Digital Sanskrit Buddhist Canon

३ मैत्रेयावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3 maitreyāvadānam
३ मैत्रेयावदानम्।



यदा राज्ञा मागधेन अजातशत्रुणा वैदेहीपुत्रेण नौक्रमो मातापित्रोर्मापितस्तदा वैशालकैर्लिच्छविभिर्भगवतोऽर्थे नौक्रमो मापितः। नागाः संलक्षयन्ति- वयं विनिपतितशरीरा यन्नु वयं फणसंक्रमेण भगवन्तं नदी(दीं)गङ्गामुत्तारयेम इति। तैः फणसंक्रमो मापितः। तत्र भगवान् भिक्षूनामन्त्रयते स्म - राजगृहात् श्रावस्तीं गन्तुं यो युष्माकं भिक्षव उत्सहते राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेण नदीगङ्गामुत्तर्तुम्, स तेन तरतु, यो वा भिक्षवो वैशालकानां लिच्छवीनां नौसंक्रमेण, सोऽपि तेनोत्तरतु। अहमपि आयुष्मता आनन्देन भिक्षुणा सार्धं नागानां फणसंक्रमेण नदीं गङ्गामुत्तरिष्यामि। तत्र केचित् राज्ञो मागधस्याजातशत्रोर्वैदेहीपुत्रस्य नौसंक्रमेणोत्तीर्णाः, केचित् वैशालिकानां लिच्छवीनां नौसंक्रमेण। भगवानपि आयुष्मता आनन्देन सार्धं नागानां फणसंक्रमेणोत्तीर्णः। अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-



ये तरन्त्यर्णवं सरः सेतुं कृत्वा विसृज्य पल्वलानि।

कोलं हि जनाः प्रबन्धिता उत्तीर्णा मेधाविनो जनाः॥१॥



उत्तीर्णो भगवान् बुद्धो ब्राह्मणस्तिष्ठति स्थले।

भिक्षवोऽत्र परिस्नान्ति कोलं बध्नन्ति श्रावकाः॥ २॥



किं कुर्यादुदपानेन आपश्चेत् सर्वतो यदि।

छित्त्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्॥३॥ इति॥



अद्राक्षीद्भगवानन्यतमस्मिन् भूभागे उन्नतोन्नतं पृथिवीप्रदेशम्। दृष्ट्वा च पुनरायुष्मन्तमामन्त्रयते-इच्छसि त्वमानन्द योऽसौ यूप ऊर्ध्वं व्यामसहस्रं तिर्यक् षोडशप्रवेधो नानारत्नविचित्रो दिव्यः सर्वसौवर्णो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा नद्यां गङ्गायामाप्लावितः, तं द्रष्टुम् ? एतस्य भगवन् कालः, एतस्य सुगतसमयः, योऽयं भगवान् यूपमुच्छ्रापयेत्, भिक्षवः पश्येयुः। ततो भगवता चक्रस्वस्तिकनन्द्यावर्तेन जालावनद्धेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरेण पृथिवी परामृष्टा। नागाः संलक्षयन्ति-किमर्थं भगवता पृथिवी परामृष्टेति ? यावत् पश्यन्ति यूपं द्रष्टुकामाः। ततस्तैरुच्छ्रापितः। भिक्षवो यूपं द्रष्टुमारब्धाः। आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति। तत्र भगवान् भिक्षूनामन्त्रयते स्म- आरोहपरिणाहं निमित्तं भिक्षवो यूपस्य गृह्णीत, अन्तर्धास्यतीति। अन्तर्हितः। भिक्षवो बुद्धं भगवन्तं पप्रच्छुः- पश्य भदन्त भिक्षवो यूपं पश्यन्ति। आयुष्मानपि भद्दाली अल्पोत्सुकः पांसुकूलं सीव्यति। किं तावत् वीतरागत्वादाहोस्वित् पर्युपासितपूर्वत्वात् ? तद्यदि तावद् वीतरागत्वात्, सन्त्यन्येऽपि वीतरागाः। अथ पर्युपासितपूर्वत्वात्, कुत्र केन पर्युपासितमिति। भगवानाह-अपि भिक्षवो वीतरागत्वादपि पर्युपासितपूर्वत्वात्। कुत्रानेन पर्युपासितम् ?



