Digital Sanskrit Buddhist Canon

१३ स्वागतावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१३ स्वागतावदानम्।



बुद्धो भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेन शिशुमारगिरौ बोधो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। सा उपरिप्रासादतलगता अयन्त्रितोपचारा धार्यते, कालर्तुकैश्चोपकरणैरनुविघीयते, वैद्यप्रज्ञप्तैश्चाहारैः नातितिक्तैर्नात्यम्लैः नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुककषायविवर्जितैराहारैः। हारार्धहारभूषितगात्रा अप्सरेव नन्दनवनचारिणी मञ्चान्मञ्चं पीठात्पीठमनवतरन्ती अधरिमां भूमिम्। न चास्याः किंचिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय। सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता। दारिका जाता अभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्कोपेता। तस्यास्त्रीणि सप्तकान्येकविंशतिदिवसान् विस्तरेण जातिमहं कृत्वा वर्णसंस्थानविशेषानुरूपं नामधेयं व्यपस्थापितम्। सा धात्र्यङ्कगता उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्च चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महती संवृत्ता, तदा रूपिणी यौवनानुरूपया आचारविहारचेष्टया देवकन्येव तद्गृहमवभासमाना सुहृत्संबन्धिबान्धवानामन्तर्जनस्य च प्रीतिमुत्पादयति। तस्यास्तादृशीं विभूतिं श्रुत्वा नानादेशनिवासिराजपुत्रा अमात्यपुत्रा गृहपतिपुत्रा धनिनः श्रेष्ठिपुत्राः सार्थवाहपुत्राश्च भार्यार्थं याचनकान् प्रेषयन्ति। यथा यथा चासौ प्रार्थ्यते, तथा तथा बोधो गृहपतिः सुतरां प्रीतिमुत्पादयति। संलक्षयति-मया एषा न कस्यचिद्रूपेण देया, न शिल्पेन, नाप्याधिपत्येन, किं तु यो मम कुलशीलेन वा धनेन वा सदृशो भवति, तस्य मया दातव्येति। स चैवं चिन्तयति॥



अनाथपिण्डदेन गृहपतिना श्रुतं यथा शिशुमारगिरौ बोधो गृहपतिस्तस्य दुहिता एवं रूपयौवनसमुदिता, सा नानादेशनिवासिनां राजामात्यगृहपतिधनिनां श्रेष्ठिसार्थवाहपुत्राणामर्थाय प्रार्थ्यत् इति। श्रुत्वा च पुनरस्यैतदभवत्-अहमपि तावत् तां पुत्रस्यार्थाय प्रार्थयामि। कदाचिद् बोधो गृहपतिर्दद्यादिति विदित्वा तस्या याचनकाः प्रेषिताः। बोधेन गृहपतिना अनाथपिण्डदस्य गृहपतेः समुदाचारधनसंपदं च विचार्य दत्ता। अनाथपिण्डदेन गृहपतिना महता श्रीसमुदयेन पुत्रस्य परिणीता। यावत् पुनरपि बोधस्य गृहपतेः पत्न्या सार्धं क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। यमेव दिवसमापन्नसत्त्वा संवृत्ता, तमेव दिवसं बोधस्य गृहपतेरनेकान्यनर्थशतानि प्रादुर्भूतानि। तेन नैमित्तिका आहूय पृष्टाः-भवन्तः, पश्यत कस्य प्रभावान्ममानर्थशतानि प्रादुर्भूतानि। नैमित्तिका विचार्यैकमतेनाहुः-गृहपते, य एष तव पत्न्याः कुक्षिमवक्रान्तः, अस्यैष प्रभावः। तदस्य परित्यागः क्रियताम्। इति श्रुत्वा बोधो गृहपतिः परं विषादमापन्नः। कथयति-भवन्तः, स्वागतं न परित्यक्ष्यामीति। नैमित्ताः स्वस्तीत्युक्त्वा प्रक्रान्ताः। अथ बोधो गृहपतिर्वियोगसंजनितदौर्मनस्योऽपि लोकापवादभयादभ्युपेक्ष्यावस्थितः। यथा यथासौ गर्भो वृद्धिं गच्छति, तथा तथा बोधस्य गृहपतेरुत्तरोत्तरातिशयेनानर्थशतान्युत्पद्यन्ते। स संलक्षयति-क एतानि शृणोति ? उद्यानं गत्वा तिष्ठामीति विदित्वा तेन पौरुषेया उक्ताः-यदि मे कश्चिन्महाननर्थ उत्पद्यते, स श्रावयितव्यो नान्य इत्युक्त्वा उद्यानं गत्वा अवस्थितो यावदस्यासौ पत्नी प्रसूता। दारको जातः। अन्यतमः पुरुषस्त्वरितं त्वरितं बोधस्य गृहपतेः सकाशं गतः। तेनासौ दूरत एव दृष्टः। स संलक्षयति-यथायं त्वरितत्वरितमागच्छति, नूनं महाननर्थः प्रादुर्भूतः। इति विदित्वा ससंभ्रमः पृच्छति-भोः पुरुष, किं त्वरितत्वरितमागच्छसीति ? स कथयति-गृहपते, दिष्टया वर्धसे, पुत्रस्ते जात इति। स कथयति-भोः पुरुष, यद्यपि मे पुत्रोऽनर्थशतान्युत्पाद्य जातः, तथापि स्वागतमस्येति। तदनन्तरमेव द्वितीयपुरुषस्तथैव त्वरितत्वरितमश्रुपर्याकुलेक्षणो बोधस्य गृहपतेः सकाशं गतः। सोऽपि तेनानर्थतया ससंभ्रमेण पृष्टः-भोः पुरुष, किं त्वरितत्वरितमागच्छसीति ? स बाष्पोपरुध्यमानगद्गदकण्ठः करुणादीनविलम्बिताक्षरं कथयति-गृहपते, गृहेऽग्निरुत्थितः। सर्वं स्वापतेयं दग्धमिति। स मुहुर्मुहुरनर्थश्रवणदृढीकृतचित्तसंततिः कथयति-भोः पुरुष, प्राप्तव्यमेतत्। अलं विषादेन, तूष्णीं तिष्ठेति। अथ तस्य ज्ञातयो लोकधर्मानुवृत्त्या अवज्ञापूर्वकेन नामधेयं व्यवस्थापयितुमारब्धाः-किं भवतु दारकस्य नामेति। तत्रैके कथयन्ति-यत्कुलसदृशं तत्क्रियतामिति। अपरे कथयन्ति-येन बोधस्य गृहपतेः कुक्षिगतेनैवानेकधनसमुदितं गृहं निधनमुपनीतम्, तस्य कीदृशं कुलसदृशं नाम व्यवस्थाप्यते ? अपि तु अयं पित्रा जातमात्रः स्वागतवादेन समुदाचरितः, तस्मादस्य स्वागत इति नाम भवतु इति। तस्य स्वागत इति नामधेयं व्यवस्थापितम्। यथा यथा स्वागतो वृद्धिमुपयाति, तथा तथा बोधस्य गृहपतेर्धनधान्यहिरण्यसुवर्णदासीदासकर्मकरपौरुषेयास्तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। यावदपरेण समयेन बोधो गृहपतिः कालगतः। साप्यस्य पत्नी कालगता। तद्गृहं प्रतिसंस्कृतं पुनरग्निना दग्धम्। यदप्यावारिगतं क्षेत्रगतं च शस्यादिधनजातं तदप्यग्निना दग्धम्। येऽप्यस्य पौरुषेयाः पण्यमादाय देशान्तरगता महासमुद्रं यावत्तीर्णाः, ततः केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीजातम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां चौरैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राज्ञा विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्। केचिद्बोधस्य गृहपतेः प्राणवियोगं श्रुत्वा तत्रैव अवस्थिताः। ज्ञातीनामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैवावस्थिताः स्वागतस्य वाचमपि न प्रयच्छन्ति। दासीदासकर्मकरपौरुषेया अपि केचित् कालगताः, केचिन्निष्पलायिताः, केचिदन्याश्रयेण तत्रैवावस्थिताः सन्तः स्वागतस्य नामापि न गृह्णन्ति। किं तु बोधस्यैका पुराणवृद्धा दासी कृतज्ञतया स्वागतस्योपस्थानं कुर्वन्ती तिष्ठति। तया स लिप्यक्षराचार्यस्याक्षराणि शिक्षयितुमुपन्यस्तः। सा संलक्षयति-बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयं परिक्षयं पर्यादानं गतम्। स्वागतोऽहं चावस्थिताः। तज्जिज्ञास्यामि तावत् कस्यापुण्येनायमुपप्लवः, किं स्वागतस्य आहोस्विन्ममेति। तया स्वागतस्य नाम्ना स्थाल्यां तण्डुलान् प्रक्षिप्य भक्तार्थं योजिता विनष्टाः। तत आत्मनो नाम्ना तथैव योजिताः, शोभनं भक्तं संपन्नम्। सा संलक्षयति-असौ मन्दभाग्यः। एतमागम्य बोधस्य गृहपतेर्गृहमनेकधनसमुदितं विस्तीर्णस्वजनबन्धुवर्गं प्रभूतदासीदासकर्मकरपौरुषेयं परिक्षयं पर्यादानं गतम्। अहं पुनर्न यास्यामीति। कुतः स्थास्यामीति? अत्र प्राप्तकालं सर्वथा यावत् प्राणवियोगो न भवति तावन्निष्पलायेयम्। इति विदित्वा यत्तत्र किंचित् सारमस्ति, तमादाय निष्पलायिता। तस्मिन् शून्ये गृहे श्वानः प्रविश्य कलहं कर्तुमारब्धाः। यावदन्यतमो धूर्तपुरुषस्तेन प्रदेशेनातिक्रामति। स श्वानकलहं श्रुत्वा संलक्षयति-बोधस्य गृहपतेर्गृहे श्वानः कलिं कुर्वन्ति। किं तदन्यं भवेत्? पश्यामि तावदिति। स तत्र प्रविष्टो यावत् पश्यति शून्यम्। सोऽपि तस्माद्यत् किंचिच्छेषावशेषमस्ति, तमादाय प्रक्रान्तः॥



