्मचर्यं चरिष्यन्ति बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। एतर्हि भदन्त भगवतः श्रावकाः पण्डिता व्यक्ता विनीता विशारदा अलमुत्पन्नोत्पन्नानां परप्रवादिनां सहधर्मेण निग्रहीतारः, स्वस्य वादस्य पर्यवदापयितारो भिक्षवो भिक्षुण्य उपासका उपासिकाः। वैस्तारिकं च ते ब्रह्मचर्यं बाहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। तस्मादहमेवं वदामि-परिनिर्वातु भगवान्, परिनिर्वाणकालसमयः सुगतस्य। अल्पोत्सुकस्त्वं पापीयन् भव। नचिरस्येदानीं तथागतस्य त्रयाणां वार्षिकाणां मासानामत्ययान्निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति। अथ मारस्य पापीयस एतदभवत्-परिनिर्वास्यते बत श्रमणो गौतमः। इति विदित्वा हृष्टस्तुष्टः प्रमुदित उदग्रः प्रीतिसौमनस्यजातस्तत्रैवान्तर्हितः॥



अथ भगवत एतदभवत्-कस्तथागतस्य संमुखं वैनेयः ? सुप्रियो गन्धर्वराजा सुभद्रश्च परिव्राजकः। तयोस्रयाणां वार्षिकाणां मासानामत्ययादिन्द्रियपरिपाको भविष्यति सुखाधिष्ठानं वा। शक्यं श्रावकवैनेयस्तथागतेन विनयितुं न तु तथागतवैनेयः श्रावकेण॥



अथ भगवत एतदभवत्-यन्न्वहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृजेयम्। अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्स्त्रष्टुमारब्धः। समनन्तराधिष्ठितेषु जीवितसंस्कारेषु महापृथिवीचालोऽभूदुल्कापाता दिशोदाहाः। अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति। समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु कामावचरेषु देवेषु षण्निमित्तानि प्रादुर्भूतानि-पुष्पवृक्षाः शीर्णाः, रत्नवृक्षाः शीर्णाः, आभरणवृक्षाः शीर्णाः, भवनसहस्राणि प्रकम्पितानि, सुमेरुशृङ्गानि विशीर्णानि, दैवतानि वादित्रभाण्डानि पराहतानि। अथ भगवांस्तस्मात् समाधेर्व्युत्थाय तस्यां वेलायां गाथां भाषते-



तुल्यमतुल्यं च संभवं भवसंस्कारमपोत्सृजन्मुनिः।

अध्यात्मरतः समाहितो ह्यभिनत्कोशमिवाण्डसंभवः॥१॥



समनन्तरोत्सृष्टेष्वायुःसंस्कारेषु षट् कामावचरा देवाः क्रियाकारं कृत्वा भगवतोऽन्तिकं प्रक्रान्ता दर्शनाय वन्दनाय। भगवता तादृशी धर्मदेशना कृता यदनेकैर्देवताशतसहस्रैः सत्यानि दृष्टानि, दृष्टसत्याः स्वभवनमनुप्राप्ताः। समनन्तरोत्सृष्टेष्वायुःसंस्कारेष्वनेकानि पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि। ते भगवता 'एत भिक्षवश्चरत ब्रह्मचर्यं' प्रव्रजिताः। तैर्योजयद्भिर्घटद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। समनन्तरोत्सृष्टेष्वायुः-संस्कारेष्वनेका नागयक्षगन्धर्वकिन्नरमहोरगा भगवतः सकाशमुपसंक्रान्ता भगवतो दर्शनाय। भगवता तेषामेवंविधा धर्मदेशना कृता यदनेकैर्नागयक्षगन्धर्वकिन्नरैर्महोरगैः शरणगमनशिक्षापदानि गृहीतानि यावत् स्वभवनमनुप्राप्ताः॥



अथायुष्मानानन्दः सायाह्नेऽभिसंलयनाद्व्युत्थाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थाद्। एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्-को भदन्त हेतुः कः प्रत्ययो महतः पृथिवीचालस्य ? अष्टौ इमे आनन्द अष्टौ प्रत्यया महतः पृथिवीचालस्य। कतमेऽष्टौ ? इयमानन्द महापृथिवी अप्सु प्रतिष्ठिता, आपो वायौ प्रतिष्ठिताः, वायुराकाशे प्रतिष्ठितः। भवत्यानन्द समयो यदाकाशे विषमा वायवो वान्ति, आपः क्षोभयन्ति, आपः क्षुब्धाः पृथिवीं चालयन्ति। अयमानन्द प्रथमो हेतुः प्रथमः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द भिक्षुर्महर्द्धिको भवति महानुभावः। स परित्तां पृथिवीसंज्ञामधितिष्ठति अप्रमाणां चाप्संज्ञाम्। स आकाङ्क्षमाणः पृथिवीं चालयति। देवता महर्द्धिका भवति महानुभावा। सापि परित्तां पृथिवीसंज्ञामधितिष्ठति अप्रमाणां चाप्संज्ञाम्। साप्याकाङ्क्षमाणा पृथिवीं चालयति। अयं द्वितीयो हेतुर्द्धितीयः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द।यस्मिन् समये बोधिसत्त्वस्तुषिताद्देवनिकायाच्च्युत्त्वा मातुः कुक्षिमवक्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रामू सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा उपपन्नाः, ते तया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ते- अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द तृतीयो हेतुस्तृतीयः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो मातुः कुक्षेर्निष्क्रामति, अथ तस्मिन् समये महापृथिवीचालो भवति सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति-अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द चतुर्थो हेतुश्चतुर्थः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वोऽनुत्तरं ज्ञानमधिगच्छति, अथ तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति-अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द पञ्चमो हेतुः पञ्चमः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द यस्मिन् समये तथागतस्त्रिपरिवर्तद्वादशाकारं धर्मचक्रं परिवर्तयति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणाबभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति-अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द षष्ठो हेतुः षष्ठः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द यस्मिन् समये तथागतो जीवितसंस्कारानधिष्ठाय आयुःसंस्कारानुत्सृजति, अत्यर्थं तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा उपपन्नाः, ते तयाभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति-अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द सप्तमो हेतुः सप्तमः प्रत्ययो महतः पृथिवीचालस्य। पुनरपरमानन्द नचिरस्येदानीं तथागतस्य निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति। अथ तस्मिन् समये महापृथिवीचालो भवति उल्कापाता दिशोदाहाः, अन्तरिक्षे देवदुन्दुभयोऽभिनदन्ति, सर्वश्चायं लोक उदारेणावभासेन स्फुटो भवति। या अपि ता लोकस्य लोकान्तरिका अन्धास्तमसोऽन्धकारतमिस्रा यत्रेमौ सूर्यचन्द्रमसौ एवंमहर्द्धिकौ एवंमहानुभावौ आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा भवन्ति। तत्र ये सत्त्वा, उपपन्नाः, ते तया आभया अन्योन्यं सत्त्वं दृष्ट्वा संजानन्ति-अन्येऽपीह भवन्तः सत्त्वा उपपन्नाः, अन्येऽपीह भवन्तः सत्त्वा उपपन्ना इति। अयमानन्द अष्टमो हेतुरष्टमः प्रत्ययो महतः पृथिवीचालस्य॥