भूतपूर्वं भिक्षवो राजाभूत् प्रणादो नाम शक्रस्य देवेन्द्रस्य वयस्यकः। सोऽपुत्रः पुत्राभिनन्दी करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः-अनेकधनसमुदितोऽहमपुत्रश्च। ममात्ययाद् राजवंशसमुच्छेदो भविष्यतीति। ततः शक्रेण दृष्टः पृष्टश्च- मार्ष, कस्मात् त्वं करे कपोलं दत्त्वा चिन्तापरस्तिष्ठसीति ? स कथयति-कौशिक, अनेकधनसमुदितोऽहमपुत्रश्च। ममात्ययाद् राजवंशस्योच्छेदो भविष्यति। शक्रः कथयति-मार्ष, मा त्वं चिन्तापरस्तिष्ठ। यदि कश्चित् च्यवनधर्मा देवपुत्रो भविष्यति, तत्ते पुत्रत्वे समादापयिष्यामीति। धर्मता खलु च्यवनधर्मणो देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भवन्ति-अक्लिष्टानि वासांसि संक्लिश्यन्ति, अम्लानानि माल्यानि म्लायन्ते, दौर्गन्धं मुखान्निश्चरति, उभाभ्यां कक्षाभ्यां स्वेदः प्रघरति, स्वे चासने धृतिं न लभते। यावदन्यतमस्य देवपुत्रस्य पञ्च पूर्वनिमित्तानि प्रादुर्भूतानि। स शक्रेण देवेन्द्रेणोक्तः - मार्ष, प्रणादस्य राज्ञोऽग्रमहिष्याः कुक्षौ प्रतिसंधिं गृहाणेति। स कथयति-प्रमादस्थानं कौशिक। बहुकिल्बिषकारिणो हि कौशिक राजानः। मा अधर्मेण राज्यं कृत्वा नरकपरायणो भविष्यामीति। शक्रः कथयति - मार्ष, अहं ते स्मारयिष्यामि। प्रमत्ताः कौशिक देवा रतिबहुलाः। एवमेतन्मार्ष। तथापि त्वहं भवन्तं स्मारयामि। तेन प्रणादस्य राज्ञोऽग्रमहिष्याः कुक्षौ प्रतिसंघिर्गृहीता। यस्मिन्नेव दिवसे प्रतिसंधिर्गृहीता, तस्मिन् दिवसे महाजनकायेन प्रणादो मुक्तः। सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता। दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। तस्य ज्ञातयः संगम्य समागम्य नामधेयं व्यवस्थापयन्ति - किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः - यस्मिन्नेव दिवसेऽयं दारको मातुः कुक्षिमवक्रान्तः, तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः। यस्मिन्नेव दिवसे जातस्तस्मिन्नेव दिवसे महाजनकायेन नादो मुक्तः। तस्मात् भवतु दारकस्य महाप्रणाद इति नाम। तस्य महाप्रणाद इति नामधेयं व्यवस्थापितम्। महाप्रणादो दारकोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः। संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां दारुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारीपरीक्षायाम्। सोऽष्टासु परीक्षासूद्धट्टको वाचकः पटुप्रचारः पण्डितः संवृत्तः। स यानि तानि राज्ञां क्षत्रियाणां मूर्ध्नाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यासतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि, तद्यथा- हस्तिशिक्षायामश्वपृष्ठे रथे शरे धनुषि प्रयाणे निर्याणेऽङ्कुशग्रहे पाशग्रहे तोमरग्रहे यष्टिबन्धे मुष्टिबन्धे पदबन्धे शिखाबन्धे दूरवेधे मर्मवेधेऽक्षुण्णवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः॥



