Digital Sanskrit Buddhist Canon

१२ प्रातिहार्यसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
१२ प्रातिहार्यसूत्रम्।



स भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो दिव्यानां मानुष्याणां च भगवाननुपलिप्तो विहरति पद्मपत्रमिवाम्भसा।



तेन खलु समयेन राजगृहे नगरे षट् पूर्णाद्याः शास्तारोऽसर्वज्ञाः सर्वज्ञमानिनः प्रतिवसन्ति स्म। तद्यथा-पूर्णः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैरट्टीपुत्रः, अजितः केशकम्बलः, ककुदः कात्यायनः, निर्ग्रन्थो ज्ञातिपुत्रः। अथ षण्णां पूर्णादीनां तीर्थ्यानां कुतूहलशालायां संनिषण्णानां संनिपतितानामयमेवंरूपोऽभूदन्तराकथासमुदाहारः-यत्खलु भवन्तो जानीरन्-यदा श्रमणो गौतमो लोकेऽनुत्पन्नः, तदा वयं सत्कृताश्चाभूवन् गुरुकृताश्च मानिताश्च पूजिताश्च राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानाम्। लाभिनश्चाभूवंश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। यदा तु श्रमणो गौतमो लोके उत्पन्नः, तदा श्रमणो गौतमः सत्कृतो गुरुकृतो मानितः पूजितो राज्ञां राजमात्राणां ब्राह्मणानां गृहपतीनां जनपदानां धनिनां श्रेष्ठिनां सार्थवाहानाम्। लाभी च श्रमणो गौतमः सश्रावकसंघश्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्। अस्माकं च लाभसत्कारः सर्वेण सर्वं समुच्छिन्नः। वयं स्म ऋद्धिमन्तो ज्ञानवादिनः। श्रमणोऽपि गौतमो रिद्धिमान् ज्ञानवादीत्यात्मानं प्रतिजानीते। अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। यद्येकं श्रमणो गौतमोऽनुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे। द्वे श्रमणो गौतमः, वयं चत्वारि। चत्वारि श्रमणो गौतमः, वयमष्टौ। अष्टौ श्रमणो गौतमः, वयं षोडश। षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्र्त्रिगुणं विदर्शयिष्यामः। उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। अथ मारस्य पापीयस एतदभवत्-असकृदसकृन्मया श्रमणस्य गौतमस्य प्राक्रान्तम्, न च कदाचिदवतारो लब्धः। यन्न्वहं तीर्थ्यानां प्रहरेयम्। इति विदित्वा पूरणवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा मस्करिणं गोशालीपुत्रमामन्त्रयते-यत्खलु मस्करिन् जानीयाः-अहं रिद्धिमान् ज्ञानवादी, श्रमणो गौतमो रिद्धिमान् ज्ञानवादीत्यात्मानं परिजानीते । अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्वे। द्वे श्रमणो गौतमः, अहं चत्वारि। चत्वारि श्रमणो गौतमः, अहमष्टौ। अष्टौ श्रमणो गौतमः, अहं षोडश। षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणमुत्तरं मनुष्यधर्मं रिद्धिप्रातिहार्यं विदर्शयिष्यामः। उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि। तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। अथ मारस्य पापीयस एतदभवत्-असकृदसकृन्मया श्रमणस्य गौतमस्य पराक्रान्तम्, न च कदाचिदवतारो लब्धः। यन्न्वहं तीर्थ्यानां प्रहरेयम्। इति विदित्वा मस्करिवदात्मानमभिनिर्माय उपरि विहायसमभ्युद्गम्य ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कृत्वा संजयिनं वैरट्टीपुत्रमामन्त्रयते-यत्खलु संजयिन् जानीयाः-अहं रिद्धिमान् ज्ञानवादी, श्रमणो गौतमो रिद्धिमान् ज्ञानवादीत्यात्मानं प्रतिजानीते। अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं द्वे। द्वे श्रमणो गौतमः, अहं चत्वारि। चत्वारि श्रमणो गौतमः, अहमष्टौ। अष्टौ श्रमणो गौतमः, अहं षोडश। षोडश श्रमणो गौतमः, अहं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, अहं तद्द्विगुणमुत्तरं मनुष्यधर्मप्रातिहार्यं विदर्शयिष्यामि। उपार्धं मार्गं श्रमणो गौतम आगच्छतु, अहमप्युपार्धं मार्गं गमिष्यामि।तत्र मे भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। एवमन्योन्यं सर्वे विहेठिताः। एकैक एवमाह- रिद्धेर्लाभी नाहमिति॥



पूरणाद्याः षट् शास्तारः सर्वज्ञज्ञानिनो येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रामन्। उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचन्-यत्खलु देव जानीयाः-वयं ऋद्धिमन्तो ज्ञानवादिनः। श्रमणोऽपि गौतमो रिद्धिमान् ज्ञानवादीत्यात्मानं प्रतिजानीते। अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे। द्वे श्रमणो गौतमः, वयं चत्वारि। चत्वारि श्रमणो गौतमः, वयमष्टौ। अष्टौ श्रमणो गौतमः, वयं षोडश। षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्र्त्रिगुणं रिद्धिप्रातिहार्यं विदर्शयिष्यामः। उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तीर्थ्यानिदमवोचत्-यूयमपि शवा भूत्वा भगवता सार्धं रिद्धिं प्रारभध्वे ? अथ पूरणाद्याः षट् शास्तारोऽसर्वज्ञाः सर्वज्ञानज्ञानिनोऽर्धमार्गे राजानं मागधं श्रेण्यं बिम्बिसारं विज्ञापयन्ति-वयं स्मो देव रिद्धिमन्तो ज्ञानवादिनः।श्रमणोऽपि गौतमो रिद्धिमान् ज्ञानवादीत्यात्मानं प्रतिजानीते। अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। यावत् तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। एवमुक्ते राजा मागधः श्रेण्यो बिम्बिसारस्तांस्तीर्थिकपरिव्राजकानिदमवोचत्-यद्येवं त्रिरप्येतमर्थं विज्ञापयिष्यथ, निर्विषयान् वः करिष्यामि। अथ तीर्थ्यानामेतदभवत्-अयं राजा मागधः श्रेण्यो बिम्बिसारः श्रमणस्य गौतमस्य श्रावकः। बिम्बिसारस्तिष्ठतु। राजा प्रसेनजित् कौशलो मध्यस्थः। यदा श्रमणो गौतमः श्रावस्तीं गमिष्यति, तत्र वयं गत्वा श्रमणं गौतममुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्ये आह्वयिष्यामः। इत्युक्त्वा प्रक्रान्ताः॥