अथायुष्मानानन्दो भगवन्तमिदमवोचत्-यथा खल्वहं भदन्त भगवता भाषितस्यार्थमाजानामि, इहैव भगवता जीवितसंस्कारानधिष्ठाय आयुःसंस्कारा उत्सृष्टा भविष्यन्ति। भगवानाह-एवमेतदानन्द, एवमेतत्। एतर्हि आनन्द तथागतेन जीवितसंस्कारानधिष्ठाय आयुःसंस्कारा उत्सृष्टाः। संमुखं मे भदन्त भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतम्-यस्य कस्यचिच्चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः, आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत्, कल्पावशेषं वा। भगवता भदन्त चत्वार ऋद्धिपादा आसेविता भाविता बहुलीकृताः। आकाङ्क्षमाणस्तथागतः कल्पं वा तिष्ठेत् कल्पावशेषं वा। तिष्ठतु भगवान् कल्पम्, तिष्ठतु सुगतः कल्पावशेषं वा। तवैवानन्द अपराधस्तवैव दुष्कृतं यस्त्वं तथागतस्य यावत् त्रिरप्यौदारे अवभासनिमित्ते प्राविष्कृते न शक्नोषि तन्निमित्तं प्रतिश्रावयितुम्, अपि ततः स्फुटो मारेण पापीयसा। किमन्यस्य आनन्द भाषेत तथागतस्तां वाचं या स्याद् द्विधा ? नो भदन्त। साधु साधु आनन्द, अस्थानमेतदानन्द अनवकाशो यत् तथागतस्तां वाचं भाषेत या स्याद्द्विधा। गच्छ त्वमानन्द, यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपातय। एवं भदन्त। आयुष्मानानन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, तान् सर्वानुपस्थानशालायां संनिपात्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्तस्थित आयुष्मानानन्दो भगवन्तमिदमवोचत्-यावन्तो भदन्त भिक्षवश्चापालं चैत्यमुपनिश्रित्य विहरन्ति, सर्वे ते उपस्थानशालायां निषण्णाः संनिपतिताः, यस्येदानीं भगवान् कालं मन्यते। अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्। निषद्य भगवान् भिक्षूनामन्त्रयते स्म-अनित्या भिक्षवः सर्वसंस्कारा अध्रुवा अनाश्वासिका विपरिणामधर्माणो यावदलमेव भिक्षवः सर्वसंस्कारान् संस्करितुमलम्। विरमन्तु तस्मात् तर्हि भिक्षवः। एतर्हि वा मेऽत्ययाद्ये ते धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ते भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या वाचयितव्या ग्राहयितव्या यथैव तत्र ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। एतर्हि भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, ये भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। यदुत चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः। इमे ते भिक्षवो धर्मा दृष्टधर्महिताय संवर्तन्ते दृष्टधर्मसुखाय, संपरायहिताय संपरायसुखाय, भिक्षुभिरुद्गृह्य पर्यवाप्य तथा तथा धारयितव्या ग्राहयितव्या वाचयितव्या यथैतद्ब्रह्मचर्यं चिरस्थितिकं स्याद्बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्संप्रकाशितम्। आगमय आनन्द येन कुशिग्रामकम्। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्। भगवान् वैशालीवनमभिसरन् दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति। अथायुष्मानानन्दो भगवन्तमिदमवोचत्-नाहेत्वप्रत्ययं भदन्त तथागता अर्हन्तः सम्यक्संबुद्धा दक्षिणेन नागावलोकितमवलोकयन्ति। को भदन्त हेतुः, कः प्रत्ययो नागावलोकितस्य ? एवमेतदानन्द, एवमेतत्। नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयन्ति। इदमानन्द तथागतस्यापश्चिमं वैशालीदर्शनम्। न भूय आनन्द तथागतो वैशालीमागमिष्यति। परिनिर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्। अथान्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते -



इदमपश्चिमकं नाथ वैशाल्यास्तव दर्शनम्।

न भूयः सुगतो बुद्धो वैशालीमागमिष्यति॥२॥



निर्वाणाय गमिष्यति मल्लानामुपवर्तनं यमकशालवनम्। यदा ह भगवता वाग् भाषिता इदमपश्चिमकं वैशाल्या दर्शनम्, तदा अनेकाभिर्वैशालीवननिवासिनीभिर्देवतैरश्रुपातः कृतः। स्थविरानन्दः कथयति-न भगवन्नमेघेनैव वर्षासु प्रवृष्टः ? भगवानाह-वैशालिवननिवासिनीभिर्दैवतैर्मम वियोगादश्रुपातः कृतः। ता अपि देवता (?) वैशाल्यां शब्दो निश्चारितः-भगवान् परिनिर्वाणाय गच्छति, न भूयो भगवान् वैशालीमागमिष्यति। देवतानां शब्दं श्रुत्वा अनेकानि वैशालिकानि प्राणिशतसहस्राणि भगवत्सकाशमुपसंक्रान्तानि। भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा एवंविधा धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि गृहीतानि। कैश्चिच्छ्रोतापत्तिफलं कैश्चित् सकृदागामिफलं कैश्चिदनागामिफलं प्राप्तम्। कैश्चित् प्रव्रजित्वा अर्हत्त्वं प्राप्तम्। कैश्चिच्छ्रावकबोधौ चित्तमुत्पादितम्। कैश्चित् प्रत्येकायां बोधौ चित्तमुत्पादितम्। कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि। यद्भूयसा सा पर्षद्बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। स्थविरानन्दः कृताञ्जलिपुटो भगवन्तमिदमवोचत्-पश्य भदन्त यावत् त्वम्। भगवता परिनिर्वाणाय प्रस्थितेनानेकानि देवताशतसहस्राणि सत्येषु प्रतिष्ठापितानि। अनेकाभ्यः पर्वतकन्दरगिरिगुहाभ्योऽनेकानि ऋषिशतसहस्राण्यागतानि। भगवता एते भिक्षवः प्रव्रजिताः। तैर्युज्यद्भिर्घटद्भिर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अनेकैर्देवनागयक्षगन्धर्वकिन्नरमहोरगैः शरणगमनशिक्षापदानि गृहीतानि। अनेकानि वैशालकानि प्राणिशतसहस्राणि स्रोतआपत्तिफले प्रतिष्ठापितानि। केचित् सकृदागामिफले, केचिदनागामिफले, केचित् प्रव्राजिताः। प्रव्रजित्वा अर्हत्त्वं प्राप्तम्। केचिच्छरणगमनशिक्षापदेषु प्रतिष्ठापिताः। अत्र आनन्द किमाश्चर्यं मया एतर्हि सर्वज्ञेन सर्वाकारज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन अस्ततृष्णेन निरुपादानेन सर्वाहंकारममकारास्मिमानाभिनिवेशानुशयप्रहीणेन एवंविधं वैनेयकार्यं कृतम्। यन्मया अतीतेऽप्यध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण यन्मया मरणान्तिकया वेदनया स्पृष्टेन एवंविधा परिकर्मकथा कृता, यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय, ऋषयः प्रव्रजित्वा चत्वारो ब्रह्मविहारान् भावयित्वा कल्पवृन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः। तच्छ्रुणु-