ततः स्वागतो भोजनवेलां ज्ञात्वा लेखशालायाः स्वगृहमागतो भोक्तुमिति यावत् पश्यति शून्यम्। स भोक्तुकामावर्जितसंततिः (?) क्षुधासंजनितदौर्मनस्यः शब्दापयितुमारब्धः-अम्ब अम्बेति। न कश्चिद्वचनं ददाति। स तद्गृहमितश्चामुतश्च व्यवलोक्य नैराश्यमापन्नो निष्क्रान्तः। तस्य गृहस्य नातिदूरेऽन्यगृहम्। तस्मिन् स्वागतस्य ज्ञातयस्तिष्ठन्ति। स तेषां सकाशं गतो यावत्तत्र कलिः प्रादुर्भूतः। ते कलहं कृत्वा व्युपशान्ताः परस्परं कथयन्ति-भवन्तः, पूर्वमस्माकमन्योन्यं दृष्ट्वा स्नेहो भवति, इदानीं तु द्वेषः। पश्यध्वं कश्चिदन्य आगतः स्यादिति। ते समन्वेषितुमारब्धा यावत् पश्यन्ति स्वागतम्। तत्रैके कथयन्ति-भवन्तः, स्वागतः प्रविष्ट इति। अपरे कथयन्ति-नायं स्वागतः, किं तु दुरागतः, इममागम्यास्माकं कलिः प्रादुर्भूत इति। स तैर्ग्रीवायां गृहीत्वा निष्कासितोऽन्यत्र गतः। तस्मादपि निष्कासितो यावत् क्रोडमल्लानां मध्ये प्रविष्टः। ते यत्र यत्र भैक्षार्थिकाः प्रविशन्ति, तत्र निर्भर्त्स्यन्ते निष्कास्यन्ते च। ते नैराश्यमापन्ना रिक्तहस्तका रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः। तेऽन्योन्यं पृच्छन्ति- भवन्तः, वयं पूर्वे यत्र यत्र गच्छामस्ततः पूर्वहस्ताः पूर्णमल्लका आगच्छामः। इदानीं को योगो येन वयं रिक्तहस्तका रिक्तमल्लका नैराश्यमापन्ना इहागता इति ? तत्रैके कथयन्ति-नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति। अपरे कथयन्ति-गतमेतत्। द्विधा भूत्वा प्रविशाम इति। ते परस्मिन् दिवसे द्विधा भूत्वा प्रविष्टाः। तत्र येषां मध्ये स्वागतस्ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लाश्च यथानिलयमागताः। ते त्वन्ये पूर्णहस्ता पूर्णमल्लका आगताः। ये ते रिक्तहस्तका रिक्तपात्रा आगतास्ते भूयो द्विधा भूत्वा प्रविष्टाः। तत्र तेषामपि येषां मध्ये स्वागतस्ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः। ते भूयो द्विधा भूता एवं यावत् स्वागतक्रोडमल्लकौ प्रविष्टौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ। ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगताः। ततस्ते क्रोडमल्लकाः सर्वे संभूय संकल्पं कर्तुमारब्धाः -भवन्तः, अयं मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लकाश्चागताः। निष्कासयाम एनमिति। स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥



