Digital Sanskrit Buddhist Canon

७ नगरावलम्बिकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
७ नगरावलम्बिकावदानम्।



अथ भगवान् कोशलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे। अश्रौषीदनाथपिण्डदो गृहपतिः-भगवान् कोशलेषु जनपदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः। श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्याराम इति। श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णमनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अनाथपिण्डदो गृहपतिः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् - अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति। अधिवासयति भगवाननाथपिण्डदस्य गृहपतेस्तूष्णीभावेन। अनाथपिण्डदो गृहपतिर्भगवतस्तूष्णीभावेनाधिवासनां विदित्वा भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तो येन स्वनिवेशनं तेनोपसंक्रान्तः। उपसंक्रम्य दौवारिकं पुरुषमामन्त्रयते - न तावद्भोः पुरुष तीर्थ्यानां प्रवेशो दातव्यो यावद् बुद्धप्रमुखेन भिक्षुसंघेन भुक्तं भवति। ततः पश्चादहं तीर्थ्यानां दास्यामीति। एवमार्येति दौवारिकः पुरुषोऽनाथपिण्डदस्य गृहपतेः प्रत्यश्रौषीत्। अनाथपिण्डदो गृहपतिस्तामेव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति- समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन अनाथपिण्डदस्य गृहपतेर्भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ अनाथपिण्डदो गृहपतिः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णो धर्मश्रवणाय॥



अथायुष्मान् महाकाश्यपोऽन्यतमस्मादारण्यकाच्छयनासनात् दीर्घकेशश्मश्रुर्लूहचीवरो जेतवनं गतः। स पश्यति जेतवनं शून्यम्। तेनोपधिवारिकः पृष्टः- कुत्र बुद्धप्रमुखो भिक्षुसंघ इति। तेन समाख्यातम् - अनाथपिण्डदेन गृहपतिनोपनिमन्त्रित इति। स संलक्षयतिगच्छामि, तत्रैव पिण्डपातं परिभोक्ष्यामि, बुद्धप्रमुखं च भिक्षुसंघं पर्युपासिष्यामीति। सोऽनाथपिण्डदस्य गृहपतेर्निवेशनं गतः। अतो दौवारिकेन उक्तः - आर्य तिष्ठ, मा प्रवेक्ष्यसि। कस्यार्थाय ? अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता - मा तावत् तीर्थ्यानां प्रवेशं दास्यसि, यावद्बुद्धप्रमुखेन भिक्षुसंघेन भुक्तम्। ततः पश्चात् तीर्थ्यानां दास्यामि इति। अथायुष्मान् महाकाश्यपः संलक्षयति - तस्य मे लाभाः सुलब्धाः, यन्मां श्राद्धा ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय इति न जानन्ते। गच्छामि, कृपणजनस्यानुग्रहं करोमीति विदित्वा उद्यानं गतः। स संलक्षयति- अद्य मया कस्यानुग्रहः कर्तव्य इति। यावदन्यतमा नगरावलम्बिका कुष्ठाभिद्रुता सरुजार्ता पक्कगात्रा भिक्षामटति। स तस्याः सकाशमुपसंक्रान्तः। तस्याश्च भिक्षायामायासः संपन्नः। तया आयुष्मान् महाकाश्यपो दृष्टः कायप्रासादिकश्चित्तप्रासादिकः शान्तेन ईर्यापथेन। सा संलक्षयति - नूनं मया एवंविधे दक्षिणीये कारा न कृता, येन मे इयमेवंरूपा समवस्था। यदि आर्यो महाकाश्यपो ममान्तिकादनुकम्पामुपादाय आचामं प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। तत आयुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्- यदि ते भगिनि परित्यक्तम्, दीयतामस्मिन् पात्र इति। ततस्तया चित्तमभिप्रसाद्य तस्मिन् पात्रे दत्तम्। मक्षिका च पतिता। सा तामपनेतुमारब्धा। तस्यास्तस्मिन्नाचामेऽङ्गुलिः पतिता। संलक्षयति - किं चाप्यार्येण मम चित्तानुरक्षया न च्छोरितः, अपि तु न परिभोक्ष्यतीति। अथायुष्मता महाकाश्यपेन तस्याश्चेतसा चित्तमाज्ञाय तस्या एव प्रत्यक्षमन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्। सा संलक्षयति - किं चापि आर्येण मम चित्तानुरक्षया परिभुक्तम्, नानेनाहारेणाहारकृत्यं करिष्यति इति। अथायुष्मान् महाकाश्यपस्तस्याश्चित्तमाज्ञाय तां नगरावलम्बिकामिदमवोचत्-भगिनि प्रामोद्यमुत्पादयसि, अहं त्वदीयेनाहारेण रात्रिंदिवसमतिनामयिष्यामि इति। तस्या अतीव औद्बिल्यमुत्पन्नम् - ममार्येण महाकाश्यपेन पिण्डपातः प्रतिगृहीत इति। तत आयुष्मती महाकाश्यपे चित्तमभिप्रसाद्य कालं गता तुषिते देवनिकाये उपपन्ना। सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती चित्तमभिप्रसादयन्ती कालं च कुर्वाणा। नो तु दृष्ट्वा कुत्रोपपन्ना इति। स नरकान् व्यवलोकयितुमारब्धो न पश्यति, तिर्यक् च प्रेतं च मनुष्यांश्चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यावन्न पश्यति। तथा ह्यधस्ताद्देवानां ज्ञानदर्शनं प्रवर्तते नो तूपरिष्टात्। अथ शक्रो देवानामिन्द्रो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य गाथाभिगीतेन प्रश्नं पप्रच्छ-