भूतपूर्वमानन्द उपोषधो नाम राजा बभूव। उपोषधस्य राज्ञो मूर्ध्नि पिट्टको जातो मृदुः सुमृदुः, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा। न कंचिदाबाधं जनयति। पक्कः स्फुटितः। कुमारो जातोऽभिरूपो दर्शनीयः प्रासादिको द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः। उपोषधस्य राज्ञः षष्टिस्त्रीसहस्राणि। सर्वासां स्तनाः प्रसृताः। एकैका कथयति-मां धय मां धय। मूर्धतो जातो मूर्धात इति संज्ञा संवृत्ता। मां धय मां धय मान्धात इति संज्ञा संवृत्ता। अन्ये कथयन्ति- केचिन्माधात इति संजानीते। मान्धातस्य कुमारस्य कुमारक्रीडायां क्रीडतः षट् चक्राश्च्युताः। यौवराज्ये प्रतिष्ठितस्य षट् चक्राश्च्युताः। मान्धाता जनपदान् गतः। जनपदान् गतस्य पिता ग्लानीभूतः। स मूलपत्रगण्डपुष्पभैषज्यैरुपस्थीयमानो हीयत एव। ततस्तैरमात्यैः संदेशो विसर्जितः - पिता ते ग्लानीभूतः। आगच्छतु। देवराज्यं प्रतीच्छ। तस्यानागच्छतः पिता कालगतः। तैरमात्यैः पुनः संदेशो विसर्जितः-पिता ते कालधर्मणा संयुक्तः। आगच्छ, देवराज्यं प्रतीच्छस्व। ततोऽसौ संलक्षयति-यदि मम पिता कालगतः, किं भूयोऽहं गच्छामीति ? ततो भूयः संदेशोऽभ्यागतः। आगच्छ, देवराज्यं प्रतीच्छ। स कथयति-यदि मम धर्मेण राज्यं प्राप्स्यते, इहैव राज्याभिषेक आगच्छतु। ततस्ते अमात्याः कथयन्ति- रत्नशिलया देव प्रयोजनं भवति। तस्य च दिवौकसो नाम यक्षः पुरोजवः। तेन रत्नशिला आनीता। यदा रत्नशिला आनीता, ततस्ते अमात्या भूयः कथयन्ति-देव श्रीपर्यङ्केनात्र प्रयोजनं भवति। ततस्तेनैव दिवौकसेन श्रीपर्यङ्क आनीतः। ततस्ते अमात्या भूयः कथयन्ति- देवाधिष्ठानमध्येऽभिषेकः क्रियते। स कथयति-यदि मम धर्मेण राज्यं प्राप्स्यते, इहैवाधिष्ठानमागच्छतु। ततोऽधिष्ठानं स्वयमेव तत्प्रदेशं गतम्। स्वयमागतं स्वयमागतं साकेतसाकेतमिति संज्ञा संवृत्ता। पश्चात् तेऽमात्या भटबलाग्रनैगमजनपदाश्चाभिषेकं गृहीत्वा आगताः। ते कथयन्ति- अभिषेकं देव प्रतीच्छस्व। स कथयति-मम मनुष्याः पट्टं बन्धिष्यन्ति ? यदि धर्मेण राज्यं प्राप्स्यते, अमनुष्याः पट्टं वन्धन्तु। ततोऽमनुष्यैः पट्टो बद्धः। तस्य सप्त रत्नानि प्रादुर्भूतानि, तद्यथा-चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं परिणायकरत्नं स्त्रीरत्नं गृहपतिरत्नमेव सप्तमम्। पूर्णं चास्य सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। वैशालीसामन्तकेन रमणीयं वनखण्डम्। तत्र पञ्च ऋषिशतानि पञ्चाभिज्ञानि ध्यायन्ति। तत्र वनखण्डे प्रभूताः पक्षिणो मृगाश्च प्रतिवसन्ति। शब्दकण्टकानि च ध्यानानि। ते च पक्षिणोऽवतीर्यमाणा अवतीर्यमाणाः शब्दं कुर्वन्ति। दुर्मुखो नाम ऋषिः। स कुपितः। तेनोक्तम्-बकानां पक्षाणि शीर्यन्ताम्। यदा तेषां ऋषिकोपेन पक्षाणि शीर्णानि, ततस्ते पादोद्धारकेण प्रस्थिताः। स च राजा जनपदाननुसंसार्य पश्यति पादोद्धारकेण गच्छतः। यतस्तेऽमात्याः पृष्टाः -कस्मात् पादोद्धारकेण गच्छन्ति ? पश्चात् तेऽमात्याः कथयन्ति -देव, शब्दकण्टकानि ध्यानानीति एतेषां ऋषिकोपेन पक्षाणि शीर्णानि। ततो राज्ञा अभिहितम्-एवंविधा अपि ऋषयो भवन्ति, येषां सत्त्वानामन्तिके नास्त्यनुकम्पा ? ततो राज्ञा अमात्याः संदिष्टाः-गच्छन्तु भवन्तः, ऋषीणामेवं वदन्तु - तत्र गच्छत यत्राहं न वसया (सा ?) मीति। यतस्तैरमात्यैः ऋषयोऽभिहिताः। राजा समादिशति - न मम राज्ये वस्तव्यम्। गच्छन्तु भवन्तो यत्राहं न वसया ( सा ?) मीति। ततस्ते संलक्षयन्ति -एषोऽयं चतुर्द्वीपेश्वरः। गच्छामो वयं सुमेरुपरिखण्डम्। ते तत्र गत्वा अवस्थिताः॥



राज्ञो मूर्धातस्यामात्याश्चिन्तकास्तुलका उपपरीक्षकाः। चिन्तयित्वा तुलयित्वोपपरीक्ष्य पृथक् पृथगुक्ताः शिल्पस्थानकर्मस्थानानि मापयितुम्। चिन्तका इमे तुलका उपपरीक्षका इति मन्त्रजा मन्त्रजा इति संज्ञा। तैरारब्धानि कर्षणकर्माणि कर्तुम्। यतः स राजा पश्यति जनपदाननुसंसार्याकृष्यान् कर्मान्तान् कुर्वतः। यतो राज्ञा अभिहितम्-किमेते मनुष्याः कुर्वन्ति ? ततस्तैरमात्यै राजा अभिहितः - एते देव मनुष्याः शस्यादीनि कृषन्ति, ततो ओषधयो भविष्यन्ति। यतश्च स राजा कथयति- मम राज्ये मनुष्याः कृषिष्यन्ति ? ततस्तेनोक्तम्-सप्ताविंशतिबीजजातीनां देवो वर्षतु। सहचित्तोत्पादादेव राज्ञो मूर्धातस्य सप्ताविंशतिबीजजातिर्देवो वृष्टः। राज्ञा मूर्धातेन जनपदाः पृष्टाः-कस्यैतानि पुण्यानि ? तैरभिहितम् -देवस्य चास्माकं च। यतस्ते मनुष्याः कर्पासवातानारब्धा मापयितुम्, भूयोऽपि च राज्ञा मूर्धातेन जनपदाननुसंसार्य तेन पृष्टाः। ततो राज्ञा अभिहितम्- किमेते मनुष्याः कुर्वन्ति ? तैरमात्यैरभिहितम् -देव, मनुष्याः कर्पासवातान् मापयन्ति। पश्चात् राज्ञा अभिहितम्-कस्यार्थे ? तैरमात्यैरभिहितम् - देव, वस्त्राणामर्थे। ततो राज्ञा तेनोक्तम्- मम राज्ये मनुष्याः कर्पासवातान् मापयिष्यन्तीति कर्पासमेव देवो वर्षतु। सहचित्तोत्पादादेव राज्ञो मूर्धातस्य कर्पासानेव देवो वृष्टः। स च राजा जनपदान् पृच्छति। कस्यैतानि पुण्यानि ? ते कथयन्ति-देवस्य चास्माकं च। पश्चात् तेन जनेन तत्कर्पासं कर्तितुमारब्धम्। स राजा कथयति- किमेते मनुष्याः कुर्वन्ति ? तैरमात्यैरभिहितम्-देव सूत्रेण प्रयोजनम्। ततो राज्ञा अभिहितम्-मम राज्ये मनुष्याः कर्तिष्यन्ति ? सूत्रमेव देवो वर्षतु। सहचित्तोत्पादादेव राज्ञो मान्धातस्य सूत्रमेव देवो वृष्टः। स च राजा कथयति-कस्यैतानि पुण्यानि? यतस्ते कथयन्ति-देवस्य चास्माकं च। यतस्तैरनुपूर्वेण वस्त्राण्यारब्धानि वापयितुम्। स राजा कथयति- किमेते मनुष्याः कुर्वन्ति ? तैरमात्यैरभिहितम्-देव, वस्त्राणि वापयन्ति, वस्त्रैः प्रयोजनम्। यतो राजा संलक्षयति-मम राज्ये मनुष्या वस्त्राणि वापयिष्यन्ते ? वस्त्राण्येव देवो वर्षतु। सहचित्तोत्पादादेव राज्ञो मान्धातस्य वस्त्राण्येव देवो वृष्टः। स राजा कथयति- कस्यैतानि पुण्यानि ? ते कथयन्ति- देवस्य चास्माकं च। यतः स राजा संलक्षयति- मनुष्या मम पुण्यानां प्रभावं न जानन्ति। अथ राज्ञो मान्धातस्यैतदभवत्। अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च। सन्ति मे सप्त रत्नानि, तद्यथा चक्ररत्नं हस्तिरत्नमश्चरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नमेव सप्तमम्। पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। अहो बत मेऽन्तःपुरे सप्ताहं हिरण्यवर्षं पतेत्, एककार्षापणोऽपि बहिर्न निपतेत्। सहचित्तोत्पादादेव राज्ञो मान्धातस्यान्तःपुरे सप्ताहं हिरण्यवर्षं वृष्टम्। एककार्षापणोऽपि बहिर्न निपतितो यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतपुण्यस्य कृतकुशलस्य स्वकं पुण्यफलं प्रत्यनुभवतः। यतः स राजा कथयति-कस्यैतानि पुण्यानि ? ते कथयन्ति-देवस्य चास्माकं च। यतो राजा मूर्धातः कथयति- क्षुण्णा भवन्तो यदि युष्माभिः पूर्वमेवाभिहितमभविष्यद्देवस्य पुण्यानीति, मया सकलं जम्बुद्वीपं रत्नैरभिवृष्टमभविष्यत्। अपि तु यो युष्माकं रत्नैरर्थी, स यावदीप्सितानि रत्नानि गृह्णातु॥