अत्रान्तरे यावच्छ्रावस्तेयो वणिजो बोधस्य गृहपतेर्वयस्यः पण्यमादाय शिशुमारगिरिमनुप्राप्तः। तेन स्वागतो मल्लकेन हस्तगतेन पीठीं गतो मुखबिम्बकेन प्रत्यभिज्ञात उक्तश्च-पुत्र त्वं बोधगृहपतेः पुत्र इति ? स कथयति-तात, अहं तस्य पुत्रो दुरागत इति। स मुहूर्तं तूष्णीं स्थित्वा अश्रुपर्याकुलेक्षणः कथयति-पुत्र, तौ तव मातापितरौ कालगतौ ? ते ज्ञातयः ? स आह- तेषामपि केचित् कालगताः केचिदिहैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति। ते दासीदासकर्मकरपौरुषेयाः ? तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचिदिहैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति। यदवशिष्टं धनं तदपि किंचिदग्निना दग्धम्। ये वणिक्पौरुषेयाः पण्यं गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः, तत्रापि केषांचित् पण्यमपण्यीभूतम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राज्ञो विनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्। केचित् तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः। स दीर्घमुष्णं च निश्वस्य कथयति- पुत्र श्रावस्तीं किं न गच्छसि ? तात, किं तत्रगतस्य भविष्यति ? पुत्र, तत्रानाथपिण्डदो गृहपतिः, तस्य पुत्रेण तव भगिनी परिणीता। सा तव योगोद्वहनं करिष्यतीति। स कथयति-तात, यद्येवं गच्छामीति। तेन तस्य द्वौ कार्षापणौ दत्तौ, उक्तश्च-पुत्र, आभ्यां तावदात्मानं संघारय, यावदहं पण्यं विसर्जयामि। मया सार्धं गमिष्यसि। तेन तौ कार्षापणौ खुस्तवस्त्रान्ते बद्ध्वा स्थापितौ, कर्मविपाकेन विस्मृतौ। तथैवासौ कुतश्चित् किंचिदारागयति किंचिन्नारागयति। क्षुधया पीड्यमानोऽवस्थितः। यावदसौ वणिक् पण्यं विसर्जयित्वा प्रतिपण्यमादाय स्वागतं विस्मृत्य संप्रस्थितः। स्वागतोऽपि तेन सार्धं संप्रस्थितः। यावत् ते सार्थकाः कलिं कर्तुमारब्धाः, बलीवर्दा योद्धुमारब्धाः। सार्थिकाः कथयन्ति-भवन्तः, प्रत्यवेक्षत सार्थम्। मा असौ दुरागतोऽत्रागतः स्यादिति। तैः प्रत्यवेक्षमाणैरसौ दृष्टः। ते तं खटुचपेटादिभिस्ताडयित्वा अर्धचन्द्राकारेण ग्रीवायां गृहीत्वा निष्कासितुमारब्धाः। स निष्कासितः। निष्क्रम्यमाणो विक्रोष्टुमारब्धः। सार्थवाहस्तं कोलाहलशब्दं श्रुत्वा निरीक्षितुमारब्धः, यावत् पश्यति तं निष्कास्यमानम्। स कथयति-भवन्तः, मा एनं निष्कासयत, ममैष वयस्यपुत्रो भवतीति। ते कथयन्ति-सार्थवाह, यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्संबन्धिबान्धवं गृहं विनष्टम्, कथं तेन सार्धं गच्छामः ? सर्वथा त्वं सार्थस्य स्वामी। यद्येष गच्छति, वयं न गच्छाम इति। सार्थवाहस्तं कथयति-पुत्र, महाजनविरोधोऽत्र भवति। सार्थकाः क्षुभिताः। त्वं पश्चाद्वासोद्धातिकया गच्छ, अहं तवार्थे आहारं स्थापयामीति। स मातापितृवियोगप्रतिस्पर्धिना पूर्वकर्मापराधप्रभावेण दुःखदौर्मनस्येन संतापितमनाः साश्रुकण्ठस्तूष्णीमवस्थितः। सार्थः संप्रस्थितः। सोऽपि वासोद्धातिकया गन्तुमारब्धः। स सार्थवाहस्तस्याहारं पत्रपुटके बद्ध्वा किंचिद्भूमौ पांशुना प्रतिच्छाद्य स्थापयति, किंचिद्वृक्षशाखापत्रैरवच्छाद्य। तत्र यं भूमौ स्थापयति, स शृगालैरन्यैश्चतुष्पादैर्भक्ष्यते। यं वृक्षशाखासु, स पक्षिभिः शाखामृगैश्च भक्ष्यते। ततः किंचिदारागयति किंचिन्नारागयति। अस्थानमनवकाशो यच्चरमभविकः सत्त्वोऽसंप्राप्ते विशेषाधिगमे सोऽन्तरा कालं कुर्यात्। स कृच्छ्रेण श्रावस्तीमनुप्राप्तः। बहिः श्रावस्त्यामुदपानोपकण्ठके विश्रान्तः। यावत् तस्य भगिन्याः सन्तिका प्रेष्यदारिका उदकार्थिनी कुम्भमादाय गता। स तया मुखबिम्बकेन प्रत्यभिज्ञातः। सा चिरं निरीक्ष्य हीनदीनवदना कथयति-दारक, त्वं बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्र इति ? स कथयति- एवं मां भगिनीजनः संजानीत इति। सा अश्रुपर्याकुलेक्षणा बाष्पोपरुध्यमानकण्ठा उरसि प्रहारं दत्त्वा करुणादीनविलम्बिताक्षरं प्रष्टुमारब्धा। तौ तव मातापितरौ कालगतौ ? कालगतौ। ते ज्ञातयः ? स कथयति-तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैव तिष्ठन्तो वाचमपि न प्रयच्छन्ति। ते दासीदासकर्मकरपौरुषेयाः ? तेषामपि केचित् कालगताः, केचिन्निष्पलायिताः, केचित् तत्रैवान्यानाश्रित्यावस्थिता वाचमपि न प्रयच्छन्ति। यदपि धनजातं तदपि किंचिदग्निना दग्धम्, किंचिदन्यपौरुषेया गृहीत्वा धनार्थिनो देशान्तरं महासमुद्रं चावतीर्णाः। तत्रापि केषांचिद्यानपात्रं विपन्नम्, केषांचित् पण्यमपण्यीभूतम्, केचित् तत्रैवानयेन व्यसनमापन्नाः, केषांचित् कान्तारमध्यगतानां तस्करैर्द्रव्यमपहृतम्, केषांचिन्नगरसमीपमनुप्राप्तानां शौल्किकशौल्किकैर्द्रव्यं विचारयद्भिः सारो गृहीतः, केषांचित् पत्तनमनुप्राप्तानां राजनियुक्तैर्दोषमुत्पाद्य सर्वस्वमपहृतम्, केचित्तस्य प्राणवियोगं श्रुत्वा तत्रैवावस्थिताः। सा दीर्घमुष्णं च निश्वस्य कथयति-इहैव तिष्ठ यावत्ते भगिन्याः कथयामीति। तया गत्वा तस्याः प्रच्छन्नं कथितम्। कीदृशेन पण्येनेति ? सा कथयति-कुतोऽस्य पण्यम् ? दण्डमस्य हस्ते मल्लकश्चेति। तया तस्यार्थं महार्हाणि वस्त्राणि दत्तानि। कार्षापणांश्च दत्त्वा उक्ता च-स वक्तव्यो यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैव कार्षापणान् दद्याः। मा ज्ञातीनां प्रतर्क्यो भविष्यतीति। सा वस्त्राण्यादाय कार्षापणांश्च तस्य सकाशं गता कथयति-इमानि ते वस्त्राणि कार्षापणाश्च भगिन्या प्रेषितानि, कथयति च - यदि ते भागिनेयो वा भागिनेयिका वा उपसंक्रामति, तस्यैतत्कार्षापणान् दद्याः। मा ज्ञातीनां प्रतर्क्यो भविष्यसि। स कथयति-शोभनमेव भवति। इत्युक्त्वा तूष्णीमवस्थितः। दारिका प्रक्रान्ता। स संलक्षयति-अनाथपिण्डदो गृहपतिर्विस्तीर्णस्वजनपरिवारः। अस्माकमपि पिता विस्तीर्णपरिवारः। तेषामेकैकशो वार्तां प्रत्यवेक्षते। भगिन्या चिरमालापो भविष्यति। स च मार्गपरिश्रमखिन्नेन क्षुधार्तेन न शक्यते कर्तुम्। पुरोभक्षिकां तावत् करोमि। तृप्तः सुखालापं करिष्यामीति। स पानागारं गतः। तेन तत्र प्रवृद्धवेगमदसंजनकं मद्यं पीतम्। स मत्त उद्यानं गत्वा शयितः। आचरितं श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते। ते यदि सुप्तं पुरुषं पश्यन्ति, पादेन घट्टयन्ति। स यदि प्रतिविबुध्यते, तमेवं वदन्ति-भोः पुरुष, न त्वया श्रुतं यथा श्रावस्त्यामुद्यानमोषकाः पुरुषाः प्रतिदिनमन्वाहिण्ड्यन्ते ? ते यदि सुप्तं पुरुषं पश्यन्ति, वदन्ति-उत्तिष्ठ गच्छेति। यदि न प्रतिविबुध्यते, मुषित्वा गच्छन्ति। तैः पादेन घट्टितो न प्रतिविबुध्यते। मुषित्वा प्रक्रान्ताः। स विगतमद्यमदः प्रतिबुद्धो यावत् पश्यति तान्येवानन्तकानि (?) प्रावृत्यावस्थितः। ततोऽस्य भगिनी संलक्षयति-अतिचिरयत्यसौ। नूनमत्र कारणेन भवितव्यमिति। तस्यासौ दारिका पुनः प्रेषिता-दारिके गच्छ, चिरयत्यसौ, पश्य किमर्थं नागच्छतीति। सा गता यावत् पश्यति मुषितकं तेनैव वेषेणावस्थितम्। सा त्वरितत्वरितं गता तस्याः कथयति-आर्ये, मुषितस्तेनैव वेषेण तिष्ठतीति। सा संलक्षयति-यमागम्य बोधस्य गृहपतेरनेकधनसमुदितं ससुहृत्संबन्धिबान्धवं गृहं विनष्टम्, यदि तमिह प्रवेशयामि, स्थानमेतद्विद्यते यन्मयापि श्वशुरगृहमनयेन व्यसनमापत्स्यते। नासाविह प्रवेशयितव्यः। इति विदित्वा तयाप्युपेक्षितः॥