अथ राजा मागधः श्रेण्यो बिम्बिसारोऽन्यतमं पुरुषमामन्त्रयते - गच्छ त्वं भोः पुरुष क्षिप्रम्। भद्रं यानं योजय, यत्राहमधिरुह्य भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै। एवं देवेति स पुरुषो राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा मागधः श्रेण्यो बिम्बिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं मागधं श्रेण्यं बिम्बिसारमिदमवोचत्-युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति। अथ राजा मागधः श्रेण्यो बिम्बिसारो भद्रं यानमभिरुह्य राजगृहान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेवारामं प्राविक्षत्। अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमद्राक्षीत्। तदन्तरा पञ्च ककुदान्यपनीय तद्यथा- उष्णीषं छत्रं खङ्गमणिं बालव्यजनं चित्रे चोपानहौ, स पञ्च ककुदान्यपनीय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णं विदित्वा राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तमभ्यानन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः॥



अथ भगवत एतदभवत्-कुत्र पूर्वकैः सम्यक्संबुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्? देवता भगवत आरोचयन्ति-श्रुतपूर्वं भदन्त पूर्वकैः सम्यक्संबुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति। भगवतो ज्ञानदर्शनं प्रवर्तते- श्रावस्त्यां पूर्वकैः सम्यक्संबुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयतेगच्छ त्वमानन्द, भिक्षूणामारोचय। तथागतः कोशलेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चर्तुम्, स चीवरकाणि धावतु सीव्यतु रञ्जयतु। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति-भगवानायुष्मन्तः कोशलेषु जनपदेषु चारिकां चरिष्यति। यो युष्माकमुत्सहते तथागतेन सार्धं कोशलेषु जनपदेषु चारिकां चरितुम्, स चीवराणि धावतु सीव्यतु रञ्जयतु इति। ते भिक्षव आयुष्मत आनन्दस्य प्रत्यश्रौषुः। अथ भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारो मुक्तो मुक्तपरिवार आश्वस्त आश्वस्तपरिवारो विनीतो विनीतपरिवारोऽर्हन्नर्हत्परिवारो वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतो गज इव कलभगणपरिवृतः सिंह इव दंष्टृगणपरिवृतो राजहंस इव हंसगणपरिवृतः सुपर्णीव पक्षिगणपरिवृतो विप्र इव शिष्यगणपरिवृतः सुवैद्य इवातुरगणपरिवृतः शूर इव योधगणपरिवृतो देशिक इवाध्वगणपरिवृतः सार्थवाह इव वणिग्गणपरिवृतः श्रेष्ठीव पौरगणपरिवृतः कोट्टराज इव मन्त्रिगणपरिवृतश्चक्रवर्तीव पुत्रसहस्रपरिवृतश्चन्द्र इव नक्षत्रगणपरिवृतः सूर्य इव रश्मिसहस्रपरिवृतो विरूढक इव कुम्भाण्डगणपरिवृतो विरूपाक्ष इव नागगणपरिवृतो धनद इव यक्षगणपरिवृतो धृतराष्ट्र इव गन्धर्वगणपरिवृतो वेमचित्र इवासुरगणपरिवृतः शक्र इव त्रिदशगणपरिवृतो ब्रह्मेव ब्रह्मकायिकगणपरिवृतः स्तिमिव इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः सुदान्तैरिन्द्रियैरसंक्षोभितेर्यापथप्रचारोऽनेकैरावेणिकैर्बुद्धधर्मैर्महता भिक्षुसंघेन च पुरस्कृतो येन श्रावस्ती तेन चारिकां प्रक्रान्तः। अनेकैश्च देवताशतसहस्रैरनुगम्यमानोऽनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे॥