तस्य तत्र मूर्धातस्य राज्ञो महाराज्यं कारयतः षट् चक्राश्च्युताः। राज्ञो मूर्धातस्य दिवौकसो यक्षः पुरोजवः। स राज्ञा मूर्धातेनोक्तः - अस्ति किंचिदन्यद्वीपे नाज्ञापितं यद्वयमाज्ञापयेम ? यतः पश्चाद्दिवौकसेनाभिहितः - अस्ति देव पूर्वविदेहो नाम द्वीपः, ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यः। स्वयं नु देवो गत्वा तमप्याज्ञापयेत्। अथ राज्ञो मूर्धातस्यैतदभवत् -अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च। अस्ति मे सप्त रत्नानि तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्। श्रूयते अथ खलु पूर्वविदेहो नाम द्वीपः। यन्न्वहं तमपि गत्वा समनुशासेयम्। सहचित्तोत्पादादेव राजा मान्धात उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः। अगमद्राजा मान्धातः पूर्वविदेहद्वीपम्। प्रत्यष्ठाद्राजा मान्धाता पूर्वविदेहद्वीपे। समनुविष्टवान् राजा मूर्धातः पूर्वविदेहं द्वीपम्। तस्य तत्र समनुशासतः षट् चक्राश्च्युताः। भूयः स राजा दिवौकसं यक्षमामन्त्रयति-अस्ति दिवौकस किंचिदन्यद्वीपे नाज्ञापितम् ? दिवौकस आह-अस्ति देव अपरगोदानीयं नाम द्वीपं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। यन्नु देवस्तमपि गत्वा समनुशासेत्। अथ राज्ञो मूर्धातस्यैतदभवत्- अस्ति मे जम्बुद्वीप ऋद्धश्च स्फीतश्च क्षेमश्च सुभिक्षश्च आकीर्णबहुजनमनुष्यश्च। सन्ति च मे सप्त रत्नानि। पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम्। वृष्टं मे सप्ताहमन्तः-पुरे हिरण्यवर्षं यथापि तन्महर्द्धिकस्य सत्त्वस्य महानुभावस्य कृतकुशलस्य स्वपुण्यफलं प्रत्यनुभवतः। श्रूयते अपरगोदानीयं नाम द्वीपं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। यन्न्वहं तमपि गत्वा समनुशासेयम्। सहचित्तोत्पादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजवः। अगमद्राजा मान्धाता अपरगोदानीयं द्वीपम्। अनुशास्ति राजा मान्धाता अपरगोदानीयम्। तस्य समनुशासतः षट् चक्राश्च्युताः। यतः स राजा मान्धाता दिवौकसं यक्षं पृच्छति-अस्ति कश्चिदन्यद्वीपो दिवौकस नाज्ञापितः ? आगतोऽस्मि पूर्वान्। अस्ति देव उत्तरकुरुर्नाम द्वीपः। किं चापि ते मनुष्या अममा अपरिग्रहाः। यन्नु देवो गत्वा स्वकं भटबलाग्रं समनुशासेत्। अथ राज्ञो मान्धातस्यैतदभवत्-अस्ति मे जम्बुद्वीपं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। सन्ति मे सप्त रत्नानि। पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। वृष्टमेव सप्ताहमन्तःपुरे हिरण्यवर्षम्। श्रूयते उत्तरकुरुर्नाम द्वीपः। किंचापि ते मनुष्या अममा अपरिग्रहाः। यन्न्वहं तत्रापि गत्वा स्वं भटबलाग्रं समनुशासेयम्। सहचित्तोत्पादादेव राजा मान्धाता सार्धमष्टादशभिर्भटबलाग्रकोटिभिः पुत्रसहस्रपरिवृतः सप्तरत्नपुरोजव उपरिविहायसेनाभ्युद्गतः। अद्राक्षीद्राजा मान्धातः सुमेरुपार्श्वेनानुयायन् चित्रोपचित्रान् वृक्षानापीडकजातान्। दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते स्म-किमेतद्दिवौकस चित्रोपचित्रान् वृक्षानापीडकजातान्। एते देव उत्तरकौरवाणां मनुष्याणां कल्पदूष्यवृक्षाः, यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावृण्वन्ति। देवोऽप्यत्रैव गत्वा कल्पदूष्यानि प्रावरीतु। श्रुत्वा च पुना राजा मान्धाता अमात्यानामन्त्रयते-पश्यथ यूयं ग्रामण्यश्चित्रोपचित्रान् वृक्षानापीडकजातान् ? एवं देव। एते ग्रामण्य उत्तरकौरवाणां मानुष्याणां कल्पदूष्यवृक्षा यत उत्तरकौरवा मनुष्याः कल्पदूष्याणि प्रावरन्ति। यूयमप्यत्र गत्वा कल्पदूष्ययुगानि प्रावरध्वम्। अद्राक्षीद्राजा मान्धाता सुमेरुपार्श्वेनानुयायन् श्वेतश्वेतं पृथिवीप्रदेशम्। दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते- किमेतद्दिवौकस श्वेतश्वेतं पृथिवीप्रदेशम् ? एतद्देव उत्तरकौरवकाणां मनुष्याणामकृष्टोप्तं तण्डुलफलशालिं यत उत्तरकौरवका मनुष्या अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जन्ति। देवोऽप्यत्र गत्वा अकृष्टोप्तं तण्डुलफलशालिं परिभुञ्जतु। अगमद्राजा मान्धाता उत्तरकुरुद्वीपम्। प्रत्यष्ठाद्राजा मान्धाता उत्तरकुरौ द्वीपे। समनुशास्ति राजा मान्धाता उत्तरकुरौ द्वीपे स्वकं भटबलाग्रम्। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। अथ राजा मान्धाता दिवौकसं यक्षमामन्त्रयते-अस्ति किंचिदन्यद्वीपमनाज्ञापितमिति ? नास्ति देव। श्रूयन्ते देवास्त्रायस्त्रिंशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः। यन्नु देवो देवांस्त्रायस्त्रिंशान् दर्शनायोपसंक्रमेत्। अथ राज्ञो मूर्धातस्यैतदभवत्-अस्ति मे जम्बुद्वीपम्, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। अस्ति मे सप्त रत्नानि। पूर्णं च मे सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। वृष्टं मे सप्ताहमन्तःपुरे हिरण्यवर्षम्। समनुशिष्टो मे पूर्वविदेहो द्वीपः। समनुशिष्टो मे अपरगोदानीयो द्वीपः। समनुशिष्टं मे उत्तरकुरुद्वीपे स्वकं भटबलाग्रम्। श्रूयन्ते देवास्त्रायस्त्रिंशा दीर्घायुषो वर्णवन्तः सुखबहुला उच्चेषु विमानेषु चिरस्थितिकाः। यन्न्वहं देवांस्त्रायस्त्रिंशान् दर्शनायोपसंक्रमेयम्। सहचित्तोत्पादादेव राजा मान्धाता उपरिविहायसमभ्युद्गतः सार्धमष्टादशभिर्भटबलाग्रकोटिभिः सप्तरत्नपुरोजवः पुत्रसहस्रपरिवृतः।सुमेरुः पर्वतराजा सप्तकाञ्चनपर्वतपरिवृतः। अथ राजा निमिंधरे पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। निमिंधरात् पर्वतात् विनतके पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। विनतकात् पर्वतादश्वकर्णगिरौ पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। अश्वकर्णगिरेरपि पर्वतात् सुदर्शने पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। सुदर्शनात् पर्वतात् खदिरके पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। खदिरकात् पर्वतादीषाधारे पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। ईषाधारात् पर्वताद्युगंधरे पर्वते प्रत्यष्ठात् काञ्चनमये। तस्य तत्र स्वकं भटबलाग्रं समनुशासतः षट् चक्राश्च्युताः। युगंधरात् पर्वतादुपरिविहायसमभ्युद्गतः। तत्र सुमेरुपरिषण्डायां पञ्च ऋषिशतानि ध्यापयन्ति। तैः स राजा दृष्ट आगच्छन्। ते कथयन्ति-अयमसौ भवन्तः कलिराजा आगच्छति। तत्र दुर्मुखो नाम ऋषिः। तेन गृह्योदकस्याञ्जलिः क्षिप्तः। विष्कम्भितं भटबलाग्रम्। तस्य चाग्रतः परिणायकरत्नमनुयाति। तेन ऋषयोऽभिहिताः-