तस्यापि पूर्वकर्मापराधाद्विस्मृतम्। स क्रोडमल्लकानां मध्ये प्रविष्टः। ते यत्र यत्र भैक्षार्थिनः प्रविशन्ति, तत्र तत्र निर्भत्स्यन्ते च निष्कास्यन्ते च। नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाः शून्यदेवकुलमण्डपवृक्षमूलान्यागताः। तेऽन्योन्यं पृच्छन्ति-भवन्तः, वयं पूर्वं यत्र यत्र गच्छामस्ततः पूर्णहस्ताः पूर्णमल्लका गच्छामः। इदानीं को योगो येन वयं रिक्तहस्ता रिक्तमल्लका नैराश्यमापन्ना इहागता इति ? तत्रैके कथयन्ति-नूनं कोऽपि मन्दभाग्योऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लका इहागता इति। अपरे कथयन्ति-द्विधा भूत्वा प्रविशाम इति। तेऽपरस्मिन् दिवसे द्विधा भूत्वा प्रविष्टाः। तर येषां मध्ये स्वागतः, ते तथैव निर्भर्त्सिता निष्कासिताश्च नैराश्यमापन्ना रिक्तहस्ता रिक्तमल्लकाश्चागताः। ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगता। ये रिक्तहस्ता रिक्तमल्लका आगताः, ते भूयो द्विधा भूत्वा प्रविष्टाः। तेषामपि येषां मध्ये स्वागतः, ते तथैव रिक्तहस्ता रिक्तमल्लकाश्चागताः। ते भूयो द्विधा भूता एवं यावत् स्वागतोऽन्यश्च क्रोडमल्लकः प्रविष्टः। तौ रिक्तहस्तौ रिक्तमल्लकौ आगतौ, ते त्वन्ये पूर्णहस्ताः पूर्णमल्लका आगताः। ते क्रोडमल्लकाः सर्वे संभूय संजल्पं कर्तुमारब्धाः-भवन्तः, अयं मन्दभाग्यसत्त्वोऽस्माकं मध्ये प्रविष्टो येन वयं रिक्तहस्ता रिक्तमल्लकाश्चागताः। निष्कासयाम एनमिति। स तैः प्रभूतान् प्रहारान् दत्त्वा शिरसि च मल्लकं भङ्क्त्वा निष्कासितः॥



अत्रान्तरेऽनाथपिण्डदेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः। तेन दौवारिकाणामाज्ञा दत्ता - न तावत् कस्यचित् क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। पश्चात् तान् भोजयिष्यामीति। क्रोडमल्लका ये तस्य गृहं प्रतिशरणभूतास्ते सर्वे संनिपतिताः प्रवेष्टुमारब्धाः। दौवारिकेण विरोधिताः। कथयन्ति-भोः पुरुष, अस्माकमेव नाम्ना अयं गृहपतिः प्रज्ञायते अनाथपिण्डदो गृहपतिरिति। तत् किमिदमिति कृत्वा अस्मान् विधारयसीति ? स कथयति-गृहपतिना आज्ञा दत्ता-न तावत् कस्यचित् क्रोडमल्लकस्य प्रवेशो दातव्यो यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। पश्चात् तान् भोजयिष्यामीति। ते कथयन्ति-भवन्तः, न कदाचिद्वयं विधार्यमाणाः। तं पश्यत मा अत्रार्या दुरागत आगतो भवेदिति। ते समन्वेष्टितुमारब्धा यावत् पश्यन्त्येकस्मिन् प्रदेशे निलीयावस्थितम्। ततस्तैः कोलाहलशब्दः कृतः-अयं भवन्तः स दुरागतो निलीनस्तिष्ठतीति। स तैः प्रभूतान् प्रहारान् दत्वा निष्कासितस्तीव्रेण च पर्यवस्थानेन शिरसि मल्लकेन प्रहारो दत्तः। तस्य शिरो भग्नम्। स निवर्त्य विप्रलपितुमारब्धः। ततस्तैर्हस्तपादेषु गृहीत्वा संकारकूटे क्षिप्तः-दुरागत अत्र तिष्ठेति। स रुधिरेण प्रघरता तस्मिन् संकारकूटेऽवस्थितः। यावद्भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य गृहपतेर्निवेशनं तेनोपसंक्रान्तः। अद्राक्षीद्भगवान् स्वागतं परुषरूक्षाङ्गुलिदीर्घकेशं रजसावचूर्णितगात्रं कृशमल्पस्थामं मलिनजीर्णवासोनिवसितं शिरसा भग्नेन रुधिरेण प्रघरता अन्यैश्च व्रणैश्चाकीर्णैः, मक्षिकाभिरुपद्रुतैः संकारकूटे निपतितम्। दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म-तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यः। तृप्यत सर्वभवोपपत्त्युपकरणेभ्यः, यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था। तत्र भगवान् तं स्वागतमामन्त्रयते -आकाङ्क्षसे वत्स पात्रशेषम् ? आकाङ्क्षामि भगवन्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-स्वागतस्य ते आनन्द पात्रशेषः स्थापयितव्यमिति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रत्यश्रौषीत्॥



अथ भगवान् येनानाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय। आयुष्मत आनन्दस्य तत्पात्रशेषं स्वागताय विस्मृतम्। असंमोषधर्माणो बुद्धा भगवन्तः। भगवता उत्थापितम्। आयुष्मानानन्दो भगवतः पात्रं गृहीतुमारब्धो यावत् पश्यति तत्र पात्रशेषं न संस्थापितम्। दृष्ट्वा च स्मृतिरुत्पन्ना। स धर्मतत्त्वो वचसा (?) अथ रोदितुमारब्धः। भगवानाह-कस्मात् त्वमानन्द रोदिषीति। स कथयति- न मया भदन्त भगवतः कदाचिदाज्ञा प्रत्यूढपूर्वेति। किं कृतम्? स्वागतस्य पात्रशेषं न स्थापितमिति। भगवानाह-न त्वया आनन्द ममाज्ञा प्रतिस्मृता, अपि तु स्वागतस्यैव तानि कर्माणि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यभावीनि येन तव विस्मृतम्। अलं विषादेन। गच्छ, तं शब्दापयेति। स गत्वा शब्दापयितुमारब्धः। अनेकैः प्रतिवचनं दत्तम्। स्वागतस्य तदपि विस्मृतं यद्भगवता प्रतिज्ञातम्-तव पात्रशेषं स्थापयिष्यामीति। स संलक्षयति-कोऽप्ययं पुण्यकर्मा भगवता त्रैलोक्यगुरुणा समन्वाहृतः शब्दत इति। आयुष्मता आनन्देन गत्वा भगवत आरोचितम्। भगवन् स्वागत इत्युक्त्वा अनेकैः प्रतिवचनं दत्तम्। न जाने कं शब्दापयामीति। भगवानाह-गच्छ आनन्द, गत्वा कथय-यो बोधस्य गृहपतेः शुशुमारगिरीयस्य पुत्रः स्वागतः, स आगच्छतु इति। आयुष्मता आनन्देन गत्वोच्चैः शब्दैरुक्तः - यो बोधस्य गृहपतेः शुशुमारगिरीयकस्य पुत्रः स्वागतः, स आगच्छतु इति। तेन पितुर्नामश्रवणादात्मनो नाम स्मृतम्। स शनैर्दण्डविष्टम्भनयोगादुत्थाय गाथां भाषते-