अश्रौषुस्तीर्थ्याः श्रमणो गौतमः श्रावस्तीं गत इति। श्रुत्वा च पुनः श्रावस्तीं संप्रस्थिताः। ते श्रावस्तीं गत्वा राजानं प्रसेनजित्कौशलमिदमवोचन् - यत्खलु देव जानीथाः-वयं ऋद्धिमन्तो ज्ञानवादिनः । श्रमणो गौतमो ऋद्धिमान् ज्ञानवादीत्यात्मानं प्रतिजानीते। अर्हति ज्ञानवादी ज्ञानवादिना सार्धमुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयितुम्। यद्येकं श्रमणो गौतम उत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं विदर्शयिष्यति, वयं द्वे। द्वे श्रमणो गौतमः, वयं चत्वारि। चत्वारि श्रमणो गौतमः, वयमष्टौ। अष्टौ श्रमणो गौतमः, वयं षोडश। षोडश श्रमणो गौतमः, वयं द्वात्रिंशदिति यावच्छ्रमणो गौतम उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति, वयं तद्द्विगुणं तत्र्त्रिगुणमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामः। उपार्धं मार्गं श्रमणो गौतम आगच्छतु, वयमप्युपार्धं मार्गं गमिष्यामः। तत्रास्माकं भवतु श्रमणेन गौतमेन सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। एवमुक्ते राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-आगमयन्तु तावद्भवन्तो यावदहं भगवन्तमवलोकयामि। अथ राजा प्रसेनजित् कौशलोऽन्यतमं पुरुषमामन्त्रयते-गच्छ त्वं भोः पुरुष। क्षिप्रं भद्रं यानं योजय। अहमभिरुह्य अद्यैव भगवन्तं दर्शनायोपसंक्रमिष्यामि पर्युपासनायै। एवं देवेति स पुरुषो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन राजा प्रसेनजित् कौशलस्तेनोपसंक्रान्तः। उपसंक्रम्य राजानं प्रसेनजितं कौशलमिदमवोचत् - युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यते। अथ राजा प्रसेनजित् कौशलो भद्रं यान-मभिरुह्य श्रावस्त्या निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं पर्युपासनाय। तस्य यावती यानस्य भूमिस्तावद्यानेन गत्वा यानादवतार्य पादाभ्यामेव आरामं प्रविश्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्ते निषण्णो राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्-इमे भदन्त तीर्थ्या भगवन्तमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाह्वयन्ते। विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्। निर्भर्त्सयतु भगवांस्तीर्थ्यान्। नन्दयतु देवमनुष्यान्। तोषयतु सज्जनहृदयमनांसि। एवमुक्ते भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत् -नाहं महाराज एवं श्रावकाणां धर्मं देशयामि एवं यूयं भिक्षव आगतागतानां ब्राह्मणगृहपतीनामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयतेति। अपि तु अहमेवं श्रावकाणां धर्मं देशयामि-प्रतिच्छन्न-कल्याणा भिक्षवो विहरत विवृतपापा इति। द्विरपि त्रिरपि राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्-विदर्शयतु भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम्। निर्भर्त्सयतु तीर्थ्यान्। नन्दयतु भगवान् देवमनुष्यान्। तोषयतु सज्जनहृदयमनांसि। धर्मता खलु बुद्धानां भगवतां जीवतां तिष्ठतां ध्रियमाणानां यापयतां यदुत दशावश्यकरणीयानि भवन्ति। न तावद्बुद्धा भगवन्तः परिनिर्वान्ति यावन्न बुद्धो बुद्धं व्याकरोति, यावन्न द्वितीयेन सत्त्वेनापरिवर्त्यमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं भवति, सर्वबुद्धवैनेया विनीता भवन्ति, त्रिभाग आयुष उत्सृष्टो भवति, सीमाबन्धः कृतो भवति, श्रावकयुगमग्रतायां निर्दिष्टं भवति, सांकाश्ये नगरे देवतावतरणं विदर्शितं भवति, अनवतप्ते महासरसि श्रावकैः सार्धं पूर्विका कर्मप्लोतिर्व्याकृता भवति, मातापितरौ सत्येषु प्रतिष्ठापितौ भवतः, श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति। अथ भगवत एतदभवत्-अवश्यकरणीयमेतत्तथागतेनेति विदित्वा राजानं प्रसेनजितं कौशलमामन्त्रयते-गच्छ त्वं महाराज। इतः सप्तमे दिवसे तथागतो महाजनप्रत्यक्षमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति हिताय प्राणिनाम्। अथ राजा प्रसेनजित् कौशलो भगवन्तमिदमवोचत्-यदि भगवाननुजानीयात्, अहं भगवतः प्रातिहार्यमण्डपं कारयेयम्। अथ भगवत एतदभवत्-कतरस्मिन् प्रदेशे पूर्वकैः सम्यक्संबुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनामिति? देवता भगवत आरोचयन्ति-अन्तरा भदन्त श्रावस्तीमन्तरा च जेतवनमत्रान्तरात् पूर्वकैः सम्यक्संबुद्धेर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्। भगवतोऽपि ज्ञानदर्शनं प्रवर्तते-अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तरात् पूर्वकैः सम्यक्संबुद्धैर्महाप्रातिहार्यं विदर्शितं हिताय प्राणिनाम्। अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन। अथ राजा प्रसेनजित् कौशलो भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवन्तमिदमवोचत्-कतमस्मिन् भदन्त प्रदेशे प्रातिहार्यमण्डपं कारयामि ? अन्तरा च महाराज श्रावस्तीमन्तरा च जेतवनम्। अथ राजा प्रसेनजित् कौशलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः॥



अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-यत्खलु भवन्तो जानीरन् -इतः सप्तमे दिवसे भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यति। अथ तीर्थ्यानामेतदभवत्-किं पुनः श्रमणो गौतमः सप्तभिर्दिवसैरनधिगतमधिगमिष्यति, अथ वा निष्पलायिष्यति, अथ वा पक्षपर्येषणं कर्तुकामः ? तेषामेतदभवत्- न ह्येव श्रमणो गौतमो निष्पलायिष्यति, नाप्यनधिगतमधिगमिष्यति। नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। वयमपि तावत् पक्षपर्येषणं करिष्यामः। इति विदित्वा रक्ताक्षो नाम परिव्राजक इन्द्रजालाभिज्ञः स आहूतः। रक्ताक्षस्य परिव्राजकस्यैतत् प्रकरणं विस्तरेणारोचयन्ति, एवं चाहुः-यत्खलु रक्ताक्ष जानीयाः-श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः। स कथयति- इतः सप्तमे दिवस उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। त्वमपि तावत् सब्रह्मचारिणां पक्षपर्येषणं कुरुष्व। तेन तथेति प्रतिज्ञातम्। अथ रक्ताक्षः परिव्राजको येन नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकास्तेनोपसंक्रान्तः। उपसंक्रम्य नानातीर्थिकश्रमणब्राह्मणचरकपरिव्राजकानामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह-यत्खलु भवन्तो जानीरन् - श्रमणो गौतमोऽस्माभिरिद्ध्या आहूतः। स कथयति-इतः सप्तमे दिवस उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। भवद्भिरपि ब्रह्मचारिणां साहाय्यं करणीयम्। सप्तमे दिवसे युष्माभिर्बहिः श्रावस्त्या निर्गन्तव्यम्। तैस्तथेति प्रतिज्ञातम्। अथान्यतमस्मिन् पर्वते पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति। अथ रक्ताक्षः परिव्राजको येन ते ऋषयस्तेनोपसंक्रान्तः। उपसंक्रम्य तेषामेतत्प्रकरणं विस्तरेणारोचयति, एवं चाह-यत्खलु भवन्तो जानीरन् -श्रमणो गौतम ऋद्ध्या आहूतः। स कथयति-इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। भवद्भिरपि सब्रह्मचारिणां साहाय्यं करणीयम्। सप्तमे दिवसे युष्माभिः श्रावस्तीमागन्तव्यम्। तैस्तथेति प्रतिज्ञातम्। तेन खलु समयेन सुभद्रो नाम परिव्राजकः पञ्चाभिज्ञः। तस्य कुशिनगर्यामावसथोऽन्वतप्ते महासरसि दिवा विहारः। अथ रक्ताक्षः परिव्राजको येन सुभद्रः परिव्राजकस्तेनोपसंक्रान्तः। उपसंक्रम्य एतत्प्रकरणं विस्तरेणारोचयति, एवं चाह-यत्खलु सुभद्र जानीयाः-श्रमणो गौतमोऽस्माभिः ऋद्ध्या आहूतः। स कथयति-इतः सप्तमे दिवसे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामीति। नूनं श्रमणो गौतमः पक्षपर्येषणं कर्तुकामः। त्वया सब्रह्मचारिणां साहाय्यं करणीयम्। सप्तमे दिवसे त्वया श्रावस्तीमागन्तव्यम्। सुभद्रेणाभिहितम्- न शोभनं भवद्भिः कृतं यद्युष्माभिः श्रमणो गौतमो रिद्ध्या आहूतः। तत्कस्य हेतोः ? मम तावत् कुशिनगर्यामावासोऽनवतप्ते महासरसि दिवा विहारः। श्रमणस्य गौतमस्य शारिपुत्रो नाम शिष्यस्तस्य चुन्दो नाम श्रामणेरकस्तस्यापि तत्रैवानवतप्ते महासरसि दिवा विहारः। न तथानवतप्तकायिका देवता अपि कारान् कर्तव्यान् मन्यन्ते यथा तस्य। एकोऽयं समयः। इहाहं कुशिनगरीं पिण्डाय चरित्वा पिण्डपातमादाय अनवतप्तं महासरसं गच्छामि। तस्य ममानवतप्तकायिका देवता अनवतप्तान्महासरसः पानीयमुद्धृत्य एकान्ते न प्रयच्छति। चुन्दः श्रमणोद्देशः पांशुकूलान्यादायानवतप्तं महासरो गच्छति। तस्यानवतप्तकायिका देवता पांशुकूलानि धावयित्वा तेन पानीयेनात्मानं सिञ्चति। यस्य तावद्वयं शिष्यप्रतिशिष्यकयापि न तुल्याः, स युष्माभिरुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्येणाहूतः। न शोभनं भवद्भिः कृतं यच्छ्रमणो गौतमो रिद्धिप्रातिहार्येणाहूतः। एवमहं जाने यथा महर्द्धिकः श्रमणो गौतमो महानुभाव इति। रक्ताक्षेणाभिहितम्-त्वं तावच्छ्रमणस्य गौतमस्य पक्षं वदसि। त्वया तावन्न गन्तव्यम्। सुभद्रेणाभिहितम्-नैव गमिष्यामीति॥