धर्मता खलु न तावत् पुत्रस्य नाम प्रज्ञायते यावत् तातो जीवति। अपरेण समयेन प्रणादो राजा कालगतः। महाप्रणादो राज्ये प्रतिष्ठितः। स यावत्तावद् धर्मेण राज्यं कारयित्वा अधर्मेण राज्यं कारयितुं प्रवृत्तः। ततः शक्रेण देवेन्द्रेणोक्तः-मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः। मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति। स यावत्तावद् धर्मेण राज्यं कारयित्वा पुनरपि अधर्मेण राज्यं कारयितुं प्रवृत्तः। द्विरपि शक्रेणोक्तः -मार्ष, मया त्वं प्रणादस्य राज्ञः पुत्रत्वे समादापितः। मा अधर्मेण राज्यं कारय, मा नरकपरायणो भविष्यसीति। स कथयति- कौशिक, वयं राजानः प्रमत्ता इति रतिबहुलाः क्षणाद् विस्मरामः। किंचित्त्वमस्माकं चिह्नं स्थापय, यं दृष्ट्वा दानानि दास्यामः, पुण्यानि कारयिष्याम इति। न च शक्यते विना निमित्तेन पुण्यं कर्तुम्। ततः शक्रेण देवेन्द्रेण विश्वकर्मणो देवपुत्रस्याज्ञा दत्ता- गच्छ त्वं विश्वकर्मन् राज्ञो महाप्रणादस्य निवेशने। दिव्यं मण्डलवाटं निर्मिणु, यूपं चोच्छ्रापय। ऊर्ध्वं व्यामसहस्रेण तिर्यक् षोडशप्रवेधं नानारत्नविचित्रं सर्वसौवर्णमिति। ततो विश्वकर्मणा देवपुत्रेण महाप्रणादस्य राज्ञो निवेशने दिव्यो मण्डलवाटो निर्मितो यूपश्चोच्छ्रितः। ऊर्ध्वं व्यामसहस्रं नानारत्नविचित्रो दिव्यः सर्वसौवर्णः। ततो महाप्रणादेन राज्ञा दानशाला मापिता। तस्य मातुलोऽशोको नाम यूपस्य परिचारको व्यवस्थितः। ततो यूपदर्शनोद्युक्तः सर्व एव जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति। ततः कृषिकर्मान्ताः समुच्छिन्नाः। राज्ञः करप्रत्याया नोत्तिष्ठन्ते। अमात्यैः स्तोकाः करप्रत्याया उपनीताः। महाप्रणादो राजा पृच्छति- भवन्तः , कस्मात् स्तोकाः करप्रत्याया उपनीताः ? देव, जम्बुद्वीपनिवासी जनकाय आगत्य भुक्त्वा यूपं पश्यति, स्वकर्मानुष्ठानं न करोति। कृषिकर्मान्ताः समुच्छिन्नाः। राज्ञः करप्रत्याया नोत्तिष्ठन्त इति। राजा कथयति- समुच्छिद्यतां दानशालेति। तैः समुच्छिन्ना। ततोऽप्यसौ जनकायः स्वपथ्यदनमादाय भुक्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति। कृषिकर्मान्ताः समुच्छिन्नाः। तथापि करप्रत्याया नोत्तिष्ठन्ते। राजा पृच्छति - भवन्तः, दानशालाः समुच्छिन्नाः। इदानीं करप्रत्याया नोत्तिष्ठन्त इति। अमात्याः कथयन्ति- देव, जनकायः स्वपथ्यदनमादाय भुक्त्वा यूपं निरीक्षमाणस्तिष्ठति, स्वकर्मानुष्ठानं न करोति। कृषिकर्मान्ताः समुच्छिन्नाः, यतः करप्रत्याया नोत्तिष्ठन्ते। ततो राज्ञा महाप्रणादेन दानानि दत्त्वा पुण्यानि कृत्वा स यूपो नद्यां गङ्गायामाप्लावितः। किं मन्यध्वे भिक्षवो योऽसौ राज्ञो महाप्रणादस्याशोको नाम मातुलः, एष एवासौ भद्दाली भिक्षुः। तत्रानेन पर्युपासितपूर्वः॥