गच्छथ ब्राह्मण्यकोऽयं नैतत् सर्वत्र सिध्यति।

मूर्धाता नृपतिर्ह्येषो नैते वैशालिका बकाः॥३॥



अथ राजा तस्मिन् शासनेऽभ्यागतः कथयति-केनैतद्विष्कम्भितं भटबलाग्रम् ? तेनोक्तम्-ऋषिभिर्देव तं भटबलाग्रं विष्कम्भितम्। पश्चाद् राज्ञा अभिहितम्-किमेषां ऋषीणां सर्वं प्रियमिति ? परिणायकरत्नेनोक्तम् - जटा ऋषीणां सर्वेष्टाः। ततो राज्ञा अभिहितम्-ऋषीणां जटाः शीर्यन्ताम्, मम च भटबलाग्रं विहायसा गच्छतु। तेषां ऋषीणां जटाः शीर्णाः, राज्ञश्च मूर्धातस्य भटबलाग्रं विहायसेन प्रस्थितम्। सुमेरुः पर्वतराजा अशीतियोजनसहस्राण्यधस्तात् काञ्चनमय्यां भूमौ प्रतिष्ठितोऽशीतियोजनसहस्राण्युदकादभ्युद्गत ऊर्ध्वमधश्च षष्टियोजनशतसहस्रं पार्श्वं पार्श्वमशीतियोजनसहस्राणि तद्भवति समन्तपरिक्षेपेण विंशत्यधिकानि त्रीणि योजनशतसहस्राणि। अभिरूपो दर्शनीयः प्रासादिकश्चतूरत्नमयः। तस्य मूर्ध्नि देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरम्। देवानां त्रायस्त्रिंशानां पञ्च रक्षाः स्थापिताः-उदकनिश्रिता नागाः, करोटपाणयो देवाः, मालाधारा देवाः, सदामत्ता देवाः, चत्वारश्च महाराजानः। तस्य राज्ञो मूर्धातस्योदकनिश्रितैर्नागैर्बलकायो विष्कम्भितः। राजा च मूर्धातस्तत्स्थानमागतः। तेनोक्तम्-केनैतद्भटबलाग्रं विष्कम्भितम् ? ते कथयन्ति-देव, उदकनिश्रितैर्नागैः। राजा कथयति-तिर्यञ्चो मम युध्यन्ति ? तेन ह्युदकनिश्रिता एव मे नागाः पुरोजवा भवन्तु। ततस्ते नागा राज्ञो मूर्धातस्याग्रतोऽनुयायिनो जाताः। तेषां नागानामनुसंयायतां करोटपाणयो देवाः संप्राप्ताः। यतो नागैस्तैः करोटपाणिभिर्देवैः सार्धं मिश्रीभावं गत्वा पुनस्तद्बलाग्रं स्तम्भितम्। राज्ञा मूर्धातेनोक्तम्-केनैतद्भटबलाग्रं स्तम्भितम् ? ते कथयन्ति-देव, एते करोटपाणयो देवाः। एतैर्भटबलाग्रं स्तम्भितम्। राजा मूर्धातः कथयति-एतेऽप्येव मे करोटपाणयो देवाः पुरोजवा भवन्तु। यतस्तेऽग्रतः प्रधाविताः। पश्चात् तेषां नागैः सार्धं धावतां मालाधारा देवाः संप्राप्ताः। मालाधारैर्देवैस्ते पृष्टाः-किं भवन्तो धावतः ? ते कथयन्ति-एष मनुष्यराजा आगच्छति। यतस्तैः संभूय नागैर्देवैश्च पुनस्तद्बलाग्रं स्तम्भितम्। राजा च मान्धातस्तत्स्थानमनुप्राप्तः। तेनोक्तम्-किमेतद्भवन्तः ? ते कथयन्ति-देव, मालाधारैर्देवैः। राजा कथयति-मालाधारा देवाः पुरोजवा मे भवन्तु। यतो मालाधारा देवास्तैर्नागैर्देवैश्च सार्धं मूर्धातस्याग्रतः प्रधाविताः। तेषां धावतां सदामत्तका देवाः संप्राप्ताः। सदामत्तैर्देवैः पृष्टाः-किं भवन्तो धावतः ? तैर्नागैः करोटपाण्यादिभिश्च देवैरभिहिताः-एष मनुष्यराजा आगच्छति। यतो भूयः सदामत्तैर्देवैः करोटपाण्यादिभिश्च देवैर्नागैः सार्धं मिश्रीभावं कृत्वा भटबलाग्रं विष्कम्भितम्। राजा च मूर्धातस्तत्स्थानमनुप्राप्तः। तेनोक्तम्-किमेतद्भटबलाग्रं विष्कम्भितम् ? ते कथयन्ति-एते देव सदामत्ता देवाः। राज्ञा अभिहितम्-सदामत्ता एव मे देवाः पुरोजवा भवन्तु। यतः सदामत्ता देवास्तैः सार्धं देवैर्नागैश्वाग्रतः प्रधाविताः। तेषां धावतां चातुर्महाराजिका देवाः संप्राप्ताः। तैरूक्तम्- किमेतद्भवन्तो धावतः ? यतो नागादिभिर्देवैरग्रतोऽनुयायिभिरभिहिताः-एष मनुष्यराजा आगच्छति। चत्वारो महाराजानः संलक्षयन्ति। पुण्यमहेशाख्योऽयं सत्त्वः। नास्य शक्यं विरोद्धुमिति। ततस्तैश्चतुर्भिर्महाराजैस्त्रायस्त्रिंशानामारोचितम्-एष भवन्तो मनुष्यराजा मूर्धात् आगच्छति। त्रायस्त्रिंशा देवाः संलक्षयन्ति-पुण्यविपाकमहेशाख्योऽयं सत्त्वः। नास्य विरोद्धव्यम्। अर्घेणास्य प्रत्युद्गच्छामः। ततस्ते त्रायस्त्रिंशा देवा अर्घेण प्रत्युद्गताः। अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहन्नीलनीलां वनराजिं मेघराजिमिवोन्नताम्। दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते-किमेतद्दिवौकस नीलनीला वनराजिर्मेघराजिरिवोन्नता ? एषा देव देवानां पारिजातको नाम कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान् मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति। देवोऽप्यत्र गत्वा दिव्यैः पञ्जभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडतु रमतां परिचारयतु। श्रुत्वा च पुना राजा मूर्धातोऽमात्यानामन्त्रयते - पश्यथ यूयं ग्रामण्यो नीलनीलां वनराजिं मेघराजिमिवोन्नताम् ? एवं देव। एष देवानां त्रायस्त्रिंशानां पारिजातकः कोविदारो यत्र देवास्त्रायस्त्रिंशाश्चतुरो वार्षिकान् मासान् दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति। यूयमपि ग्रामण्योऽत्र गत्वा दिव्यैः पञ्चभिः कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडत रमत परिचारयत। अद्राक्षीद्राजा मूर्धातः सुमेरुमूर्धन्यभिरुहन् श्वेतश्वेतमभ्रकूटमिवोन्नतम्। दृष्ट्वा च पुनर्दिवौकसं यक्षमामन्त्रयते-किमेतद्दिवौकस श्वेतश्वेतमभ्रकूटमिवोन्नतम् ? एषा देव देवानां त्रायस्त्रिंशानां सुधर्मा नाम देवसभा, यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति। देवोऽप्यत्र गमिष्यतु। श्रुत्वा च पुनरमात्यानामन्त्रयते-पश्यथ यूयं ग्रामण्यः श्वेतश्वेतमभ्रकूटमिवोन्नतम् ? एवं देव। एषा त्रायस्त्रिंशानां सुधर्मा नाम देवसभा यत्र देवास्त्रायस्त्रिंशाश्चत्वारश्च महाराजानः संनिषण्णाः संनिपतिता देवानां मनुष्याणां चार्थं च धर्मं च चिन्तयन्ति तुलयन्ति उपपरीक्ष्यन्ति। यूयमपि ग्रामण्योऽत्र गमिष्यथ। देवानां त्रायस्त्रिंशानां सुदर्शनं नाम नगरमर्धतृतीयानि योजनसहस्राण्यायामेन अर्धतृतीयानि योजनसहस्राणि विस्तरेण समन्ततः परिक्षेपेण दशयोजनसहस्राणि सप्तभिः काञ्चनमयैः प्राकारैः परिक्षिप्तम्। ते प्राकारा अर्धतृतीयानि योजनान्युच्छ्रयेण। तेषु प्राकारेषु चतुर्विधाः षो(खो) डका मापिताः सुवर्णमया रूप्यमया वैडूर्यमयाः स्फटिकमयाः। ऊर्ध्वी एका निबद्धा संक्रमणका। सुदर्शननगरेऽभ्यन्तरे भूमिभागोऽभिरूपो दर्शनीयः प्रासादिकश्चित्रः सुचित्र एकैकचित्रधातुशतेन विचित्रो मृदुः सुमृदुः तद्यथा तुलपिचुर्वा। कर्पासपिचुर्वा। प्रक्षिप्ते पादे अवनमत्युत्क्षिप्ते पादे उन्नमति दिव्यैर्मन्दारवैः पुष्पैर्जानुमात्रेण ओघेन संस्तीर्णः। वायुसंयोगाश्च पौराणान्यवकीर्यन्ते, नवानि पुष्पाणि समाकीर्यन्ते। सुदर्शने नगरे एकोनद्वारसहस्रम्। द्वारे द्वारे पञ्चशतानि नीलवाससां यक्षाणां स्थापितानि संनद्धानि सन्ति चित्रकलापानि यावदेव देवानां त्रायस्त्रिंशानामारक्षणार्थमत्यर्थं शोभनार्थम्। सुदर्शनस्य नगरस्य वीथ्यः अर्धतृतीयानि योजनसहस्राण्यायामेन