अथ राज्ञः प्रसेनजितः कौशलस्य कालो नाम्ना भ्राता अभिरूपो दर्शनीयः प्रासादिकः श्राद्धो भद्रः कल्याणाशयः। स राज्ञः प्रसेनजितः कौशलस्य निवेशनद्वारेणाभिनिष्क्रामति। अन्यतमया चावरुद्धिकया प्रासादतलगतया राजकुमारं दृष्ट्वा स्रग्दामं क्षिप्तम्। तत् तस्योपरि निपतितम्। मित्रारिमध्यमो लोकः। तै राज्ञे निवेदितम् -यत्खलु देव जानीथाः-कालेन देवस्यान्तःपुरं प्रार्थितम्। राजा प्रसेनजित् कौशलश्चण्डो रभसः कर्कशः। तेनापरीक्ष्य पौरुषेयाणामाज्ञा दत्ता-गच्छन्तु भवन्तः। शीघ्रं कालस्य हस्तपादान् छिन्दन्तु। एवं देवेति पौरुषेयै राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य कालस्य वीथीमध्ये हस्तपादाश्छिन्नाः। स आर्तस्वरं क्रन्दते, दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयते। कालं राजकुमारं दृष्ट्वा महाजनकायो विक्रोष्टुमारब्धः। पूरणादयश्च निर्ग्रन्थास्तं प्रदेशमनुप्राप्ताः। कालस्य ज्ञातिभिरभिहितम्-एतमार्याः कालं राजकुमारं सत्याभियाचनया यथापौराणं कुरुध्वमिति। पूरणेनाभिहितम्-एष श्रमणस्य गौतमस्य श्रावकः। श्रमणधर्मेण गौतमो यथापौराणं करिष्यति। अथ कालस्य राजकुमारस्यैतदभवत्-कृच्छ्रसंकटसंबाधप्राप्तं मां भगवान् न समन्वाहरतीति विदित्वा गाथां भाषते-



इमामवस्थां मम लोकनाथो

न वेत्ति संबाधगतस्य कस्मात्।

नमोऽस्तु तस्मै विगतज्वराय

सर्वेषु भूतेष्वनुकम्पकाय॥१॥



असंमोषधर्माणो बुद्धा भगवन्तः। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - गच्छ त्वमानन्द संघाटिमादाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कालो राजभ्राता तेनोपसंक्राम। उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवं वद-ये केचित् सत्त्वा अपदा वा द्विपदा वा बहुपदा वा अरूपिणो वा रूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनः, तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां सत्त्वानामग्र आख्यायते। ये केचिद् धर्मा असंस्कृता वा संस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः। ये केचित् संघा वा गणा वा पूगा वा पर्षदो व, तथागतश्रावकसंघस्तेषामग्र आख्यातः। ये केचित् संघा वा गणा वा पूगा वा पर्षदो वा , तथागतश्रावकसंघस्तेषामग्र आख्यातः। अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं स्यात्। एवं भदन्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य संघाटीमादायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन राजभ्राता कालस्तेनोपसंक्रान्तः। उपसंक्रम्य कालस्य राजकुमारस्य हस्तपादान् यथास्थाने स्थापयित्वा एवमाह-ये केचित् सत्त्वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावन्नैवसंज्ञिनो नासंज्ञिनः, तथागतोऽर्हन् सम्यक्संबुद्धस्तेषां सत्त्वानामग्र आख्यातः। ये केचिद्धर्माः संस्कृता वा असंस्कृता वा, विरागो धर्मस्तेषामग्र आख्यातः। ये केचित् संघा वा गणा वा पूगा वा पर्षदो वा, तथागतश्रावकसंघस्तेषामग्र आख्यातः। अनेन सत्येन सत्यवाक्येन तव शरीरं यथापौराणं भवतु। सहाभिधानात् कालस्य राजकुमारस्य शरीरं यथापौराणं संवृत्तम्, यथापि तत्र बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन। कालेन कुमारेण तेनैव संवेगेन अनागामिफलं साक्षात्कृतं ऋद्धिश्चापि निर्हृता। तेन भगवत आरामो निर्यातितः। स भगवत उपस्थानं कर्तुमारब्धः। यत्रास्य शरीरं गण्डगण्डं कृतं तस्य गण्डक आरामिक इति संज्ञा संवृत्ता। अथ राज्ञा प्रसेनजिता कौशलेन सर्वोपकरणैः स प्रवारितः। कालेनाभिहितम्-न मम त्वया प्रयोजनम्। भगवत एवोपस्थानं करिष्यामीति॥



राज्ञा प्रसेनजिता कौशलेन अन्तरा च श्रावस्तीमन्तरा च जेतवनमत्रान्तराद्भगवतः प्रातिहार्यमण्डपः कारितः शतसहस्रहस्तः..... चतुर्णां मण्डपो विततः। भगवतः सिंहासनं प्रज्ञप्तम्। अन्यतीर्थिकश्रावकैरपि पूर्णादीनां निर्ग्रन्थानां प्रत्येकप्रत्येकमण्डपः कारितः। राज्ञा प्रसेनजिता कौशलेन सप्तमे दिवसे यावज्जेतवनं यावच्च भगवतः प्रातिहार्यमण्डपोऽन्तरात् सर्वोऽसौ प्रदेशोऽपगतपाषाणशर्करकठल्यो व्यवस्थितः। धूपचूर्णान्धकारः कृतः। छत्रध्वजपताकागन्धोदकपरिषिक्तो नानापुष्पाभिकीर्णो रमणीयः। अन्तरान्तरा च पुष्पमण्डपाः सज्जीकृताः॥