कुत्र भदन्त असौ यूपो विलयं गमिष्यति ? भविष्यन्ति भिक्षवोऽनागतेऽध्वनि अशीतिवर्षसहस्रायुषो मनुष्याः। अशीतिवर्षसहस्रायुषां मनुष्याणां शङ्खो नाम राजा भविष्यति संयमनी चक्रवर्तीं चतुरन्तविजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः। तस्येमान्येवं रूपाणि सप्त रत्नानि भविष्यन्ति। तद्यथा-चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमम्। पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्। स इमामेव समुद्रपर्यन्तां पृथिवीमखिलामकण्टकामनुत्पीडामदण्डेनाशस्त्रेण धर्मेण समयेन अभिनिर्जित्याध्यावसिष्यति। शङ्खस्य राज्ञो ब्रह्मायुर्नाम ब्राह्मणः पुरोहितो भविष्यति। तस्य ब्रह्मवती नाम पत्नी भविष्यति। सा मैत्रेयांशेन स्फुरित्वा पुत्रं जनयिष्यति मैत्रेयं नाम। ब्रह्मायुर्माणवोऽशीतिमाणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयिष्यति। स तान् माणवकान् मैत्रेयाय अनुप्रदास्यति। मैत्रेयो माणवोऽशीतिमाणवकसहस्राणि ब्राह्मणकान् मन्त्रान् वाचयिष्यति। अथ चत्वारो महाराजाश्चतुर्महानिधिस्थाः-



पिङ्गलश्च कलिङ्गेषु मिथिलायां च पाण्डुकः।

एलापत्रश्च गान्धारे शङ्खो वाराणसीपुरे॥४॥



एनं च यूपमादाय शङ्खस्य राज्ञ उपनामयिष्यन्ति। शङ्खोऽपि राजा ब्रह्मायुषे ब्राह्मणायानुप्रदास्यति। ब्रह्मायुरपि ब्राह्मणो मैत्रेयाय माणवायानुप्रदास्यति। मैत्रेयोऽपि माणवस्तेषां माणवकानामनुप्रदास्यति। ततस्ते माणवकास्तं यूपं खण्डं खण्डं छित्त्वा भाजयिष्यन्ति। ततो मैत्रेयो माणवकस्तस्य यूपस्यानित्यतां दृष्ट्वा तेनैव संवेगेन वनं संश्रयिष्यति। यस्मिन्नेव दिवसे वनं संश्रयिष्यति, तस्मिन्नेव दिवसे मैत्रेयांशेन स्फुरित्वा अनुत्तरं ज्ञानमधिगमिष्यति। तस्य मैत्रेयः सम्यक्संबुद्ध इति संज्ञा भविष्यति। यस्मिन्नेव दिवसे मैत्रेयः सम्यक्संबुद्धोऽनुत्तरज्ञानमधिगमिष्यति, तस्मिन्नेव दिवसे शङ्खस्य राज्ञः सप्तरत्नान्यन्तर्धास्यन्ते। शङ्खोऽपि राजा अशीतिकोट्टराजसहस्रपरिवारो मैत्रेयं सम्यक्संबुद्धं प्रव्रजितमनुप्रव्रजिष्यति। यदप्यस्य स्त्रीरत्नं विशाखा नाम, सापि अशीतिस्त्रीसहस्रपरिवारा मैत्रेयं सम्यक्संबुद्धं प्रव्रजितमनुप्रव्रजिष्यति। ततो मैत्रेयः सम्यक्संबुद्धोऽशीतिभिक्षुकोटिपरिवारो येन गुरुपादकः पर्वतस्तेनोपसंक्रमिष्यति, यत्र काश्यपस्य भिक्षोरस्थिसंघातोऽविकोपितस्तिष्ठति। गुरुपादकपर्वतो मैत्रेयाय सम्यक्संबुद्धाय विवरमनुप्रदास्यति। यतो मैत्रेयः सम्यक्संबुद्धः काश्यपस्य भिक्षोरविकोपितमस्थिसंघातं दक्षिणेन पाणिना गृहीत्वा वामे पाणौ प्रतिष्ठाप्य एवं श्रावकाणां धर्मं देशयिष्यति-योऽसौ भिक्षवो वर्षशतायुषि प्रजायां शाक्यमुनिर्नाम शास्ता लोक उत्पन्नस्तस्यायं श्रावकः काश्यपो नाम्ना अल्पेच्छानां संतुष्टानां धूतगुणवादिनामग्रो निर्दिष्टः। शाक्यमुनेः परिनिर्वृतस्यानेन शासनसंगीतिः कृता इति। ते दृष्ट्वा संवेगमापत्स्यन्ते-कथमिदानीमीदृशेनात्मभावेनेदृशा गुणगणा अधिगता इति। ते तेनैव संवेगेनार्हत्त्वं साक्षात्करिष्यन्ति। षण्णवतिकोट्योऽर्हतां भविष्यन्ति धूतगुणसाक्षात्कृताः। यं च संवेगमापत्स्यन्ते, तत्रासौ यूपो विलयं गमिष्यति॥