भ्रष्टः स्वागतशब्दोऽयं कुतः पुनरिहागतः।

नूनमश्रेयसो नाशः श्रेयसश्च समुद्भवः॥१॥



तेषां सर्वज्ञ नाथोऽसि ये हि त्वां शरणं गताः।

तेषां स्वागतमार्याणां ये च ते शासने रताः॥२॥



अहं तु भाग्यरहितः सर्वबन्धुविवर्जितः।

शोच्यः कष्टां दशां प्राप्तः शोकशल्यसमर्पितः॥३॥ इति॥



अथायुष्मानानन्दस्तमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्-अयं भदन्त स्वागत इति। स भगवता क्षुधासंजनितदौर्मनस्यः समाश्वासितः, उक्तश्च-पुत्र, इमं पात्रशेषं परिभुङ्क्ष्वेति। स तं दृष्ट्वा संलक्षयति-यद्यप्यहं भगवता त्रैलोक्यगुरुणा दैवात् समन्वाहृतः, तदपि स्तोकः पात्रशेषः स्थापितः। किमत्र भोक्ष्य इति। भगवांस्तस्य चेतसा चित्तमाज्ञाय कथयति-वत्स, यदि त्वं सुमेरुमात्रैः पिण्डैः समुद्रसदृशेन कुक्षिणा परिभोक्ष्यसे, तथाप्यव्ययं तन्न परिक्षयं गमिष्यति, यावत्तृप्तः परिभुङ्क्ष्व यथासुखमिति। तेन तावद् भुक्तं यावत् तृप्त इति। तत्संतर्पितेन्द्रियो भगवतो मुखं व्यवलोकयितुमारब्धः। भगवानाह-वत्स स्वागत, तृप्तोऽसि ? तृप्तोऽस्मि भगवन्। वत्स, यद्येवमपश्चिमं कवलं गृहाण, अन्तर्धास्यत्येष पात्र इति। तेनापश्चिमकवलो गृहीतः, सोऽन्तर्हितः। भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः। चरमभविकः स सत्त्वो भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः। यावद्भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। सोऽपि भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। भगवान् संलक्षयति- पुष्पाणामेनं प्रेषयामि, कर्मापनयोऽस्य कर्तव्य। इति विदित्वा स्वागतमामन्त्रयते-वत्स स्वागत, सन्ति ते कार्षापणाः ? न सन्ति भगवन्। वत्स स्वागत, वस्त्रान्तं निरीक्षस्व। वस्त्रान्तं निरीक्षितुमारब्धो यावत् पश्यति द्वौ कार्षापणौ। स कथयति-भगवन्, द्वौ कार्षापणौ। वत्स गच्छ, गण्डकस्यारामिकस्य सकाशान्नीलोत्पलानि गृहीत्वा आगच्छेति। स्वागतस्तस्य सकाशं गतः। स तं दूरादेव दृष्ट्वा पर्यवस्थितः। स संलक्षयति-आगतोऽयं दुरागतः। नियतं ममानर्थो भवति। इति विदित्वा सपरुषं कथयति-दुरागत, किमर्थं त्वमिहागच्छसीति। स गाथां भाषते-



नीलोत्पलैरस्ति कार्यं मे तथान्यैर्नापि पङ्कजैः।

मुनीन्द्रस्य तु दूतोऽहं सर्वज्ञस्य यशस्विनः॥४॥



इत्युक्त्वा प्रतिनिवर्तितुमारब्धः। सोऽपि गाथां भाषते-



एह्येहि यदि दूतोऽसि तस्य शान्तात्मनो मुनेः।

पूज्यः स नरदेवानां पूज्यः पूज्यतमैरपि॥५॥



इत्युक्त्वा स कथयति-बुद्धदूतस्त्वम् ? बुद्धदूतः। किमर्थमागतः ? पुष्पार्थम्। यदि बुद्धदूतस्त्वम्, गृहाण यथेप्सितम्। नीलोत्पलानां भारमादाय भगवतः सकाशमागतः। भगवानाह-वत्स, भिक्षूणां चारय। स भिक्षूणां चारयितुमारब्धः। भिक्षवो न प्रतिगृह्णन्ति। भगवानाह-गृह्णीध्वं भिक्षवः सर्वसौगन्धम्। चक्षुर्भ्यां कर्मापनयोऽस्य कर्तव्य इति। भिक्षुभिर्गृहीतानि। गृहीत्वा पुष्पितानि। तेनापूर्वं नीलकृत्स्नमुत्पादितं पूर्वम्। स वृद्धान्ते स्थित्वा तानि पुष्पाणि दृष्ट्वा सुतरां निरीक्षितुमारब्धः। तस्य तन्नीलकृत्स्नमामुखीभूतम्। ततस्तं भगवानाह-वत्स, किं न प्रव्रजसीति ? स कथयति-प्रव्रजामि भगवन्निति। भगवता प्रव्राजित उपसंपादितो मनसिकारश्च दत्तः। तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः। सेन्द्रोपेन्द्राणां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः। सोऽर्हत्त्वं प्राप्तो विमुक्तिसुखप्रतिसंवेदी तस्यां वेलायां गाथां भाषते -