अथ भगवान् सप्तमे दिवसे पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिश्राम्य बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविष्टः प्रतिसंलयनाय। अथ राजा प्रसेनजित् कौशलोऽनेकशतपरिवारोऽनेकसहस्रपरिवारोऽनेकशतसहस्रपरिवारो येन भगवतः प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः। उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः। तीर्थ्या अपि महाजनकायपरिवृता येन मण्डपस्तेनोपसंक्रान्ताः। उपसंक्रम्य प्रत्येकप्रत्येकस्मिन्नासने निषण्णाः। निषद्य राजानं प्रसनेजितं कौशलमिदमवोचन्-यत्खलु देव जानीयाः-एते वयमागताः। कुत्र एतर्हि श्रमणो गौतमः ? तेन भवन्तो मुहूर्तमागमयत। एष इदानीं भगवानधिगमिष्यति। अथ राजा प्रसेनजित् कौशल उत्तरं माणवमामन्त्रयते-एहि त्वमुत्तर, येन भगवांस्तेनोपसंक्राम। उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दित्वा अल्पाबाधतां च पृच्छ, अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च। एवं च वद-राजा भदन्त प्रसेनजित् कौशल एवमाह-इमे भदन्त तीर्थ्या आगता यस्येदानीं कालं मन्यते। एवं देवेत्युत्तरो माणवो राज्ञः प्रसेनजितः कौशलस्य प्रतिश्रुत्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः। एकान्तनिषण्ण उत्तरो माणवो भगवन्तमिदमवोचत्-राजा भदन्त प्रसेनजित् कौशलो भगवतः पादौ शिरसा वन्दते, अल्पाबाधतां च पृच्छति अल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं च अनवद्यतां च स्पर्शविहारतां च। सुखी भवतु माणव राजा प्रसेनजित् कौशलस्त्वं च। राजा भदन्त प्रसेनजित् कौशल एवमाह-इमे भदन्त तीर्थ्या आगता यस्येदानीं भगवान् कालं मन्यते। एवमुक्ते भगवानुत्तरं माणवमिदमवोचत्-माणव एषोऽहमद्यागच्छामि। भगवता तथाधिष्ठितो यथोत्तरो माणवस्तत एवोपरिविहायसा प्रक्रान्तः, येन राजा प्रसेनजित् कौशलस्तेनोपसंक्रान्तः। अद्राक्षीद्राजा प्रसेनजित् कौशल उत्तरं माणवकमुपरि विहायसा आगच्छन्तम्। दृष्ट्वा च पुनस्तीर्थ्यानिदमवोचत्-विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयत। तीर्थ्याः कथयन्ति- महाजनकायोऽत्र महाराज संनिपतितः। किं त्वं ज्ञास्यसि केनैतद् विदर्शितमस्माभिर्वा श्रमणेन गौतमेन ? अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्तेऽर्गडच्छिद्रेणार्चिषो निर्गत्य भगवतः प्रातिहार्यमण्डपे निपतिताः, सर्वश्च प्रातिहार्यमण्डपः प्रज्वलितः। अद्राक्षुस्तीर्थ्या भगवतः प्रातिहार्यमण्डपं प्रज्वलितम्, दृष्ट्वा च पुनः प्रसेनजितं कौशलमिदमवोचन् - एष इदानीं महाराज श्रमणस्य गौतमस्य प्रातिहार्यमण्डपः प्रज्वलितः। गच्छ इदानीं निर्वापय। अथ सोऽग्निरस्पृष्ट एव वारिणा सर्वप्रातिहार्यमण्डपमदग्ध्वा स्वयमेव निर्वृतो यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन। अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयत। तीर्थ्याः कथयन्ति-महाजनकायोऽत्र महाराज संनिपतितः। किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन ? भगवता कनकमरीचिकावभासा उत्सृष्टाः, येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत्। अद्राक्षीद्राजा प्रसेनजित् कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्। दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते-विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयत। तीर्थ्याः कथयन्ति - महाजनकायोऽत्र महाराज संनिपतितः। किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन गौतमेन ? भगवता कनकमरीचिकावभासा उत्सृष्टा येन सर्वलोक उदारेणावभासेन स्फुटोऽभूत्। अद्राक्षीद्राजा प्रसेनजित् कौशलः सर्वलोकमुदारेणावभासेन स्फुटम्। दृष्ट्वा च पुनस्तीर्थ्यानामन्त्रयते-विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयत। तीर्थ्याः कथयन्ति-महाजनकायोऽत्र महाराज संनिपतितः। किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन वा गौतमेन ? गण्डकेनारामिकेणोत्तरकौरवाद् द्वीपात् कर्णिकारवृक्षमादाय भगवतः प्रातिहार्यमण्डपस्याग्रतः स्थापितः। रत्नकेनाप्यारामिकेन गन्धमादनादशोकवृक्षमानीय भगवतः प्रातिहार्यमण्डपस्य पृष्ठतः स्थापितः। अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-विदर्शितं भगवतोत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयत। तीर्थ्याः कथयन्ति-महाजनकायोऽत्र संनिपतितः। किं त्वं ज्ञास्यसि केन एतद्विदर्शितमस्माभिर्वा श्रमणेन वा गौतमेन ? भगवता साभिसंस्कारेण पृथिव्यां पादौ न्यस्तौ। महापृथिवीचालः संवृत्तः। अयं त्रिसाहस्रमहासाहस्रो लोकधातुरियं महापृथिवी षड्विकारं कम्पति प्रकम्पति संप्रकम्पति। चलति संचलति संप्रचलति। व्यथति संव्यथति संप्रव्यथति। पूर्वावनमति पश्चिमोन्नमति। (पूर्वोन्नमति पश्चिमावनमति।) दक्षिणोन्नमति उत्तरावनमति। उत्तरोन्नमति दक्षिणावनमति। मध्ये उन्नमति अन्तेऽवनमति। मध्येऽवनमति अन्ते उन्नमति। इमौ सूर्यचन्द्रमसौ भासतस्तपतो विरोचतः। विचित्राणि च आश्चर्याद्भुतानि प्रादुर्भूतानि। गगनतलस्था देवता भगवत उपरिष्टाद्दिव्यान्युत्पलानि क्षिपन्ति पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि चन्दनचूर्णानि तगरचूर्णानि तमालपत्राणि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति, दिव्यानि च वादित्राणि संप्रवादयन्ति, चैलविक्षेपं चाकार्षुः॥