को भदन्त हेतुः कः प्रत्ययो द्वयो रत्नयोर्युगपल्लोके प्रादुर्भावाय ? भगवानाह-प्रणिधानवशात्। कुत्र भगवन् प्रणिधानं कृतम्?



भूतपूर्वं भिक्षवोऽतीतेऽध्वनि मध्यदेशे वासवो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। तस्य सदापुष्पफला वृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छति। अतीव शस्यसंपत्तिर्भवति। उत्तरापथे धनसंमतो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। तस्यापि सदापुष्पफला वृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति। अतीव शस्यसंपत्तिर्भवति। यावदपरेण समयेन वासवस्य राज्ञः पुत्रो जातो रत्नप्रत्युप्तया शिखया। तस्य विस्तरेण जातिमहं कृत्वा रत्नशिखीति नामधेयं व्यवस्थापितम्। सोऽपरेण समयेन जीर्णातुरमृतंसंदर्शनादुद्विग्नो वनं संश्रितः। यस्मिन्नेव दिवसे वनं संश्रितस्तस्मिन्नेव दिवसेऽनुत्तरं ज्ञानमधिगतम्। तस्य रत्नशिखी सम्यक्संबुद्ध इति संज्ञोदपादि। अथापरेण समयेन धनसंमतो राजा उपरिप्रासादतलगतोऽमात्यगणपरिवृतस्तिष्ठति। सोऽमात्यानामन्त्रयते-भवन्तः, कस्यचिदन्यस्यापि राज्ञो राज्यमेवमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च। सदापुष्पफला वृक्षाः। देवः कालेन कालं सम्यग्वारिधारामनुप्रयच्छतीति। अतीव शस्यसंपत्तिर्भवति यथा अस्माकमिति ? मध्यदेशाद् वणिजः पण्यमादायोत्तरापथं गताः। ते कथयन्ति-अस्ति देव मध्यदेशे वासवो नाम राजा इति। सहश्रवणादेव धनसंमतस्य राज्ञोऽमर्ष उत्पन्नः। स संजातामर्षोऽमात्यानामन्त्रयते-संनाहयन्तु भवन्तश्चतुरङ्गं बलकायम्। राष्ट्रापमर्दनमस्य करिष्याम इति। ततो धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थितः। अश्रौषीद्वासवो राजा-धनसंमतो राजा चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं मध्यदेशमागत्य गङ्गाया दक्षिणे कूलेऽवस्थित इति। श्रुत्वा च पुनः सोऽपि चतुरङ्गं बलकायं संनाह्य हस्तिकायमश्वकायं रथकायं पत्तिकायं गङ्गाया उत्तरे कूलेऽवस्थितः। अथ रत्नशिखी सम्यक्संबुद्धस्तयोर्विनयकालं ज्ञात्वा नद्या गङ्गायास्तीरे रात्रिं वासमुपगतः। ततो रत्नशिखिना सम्यक्संबुद्धेन लौकिकं चित्तमुत्पादितम्। धर्मता खलु यदा