Digital Sanskrit Buddhist Canon

२ पूर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२ पूर्णावदानम्।



भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। तेन खलु समयेन सूर्पारके नगरे भवो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात् कुलात् कुलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां नवानां वा मासानामत्ययात् प्रसूता। दारको जातः। तस्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा नामधेयं व्यवस्थाप्यते-किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः-अयं दारको भवस्य गृहपतेः पुत्रः, तस्माद्भवतु भविलेति नामधेयं व्यवस्थापितम्। भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। तस्य भवत्रातेति नामधेयं व्यवस्थापितम्। पुनरप्यस्य पुत्रो जातः। तस्य भवनन्दीति नामधेयं व्यवस्थापितम्। यावदपरेण समयेन भवो गृहपतिः ग्लानः संवृत्तः। सोऽत्यर्थं परुषवचनसमुदाचारी यतः , पत्न्या पुत्रैश्चाप्युपेक्षितः। तस्य प्रेष्यदारिका। सा संलक्षयति-मम स्वामिना अनेकैरुपायशतैर्भोगाः समुदानीताः। सेदानीं ग्लानः संवृत्तः। सैष पत्न्या पुत्रैश्चाप्युपेक्षितः। न मम प्रतिरूपं स्याद् यदहं स्वामिनमध्युपेक्षेयमिति। सा वैद्यसकाशं गत्वा कथयति- आर्य जानीषे त्वं भवं गृहपतिम् ? जाने, किं तस्य ? तस्यैवंविधं ग्लान्यं समुपजातम्। स पत्न्या पुत्रैश्चाप्युपेक्षितः। तस्य भविषज्यं (भैषज्यं) व्यपदिशेति। स कथयति-दारिके त्वमेव कथयसि-स पत्न्या पुत्रैश्चाप्युपेक्षित इति। अथ कस्तस्योपस्थानं करोति ? सा कथयति-अहमस्योपस्थानं करोमि। किं त्वल्पमूल्यानि भैषज्यानि व्यपदिशेति। तेन व्यपदिष्टम् - इदं तस्य भैषज्यमिति। ततस्तया किंचित् स्वभक्तात्तस्मादेव गृहादपहृत्योपस्थानं कृतम्। स स्वस्थीभूतः संलक्षयति-अहं पत्न्या पुत्रैश्चाध्युपेक्षितः। यदहं जीवितः, तदस्या दारिकायाः प्रभावात्। तदस्याः प्रत्युपपकारः कर्तव्य इति। सा तेनोक्ता-दारिके, अहं पत्न्या पुत्रैश्चाप्युपेक्षितः। यत् किंचिदहं जीवितः, सर्वं तव प्रभावात्। अहं ते वरमनुप्रयच्छामीति। सा कथयति- स्वामिन्, यदि मे परितुष्टोऽसि, भवतु मे त्वया सार्धं समागम इति। स कथयति- किं ते मया सार्धं समागमेन ? पञ्च कार्षापणशतान्यनुप्रयच्छामि, अदासीं चोत्सृजामीति। सा कथयति- आर्यपुत्र, दूरमपि परमपि गत्वा दास्येवाहम्, यदि तु आर्यपुत्रेण सार्धं समागमो भवति, एवमदासी भवामीति। तेनावश्यं निर्बन्धं ज्ञात्वा अभिहिता- यदा संवृत्ता ऋतुमती तदा ममारोचयिष्यसीति। सा अपरेण समयेन कल्या संवृत्ता ऋतुमती। तया तस्यारोचितम्। ततो भवेन गृहपतिना तया सार्धं परिचारितम्। सा आपन्नसत्त्वा संवृत्ता। यमेव दिवसमापन्नसत्त्वा संवृत्ता तमेव दिवसमुपादाय भवस्य गृहपतेः सर्वार्थाः सर्वकर्मान्ताश्च परिपूर्णाः। सा त्वष्टानां वा नवानां मासानामत्ययात् प्रसूता। दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशीर्षः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः। यस्मिन्नेव दिवसे दारको जातः, तस्मिन्नेव दिवसे भवस्य गृहपतेर्भूयस्या मात्रया सर्वार्थाः सर्वकर्मान्ताः परिपूर्णाः। तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातमहं कृत्वा पूर्ववत् यावत्पूर्णेति नामधेयं व्यवस्थापितम्। पूर्णो दारकोऽष्टाभ्यो धात्रीभ्यो द्वाभ्यामंसधात्रीभ्यां दत्तो विस्तरेण यावदाशु वर्धते ह्रदस्थमिव पङ्कजम्। यदा महान् संवृत्तः, तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायाम्। अष्टासु परीक्षासूद्धटको वाचकः पण्डितः पटुप्रचारः संवृत्तः। ततो भवेन गृहपतिना भविलादीनां पुत्राणां यथानुपूर्व्या निवेशाः कृताः। ते पत्नीभिः सार्धमतीव संरक्ता निवृत्ता मण्डनपरमा व्यवस्थिताः। ततो भवो गृहपतिः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः। स पुत्रैर्दृष्टः पृष्टश्च-तात, कस्मात्त्वं करे कपोलं दत्त्वा चिन्तापरो व्यवस्थित इति। स कथयति- पुत्रकाः, न तावन्मया निवेशः कृतो यावत्सुवर्णलक्षः समुदानीत इति। ते यूयं निरस्तव्यापाराः पत्नीष्वत्यर्थं संरक्ता मण्डनपरमा व्यवस्थिताः। ममात्ययात् गृहं शोचनीयं भविष्यति। कथं न चिन्तापरो भविष्यामीति ? भविलेन रत्नकर्णिका पिनद्धा। स तामवतार्य दारुकर्णिकां पिनह्य प्रतिज्ञामारूढः-न तावत् रत्नकर्णिकां पिनह्यामि यावत् सुवर्णलक्षः समुपार्जित इति। अपरेण स्तवकर्णिका। अपरेण त्रपुकर्णिका। तेषां यास्ताः संज्ञा भविलो भवत्रातो भवनन्दीति ता अन्तर्हिताः। दारुकर्णी स्तवकर्णी त्रपुकर्णीति प्रादुर्भूताः। ते पण्यमादाय महासमुद्रं संप्रस्थिताः। पूर्णः कथयति-तात, अहमपि महासमुद्रं गच्छामीति। स कथयति- पुत्र बालस्त्वम्। अत्रैव तिष्ठ, आवार्यां व्यापारं कुरु। स तत्रैवावस्थितः। तेऽपि संसिद्धयानपात्रा आगताः। मार्गश्रमं प्रतिविनोद्य कथयन्ति-तात कल्यतामस्मदीयं पण्यमिति। तेन कलितम् -एकैकस्य सुवर्णलक्षाः संवृत्ताः। पूर्णेनापि तत्रैव धर्मेण न्यायेन व्यवहारिताः सातिरेकाः सुवर्णलक्षाः समुदानीताः। पूर्णोऽपि पितुः पादयोर्निपत्य कथयति-तात, ममापि कल्यतामावारीसमुत्थितं द्रव्यमिति। स कथयति-पुत्र त्वमत्रैवावस्थितः। किं तव कल्यते ? स कथयति- तात कल्यताम्। तथापि ज्ञातं भविष्यतीति। कलितं यावन्न्यायोपार्जितस्य सुवर्णस्य मूल्यं वर्जयित्वा सातिरिक्ता लक्षाः संवृत्ताः। भवो गृहपतिः प्रीतिसौमनस्यजातः संलक्षयति-पुण्यमहेशाख्योऽयं सत्त्वो येनेहैव स्थितेनेयत्सुवर्णं समुपार्जितमिति। यावदपरेण समयेन भवो गृहपतिर्ग्लानः संवृत्तः। स संलक्षयति-ममात्ययादेते भेदं गमिष्यन्ति। उपायसंविधानं कर्तव्यमिति। तेन तेऽभिहिताः- पुत्रकाः, काष्ठानि समुदानयतेति। तैः काष्ठानि समुदानीतानि। स कथयति - अग्निं प्रज्वालयतेति। तैरग्निः प्रज्वालितः। भवो गृहपतिः कथयति-एकैकमलातमपनयतेति। तैरपनीतम्। सोऽग्निर्निर्वाणः। स कथयति-पुत्रकाः, दृष्टो वः ? तात दृष्टः। स गाथां भाषते-