चरतः पिण्डपातं हि काश्यपस्य महात्मनः।

कुत्रासौ मोदते नारी काश्यपाचामदायिका॥१॥



भगवानाह -



तुषिता नाम ते देवाः सर्वकामसमृद्धयः।

यत्रासौ मोदते नारी काश्यपाचामदायिका॥२॥ इति॥



अथ शक्रस्य देवानामिन्द्रस्यैतदभवत् - इमे च तावन्मनुष्याः पुण्यापुण्यानामप्रत्यक्षदर्शिनो दानानि ददति, पुण्यानि कुर्वन्ति। अहं प्रत्यक्षदर्शनेन पुण्यानां स्वपुण्यफले व्यवस्थितः कस्मात् दानानि न ददामि, पुण्यानि वा न करोमि ? अयमार्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी। यन्न्वहमेनं पिण्डकेन प्रतिपादयेयम्। इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्। अवचीरविचीरकं काकाभिलीनकं नातिपरमरूपं कुविन्दं चात्मानमभिनिमार्य उदूढशिरस्कः सणशाटिकानिवासितः स्फटितपाणिपादो वस्त्रं वायितुमारब्धः। शची अपि देवकन्या कुविन्दनर्या वेशधारिणी तसरिकां कर्तुमारब्धा। पार्श्वे चास्या दिव्या सुधा सज्जीकृता तिष्ठति। अथायुष्मान् महाकाश्यपः कृपणानाथवनीपकजनानुकम्पकोऽनुपूर्वेण तद्गृहमनुप्राप्तः। दुःखितकोऽयमिति कृत्वा द्वारे स्थितेन पात्रं प्रसारितम्। शक्रेण देवानामिन्द्रेण दिव्यया सुधया पूरितम्। अथायुष्मतो महाकाश्यपस्यैतदभवत् -