उपायपाशैर्वीरेण बद्ध्वाहं तत्त्वदर्शिना।

कारुण्यादुद्धृतो दुःखाज्जीर्णः पङ्कादिव द्विपः॥६॥



स्वागतोऽहमभूवं प्राक्ततः पश्चाद्दुरागतः।

आगतोऽस्मि पुरा नाथ श्रुत्वा वाक्यं तवोत्तमम्॥७॥



सांप्रतं स्वागतो व्यक्तं (संवृत्तो न दुरागतः)।

सांप्रतं काञ्चनं देहं धारयामि निराश्रवम्॥८॥



रत्नानि प्रतिलेभे हि स्वर्गं मोक्षं च काङ्क्षताम्।

श्रेष्ठा कल्याणमित्राणां सदा सेवा हितैषिणाम्॥९॥ इति॥



यदा आयुष्मान् स्वागतः स्वाख्याते धर्मविनये प्रव्रजितः, तदा सामन्तकेन शब्दो विसृतः-श्रमणेन गौतमेनासौ दुरागतः क्रोडमल्लकः प्रव्रजितः। तीर्थ्यैः श्रुतम्। तेऽवध्यायन्ति क्षिपन्ति विवादयन्ति-श्रमणो भवन्तो गौतम एवमाह-सामन्तप्रासादिकं मे शासनमिति। अत्र किं सामन्तप्रासादिकमित्यस्य यत्रेदानीं दुरागतप्रभृतयोऽपि क्रोडमल्लकाः प्रव्रजन्तीति ? अत्रान्तरे नास्ति किंचिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। भगवान् संलक्षयति-सुमेरुप्रख्ये महाश्रावके महाजनकायः प्रसादं प्रवेदयते। तद्गुणोद्भावनमस्य कर्तव्यम्, कुत्र कर्तव्यम् ? यत्रैव पतितः। इति ज्ञात्वा आनन्दमामन्त्रयते स्म-गच्छ आनन्द भिक्षूणामारोचय-तथागतो भिक्षवो भर्गेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं भर्गेषु चारिकां चर्तुम्, स चीवरकाणि गृह्णातु इति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति-भगवानायुष्मन्तो भर्गेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते भगवता सार्धं भर्गेषु जनपदेषु चारिकां चरितुम्, स चीवरकाणि गृह्णातु इति। अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभपरिवृतः सिंह इव दंष्टृगणपरिवृतो हंसराज इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो वेमचित्रीवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तेन्द्रियैरसंक्षोभितेर्यापथप्रचारो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतोऽशीत्यानुव्यञ्जनैर्विराजितगात्रो व्यामप्रभालंकृतमूर्तिः सूर्यसहस्रातिरेकप्रभो जङ्गम इव रत्नपर्वतः समन्ततो भद्रको दशभिर्बलैश्चतुर्भिः वैशारद्यैस्त्रिभिरावेणिकैः स्मृत्युपस्थानैर्महाकरुणया च समन्वागत आज्ञातकौण्डिन्यबाष्पमहानामानिरुद्धशारिपुत्रमौद्गल्यायनकाश्यपानन्दरैवतप्रभृतिभिर्महाश्रावकैः परिवृतोऽन्येन च महता भिक्षुसंघेन येन शुशुमारगिरिस्तेनोपसंक्रान्तः। अनुपूर्वेण चारिकां चरन् शुशुमारगिरिमनुप्राप्तः। शुशुमारगिरौ विहरति भीषणिकावने मृगदावे। अश्रौषुः शुशुमारगिरीयका ब्राह्मणगृहपतयः-भगवान् भर्गेषु जनपदेषु चारिकां चरन् शुशुमारगिरिमनुप्राप्तः शुशुमारगिरौ विहरति भीषणिकावने मृगदाव इति। श्रुत्वा च पुनः संघात् संघं पूगात्पूगं संगम्य समागम्य शुशुमारगिरेर्निष्क्रम्य येन भगवांंस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। शुशुमारगिरीयकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्-अधिवासयत्वस्माकं भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन। अधिवासयति भगवान् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन। अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्ताः। अथ शुशुमारगिरीयका ब्राह्मणगृहपतयस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनकानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयन्ति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। शुशुमारगिरीयका ब्राह्मणगृहपतयः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्पयन्ति संप्रवारयन्ति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवान् शुशुमारगिरीयकान् ब्राह्मणगृहपतीन् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्॥



अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचन् - भगवता भदन्त नानादेशेषु नानाधिष्ठानेषु ते ते दुष्टनागा दुष्टयक्षाश्च विनीताः। अयं भदन्त अश्वतीर्थिको नागोऽस्माकमवैराणां वैरी असपत्नानां सपत्नोऽद्रुग्धानां द्रुग्धः। नित्यमस्माकं जातानि जातानि शस्यानि विनाशयति, स्त्रीपुरुषदारकदारिकागोमहिषानजैडकांश्च। अहो बत भगवांस्तं विनयेदनुकम्पामुपादायेति। अधिवासयति भगवान् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनाम्। तूष्णीभावेनाधिवासयति। अथ भगवान् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेनाधिवास्य उत्थायासनात् प्रक्रान्तः। अथ भगवान् विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवानायुष्मन्तमानन्दमामन्त्रयते-गच्छ आनन्द, भिक्षूणामेवमारोचय, शलाकां चारय-यो युष्माकमुत्सहते अश्वतीर्थिकं नागं विनेतुम्, स शलाकां गृह्णातु इति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षुसंघस्यारोचयित्वा बुद्धप्रमुखे भिक्षुसंघे शलाकां चारयितुमारब्धः। भगवता शलाका न गृहीता। स्थविरा भिक्षवः समन्वाहर्तुं संवृत्ताः-किमर्थं भगवता शलाका न गृहीता इति ? पश्यन्त्यायुष्मतः स्वागतस्य गुणोद्भावनां कर्तुकामः। तैरपि न गृहीता। आयुष्मान् स्वागतः समन्वाहर्तुं प्रवृत्तः-किं कारणं भगवता शलाका न गृहीता स्थविरस्थविरैश्च भिक्षुभिरिति ? पश्यति मम गुणोद्भावनां कर्तुकामः। तच्छास्तुर्मनोरथं पूरयामि, गृह्णामि शलाकामिति। तेनार्धासनं मुक्त्वा गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता। जानकाः पृच्छका बुद्धा भगवन्तः। पृच्छति बुद्धो भगवानायुष्मन्तमानन्दम्-कतरेणानन्द भिक्षुणा शलाका गृहीतेति ? स कथयति-स्वागतेन भदन्तेति। भगवानाह-गच्छ आनन्द, स्वागतं भिक्षुमेवं वद-दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्-आयुष्मन् स्वागत, भगवानेवमाह-दुष्टनागोऽसौ, कायेन्द्रियं ते रक्षितव्यमिति। स कथयति-आयुष्मन्नानन्द अकोप्या शास्तुराज्ञा। अपि तु यादृशोऽश्वतीर्थिको नागः, ईदृशानां नागानामिक्षुवेणुनडवद्यदि पूर्णो जम्बुद्वीपः स्यात्, तथापि मे ते रोमापि नेञ्जयितुं समर्थाः स्युः, प्रागेवाश्वतीर्थिको नागः कायेन्द्रियस्योपरोधं करिष्यतीति। आयुष्मानानन्द आरोग्यमित्युक्त्वा प्रक्रान्तः॥