अथ तेषां ऋषीणामेतदभवत्-किमर्थं महापृथिवीचालः संवृत्त इति। तेषामेतदभवत्-नूनमस्माकं सब्रह्मचारिभिः श्रमणो गौतमो रिद्ध्या आहूतो भविष्यतीति विदित्वा पञ्च ऋषिशतानि श्रावस्तीं संप्रस्थितानि। तेषामागच्छतां भगवता एकायनो मार्गोऽधिष्ठितः। अद्राक्षुस्ते ऋषयो भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं मूर्तिमन्तमिव धर्मं हव्यावसिक्तमिव हुतवहं काञ्चनभाजनस्थमिव प्रदीपं जङ्गममिव सुवर्णपर्वतं नानारत्नविचित्रमिव सुवर्णरूपं स्फुटपटुमहाविमलविशुद्धबुद्धिं बुद्धं भगवन्तम्। दृष्ट्वा च पुनर्न तथा द्वादशवर्षेऽभ्यस्तशमथो योगाचारस्य चित्तस्य कल्यतां जनयति, अपुत्रस्य वा पुत्रः प्रतिलम्भो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथा तत्प्रथमतपूर्वबुद्धारोपितकुशलमूलानां तत्प्रथमतो बुद्धदर्शनम्। अथ ते ऋषयो येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते स्थिताः। एकान्तस्थितास्ते ऋषयो भगवन्तमिदमवोचन्-लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेम वयं भगवतोऽन्तिके प्रव्रज्य ब्रह्मचर्यम्। ते भगवता ब्राह्मेण स्वरेणाहूताः-एत भिक्षवश्चरत ब्रह्मचर्यम्। सहाभिधानान्मुण्डाः संवृत्ताः संघाटीप्रावृताः पात्रकरव्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थिताः।



एहीति चोक्ताश्च तथागतेन

मुण्डाश्च संघाटिपरीतदेहाः।

सत्य (द्यः) प्रशान्तेन्द्रिया एव तस्थु-

रेवं स्थिता बुद्धमनोरथेन॥२॥



अथ भगवान् दिव्यमानुष्येण पूजासत्कारेण सत्कृतो गुरुकृतो मानितः पूजितोऽर्हन्नर्हत्परिवारो सप्तभिश्च निकायैः संपुरस्कृतो महता च जनौघेन येन प्रातिहार्यमण्डपस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। भगवतः कायाद्रश्मयो निर्गत्य सर्वं प्रातिहार्यमण्डपं सुवर्णवर्णावभासं कृतवत्यः। अथ लूहसुदत्तो गृहपतिरुत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अल्पोत्सुको भगवान् भवतु। अहं तीर्थ्यैः सार्धमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। निर्भर्त्सयिष्यामि तीर्थ्यान्। सह धर्मेण नन्दयिष्यामि देवमनुष्यान्। तोषयिष्यामि सज्जनहृदयमनांसि। न त्वं गृहपते एभिः ऋद्ध्या आहूतः, अपि त्वहं तीर्थ्यैः रिद्ध्या आहूतः। अहमुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। स्थानमेतद्विद्यते यत्तीर्थ्या एवं वदेयुः- नास्ति श्रमणस्य गौतमस्योत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। श्रावकस्यैषा गृहिणोऽवदातवसनस्य ऋद्धिरिति। निषीद त्वं गृहपते यथास्वके आसने। निषण्णो लूहसुदत्तो गृहपतिर्यथास्वके आसने। यथा लूहसुदत्तो गृहपतिरेवं कालो राजभ्राता, रम्भक आरामिकः, ऋद्धिलमाता उपासिका श्रमणोद्देशिका, चुन्दः श्रमणोद्दशः, उत्पलवर्णा भिक्षुणी। अथायुष्मान् महामौद्गल्यायन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अल्पोत्सुको भगवान् भवतु। अहं तीर्थ्यैः सार्धमुत्तंरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि। तीर्थ्यान् निगृह्णिष्यामि । सह धर्मेण नन्दयिष्यामि देवमनुष्यान्। तोषयिष्यामि सज्जनहृदयमनांसि। प्रतिबलस्त्वं मौद्गल्यायन तीर्थ्यान् सहधर्मेण निगृहीतुम्। अपि तु न त्वं तीर्थ्यै रिद्ध्या आहूतः। अहमेषामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयिष्यामि हिताय प्राणिनाम्। निर्भर्त्सयिष्यामि तीर्थ्यान्। नन्दयिष्यामि देवमनुष्यान्। तोषयिष्यामि सज्जनहृदयमनांसि। निषीद त्वं मौद्गल्यायन यथास्वके आसने। निषण्ण आयुष्मान् महामौद्गल्यायनो यथास्वके आसने। तत्र भगवान् राजानं प्रसेनजितं कौशलमामन्त्रयते-को महाराज तथागतमध्येषते उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम् ? अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-अहं भदन्त भगवन्तमध्येषे उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं विदर्शयितुम्। भगवानुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं (विदर्शयतु) हिताय प्राणिनाम्। निर्भर्त्सयतु तीर्थ्यान्। नन्दयतु देवमनुष्यान्। तोषयतु सज्जनहृदयमनांसि। अथ भगवांस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्नासनेऽन्तर्हितः पूर्वस्यां दिशि उपरिविहायसमभ्युद्गम्य चतुर्विधमीर्यापथं कल्पयति तद्यथा- चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति। तेजोधातुमपि संपद्यते। तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्यर्चींषि कायान्निश्चरन्ति तद्यथा नीलपीतानि लोहितान्यवदातानि मञ्जिष्ठानि स्फटिकवर्णानि। अनेकान्यपि प्रातिहार्याणि विदर्शयति। अधःकायं प्रज्वालयति, उपरिमात् कायाच्छीतला वारिधाराः स्यन्दन्ते। यथा पूर्वस्यां दिशि एवं दक्षिणस्यां दिशीति चतुर्दिशं चतुर्विधं ॠद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवान् राजानं प्रसेनजितं कौशलमिदमवोचत्-इयं महाराज तथागतस्य सर्वश्रावकसाधारणा ऋद्धिः। तत्र भगवान् द्विरपि राजानं प्रसेनजितं कौशलमामन्त्रयते-को महाराज तथागतमध्येषतेऽसाधारणायां ऋद्ध्यामुत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यं हिताय प्राणिनाम् ? अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्-अहं भदन्त भगवन्तमध्येषेऽसाधारणायां ऋद्ध्यामुत्तरे मनुष्यधर्मे ऋद्धिप्रातिहार्यं हिताय प्राणिनाम्। निर्भर्त्सयतु तीर्थ्यान्। नन्दयतु देवमनुष्यान्। तोषयतु सज्जनहृदयमनांसि॥