दिव्यं चास्य सुधाभक्तमयं च गृहविस्तरः।

सुविरुद्धमिति कृत्वा जातो मे हृदि संशयः॥३॥ इति॥



धर्मता ह्येषा- असमन्वाहृत्य अर्हतां ज्ञानदर्शनं न प्रवर्तते। स समन्वाहर्तुं प्रवृत्तः। यावत् पश्यति शक्रं देवेन्द्रम्। स कथयति- कौशिक, किं दुःखितजनस्यान्तरायं करोषि, यस्य ते भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः समूल आरूढो यथापि तत्तथागतेनार्हता सम्यक्संबुद्धेन। आर्य महाकाश्यप किं दुःखितजनस्यान्तरायं करोमि ? इमे तावत् मनुष्याः पुण्यानामप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति। अहं प्रत्यक्षदर्शी एव पुण्यानां कथं दानानि न ददामि ? ननु चोक्तं भगवता-



करणीयानि पुण्यानि दुःखा ह्यकृतपुण्यता।

कृतपुण्यानि मोदन्ते अस्मिंल्लोके परत्र च॥४॥



ततःप्रभृति आयुष्मान् महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुमारब्धः। अथ शक्रो देवेन्द्र आकाशस्थश्चायुष्मतो महाकाश्यपस्य पिण्डपातं चरतो दिव्यया सुधया पात्रं पूरयति। आयुष्मानपि महाकाश्यपः पात्रमधोमुखं करोति। अन्नपानं छोर्यते। एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति। भगवानाह - तस्मादनुजानामि पिण्डोपधानं धारयितव्यमिति।



सामन्तकेन शब्दो विसृतः-अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः, सा च तुषिते देवनिकाये उपपन्ना इति। राज्ञा प्रसेनजिता कौशलेन श्रुतम्-अमुकया नगरावलम्बिकया आर्यो महाकाश्यप आचामेन प्रतिपादितः। सा तुषिते देवे उपपन्ना इति। श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति, अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्- अधिवासयतु मे भगवानार्यमहाकाश्यपमुद्दिश्य भक्तं सप्ताहेन इति। अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन। अथ राजा प्रसेनजित् कौशलो भगवतस्तूष्णीभावेनाधिवासानां विदित्वा भगवतोऽन्तिकात् प्रक्रान्तः। अथ राजा प्रसेनजित् कौशलस्तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञः प्रसेनजितः कौशलस्य भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ राजा प्रसेनजित् कौशलः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अन्यतमश्च क्रोडमल्लको वृद्धान्ते चित्तमभिप्रसादयंस्तिष्ठति-अयं राजा प्रत्यक्षदर्शीं एव पुण्यानां स्वे पुण्यफले प्रतिष्ठापितोऽतृप्त एव पुण्यैर्दानानि ददाति,पुण्यानि करोति। अथ राजा प्रसेनजित् कौशलोऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तात् निषण्णो धर्मश्रवणाय। ततो भगवता अभिहितः - महाराज, कस्य नाम्ना दक्षिणामादिशामि ? किं तव, आहोस्विद्येन तवान्तिकात् प्रभूततरं पुण्यं प्रसूतमिति ? राजा संलक्षयति- मम भगवान् पिण्डपातं परिभुङ्क्ते। कोऽन्यो ममान्तिकात् प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति-भगवन् येन ममान्तिकात् प्रभूततरं पुण्यं प्रसूतं तस्य भगवान् नाम्ना दक्षिणामादिशतु इति। ततो भगवता क्रोडमल्लकस्य नाम्ना दक्षिणा आदिष्टा। एवं यावत् षड्‍दिवसान्। ततोऽन्यदिवसे राजा करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः - मम भगवान् पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नाम्ना दक्षिणामादिशति इति। सोऽमात्यैर्दृष्टः। ते कथयन्ति- किमर्थं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति ? राजा कथयति- भवन्तः, कथं न चिन्तापरस्तिष्ठामि, यत्रेदानीं स भगवान् मम पिण्डपातं परिभुङ्क्ते, क्रोडमल्लकस्य नाम्ना दक्षिणामादिशतीति ? तत्रैको वृद्धोऽमात्यः कथयति-अल्पोत्सुको भवतु। वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नाम्ना दक्षिणामादिशतीति। तैः पौरुषेयाणामाज्ञा दत्ता यतः श्वो भवद्भिः प्रणीत आहारः सज्जीकर्तव्यः प्रभूतश्चैव समुदानयितव्यो यथोपार्धं भिक्षूणां पात्रे पतति उपार्धं भूमौ इति। अमात्यैरपरस्मिन् दिवसे प्रभूत आहारः सज्जीकृतः प्रणीतश्च। ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुमारब्धाः। उपार्धं भिक्षूणां पात्रे पतति, उपार्धं भूमौ। ततः क्रोडमल्लकाः प्रधाविताः-भूमौ निपतितं गृह्णीम इति। ते परिवेषकैर्निवारिताः। ततः क्रोडमल्लकः कथयति- यद्यस्य राज्ञः प्रभूतमन्नम्, स्वापतेयमस्ति, सन्त्यन्येऽपि अस्मद्विधा दुःखितका आकाङ्क्षन्ते। किमर्थं न दीयते ? किमनेनापरिभोगं छोरितेन इति। तस्य क्रोडमल्लकस्य चित्तविक्षेपो जातः - न शक्यं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्। ततो राजा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा न मम नाम्ना दक्षिणामादिशतीति विदित्वा दक्षिणामश्रुत्वैव प्रविष्टः। ततो भगवता राज्ञः प्रसेनजितः कौशलस्य नाम्ना दक्षिणा आदिष्टा-



हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमम्।

पश्यसि (?) फलं हि रूक्षिकाया अलवणिकायाः कुल्माषपिण्डिकायाः॥५॥



अथायुष्मानानन्दो भगवन्तमिदमवोचत्-बहुशो बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कौशलस्य निवेशने भुक्त्वा नाम्ना दक्षिणामादिष्टा। नाभिजानामि कदाचिदेवंरूपां दक्षिणामादिष्टपूर्वाम्। भगवानाह- इच्छसि त्वमानन्द राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डिकामारभ्य कर्मप्लोतिं श्रोतुम् ? एतस्य भगवन् कालः, एतस्य सुगत समयः। अयं भगवान् राज्ञः प्रसेनजितः कौशलस्यालवणिकां कुल्माषपिण्डिकामारभ्य कर्मप्लोतिं वर्णयेत्, भगवतः श्रुत्वा भिक्षवो धारयिष्यन्ति इति। तत्र भगवान् भिक्षूनामन्त्रयते स्म -



भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्पटके गृहपतिः प्रतिवसति। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। स उन्नीतो वर्घितः पटुः संवृत्तः। यावदसौ गृहपतिः पत्नीमामन्त्रयते- भद्रे, जातोऽस्माकमृणहारको धनहारकश्च। गच्छामि पण्यमादाय देशान्तरमिति। सा कथयति-आर्यपुत्र, एतत् कुरुष्व इति। स पण्यमादाय देशान्तरं गतः। तत्रैवानयेन व्यसनमापन्नः। अल्पपरिच्छदोऽसौ गृहपतिः। तस्य गृहपतेर्धनजातं परिक्षीणम्। सोऽस्य पुत्रो दुःखितो जातः। तस्य गृहपतेर्वयस्यकः। तेन तस्य दारकस्य माता अभिहिता-अयं तव पुत्रः क्षेत्रं रक्षतु, अहमस्य सुखं भक्तेन योगोद्वहनं करिष्यामि। एवं भवतु। स तस्य क्षेत्रं रक्षितुमारब्धः। स तस्य सुखं भक्तकेन योगोद्वहनं कर्तुमारब्धः। यावदपरेण समयेन पर्वणी प्रत्युपस्थिता। तस्य दारकस्य माता संलक्षयति-अद्य गृहपतिपत्नी सुहृत्संबन्धिबान्धवाः सह श्रमणब्राह्मणभोजनेन व्यग्रा भविष्यति। गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामि इति। सा सानुकालं गत्वा गृहपतिपत्न्या एतमर्थं निवेदयति। सा रूषिता कथयति- न तावच्छ्रमणब्राह्मणेभ्यो ददामि ज्ञातीनां वा, तावत् प्रेष्यमनुष्याय ददामि ? अद्य तावत् तिष्ठतु, श्वो द्विगुणं दास्यामीति। ततस्तस्य दारकस्य माता संलक्षयति- मा मे पुत्रो बुभुक्षितकः स्थास्यतीति। तया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डिका संपादिता। सा तामादाय गता। तेन दारकेण दूरत एव दृष्टा। स कथयति- अम्ब, अस्ति किंचिन्मृष्टं मृष्टम् ? सा कथयति- पुत्र, यदेव प्रातिदैवसिकं तदप्यद्य नास्ति। मया आत्मनोऽर्थेऽलवणिका कुल्माषपिण्डिका साधिता। तामहं गृहीत्वा आगता। एतां परिभुङ्क्ष्वेति। स कथयति - स्थापयित्वा गच्छस्वेति। सा स्थापयित्वा प्रक्रान्ता॥



असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धस्तत्प्रदेशमनुप्राप्तः। स तेन दृष्टः कायप्रासादिकश्चित्रप्रासादिकश्च शान्तेर्यापथवर्ती। स संलक्षयति- नूनं मया एवंविधे सद्भूते दक्षिणीये कारा न कृता, येन मे ईदृशी समवस्था। यद्ययं ममान्तिकादलवणिकां कुल्माषपिण्डिकां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। ततोऽसौ प्रत्येकबुद्धस्तस्य दरिद्रपुरुषस्य चेतसा चित्तमाज्ञाय पात्रं प्रसारितवान्-भद्रमुख, सचेत्ते परित्यक्तम्, दीयतामस्मिन् पात्र इति। ततस्तेन तीव्रेण प्रसादेन सा अलवणिका कुल्माषपिण्डिका तस्मै प्रत्येकबुद्धाय प्रतिपादिता॥



किं मन्यध्वे भिक्षवो योऽसौ दरिद्रपुरुषः, एष एवासौ राजा प्रसेनजित् कौशलस्तेन कालेन तेन समयेन। यदनेन प्रत्येकबुद्धायालवणिका कुल्माषपिण्डिका प्रतिपादिता, तेन कर्मणा षट्कृत्वो देवेषु त्रायस्त्रिंशेषु राज्यैश्वर्याधिपत्यं कारितवान्, षट्कृत्वोऽस्यामेव श्रावस्त्यां राजा क्षत्रियो मूर्ध्नाभिषिक्तः, तेनैव च कर्मणा अवशेषेण एतर्हि राजा क्षत्रियो मूर्ध्नाभिषिक्तः संवृत्तः। सोऽस्य पिण्डको विपक्कः। तमहं संधाय कथयामि-



हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैर्गमनम्।

पश्यसि फलं हि रूक्षिकाया अलवणिकाया कुल्माषपिण्डकायाः॥ इति॥



सामन्तकेन शब्दो विसृतः-भगवता राज्ञः प्रसेनजितोऽलवणिकां कुल्माषपिण्डिकामारभ्य कर्मल्पोतिर्व्याकृता इति। राज्ञापि प्रसेनजिता श्रुतम्। स येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णं राजानं प्रसेनजितं कौशलं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ राजा प्रसेनजित् कौशल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवन्तमिदमवोचत् -अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेनेति। अधिवासयति भगवान् राज्ञः प्रसेनजितः कौशलस्य तूष्णीभावेन। ततो राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखाय भिक्षुसंघाय त्रैमास्यं शतरसं भोजनं दत्तम्। एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेणाच्छादितः। तैलस्य च कुम्भकोटिं समुदानीय दीपमाला अभ्युद्यतो दातुम्। तत्र भक्ते पूजायां च महान् कोलाहलो जातः। यावदन्यतमा नगरावलम्बिका अतीव दुःखिता। तया क्रोडमल्लकेन भिक्षामटन्त्या उच्चशब्दः श्रुतः। श्रुत्वा च पुनः पृच्छतिभवन्तः, किमेष उच्चशब्दो महाशब्द इति। अपरैः समाख्यातम्-राज्ञा प्रसेनजिता कौशलेन बुद्धप्रमुखो भिक्षुसंघस्त्रैमास्यं भोजितः, एकैकश्च भिक्षुः शतसहस्रेण वस्त्रेण आच्छादितः, तैलस्य कुम्भकोटिं च समुदानीय दीपमाला अभ्युद्यतो दातुमिति। ततस्तस्या नगरावलम्बिकाया एतदभवत्- अयं तावद्राजा प्रसेनजित् कौशलः पुण्यैरतृप्तोऽद्यापि दानानि ददाति, पुण्यानि करोति। यन्न्वहमपि कुतश्चित् समुदानीय भगवतः प्रदीपं दद्यामिति। तया खण्डमल्लके तैलस्य स्तोकं याचयित्वा प्रदीपं प्रज्वाल्य भगवतश्चङ्क्रमे दत्तः। पादयोर्निपत्य प्रणिधानं कृतम्- अनेनाहं कुशलमूलेन यथायं भगवान् शाक्यमुनिर्वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नः, एवमहमपि वर्षशतायुषि प्रजायां शाक्यमुनिरेव शास्ता भवेयम्। यथा चास्य शारिपुत्रमौद्गल्यायनाग्रयुगं भद्रयुगमानन्दो भिक्षुरुपस्थायकः, शुद्धोदनः पिता, माता महामाया, राहुलभद्रः कुमारः पुत्रः। यथायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति, एवमहमपि धातुविभागं कृत्वा परिनिर्वापयेयमिति। यावत् सर्वे ते दीपा नैर्वाणाः। स तया प्रज्वलितः प्रदीपः प्रज्वलत्येव। धर्मता खलु बुद्धानां भगवताम्-न तावदुपस्थायकाः प्रतिसंलीयन्ते न यावद्बुद्धा भगवन्तः प्रतिसंलीना इति। अथायुष्मानानन्दः संलक्षयति-अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति। यन्न्वहं दीपं निर्वापयेयमिति। स हस्तेन निर्वापयितुमारब्धो न शक्नोति। ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोति निर्वापयितुम्। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-किमेतदानन्देति। स कथयति-भगवन्, मम बुद्धिरुत्पन्ना-अस्थानमनवकाशो यद्बुद्धा भगवन्त आलोके शय्यां कल्पयन्ति। यन्न्वहं दीपं निर्वापयेयमिति। सोऽहं हस्तेन निर्वापयितुमारब्धो न शक्नोमि, ततश्चीवरकर्णिकेन, ततो व्यजनेन, तथापि न शक्नोमीति। भगवानाह- खेदमानन्द आपत्स्यसे। यदि वैरम्भका अपि वायवो वायेयुः, तेऽपि न शक्नुयुर्निर्वापयितुं प्रागेव हस्तगतश्चीवरकर्णिको व्यजनं वा। तथा हि - अय प्रदीपस्तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वलितः। अपि तु आनन्द भविष्यत्यसौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः। शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम्, आनन्दो भिक्षुरूपासकः, शुद्धोदनः पिता, महामाया माता, कपिलवस्तु नगरम्, राहुलभद्रः कुमारः पुत्रः। सापि धातुविभागं कृत्वा परिनिर्वास्यतीति॥



इदमवोचद्भगवान्। आत्तमनसस्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने नगरावलम्बिकावदानं सप्तमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project