अथायुष्मान् स्वागतस्तस्या एव रात्रेरत्ययात्पूर्वाह्णे निवास्य पात्रचीवरमादाय शुशुमारगिरिं पिण्डाय प्राविक्षत्। शुशुमारगिरिं पिण्डाय चरित्वा येनाश्वतीर्थिकस्य नागस्य भवनं तेनोपसंक्रान्तः। अद्राक्षीदश्वतीर्थिको नाग आयुष्मन्तं स्वागतं दूरादेव। दृष्ट्वा च पुनः संलक्षयति-किमनेन श्रमणकेन मम मृतिप्रवृत्तिः श्रुता येन मे भवनमागच्छतीति ? पुनः संलक्षयति-आगन्तुरयम्, आगच्छतु तावदिति। अथायुष्मान् स्वागतस्तस्य ह्रदं गत्वा पात्रचीवरमेकान्तमुपसंक्षिप्य पादौ प्रक्षाल्य हस्तौ निर्माद्य पानीयं परिस्राव्य जीर्णपर्णकानि समुदानीय निषद्य भक्तकृत्यं कर्तुमारब्धः। अश्वतीर्थिकेन नागेनासावतिथिरिति कृत्वाध्युपेक्षितः। आयुष्मान् स्वागतः संलक्षयति-नासंक्षोभिता दुष्टनागा दमथमागच्छन्ति। संक्षोभयाम्येनमिति। तेन पात्रं प्रक्षाल्य तत्पात्रोदकं तस्मिन् ह्रदे प्रक्षिप्तम्। स संक्षुब्धः। स संलक्षयति-अयं मया श्रमण आगच्छन्नध्युपेक्षितः, भुञ्जानोऽप्युपेक्षितः, अनेन मम भवने उच्छिष्टोदकं छोरितम्। नामावशेषमेनं करोमीति तीव्रेण पर्यवस्थानेन पर्यवस्थितः। उपरिविहायसमभ्युद्गम्य आयुष्मतः स्वागतस्योपरि चक्रकणपपरशुभिन्दिपालादीनि प्रहरणानि क्षेप्तुमारब्धः। आयुष्मान् स्वागतो मैत्रीसमापन्नः। तान्यस्य दिव्यान्युत्पलपद्मकुमुदपुण्डरीकमन्दारकाणि पुष्पाणि भूत्वा काये निपतन्ति। अश्वतीर्थिको नागोऽङ्गारवर्षमुत्स्रष्टुमारब्धः। तदपि दिव्यानि पुष्पाणि मान्दारकाणि भूत्वा काये निपतितुमारब्धम्। अश्वतीर्थिको नागः पांसु वर्षितुमारब्धः। तदपि दिव्यान्यगुरुचूर्णानि चन्दनचूर्णानि तमालपत्रचूर्णानि भूत्वा निपतितुमारब्धम्। अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावाद्धूमयितुमारब्धः। आयुष्मानपि स्वागत ऋद्ध्यनुभावाद्धूमयितुमारब्धः। अश्वतीर्थिको नागः क्रोधपर्यवस्थानानुभावात् प्रज्वलितः। आयुष्मानपि स्वागतस्तेजोधातुं समापन्नः। इति तत्राश्वतीर्थिकस्य नागस्य क्रोधस्यानुभावेनायुष्मतः स्वागतस्य ऋद्ध्यनुभावेन महानवभासः प्रादुर्भूतो यं दृष्ट्वा शुशुमारगिरीयका ब्राह्मणगृहपतयः संभ्रान्ताः, इतश्चामुतश्च निरीक्षितुमारब्धाः। कथयन्ति- एष भवन्तो भगवानश्चतीर्थिकं नागं विनयति, आगच्छत पश्याम इति। अनेकानि प्राणशतसहस्राणि निर्गतानि। भिक्षवोऽपि तमुदारावभासं तत्रस्था एव निरीक्षितुमारब्धाः। तत्र भगवान् भिक्षूनामन्त्रयते स्म-एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणामभीक्ष्णं तेजोधातुं समापद्यमानानां यदुत स्वागतो भिक्षुरिति। यदाश्वतीर्थिको नागो विगतमददर्पः क्षीणप्रहरणश्च संवृत्तः, तदा निष्पलायितुमारब्धः। आयुष्मता स्वागतेन समन्ततोऽग्निर्निर्मितः। अश्वतीर्थको नागो यां यां दिशं गच्छति, तां तां दिशमादीप्तां प्रदीप्तां संप्रज्वलितामेकज्वालीभूतां पश्यति । स इतश्चामुतश्च नैर्माणिकेनाग्निना पर्याकुलीकृतोऽत्राणः सर्वमशान्तं पश्यति नान्यत्रायुष्मत एव स्वागतस्य समीपं शान्तं शीतिभूतम्। स येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। उपसंक्रम्य आयुष्मन्तं स्वागतमिदमवोचत्-अहं भदन्त स्वागत। किं मां विहेठयसीति ? स कथयति-जराधर्मा नाहं त्वां विहेठयामि, अपि तु त्वमेव मां विहेठयसि। यदि मया एवंविधा गुणगणा नाधिगता अभविष्यन्, अद्याहं त्वया नामावशेषः कृतोऽभविष्यमिति। स कथयति- भदन्त स्वागत, आज्ञापयतु, किं मया करणीयम् ? भद्रमुख, भगवतोऽन्तिकं गत्वा शरणगमनशिक्षापदानि गृहाणेति। स कथयति-भदन्त स्वागत, शोभनम्, एवं करोमीति। अथायुष्मान् स्वागतोऽश्वतीर्थनागमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्ण आयुष्मान् स्वागतो भगवन्तमिदमवोचत्-अयं सोऽश्वतीर्थिको नाग इति। तत्र भगवानश्वतीर्थिकं नागमामन्त्रयते-त्वं तावद्भद्रमुख, पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनौ उपपन्नः। स त्वमेतर्हि हतप्रहतनिविष्टः परप्राणहरः परप्राणोपरोधेन जीविकां कल्पयसि। इतश्च्युतस्य ते का गतिर्भविष्यति, का उपपत्तिः, कोऽभिसंपरायः ? इति। स कथयति-भगवन्, आज्ञापय, किं मया करणीयमिति। भगवानाह-ममान्तिकाच्छरणशिक्षापदानि गृहाण, शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छेति। स कथयति-एषोऽहं भगवन्तं शरणं गच्छामि, शिक्षापदानि च गृह्णामि, अद्याग्रेण च शुशुमारगिरीयकानां च ब्राह्मणगृहपतीनामभयमनुप्रयच्छामीति। अथ शुशुमारगिरीयका ब्राह्मणगृहपतयः प्रभूतमभिसारं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः। एकान्तनिषण्णाः शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवन्तमिदमवोचन्-भगवता भदन्त अश्वतीर्थिको नागो विनीतः ? भगवानाह-न मया ब्राह्मणगृहपतयोऽश्वतीर्थको नागो विनीतः, अपि तु स्वागतेन भिक्षुणा। कतमेन भदन्त ? इहनिवासिनैव बोधस्य गृहपतेः पुत्रेण। संपत्तिकामो लोको विपत्तिप्रतिकूलः। तत्रैके कथयन्ति- अस्माकमसौ भ्रातुः पुत्रो भवति। अपरे कथयन्ति-अस्माकं भागिनेय इति। अपरे कथयन्ति-अस्माकं वयस्यपुत्र इति। अथ शुशुमारगिरीयका ब्राह्मणगृहपतय उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन्-अधिवासयत्वस्माकं भगवान् भदन्तस्वागतमागम्य भक्तं सप्ताहेन सार्धं भिक्षुसंघेनेति। अधिवासयति भगवान् शुशुमारगिरीयकानां ब्राह्मणगृहपतीनां तूष्णीभावेन। अथ शुशुमारगिरीयका ब्राह्मणगृहपतयो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्ताः॥



