Digital Sanskrit Buddhist Canon

१५ चक्रवर्तिव्याकृतावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 15 cakravartivyākṛtāvadānam
१५ चक्रवर्तिव्याकृतावदानम्।



बुद्धो भगवान् श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे। धर्मता खलु बुद्धानां भगवतां जीवतां ध्रियमाणानां यापयतां केशनखस्तूपा भवन्ति। यदा बुद्धा भगवन्तः प्रतिसंलीना भवन्ति, तदा भिक्षवः केशनखस्तूपे पूजां कृत्वा केचित् पिण्डाय प्रविशन्ति, केचिद्ध्यानविमोक्षसमाधिसमापत्तिसुखान्यनुभवन्ति। तेन खलु समयेन बुद्धो भगवान् प्रतिसंलीनोऽभूत्। अथान्यतमो भिक्षुः सायाह्नसमये केशनखस्तूपे सर्वाङ्गैः प्रणिपत्य तथागतमाकारतः समनुस्मरंश्चित्तमभिप्रसादयति-इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति। अथ भगवान् सायाह्ने प्रतिसंलयनाद्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अद्राक्षीद्भगवांस्तं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम्। दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म-पश्यत यूयं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वशरीरेण प्रणिपत्य चित्तमभिप्रसादयन्तम् ? एवं भदन्त। अनेन भिक्षुणा यावती भूमिराक्रान्ता अधोऽशीतियोजनसहस्राणि यावत् काञ्चनचक्रमित्यत्रान्तरा यावन्त्यो वालुकास्तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि। अथ तेषां भिक्षूणामेतदभवत्-पुरुषमात्रायां यावद्गर्तायां न शक्यते वालुका गणयितुम्, कुतः पुनरशीतियोजनसहस्राणि यावत् काञ्चनचक्रमिति। कः शक्यते इयत्कालं संसारे संसरितुमिति। अथ ते भिक्षवो न भूयः केशनखस्तूपे कारां कर्तुमारब्धाः। अथ भगवांस्तेषां भिक्षूणां चेतसा चित्तमाज्ञाय भिक्षूनामन्त्रयते स्म-अनवराग्रो भिक्षवः संसारोऽविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णार्गलबद्धानां दीर्घमध्वानं संधावतां संसरताम्। पूर्वा कोटिर्न प्रज्ञायते दुःखस्य। आयुष्मानुपाली बुद्धं भगवन्तं पप्रच्छ-यदुक्तं भगवता अस्य भिक्षोरियत्पुण्यस्कन्ध इति, कुत्र भदन्त इयत्पुण्यस्कन्धस्तनुत्वं परिक्षयं पर्यादानं गमिष्यति ? नाहमुपालिन् इतो बहिः समनुपश्याम्येव क्षतिं चोपहतिं च यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिके। तत्रोपालिन् इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। तस्मात्तर्हि ते उपालिन् एवं शिक्षितव्यम्, यद्दग्धस्थूणाया अपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काये॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥



इति श्रीदिव्यावदाने अन्यतमभिक्षुश्चक्रवर्तिव्याकृतः पञ्चदशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project