बुद्धा भगवन्तो लौकिकं चित्तमुत्पादयन्ति, तस्मिन् समये शक्रब्रह्मादयो देवा भगवतश्चेतसा चित्तमाजानन्ति। अथ शक्रब्रह्मादयो देवा येन रत्नशिखी सम्यक्संबुद्धस्तेनोपसंक्रान्ताः। उपसंक्रम्य रत्नशिखिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णाः। तेषां वर्णानुभावेन महानुदारावभासः संवृत्तः। धनसंमतेन राज्ञा दृष्टः। दृष्ट्वा च पुनरमात्यान् पृच्छति-किमयं भवन्तो वासवस्य राज्ञो विजिते महानुदारावभासः ? ते कथयन्ति-देव, वासवस्य राज्ञो विजिते रत्नशिखी नाम सम्यक्संबुद्धः उत्पन्नः। तस्य शक्रब्रह्मादयो देवा दर्शनायोपसंक्रमन्ति। तेनैवोदारावभासः संवृत्तः। महर्द्धिकोऽसौ महानुभावः। तस्यायमनुभाव इति। धनसंमतो राजा कथयति- भवन्तः , यस्य विजिते ईदृशं द्विपादकं पुण्यक्षेत्रमुत्पन्नम्, यं शक्रब्रह्मादयोऽपि देवा दर्शनायोपसंक्रामन्ति, तस्याहं कीदृशमनर्थं करिष्यामि ? तेन तस्य दूतोऽनुप्रेषितः। वयस्य, आगच्छ। न तेऽहं किंचित् करिष्यामि इति। पुण्यमहेशाख्यस्त्वम्, यस्य विजिते द्विपादकं पुण्यक्षेत्रं रत्नशिखी सम्यक्संबुद्धोऽयम्। शक्रब्रह्मादयो देवा दर्शनायोपसंक्रामन्ति। किं तु कण्ठाश्लेषं ते दत्वा गमिष्यामि। एवमावयोः परस्परं चित्तसौमनस्यं भवतीति। वासवो राजा विश्वासं न गच्छति। स येन रत्नशिखी सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य रत्नशिखीनः सम्यक्संबुद्धस्य पादौ शिरसा बन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्संबुद्धमिदमवोचत्-मम भदन्त धनसंमतेन राज्ञा संदिष्टम्- प्रियवयस्य आगच्छ, न तेऽहं किंचित् करिष्यामि। कण्ठा कण्ठाश्लेषं श्लेषं दत्वा गमिष्यामि। एवमावयोः परस्परं चित्तसौमनस्यं भवतीति। तत्र मया कथं प्रतिपत्तव्यम् ? रत्नशिखी सम्यक्संबुद्धः कथयति-गच्छ महाराज, शोभनं भविष्यति। भगवन्, किं मया तस्य पादयोर्निपतितव्यम् ? महाराज, बलश्रेष्ठा हि राजानः। निपतितव्यम्। अथ वासवो राजा रत्नशिखिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः। येन धनसंमतो राजा तेनोपसंक्रान्तः। उपसंक्रम्य धनसंमतस्य राज्ञः पादयोर्निपतितः। ततो धनसंमतेन राज्ञा कण्ठे श्लेषं दत्त्वा विश्वासमुत्पाद्य प्रेषितः॥