भगवता लौकिकं चित्तमुत्पादितम्। धर्मता खलु बुद्धानां भगवतां यदि लौकिकं चित्तमुत्पादयन्ति, अन्तशः कुन्तपिपीलिकोऽपि प्राणी भगवतः चेतसि चित्तमाजानन्ति। अथ लोकोत्तरचित्तमुत्पादयन्ति, तत्रागतिर्भवति प्रत्येकबुद्धानामपि, कः पुनर्वादः श्रावकाणाम् ? अथ शक्रब्रह्मादीनां देवानामेतदभवत्-किमर्थं भगवता लौकिकं चित्तमुत्पादितम् ? तेषामेतदभवत्-श्रावस्त्यां महाप्रातिहार्यं विदर्शयितुकामो हिताय प्राणिनाम्। अथ शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि भगवतश्चेतसा चित्तमाज्ञाय तद्यथा बलवान् पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुञ्चयेत्, एवमेव शक्रब्रह्मादयो देवा अनेकानि च देवताशतसहस्राणि च देवलोकेऽन्तर्हितानि, भगवतः पुरतस्तस्थुः। अथ ब्रह्मादयो देवा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा दक्षिणं पार्श्वं निश्रित्य निषण्णाः। शक्रादयो देवा भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतः पादौ शिरसा वन्दित्वा वामं पार्श्चं निश्रित्य निषण्णाः। नन्दोपनन्दाभ्यां नागराजाभ्यां भगवत उपनामितं निर्मितं सहस्रपत्रं शकटचक्रमात्रं सर्वसौवर्णं रत्नदण्डं पद्मम्। भगवांश्च पद्मकर्णिकायां निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य। पद्मस्योपरि पद्मं निर्मितम्। तत्रापि भगवान् पर्यङ्कनिषण्णः। एवमग्रतः पृष्ठतः पार्श्वतः। एवं भगवता बुद्धपिण्डी निर्मिता यावदकनिष्ठभवनमुपादाय बुद्धा भगवन्तो पर्षन्निर्मितम् (?)। केचिद्बुद्धनिर्माणाश्चंक्रम्यन्ते, केचित् तिष्ठन्ति, केचिन्निषीदन्ति, केचिच्छायां कल्पयन्ति, तेजोधातुमपि समापद्यन्ते, ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कुर्वन्ति। अन्ये प्रश्नान् पृच्छन्ति, अन्ये विसर्जयन्ति। गाथाद्वयं भाषन्ते -



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥३॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥४॥



भगवता तथा अधिष्ठितं यथा सर्वलोकोऽनावृतमद्राक्षीद्बुद्धावतंसकं यावदकनिष्ठभवनमुपादाय अन्ततो बालदारका अपि, यथापि तद्बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन॥



तत्र भगवान् भिक्षूनामन्त्रयते स्म-तावत् प्रतिगृह्णीत भिक्षवोऽनुपूर्वे स्थिताया बुद्धपिण्ड्या निमित्तम्। एकपदेऽन्तर्धास्यन्ति। यावदेकपदेऽन्तर्हिता। अथ भगवांस्तं ऋद्ध्यभिसंस्कारं प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः। निषद्य भगवांस्तस्यां वेलायां गाथां भाषते-



तावदवभासते कृमिर्यावन्नोदयते दिवाकरः।

विरोचन उद्गते तु वैरव्यार्तो (?) भवति न चावभासते॥५॥



तावदवभासितमास तार्किकैर्यावन्नोदितवांस्तथागतः।

संबुद्धावभासिते तु लोके न तार्किको भासते न चास्य श्रावकः॥६॥



अथ राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयध्वम्। एवमुक्ते तीर्थ्यास्तूष्णींभूता यावत् प्रयाणपरमाः स्थिताः। द्विरपि राजा प्रसेनजित् कौशलस्तीर्थ्यानिदमवोचत्-विदर्शितं भगवता उत्तरे मनुष्यधर्मे रिद्धिप्रातिहार्यम्। यूयमपि विदर्शयध्वम्। एवमुक्ते तीर्थ्या अन्योन्यं विघट्टयन्त एवाहुः-त्वमुत्तिष्ठ त्वमुत्तिष्ठेति। न कश्चिदप्युत्तिष्ठति॥



तेन खलु पुनः समयेन पाञ्चिको महासेनापतिस्तस्यामेव पर्षदि संनिपतितोऽभूत् संनिपतितः। अथ पाञ्चिकस्य यक्षसेनापतेरेतदभवत्-चिरमपि ते इमे मोहपुरुषा भगवन्तं बिहेठयिष्यन्ति भिक्षुसंघं चेति विदित्वा तुमुलं वातवर्षं संजनय्य महान्तमुत्सृष्टवान्। तुमुलेन वातवर्षेण तीर्थ्याणां मण्डपा अदर्शनपथे क्षिप्ताः। तीर्थ्या ह्यशनिवर्षेण बाध्यमाना दिशो दिग्भ्यो विचलन्ति। अनेकानि प्राणिशतसहस्राण्यतिवर्षेण बाध्यमानानि येन भगवांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णानि। भगवता तथा अधिष्ठितं यथा तस्यां पर्षद्येकवारिबिन्दुर्न पतितः। एकान्तनिषण्णान्यनेकानि प्राणिशतसहस्राण्युदानमुदानयन्ति-अहो बुद्धः, अहो धर्मः, अहो संघः। अहो धर्मस्य स्वाख्यातता। पाञ्चिकेन यक्षसेनापतिना तीर्थ्या अभिहिताः-एते यूयं मोहपुरुषा भगवन्तं शरणं गच्छध्वं धर्मं च भिक्षुसंघं च। ते निष्पलायमानाः कथयन्ति-एते वयं पर्वतं शरणं गच्छामः, वृक्षाणां कुड्यानामारामाणां च शरणं गच्छामः॥