शुशुमारगिरौ अन्यतमो ब्राह्मण अहितुण्डिको बोधस्य गृहपतेर्वयस्यः। सोऽश्वतीर्थिकस्य नागस्य भयान्निष्पलाय्य श्रावस्तीं गतः। स राज्ञा प्रसेनजिता कौशलेन हस्तिमध्यस्योपरि विश्वासिकः स्थापितः। स केनचिदेव करणीयेन शुशुमारगिरिमनुप्राप्तः। तेन श्रुतं यथा स्वागतेन भिक्षुणा बोधस्य गृहपतेः पुत्रेणाश्वतीर्थिको नागो विनीत इति। श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मतः स्वागतस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। स ब्राह्मण आयुष्मन्तं स्वागतमिदमवोचत्-अधिवासयतु मे आर्यस्वागत श्वोऽन्तर्गृहे भक्तेनेति। आयुष्मान् स्वागतः कथयति-ब्राह्मण, मामागम्य शुशुमारगिरीयकैर्ब्राह्मणगृहपतिभिर्बुद्धप्रमुखो भिक्षुसंघो भक्तेन सप्ताहेनोपनिमन्त्रितः। नाहमधिवासयामि। ब्राह्मणः कथयति-आर्य, यदि सांप्रतं नाधिवासयसि, यदा श्रावस्तीगतो भवसि, तदा मम गृहे तत्प्रथमतः पिण्डपातः परिभोक्तव्य इति। कथयति- एवमस्तु इति। ब्राह्मणः पादाभिवन्दनं कृत्वा प्रक्रान्तः। अथ भगवान् यथाभिरम्यं शुशुमारगिरौ विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः। अनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे। अश्रौषीदनाथपिण्डदो गृहपतिर्भगवान् भर्गेषु जनपदचारिकां चरन् श्रावस्तीमनुप्राप्तः, इहैव विहरत्यस्माकमेवाराम इति। श्रुत्वा च पुनः श्रावस्त्या निष्क्रम्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अनाथपिण्डदो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंधेनेति। अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन। अथानाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः। अश्रौषीत् स ब्राह्मणो भगवान् भर्गेषु जनपदचारिकां चरन्निहानुप्राप्त इहैव विहरति जेतवनेऽनाथपिण्डदस्याराम इति। श्रुत्वा च पुनर्येनायुष्मान् स्वागतस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मन्तं स्वागतमिदमवोचत्-अधिवासयतु मे आर्यः श्वोऽन्तर्गृहे भक्तेनेति। अधिवासयत्यायुष्मान् स्वागतस्तस्य ब्राह्मणस्य तूष्णीभावेन। अथ स ब्राह्मण आयुष्मन्तः स्वागतस्य तूष्णीभावेनाधिवासनां विदित्वा उत्थायासनात् प्रक्रान्तः। अथानाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येनानाथपिण्डदस्य निवेशनं तेनोपसंक्रान्तः। तेनापि ब्राह्मणेनायुष्मतः स्वागतस्य प्रणीत आहारः सज्जीकृतः। आयुष्मानपि स्वागतः पूर्वाह्णे निवास्य पात्रचीवरमादाय येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। एकान्तनिषण्ण आयुष्मान् स्वागतस्तेन ब्राह्मणेन प्रणीतेनाहारेण संतर्पितः। स ब्राह्मणः संलक्षयति-आर्येण स्वागतेन प्रणीत आहारः परिभुक्तः, नो जरयिष्यति, पानकमस्मै प्रयच्छामि। इति विदित्वा आयुष्मन्तं स्वागतमिदमवोचत्-आर्य, प्रणीतस्ते आहारः परिभुक्तः। पानकं पिब। पानं जरयिष्यतीति। स कथयति-शोभनम्। एवं करोमीति। तेन पानकं सज्जीकृत्य हस्तिमदादङ्गुलिः प्रक्षिप्ता। असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते। आयुष्मता स्वागतेन तत्पानकं पीतम्। ततो दक्षिणादेशनां कृत्वा प्रक्रान्तः श्रावस्तीवीथीं किलिञ्जच्छन्नाम्। स तामतिक्रान्त आतपेन स्पृष्टो मद्यक्षिप्तः पृथिव्यां निपतितः। असंमोषधर्माणो बुद्धा भगवन्तः। भगवता सुपर्णिका कुटिर्निर्मिता-मैतं कश्चिद् दृष्ट्वा शासनेऽप्रसादं प्रवेदयिष्यतीति। अनाथपिण्डदः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति। अनेकपर्यायेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय। अथ भगवाननाथपिण्डदं गृहपतिं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः। अनुपूर्वेण तत्प्रदेशनुप्राप्तः। अथ भगवांस्तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य भिक्षूनामन्त्रयते स्म -अयं स भिक्षवः स्वागतो भिक्षुर्येनाश्वतीर्थिको नागस्तावच्चण्डो विनीतः। किमिदानीमेष शक्तो दुर्भुक्तस्यापि विषमपनेतुम् ? नो भदन्त इति। भिक्षवः, इमे चान्ये चादीनवा मद्यपाने। तस्मान्न भिक्षुणा मद्यं पातव्यं दातव्यं वा। अथ भगवानायुष्मन्तं स्वागतं मद्यवशात् सुप्तमुत्थाप्येदमवोचत्-स्वागत, किमिदम्? असमन्वाहारो भगवन्, असमन्वाहारः सुगत। ततो भगवानायुष्मन्तं स्वागतमादाय विहारं गत्वा पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। निषद्य भिक्षूनामन्त्रयते स्म-मां भो भिक्षवः शास्तारमुद्दिश्य भवद्भिर्मद्यमपेयमदेयमन्ततः कुशाग्रेणापि॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः-किं भदन्त आयुष्मता स्वागतेन कर्म कृतं येनाढ्ये कुले महाधने महाभोगे जातः ? किं कर्म कृतं येन क्रोडमल्लको जातः, दुरागत इति च संज्ञा संवृत्ता ? किं कर्म कृतं येन भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, तेजोधातुं समापद्यमानानां चाग्रतायां निर्दिष्टः ? भगवानाह-स्वागतेनैव भिक्षवो भिक्षुणा कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितान्यवश्यभावीनि। स्वागतेन कर्माणि कृतान्युपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१०॥



भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी। सोऽपरेण समयेन सुहृत्संबन्धिबान्धवपरिवृतोऽन्तर्जनपरिवृतश्चोद्यानभूमिं निर्गतः। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस्तं कर्वटकमनुप्राप्तः। सोऽध्वपरिश्रमाद्धातुवैषम्याश्च ग्लानः पिण्डार्थी तदुद्यानं प्रविष्टः। स गृहपतिस्तं दृष्ट्वा पर्यवस्थितः। तेन पौरुषेयाणामाज्ञा दत्ता-भवन्तः, निष्कासयतैनं प्रव्रजितमिति। तेषां न कश्चिदुत्सहते निष्कासयितुम्। तेन गृहपतिना भूयसा पर्यवस्थितेन स महात्मा स्वयमेव ग्रीवायां गृहीत्वा निष्कासितः, उक्तश्च -क्रोडमल्लकानां मध्ये प्रतिवसेति। स दुर्बलप्राणो भूमौ निपतितः। स संलक्षयति- हतोऽयं तपस्वी गृहपतिरुपहतश्च। अभ्युद्धारोऽस्य कर्तव्यः। इति विदित्वा उपरिविहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुमारब्धः। आशु पृथग्जनस्य रिद्धिरावर्जनकरी। स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कथयति-अवतरावतर महादक्षिणीय, मम दुश्चरितपङ्कनिमग्नस्य हस्तोद्धारमनुप्रयच्छेति। स तस्यानुग्रहार्थमवतीर्णः। तेन तस्य पूजासत्कारं कृत्वा प्रणिधानं कृतम्-यन्मया एवंविधे सद्भूतदक्षिणीयेऽपकारः कृतः, मा अस्य कर्मणो भागी स्याम्। यत्तूपकारः कृतः, अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेयम्, एवंविधानां च धर्माणां लाभी स्याम्, प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



भगवानाह-किं मन्यध्वे भिक्षवो योऽसौ गृहपतिरेव, असौ स्वागतो भिक्षुस्तेन कालेन तेन समयेन। यदनेन प्रत्येकबुद्धे काराः कृताः, तेनाढ्ये महाधने महाभोगे कुले जातः। यदपकारः कृतः, तेन पञ्चजन्मशतानि क्रोडमल्लको जातः। यावदेतर्ह्यपि चरमभविकोऽपि तत्क्रोडमल्लक एव जातः। यत्प्रणिधानं कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अहमनेन प्रत्येकबुद्धकोटिशतसहस्रेभ्यः प्रतिविशिष्टतरः शास्ता आरागितो न विरागितः। भूयोऽपि काश्यपे भगवति सम्यक्संबुद्धे प्रव्रजितो बभूव। यस्य भिक्षोरन्तिके प्रव्रजितः, स भगवता काश्यपेन सम्यक्संबुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः। तत्रानेन यावदायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगणोऽधिगतः। स मरणसमये प्रणिधानं कर्तुमारब्धः-यन्मया भगवति काश्यपे सम्यक्संबुद्धेऽनुत्तरे दक्षिणीये यादवायुर्ब्रह्मचर्यं चरितम्, न च कश्चिद्गुणगणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्संबुद्धेनोत्तरो माणवो व्याकृतः- भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति, तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्। यथा मम उपाध्यायो भगवता काश्यपेन सम्यक्संबुद्धेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः, एवं मामपि स भगवान् शाक्यमुनिः शाक्याधिराजोऽभीक्ष्णं तेजोधातुं समापद्यमानानामग्रं निर्दिशेदिति। तत्प्रणिधानवशादेतर्हि तथागतेनाभीक्ष्णं तेजोधातुं समापद्यमानानामग्रो निर्दिष्टः। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानामेकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगंः करणीयः। इत्येवं भो भिक्षवः शिक्षितव्यम्॥



इत्यवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने स्वागतावदानं नाम त्रयोदशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project