अथ वासवो राजा येन रत्नशिखी सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य रत्नशिखिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो वासवो राजा रत्नशिखिनं सम्यक्संबुद्धमिदमवोचत्- कस्य भदन्त सर्वे राजानः पादयोर्निपतन्ति ? राज्ञो महाराज चक्रवर्तिनः। अथ वासवो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी तथागतः सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्संबुद्धमिदमवोचत्-अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्रेन सार्धं भिक्षुसंघेन। अथ वासवो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञाप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्संबुद्धस्य दूतेन कालमारोचयति-समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति। अथ रत्नशिखी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञो वासवस्य भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ राजा वासवो रत्नशिखिनं सम्यक्संबुद्धं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं रत्नशिखिनं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः-अनेनाहं भदन्त कुशलमूलेन राजा स्यां चक्रवर्तीति। तत्समनन्तरं च शङ्ख आपूरितः। ततो रत्नशिखी सम्यक्संबुद्धो वासवं राजानमिदमवोचत्- भविष्यसि महाराज अशीतिवर्षसहस्रायुषि प्रजायां शङ्खो नाम राजा चक्रवर्तीति। तत उच्चशब्दो महाशब्दो जातः। धनसंमतो राजा कोलाहलशब्दं श्रुत्वा अमात्यान् पृच्छतिकिमेष भवन्तो वासवस्य राज्ञो विजिते कोलाहलशब्दः श्रूयते इति ? तैरागम्य निवेदितम्- देव, रत्नशिखिना सम्यक्संबुद्धेन वासवो राजा चक्रवर्तिराज्ये व्याकृत इति जनकायो हृष्टतुष्टप्रमुदितः। तेन कोलाहलशब्दो जात इति। अथ धनसंमतो राजा येन रत्नशिखी सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य रत्नशिखिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। एकान्तनिषण्णो धनसंमतो राजा रत्नशिखिनं सम्यक्संबुद्धमिदमवोचत्-कस्य भदन्त सर्वे चक्रवर्तिनः पादयोर्निपतन्ति ? तथागतस्य महाराज अर्हतः सम्यक्संबुद्धस्य। अथ धनसंमतो राजा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन रत्नशिखी सम्यक्संबुद्धस्तेनाञ्जलिं प्रणम्य रत्नशिखिनं सम्यक्संबुद्धमिदमवोचत्-अधिवासयतु मे भगवान् श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन। अधिवासयति रत्नशिखी सम्यक्संबुद्धो धनसंमतस्य राज्ञोऽपि तूष्णीभावेन। अथ धनसंमतो राजा रत्नशिखिनः सम्यक्संबुद्धस्य तूष्णीभावेनाधिवासनं विदित्वा रत्नशिखिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा रत्नशिखिनः सम्यक्संबुद्धस्यान्तिकात् प्रक्रान्तः॥



अथ धनसंमतो राजा तामेव रात्रिं शुचि प्रणीतं खादनीयं भोजनीयं समुदानीय काल्यमेवोत्थाय आसनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य रत्नशिखिनः सम्यक्संबुद्धस्य दूतेन कालमारोचयति - समयो भदन्त, सज्जं भक्तम्, यस्येदानीं भगवान् कालं मन्यते इति। अथ रत्नशिखी सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन धनसंमतस्य राज्ञो भक्ताभिसारस्तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथ धनसंमतो राजा सुखोपनिषण्णं रत्नशिखिनं सम्यक्संबुद्धं तत्प्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्पयति संप्रवारयति। अनेकपर्यायेण शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तेन संतर्प्य संप्रवार्य रत्नशिखिनं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पादयोर्निपत्य सर्वमिमं लोकं मैत्रेणांशेन स्फुरित्वा प्रणिधानं कर्तुमारब्धः - अनेनाहं कुशलमूलेन शास्ता लोके भवेयं तथागतोऽर्हन् सम्यक्संबुद्ध इति। रत्नशिखी सम्यक्संबुद्धः कथयति- भविष्यसि त्वं महाराज अशीतिवर्षसहस्रायुषि प्रजायां मैत्रेयो नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति। तत्प्रणिधानवशाद् द्वयो रत्नयोर्लोके प्रादुर्भावो भविष्यति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने मैत्रेयावदानं तृतीयम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project