विस्तरेण द्वादश योजनान्यभिरूपा दर्शनीयाः प्रासादिकाः कनकवालुकास्तीर्णाश्चन्दनवारिपरिषिक्ता हेमजालावनद्धाः। सामन्तकेन विविधाः पुष्किरिण्यो मापिताः। ता पुष्किरिण्यश्चतुर्विधैरिष्टकैश्चिताः सुवर्णमयै रूप्यमयैः स्फटिकमयैर्वैडूर्यमयैः। वेदिकायाः स्फटिकमया सूची आलम्बनमधिष्ठानम्। स्फटिकमय्या वैडूर्यमयी सूची आलम्बनमधिष्ठानम्। ताः पुष्किरिण्यः पूर्णाः शीतलेन वारिणा क्षौद्रकल्पेनाम्बुना उत्पलपद्मकुमुदपुण्डरीकसंछन्ना विविधैर्जलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैः कामरूपिभिर्निकूजिताः। सामन्तके विविधाः पुष्पवृक्षाः फलवृक्षाः सुजाताः सुसंस्थिता आपीडकजाताः, तद्यथा दक्षेण मालाकारेण वा मालाकारान्तेवासिना वा माला वा अग्रस्थितावतंसकानि वा सुरचितानि। विविधैः स्थलजैः शकुनकैर्वल्गुस्वरैर्मनोज्ञस्वरैः कामरूपिभिरभिनिकूजिताः। सुदर्शने नगरे चतुर्विधाः कल्पदूष्यवृक्षा नीलाः पीता लोहिता अवदाताः। कल्पदूष्यवृक्षैश्चतुर्विधानि तुण्डिचेलानि। तैस्तुण्डिचेलैश्चतुर्विधानि कल्पदूष्यानि नीलानि पीतानि लोहितान्यवदातानि। यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद्धस्ते प्रादुर्भवन्ति। चतुर्विधा आभरणवृक्षा हस्तोपगाः पादोपगाः गुह्याः प्रकाशिताः। यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद् हस्ते प्रादुर्भवन्ति। चतुर्विधा वाद्यभाण्डवृक्षा वेणुवल्लरिसुघोषकाः। यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादाद् हस्ते प्रादुर्भवन्ति। चतुर्विधापि च सुधा, नीला पीता लोहिता अवदाता। यादृशमाकाङ्क्षति देवो वा देवकन्या वा, सहचित्तोत्पादात् हस्ते प्रादुर्भवन्ति। मधु माधवः कादम्बरी पारिपानम्। गृहाः कूटागारा हर्म्याः प्रासादा स्वासनका अवलोकनका संक्रमणकाः। नारीगणविराजितमप्सरःसहस्रसंघनिषेवितं तूर्यनादाभिनादितमुपेतमन्नपानम्। यत्र त्रायस्त्रिंशाः क्रीडन्ति रमन्ते परिचारयन्ति, स्वकं पुण्यफलं प्रत्यनुभवन्ति। देवानां त्रायस्त्रिंशानां सुधर्मा देवसभा त्रीणि योजनशतान्यायामेन त्रीणि योजनशतानि विस्तरेण समन्तपरिक्षेपेण नवयोजनशतानि अभिरूपा दर्शनीया प्रासादिका स्फटिकमयी, अर्धपञ्चमानि योजनानि तस्मान्नगरीतोऽभ्युद्गता। तत्र देवानां त्रायस्त्रिंशानामासनानि प्रज्ञप्तानि, यत्र पृथक् द्वात्रिंशतीनामुपेन्द्राणामासनानि, त्रयस्त्रिंशतिमं शक्रस्य देवानामिन्द्रस्य। तेषामेव देवानां सर्वान्ते मूर्धातस्य राज्ञ आसनं प्रज्ञप्तम्। पश्चाद्देवास्त्रायस्त्रिंशा मूर्धातस्य राज्ञोऽर्घं गृह्य प्रत्युद्गताः। तत्र ये पुण्यमहेशाख्याः सत्त्वा अनुपूर्वेण प्रविष्टाः, अवशिष्टा बहिः स्थिताः। यतः स राजा मूर्धातः संलक्षयति-यान्येतान्यासनानि प्रज्ञप्तकानि, एतेभ्यो यदन्तिममासनम्, एतन्मम भविष्यति। अथ राज्ञो मूर्धातस्यैतदभवत्-अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयेत्। सहचित्तोत्पादादेव शक्रो देवानामिन्द्रो राज्ञो मान्धातुरर्धासनमदात्। प्रविष्टो राजा मूर्धातः शक्रस्य देवानामिन्द्रस्यार्धासने। न खलु राज्ञो मूर्धातस्य शक्रस्य देवानामिन्द्रस्यैकासने निषण्णयोः कश्चिद्विशेषो वा, अभिप्रायो वा नानाकरणं वा, यदुत आरोहपरिणाहौ वर्णपुष्कलता स्वरगुप्त्या स्वरगुप्तेः, नान्यत्र शक्रस्य देवानामिन्द्रस्यानिमिषतेन। राज्ञो मूर्धातस्य देवेषु त्रायस्त्रिंशेषु तिष्ठतः षट्त्रिंशाश्चक्राश्च्युताः। तत्र च तेषां देवानां देवासुरसंग्रामं भवति। तत्र यद्यसुराः पराजयन्ते, पश्चादसुरपुर्यां द्वाराणि बध्नन्ति। देवानामपि पञ्च रक्षाः पराजयन्ते। तेऽपि देवपुर्यां द्वाराणि बध्नन्ति। तेषामेवं देवासुराणां परस्परतः संभ्रम उत्पन्नः। यतो राज्ञा मूर्धातेन त्रायस्त्रिंशानामुक्तम्-किमेतद्भवन्तोऽतीव संभ्रमजाता देवाः ? त्रायस्त्रिंशैरुक्तम्-एतैरसुरैरस्माकं पञ्च रक्षा भग्नाः, यतोऽस्माभिर्द्वाराणि बद्धानि। यतो मूर्धातेन राज्ञा उक्तम्-आत्मपुरुषाः,आनयन्तु भवन्तो धनुः। यतस्तस्य धनुरानीतम्। तेन पश्चाद्धनुर्गृह्य गुणशब्दः कृतः। तस्य च धनुषो गुणशब्दः कृतः। असुरैः श्रुतः। तं श्रुत्वा असुरा कथयन्ति-कस्यैष गुणशब्दः ? तैः श्रुतम्-राज्ञो मूर्धातस्यैष गुणशब्दः। ते तं शब्दं श्रुत्वा विस्मयमापन्नाः। पश्चाद्राजा मूर्धातो निर्गतस्तस्माद्देवनगरात् तेषां देवानामसुरैर्भग्नकानां स्वं च कायं संनह्य। धर्मता च पुनरेषां देवासुराणां युध्यतां रथा वैहायसेन तिष्ठन्ति। तेषामन्योन्यं न कस्यचिदधिको वा हीनो वा। राज्ञो मूर्धातस्य सर्वेषामप्यसुराणां वैहायसमभ्युद्गभ्योपरिस्थितः। पश्चात् तेऽसुराः कथयन्ति - क एषोऽस्माकमुपरिविहायसमभ्युद्गतः ? यतस्तैः श्रुतम्- मनुष्यराजा एष मूर्धातो नाम। पश्वात् ते संलक्षयन्ति- पुण्यविपाकमहेशाख्योऽयं सत्त्वो यस्यास्माकमुपरिवैहायसं रथो गच्छति। जिता भग्नाः पराजिताः परापृष्ठीकृता आसुरीं पुरीं प्रविष्टाः। पश्चाद्राजा मूर्धातः कथयति- कस्य जयः ? यतोऽमात्याः कथयन्ति देवस्य जयः। स राजा संलक्षयति-अहमेव देवानां त्रायस्त्रिंशानां सकाशादभ्यधिकः। तस्य राज्ञो मूर्धातस्यैतदभवत्-एतदस्ति मे जम्बुद्वीपः, अस्ति मे सप्त रत्नानि, अस्ति मे सहस्रं पुत्राणाम्, वृष्टं मेऽन्तःपुरे सप्ताहं हिरण्यवर्षम्, समनुशिष्टं मे पूर्वविदेहम्, समनुशिष्टं मेऽपरगोदानीयं द्वीपम्, समनुशिष्टं मे उत्तरकुरुषु स्वकं भटबलाग्रम्, अधिष्ठितं मेऽस्ति देवांस्त्रायस्त्रिंशान्, प्रविष्टोऽस्मि सुधर्मां देवसभाम्, दत्तं मे शक्रेण देवेन्द्रेणार्धासनम्। अहो बताहं शक्रं देवानामिन्द्रमस्मात् स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्। सहचित्तोत्पादाद्राजा मूर्धातस्तस्मात् ऋद्धितः परिभ्रष्टो जम्बुद्वीपेषु प्रत्यष्ठात्। खरमाबाधं स्पृष्टवान्। प्रगाढां वेदनां मरणान्तिकीम्। अथ राज्ञो मूर्धातस्यामात्यगणमहामात्या राज्यकर्तारो मन्त्रसहजीविनो येन राजा मूर्धातस्तेनोपसंक्रान्ताः। उपसंक्रम्य राजानं मूर्धातमिदमवोचन्-भविष्यन्ति खलु देवस्यात्ययात् पश्चिमा जनपदाः ? परिपृष्टवन्तः-राज्ञा मूर्धातेन मरणसमये किं व्याकृतम् ? सचेद् वो ग्रामण्यो ममात्ययात् कश्चिदुपसंक्रम्यैवं पृच्छेत् - किं भवन्तो राज्ञा मूर्धातेन मरणसमये व्याकृतम्, तेषामिदं स्याद्वचनीयम्-राजा भवन्तो मूर्धातः सप्तभी रत्नैः समन्वागतोऽभूत्। चतसृभिश्च मानुषिकाभी ऋद्धिभिश्चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारयित्वा देवांस्त्रायस्त्रिंशानधिरूढः। अतृप्त एव पञ्चानां कामगुणानां कालगतः॥