अथ भगवांस्तस्यां वेलायां गाथां भाषते -



बहवः शरणं यान्ति पर्वतांश्च वनानि च।

आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः॥६॥



न ह्येतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्।

नैतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते॥ ७॥



यस्तु बुद्धं च धर्मं च संघं च शरणं गतः।

आर्यसत्यानि चत्वारि पश्यति प्रज्ञया यदा॥८॥



दुःखं दुःखसमुत्पन्नं निरोधं समतिक्रमम्।

आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनाम्॥९॥



एत (द्वै) शरणं श्रेष्ठमेतच्छरणमुत्तमम्।

एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते॥१०॥



अथ पूरणस्यैतदभवत्-श्रमणो गौतमो मदीयान् श्रावकानन्वावर्तयिष्यति। इति विदित्वा निष्पलायन् कथयति-अहं युष्माकं शासनसर्वस्वं कथयिष्यामि। यावद् दृष्टिगतान् ग्राहयितुमारब्धः। यदुत अन्तवांल्लोकः, अनन्तः, अन्तवांश्चानन्तवांश्च, नैवान्तवान्नानन्तवान्, स जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरमिति। ते कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादमापन्नाः। पूरणोऽपि भीतो निष्पलायितुमारब्धः। स निष्पलायन् पण्डकेन प्रतिमार्गे दृष्टः। पण्डको दृष्ट्वा गाथां भाषते -



कुतस्त्वमागच्छसि मुक्तपाणि

रथकारमेष इव निकृत्तशृङ्गः।

धर्मं ह्यभिज्ञाय जिनप्रशस्त-

माहिण्डसे कोलिकगर्दभो यथा॥११॥



पूरणः प्राह-



गमनाय मे समयः प्रत्युपस्थितः

कायस्य मे बलवीर्यं (न?) किंचित्।

स्पृष्टाश्च भावाः सुखदुःखते मे

अनावृतं ज्ञानमिहार्हताम्॥१२॥



दूरापगतोऽस्मि- - -

परतिमिरापनुदश्च तृषं पतति।

आचक्ष्व मे दूषिक एतमर्थं

शीतोदका कुत्र सा पुष्किरिणी॥१३॥



नपुंसकः प्राह-

एषा खलु शीता पुष्किरिणी

नलिनी च विराजति तोयधारा।

श्रमणाधम हीनासत्पुरुष

त्वमिमां ननु पश्यसि पुष्करिणीम्॥१४॥



पूरणः प्राह-

न त्वं नरो नापि च नारिका त्वं

श्मश्रूणि च ते नास्ति न च स्तनौ तव।

भिन्नस्वरोऽसि न च चक्रवाकः

एवं भवान् वातहतो निरुच्यते॥१५॥



अथ पूरणो निर्ग्रन्थो वालुकाघटं कण्ठे बद्ध्वा शीतिकायां पुष्किरिण्यां पतितः। स तत्रैव कालगतः॥



अथ ते निर्ग्रन्थाः पूरणं मृगयमाणाः प्रतिमार्गे गणिकां दृष्ट्वा पृच्छन्ति-भद्रे, कंचित् त्वमद्राक्षीर्गच्छन्तमिह पूरणं धर्मशाटप्रतिच्छन्नं कटच्छव्रतभोजनम् ? गणिका प्राह-



आपायिको नैरयिको मुक्तहस्तावचारकः।

श्वेताभ्यां पाणिपादाभ्यामेष ध्वंसति पूरणः॥१६॥



भद्रे मैवं वोचस्त्वं नैतत्तव सुभाषितम्।

धर्मशाटप्रतिच्छन्नो धर्मं संचरते (संश्रयते ?) मुनिः॥१७॥



गणिका प्राह-

कथं स बुद्धिमान् भवति पुरुषो व्यञ्जनान्वितः।

लोकस्य पश्यतो योऽयं ग्रामे चरति नग्नकः॥१८॥



यस्यायमीदृशो धर्मः पुरस्ताल्लम्बते दशा।

तस्य वै श्रवणौ राजा क्षुरप्रेणावकृन्ततु॥१९॥



अथ ते निर्ग्रन्था येन शीतिका पुष्किरिणी तेनोपसंक्रान्ताः। अद्राक्षुस्ते निर्ग्रन्थाः पूरणं काश्यपं पुष्किरिण्यां मृतम्। कालगतं दृष्ट्वा च पुनः पुष्किरिण्या उद्धृत्य एकान्ते छोरयित्वा प्रक्रान्ताः॥



भगवता बुद्धनिर्माणो निर्मितो द्वात्रिंशता महापुरुषलक्षणैः समन्वागतो मुण्डः संघाटीप्रावृतः। धर्मता खलु बुद्धा भगवन्तो निर्मितेन सार्धं निश्चयं कुर्वन्ति। यं खलु श्रावको निर्मितमभिनिर्मिमीते, यदि श्रावको भाषते, निर्मितोऽपि भाषते। श्रावके तूष्णीभूते निर्मितोऽपि तूष्णीभवति।



एकस्य भाषमाणस्य सर्वे भाषन्ति निर्मिताः।

एकस्य तूष्णीभूतस्य सर्वे तूष्णीभवन्ति ते॥२०॥



भगवान् निर्मितं प्रश्नं पृच्छति, भगवान् व्याकरोति। एषा हि धर्मता तथागतानामर्हतां सम्यक्संबुद्धानाम्।



भगवता तस्य महाजनकायस्य तथा अभिप्रसन्नस्य आशयं चानुशयं च धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधकी धर्मदेशना कृता, यथा अनेकैः प्राणिशतसहस्रैः शरणगमनशिक्षापदानि कैश्चिदुष्म (?) गतान्यधिगतानि मूर्धानः क्षान्तयो लौकिका अग्रधर्माः। कैश्चित्स्रोतापत्तिफलं साक्षात्कृतं सकृदागामिफलमनागामिफलम्। कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। कैश्चिच्छ्रावकमहाबोधौ बीजान्यवरोपितानि। कैश्चित् प्रत्येकायां बोधौ बीजान्यवरोपितानि। यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थिता। अथ भगवांस्तां पर्षदं बुद्धनिम्नां धर्मप्रवणां संघप्राग्भारां व्यवस्थाप्योत्थायासनात् प्रक्रान्तः॥



धन्यास्ते पुरुषा लोके ये बुद्धं शरणं गताः।

निर्वृतिं ते गमिष्यन्ति बुद्धकारकृतौ जनाः॥२१॥



येऽल्पानपि जिने कारान् करिष्यन्ति विनायके।

विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदम्॥२२॥।



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने प्रातिहार्यसूत्रं द्वादशमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project