Digital Sanskrit Buddhist Canon

४ ब्राह्मणदारिकावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 4 brāhmaṇadārikāvadānam
४ ब्राह्मणदारिकावदानम्।



भगवान् न्यग्रोधिकामनुप्राप्तः। अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय न्यग्रोधिकां पिण्डाय प्राविक्षत्। कपिलवस्तुनो ब्राह्मणस्य दारिका न्यग्रोधिकायां निविष्टा। अद्राक्षीत् सा ब्राह्मणदारिका भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। सहदर्शनादस्या एतदभवत्-अयं स भगवान् शाक्यकुलनन्दनश्चक्रवर्तिकुलाद् राज्यमपहाय स्फीतमन्तःपुरं स्फीतानि च कोशकोष्ठागाराणि प्रव्रजित इदानीं भिक्षामटते। यदि ममान्तिकात्सक्तुकभिक्षां प्रतिगृह्णीयात्, अहमस्मै दद्यामिति। ततो भगवता तस्याश्चेतसा चित्तमाज्ञाय पात्रमुपनामितम्- यदि ते भगिनि परित्यक्तम्, आकीर्यतामस्मिन् पात्र इति। ततो भूयस्या मात्रया तस्याः प्रसाद उत्पन्नः। जानाति मे भगवांश्चेतसा चित्तमिति विदित्वा तीव्रेण प्रसादेन भगवते सक्तुभिक्षां दत्तवती। ततो भगवता स्मितमुपदर्शितम्। धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति, तस्मिन् समये नीलपीतलोहितावदाताः पुष्परागपद्मरागवज्रवैडूर्यमुसारगल्वार्कलोहितकादक्षिणावर्तशङ्खशिलाप्रवालजातरूपरजतवर्णा अर्चिषो मुखान्निश्चार्य काश्चिदधस्ताद्गच्छन्ति, काश्चिदुपरिष्टाद्गच्छन्ति। या अधस्ताद्गच्छन्ति, ताः संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिमर्बुदं निरर्बुदमटटं हहवं हुहुवमुत्पलं पद्मं महापद्ममवीचिपर्यन्तान् नरकान् गत्वा ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति, ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति। तेनानुगतास्तेषां सत्त्वानां तस्मिन् क्षणे कारणाविशेषाः, ते प्रतिप्रस्रभ्यन्ते। तेषामेवं भवति-किं नु वयं भवन्त इतश्च्युता आहोस्विदन्यत्रोपपन्ना इति। तेषां प्रसादसंजननार्थं भगवान्निर्मितं (दर्शनं) विसर्जयति। तेषां निर्मितं दृष्ट्वैवं भवति - न ह्येव वयं भवन्त इतश्च्युताः, नाप्यन्यत्रोपपन्ना इति। अपि त्वयमपूर्वदर्शनः सत्त्वः, अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति। ते निर्मिते चित्तमभिप्रसाद्य तन्नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति, यत्र सत्यानां भाजनभूता भवन्ति। या उपरिष्टाद्गच्छन्ति, ताश्चातुर्महाराजिकान् देवान् गत्वा त्रायस्त्रिंशान् यामांस्तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनो देवान् ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभान् शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शानकनिष्ठपर्यन्तान् देवान् गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति। गाथाद्वयं च भाषन्ते-



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥१॥



यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥२॥



अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेव पृष्ठतः पृष्ठतः समनुबद्धा गच्छन्ति। तद्यदि भगवानतीतं व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्ते। अनागतं व्याकर्तुकामो भवति, पुरस्तादन्तर्धीयन्ते। नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्ते। तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्ते। प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्ते। मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोरन्तर्धीयन्ते। बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्ते। चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्ते। श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्ते। प्रत्येकबोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्ते। यदि अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्ते॥



अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्योर्णायामन्तर्हिताः। अथायुष्मानानन्दः कृतकरपुटो भगवन्तं पप्रच्छ -



