Digital Sanskrit Buddhist Canon

१४ सूकरिकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 14 sūkarikāvadānam
१४ सूकरिकावदानम्।



धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति-अक्लिष्टानि वासांसि क्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ति, दौर्गन्धं कायेन निष्क्रामति, उभाभ्यां कक्षाभ्यां खेदः प्रादुर्भवति, च्यवनधर्मा देवपुत्रः स्व आसने धृतिं न लभते। अथान्यतमश्च्यवनधर्मा देवपुत्रः पृथिव्यामावर्तते, संपरिवर्त्यैवं चाह-हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन, इति करुणकरुणं परिदेवते स्म। अद्राक्षीच्छक्रो देवानामिन्द्रस्तं देवपुत्रमत्यर्थं पृथिव्यामावर्तन्तं परिवर्तन्तम्। दृष्ट्वा पुनर्येन स देवपुत्रस्तेनोपसंक्रान्तः। उपसंक्रम्य तं देवपुत्रमिदमवोचत्-कस्मात् त्वं मार्ष अत्यर्थं पृथिव्यामावर्तसे, संपरिवर्तसे, करुणकरूणं परिदेवसे-हा मन्दाकिनी, हा पुष्किरिणी, हा वापी, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलशिला, हा देवसभा, हा सुदर्शन इति करुणकरुणं परिदेवसे ? एवमुक्ते देवपुत्रः शक्रं देवानामिन्द्रमिदमवोचत्-एषोऽहं कौशिक दिव्यं सुखमनुभूय इतः सप्तमे दिवसे राजगृहे नगरे सूकर्याः कुक्षौ उपपत्स्यामि। तत्र मया बहूनि वर्षाण्युच्चारप्रस्रावः परिभोक्तव्य इति। अथ शक्रो देवानामिन्द्रः कारुण्यतया तं देवपुत्रमिदमवोचत्- एहि त्वं मार्ष, बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति। अथ स देवपुत्रस्तिर्यग्योन्युपपत्तिभयभीतो मरणभयभीतश्च शक्रं देवानामिन्द्रमिदमवोचत्-एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्। अथ स देवपुत्रस्त्रिशरणपरिगृहीतो भूत्वा च्युतः कालगतस्तुषिते देवनिकाये उपपन्नः॥



धर्मता खलु अधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नोर्ध्वम्। अथ शक्रो देवानामिन्द्रस्तं देवपुत्रमवलोकयति-किमसौ देवपुत्रः सूकरिकायाः कुक्षौ उपपन्नो न वेति। यावत् पश्यतिनोपपन्नस्तिर्यक्प्रेतेषु। नरकेषूपपन्न इति पश्यति। नोपपन्नः। मनुष्याणां सभागतायामुपपन्न इति पश्यति। नोपपन्नः। चातुर्महाराजकायिकान् देवांस्त्रायस्त्रिंशांश्चावलोकयितुमारब्धः। तत्रापि नाद्राक्षीत्। अथ शक्रो देवानामिन्द्रः कुतूहलजातो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णः शक्रो देवानामिन्द्रो भगवन्तमिदमवोचत्-इहाहं भदन्त अद्राक्षमन्यतमं देवपुत्रं च्यवनधर्माणं पृथिव्यामावर्तमानं करुणकरुणं च परिदेवमानम्-हा मन्दाकिनि, हा पुष्किरिणि, हा वापि, हा चैत्ररथ, हा पारुष्यक, हा नन्दनवन, हा मिश्रकावन, हा पारियात्रक, हा पाण्डुकम्बलाशिला, हा देवसभा, हा सुदर्शन इति। तमेनमेवं वदामि-कस्मात् त्वं मार्ष अत्यर्थं शोचसि परिदेवसे क्रन्दसि उरसि ताडयसि संमोहमापद्यस इति ? स एवमाह-एषोऽहं कौशिक दिव्यं सुखमपहाय इतः सप्तमे दिवसे राजगृहे नगरे सूकरिकायाः कुक्षौ उपपत्स्यामि। तत्र मया बहूनि वर्षाणि उच्चारप्रस्रावः परिभोक्तव्यं भविष्यति। तमेनमेवं वदामि-एहि त्वं मार्ष बुद्धं शरणं गच्छ द्विपदानामग्र्यम्, धर्मं शरणं गच्छ विरागाणामग्र्यम्, संघं शरणं गच्छ गणानामग्र्यमिति। स एवमाह-एषोऽहं कौशिक बुद्धं शरणं गच्छामि द्विपदानामग्र्यम्, धर्मं शरणं गच्छामि विरागाणामग्र्यम्, संघं शरणं गच्छामि गणानामग्र्यम्। इत्युक्त्वा स देवपुत्रः कालगतः। कुत्रासौ भदन्त देवपुत्र उपपन्नः ? भगवानाह-तुषिता नाम कौशिक देवाः सर्वकामसमृद्धयः। तत्रासौ मोदते देवो गत्वेह शरणत्रयम्। अथ शक्रो देवानामिन्द्र आत्तमनास्तस्यां वेलायामिमां गाथां भाषते -



ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥१॥



ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥२॥



ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥३॥



अथ भगवान् शक्रस्य देवानामिन्द्रस्य भाषितमनुसंवर्णयन्नेवमाह-एवमेतत् कौशिक, एवमेतत्।



ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥४॥



ये धर्मं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥५॥



ये संघं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायानुपासते॥६॥



अथ शक्रो देवानामिन्द्रो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य प्राञ्जलिकृतसंपुटो भगवन्तं नमस्यमानस्तत्रैवान्तर्हितः॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवोऽभ्यनन्दन्॥



इति श्रीदिव्यावदाने सूकरिकावदानं चतुर्दशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project