न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते।

अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पण्डितः॥४॥



अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति।

तृष्णाक्षये रतो भवति सम्यक्संबुद्धश्रावकः॥५॥



पर्वतोऽपि सुवर्णस्य समो हिमवता भवेत्।

नालमेकस्य तद्वित्तमिति विद्वान् समाचरेत्॥६॥



यः प्रेक्षति दुःखमितोनिदानं

कामेषु जातु स कथं रमते।

लोके हि शल्यमुपाधिं विदित्वा

तस्यैव धीरो विनयाय शिक्षेत्॥७॥



यदा च पुनस्तेन जनकायेन श्रुतं राजा मूर्धातो ग्लानो मरणावस्थित इति, ततस्तेऽमात्या जनपदाश्चानेकानि प्राणिशतसहस्राणि राजानं मूर्धातमुपसंक्रम्य दर्शनाय। यतस्तेन राज्ञा तस्य जनस्य तावदेवंविधा धर्मदेशना कृता-कामेष्वादीनवकथा गृहाश्रमपदस्यादीनवो भाषितः, तथा कामो जुगुप्सितो यथा अनेकानि प्राणिशतसहस्राणि ऋषीणामन्तिके प्रव्रज्य गृहाश्रमपदान्यपहाय वनं संश्रिताः, ऋषिभिः प्रव्रजित्वा चत्वारि ब्रह्मविहारान् भावयित्वा कामेषु कामच्छन्दं प्रहाय तद्बहुलविहारिणो ब्रह्मलोकसभागतायामुपपन्नाः। यावच्च आनन्द मूर्धातः कुमारक्रीडायां क्रीडितवान्, यावच्च यौवराज्यं यावच्च महाराज्यं यावच्च जम्बुद्वीपे यावच्च पूर्वविदेहे द्वीपे यावच्चापरगोदानीये द्वीपे यावच्चोत्तरकुरुषु यावच्च सप्तसु काञ्चनमयेषु पर्वतेषु यावच्च देवांस्त्रायस्त्रिंशानधिरूढः, अत्रान्तरे चतुर्दशोत्तरं शक्रशतं च्युतम्। शक्रस्य भिक्षवो देवानामिन्द्रस्यायुषः प्रमाणं यन्मनुष्याणां वर्षमेकं देवानां त्रायस्त्रिंशानामेकरात्रिंदिवसम्। तेन रात्रिंदिवसेन त्रिंशद्रात्रकेन मासेन द्वादशमासेन संवत्सरेण दिव्यं वर्षसहस्रं देवानां त्रायस्त्रिंशानामायुषः प्रमाणम्। तद्भवति मानुषिकया गणनया तिस्रो वर्षलक्षाः षष्टिश्च वर्षसहस्राणि॥