नानाविधोरङ्गसहस्रचित्रो

वक्त्रान्तरान्निष्क्रमितः कलापः।

अवभासिता येन दिशः समन्तात्

दिवाकरेणोदयता यथैव॥३॥



गाथाद्वयं च भाषते -

विगतोद्भवा दैन्यमदप्रहीणा

बुद्धा जगत्युत्तमहेतुभूताः।

नाकारणंशङ्खमृणालगौरं

स्मितमुपदर्शयन्ति जिना जितारयः॥४॥



तत्कालं स्वयमधिगम्य धीर बुद्ध्या

श्रोतॄणां श्रमण जिनेन्द्र काङ्क्षितानाम्।

धीराभिर्मुनिवृष वाग्भिरुत्तमाभि-

रुत्पन्नं व्यपनय संशयं शुभाभिः॥५॥



नाकस्माल्लवणजलाद्रिराजधैर्याः

संबुद्धाः स्मितमुपदर्शयन्ति नाथाः।

यस्यार्थे स्मितमुपदर्शयन्ति धीरा-

स्तं श्रोतुं समभिलषन्ति ते जनौघाः॥ ६॥ इति॥



भगवानाह-एवमेतदानन्द, एवमेतत्। नाहेतुप्रत्ययमानन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति। दृष्ट्वा तवैषा सा आनन्द ब्राह्मणदारिका, यया प्रसादजातया मह्यं सक्तुभिक्षानुप्रदत्ता ? दृष्टा भदन्त। असावानन्द ब्राह्मणदारिका अनेन कुशलमूलेन त्रयोदश कल्पान् विनिपातं न गमिष्यति। किं तर्हि देवांश्व मनुष्यांश्च संवाच्य संसृत्य पश्चिमे भवे पश्चिमे निकेते पश्चिमे समुच्छ्रये पश्चिम आत्मभावप्रतिलम्भे सुपर्णिहितो नाम प्रत्येकबुद्धो भविष्यति। सामन्तकेन शब्दो विसृतः - अमुकया ब्राह्मणदारिकया प्रसादजातया भगवते सक्तुभिक्षा प्रतिपादिता, सा भगवता प्रत्येकायां बोधौ व्याकृतेति। तस्याश्च स्वामी पुष्पसमिधामर्थायारण्यं गतः। तेन श्रुतं मम पत्न्या श्रमणाय गौतमाय सक्तुभिक्षा प्रतिपादिता, सा च श्रमणेन गौतमेन प्रत्येकायां बोधौ व्याकृता इति। श्रुत्वा पुनः संजातामर्षो येन भगवांस्तेनोपसंक्रान्तः। भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य भगवन्तमिदमवोचत्- अगमद्भवान् गौतमोऽस्माकं निवेशनम् ? अगमं ब्राह्मण। सत्यं भवते तया मम पत्न्या सक्तुभिक्षा प्रतिपादिता, सा च त्वया प्रत्येकायां बोधौ व्याकृता इति ? सत्यं ब्राह्मण। त्वं गौतम चक्रवर्तिराज्यमपहाय प्रव्रजितः। कथं नाम त्वमेतर्हि सक्तुभिक्षाहेतोः संप्रजानन् मृषावादं संभाषसे, कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्येयत् फलमिति ? तेन हि ब्राह्मण त्वामेव प्रक्ष्यामि, यथा ते क्षमते तथैनं व्याकुरु। किं मन्यसे ब्राह्मण अस्ति कश्चित्त्वया आश्चर्याद्भुतो धर्मो दृष्टः ? तिष्ठन्तु तावत् भो गौतम अन्ये आश्चर्याद्भुता धर्माः। यो मया अस्यामेव न्यग्रोधिकायामाश्चर्याद्भुतो धर्मो दृष्टः, स तावच्छ्रूयताम्। अस्यां भो गौतम न्यग्रोधिकायां पूर्वेण न्यग्रोधो वृक्षो यस्य नाम्नेयं न्यग्रोधिका, तस्याधस्तात् पञ्च शकटशतानि असंसक्तानि तिष्ठन्ति अन्योन्यासंबाधमानानि। कियत्प्रमाणं तस्य न्यग्रोधस्य फलम् ? कियत् तावत् ? केदारमात्रम्। नो भो गौतम किलिञ्जमात्रम्। तैलिकचक्रमात्रम्। शकटचक्रमात्रम्। गोपिटकमात्रम्। बिल्वमात्रम्। कपित्थमात्रम् ? नो भो गौतम सर्षपचतुष्टयभागमात्रम्। कस्ते श्रद्धास्यति इयत्प्रमाणस्य बीजस्यायं महावृक्षो निर्वृत्त इति ? श्रद्दधातु मे भवान् गौतमः मा वा। नैतत् प्रत्यक्षं क्षेत्रम्। तावद्भो गौतम निरुपहतं स्निग्धमधुरमृत्तिकाप्रदेशं बीजं च नवसारं सुखारोपितम्। कालेन च कालं देवो वृष्यते, तेनायं महान्यग्रोधवृक्षोऽभिनिर्वृत्तः। अथ भगवानस्मिन्नुत्पन्ने गाथां भाषते -



यथा क्षेत्रे च बीजेन प्रत्यक्षस्त्वमिह द्विज।

एवं कर्मविपाकेषु प्रत्यक्षा हि तथागताः॥७॥



यथा त्वया ब्राह्मण दृष्टमेत-

दल्पं च बीजं सुमहांश्च वृक्षः।

एवं मया ब्राह्मण दृष्टमेतत्

अल्पं च बीजं महती च संपत्॥ ८॥ इति॥



ततो भगवता मुखात् जिह्वां निर्नमय्य सर्वं मुखमण्डलमाच्छादितं यावत् केशपर्यन्तमुपादाय, स च ब्राह्मणोऽभिहितः-किं मन्यसे ब्राह्मण यस्य मुखात् जिह्वां निश्चार्य सर्वं मुखमण्डलमाच्छादयति, अपि त्वसौ चक्रवर्तिराज्यशतसहस्रहेतोरपि संप्रजानन् मृषावदां भाषेत ? नो भो गौतम। ततोऽन्वेव गाथां भाषते-



अप्येव हि स्यादनृताभिधायिनी

ममेह जिह्वार्जवसत्यवादिता।

तदेवमेतन्न यथा हि ब्राह्मण

तथागतोऽस्मीत्यवगन्तुमर्हसि॥ ९॥



अथ स ब्राह्मणोऽभिप्रसन्नः। ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम् - अतिक्रान्तोऽहं भदन्त अतिक्रान्तः। एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च। उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणं गतमभिप्रसन्नम्। अथ स ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥

इति श्रीदिव्यावदाने ब्राह्मणदारिकावदानं चतुर्थम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project