यस्मिन्नानन्द समये राजा मूर्धातो देवांस्त्रायस्त्रिंशानधिरूढः, एवंविधं चित्तमुत्पादितम्-अहो बत मे शक्रो देवानामिन्द्रोऽर्धासनेनोपनिमन्त्रयेत्, काश्यपो भिक्षुस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव। यस्मिन् खल्वानन्द समये राज्ञो मूर्धातस्यैवंविधं चित्तमुत्पन्नम्-यन्न्वहं शक्रं देवानामिन्द्रमस्मात् स्थानाच्च्यावयित्वा स्वयमेव देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम्, काश्यपः सम्यक्संबुद्धस्तेन कालेन तेन समयेन शक्रो देवानामिन्द्रो बभूव। महेशाख्ये सत्त्वे चित्तं प्रदूषितम्, तस्मादृद्धेः परिभ्रष्टो जम्बुद्वीपे प्रत्यष्ठात्, खरमाबाधं स्पृष्टवान्, प्रगाढां वेदनां मरणान्तिकीम्। योऽसौ राजा मूर्धातः, अहमेवानन्द तेन कालेन तेन समयेन। तत्र तावन्मया आनन्द सरागेण सद्वेषेण समोहेन अपरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासधर्मेण मरणकालसमये तावदेवंविधा परिकथा कृता यदनेकानि प्राणिशतसहस्राणि गृहाश्रममपहाय ऋषिभ्यः प्रव्रजित्वा कामेषु कामच्छन्दं व्यपहाय तद्बहुलविहारिणो ब्रह्मलोकमुपपादिताः। इदानीं सर्वज्ञेनानुत्तरज्ञानज्ञेयवशिप्राप्तेन निर्वाणाय संप्रस्थितेन तावदेवंविधा धर्मदेशना कृता, यदनेकानि देवताशतसहस्राणि सत्येषु प्रतिष्ठापितानि। अनेकानि ऋषिशतसहस्राणि एतभिक्षव इति प्रव्रजितानि। तैर्युज्यद्भिर्घटद्भिर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं प्राप्तम्। अनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाः शरणगमनशिक्षापदेषु व्यवस्थापिताः। अनेकानि वैशालिकानि प्राणिशतसहस्राणि येषां केचित्स्रोतापत्तिफले व्यवस्थापिताः, केचित् सकृदागामिफले, केचिदनागामिफले, कैश्चित् प्रव्रजित्वाऽर्हत्त्वं प्राप्तम्, कैश्चित् श्रावकबोधौ, कैश्चित् प्रत्येकबोधौ, कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितानि, कैश्चिच्छरणगमनशिक्षापदानि गृहीतानि॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-कानि भदन्त कर्माणि कृतानि राज्ञा मूर्धातेन येषां कर्मणां विपाकेन सहचित्तोत्पादादेव सप्ताहमन्तःपुरे हिरण्यवर्षं वृष्टम् ? भगवानाह-



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि सर्वाभिभूर्नाम तथागतोऽर्हन् लोके उत्पन्नो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। तेन खलु समयेन अन्यतरः श्रेष्ठिदारकोऽचिरप्रतिष्ठितः। तत्र विषये धर्मता-या अचिरोढा दारिका भर्तरि प्रवहणकेन प्रतिप्रदीयते, सा चतूरत्नमयैः पुष्पैरवकीर्य बद्धका स्वामिने प्रदीयते। सा च भर्तारमादाय स्वगृहं गच्छति। स च श्रेष्ठिदारकश्चतूरत्नमयानि पुष्पाणि प्रतिगृह्य यानमधिरुह्य श्वशुरगृहमनुप्रस्थितः। तस्य गच्छतोऽभिमुखं सर्वाभिभूः सम्यक्संबुद्धो जनपदेषु चर्यां चरन्ननुपूर्वेणाभ्यागतः। तं दृष्ट्वा द्वात्रिंशल्लक्षणालंकृतमसेचनकदर्शनमतीव प्रसाद उत्पन्नः। यतोऽसौ प्रसादीकृतचेता यानादवतीर्य तं भगवन्तं तैश्चतूरत्नमयैः पुष्पैरवकिरति। तानि सर्वाभिभुवा सम्यक्संबुद्धेनाधिष्ठितानि तथा यथा शकटचक्रमात्राण्यभिनिर्वृत्तानि। तानि वितानं बद्ध्वा गच्छतोऽनुगच्छन्ति, तिष्ठतस्तिष्ठन्ति। स प्रसादजातो गाथां भाषते -



अनेन दानेन महद्गतेन

बुद्धो भवेयं सुगतः स्वयंभूः।

तीर्णश्च तारयेयं महाजनौघान्

अतारिता ये पूर्वकैर्जिनेन्द्रैः॥८॥



सर्वाभिभूर्मे भगवान् महर्षि-

रवकीर्णः पुष्पैः सुमनोरमैश्च।

प्रणिधिश्च मे तत्र कृता उदारा

आकाङ्क्षता वा इदमग्रबोधिम्॥९॥



तस्यैव कर्मणो विपाकतो मे

प्राप्ता हि मे बोधिः शिवा अनुत्तरा।

वृष्टं च सप्ताहहिरण्यवर्षं

मूर्धातस्य राज्ञो महाबलस्य॥१०॥



तस्यैव कर्मणो विपाकतो मे नगरमपि सौवर्णकाञ्चनं बभूव महासुदर्शनस्य रमणीया कुशावती नाम पुरी बभूव॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति-कीदृशं भदन्त राज्ञा मूर्धातेन कर्म कृतं यस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्, देवांस्त्रायस्त्रिंशानधिरूढः ? भगवानाह -



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि विपश्यी नाम तथागतोऽर्हन् सम्यक्संबुद्धः लोके उत्पन्नः। अथ स विपश्यी सम्यक्संबुद्धो जनपदेषु चर्यां चरमाणोऽनुपूर्वेण बन्धुमतीं राजधानीमनुप्राप्तः। अथ विपश्यी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय बन्धुमतीं पिण्डाय प्राविशत्। तत्रान्यतरश्चौत्करिको नाम वणिक्। भगवन्तं विपश्यिनमसेचनकदर्शनरूपं दृष्ट्वा अधिकः प्रसाद उत्पन्नः। प्रसादजातेन तस्य मुद्गानां मुष्टिं गृहीत्वा पात्रे प्रक्षिप्ता। ततो मुद्गाश्चत्वारः पात्रे पतिताः, एकः कण्टकमाहत्य भूमौ पतितः। अवशिष्टं नैवं संप्राप्तं पात्रम्, असंप्राप्ता एव भूमौ पतिताः। ततो वणिक् प्रसादजातः प्रणिधिं करोति-



अनेन दानेन महद्गतेन

बुद्धो भवेयं सुगतः स्वयंभूः।

तीर्णश्च तारयेयं महाजनौघान्

न तारिता ये पूर्वकैर्जिनेन्द्रैः॥११॥



भगवानाह-योऽसौ ओत्करिको वणिक्, अहमेव तेन कालेन तेन समयेन। यन्मया विपश्यिनः सम्यक्संबुद्धस्य प्रसादजातेन मुद्गानां मुष्टिः पात्रे प्रक्षिप्ता, तस्माच्चत्वारो मुद्गाः पात्रे पतिता अवशिष्टा भूमौ पतिताः, तस्य कर्मणो विपाकेन चतुर्षु द्वीपेषु राज्यैश्वर्याधिपत्यं कारितम्। यश्चासौ मुद्गः पात्रकण्टकमाहत्य भूमौ पतितः, तस्य कर्मणो विपाकेन त्रायस्त्रिंशान् देवानधिरूढः। सचेद्भिक्षवः स मुद्गः पात्रे पतितोऽभविष्यन्न भूमौ, स्थानमेतद्विद्यते यद्देवेषु च मनुष्येषु च राज्यैश्वर्याधिपत्यं कारितमभविष्यत्। योऽसौ ओत्करिको वणिक् तेन कालेन तेन समयेन, स एष राजा मूर्धातः। यो मूर्धातो राजा, अहमेव स तेन कालेन तेन समये। यस्मादेवं बुद्धे भगवति महाकारुणिके काराः कृता अत्यर्थं महाफला भवन्ति महानुशंसा महाद्युतयो महावैस्तारिका इति, तस्माद्भवबोधिः। किं करणीयम्? बुद्धे धर्मे संघे काराः करणीयाः सम्यक्प्रणिधानानि च करणीयानीति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने मान्धातावदानं सप्तदशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project