ज्वलन्ति सहिताङ्गारा भ्रातरः सहितास्तथा।

प्रविभक्ता निशाम्यन्ति यथाङ्गारास्तथा नराः॥१॥



पुत्रकाः, न युष्माभिर्ममात्ययात् स्त्रीणां श्रोतव्यम्।



कुटुम्बं भिद्यते स्त्रीभिर्वाग्भिर्भिद्यन्ति कातराः।

दुर्न्यस्तो भिद्यते मन्त्रः प्रीतिर्भिद्यति लोभतः॥२॥ इति॥



ते निष्क्रान्ताः। भविलस्तत्रैवावस्थितः। स तेनोक्तः-पुत्र, न कदाचित् त्वया पूर्णो मोक्तव्यः। पुण्यमहेशाख्योऽयं सत्त्वः। इत्युक्त्वा-



सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥३॥



इति कालधर्मेण संयुक्तः। तैर्नीलपीतलोहितावदातैर्वस्त्रैः शिबिकामलंकृत्य महता संस्कारेण श्मशानं नीत्वा ध्मापितः। ततस्ते शोकविनोदनं कृत्वा कथयन्ति-यदा अस्माकं पिता जीवति, तदा तदधीनाः प्राणाः। यदिदानीं निरस्तव्यापारास्तिष्ठामः, गृहमवसादं गमिष्यति। न शोभनं भविष्यति। यन्नु वयं पण्यमादाय देशान्तरं गच्छाम इति। पूर्णः कथयति- यद्येवमहमपि गच्छामीति। ते कथयन्ति-त्वमत्रैवावार्यां व्यापारं कुरु, वयमेव गच्छाम इति। ते पण्यमादाय देशान्तरं गताः। पूर्णो न्यस्तसर्वकार्यस्तत्रैवावस्थितः॥



धर्मता खलु ईश्वरगृहेषु दिवसपरिव्ययो दीयते। तास्तेषां पत्न्यो दारिकाः परिव्ययनिमित्तं प्रेषयन्ति। पूर्णोऽपि धनिभिः श्रेष्ठिभिः सार्थवाहैरन्यैश्चाजीविभिः परिवृतोऽवतिष्ठते। तास्त्ववकाशं न लभन्ते। यदा ते उपस्थाय प्रक्रान्ता भवन्ति, तदा तासां दिवसपरिव्ययं ददाति। ता दारिकाश्चिरचिरादागच्छन्तीत्युपालभ्यन्ते। ता एवमर्थं विस्तरेणारोचयन्ति। ताः कथयन्ति-एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्वर्यं वशे वर्तयन्तीति। भविलपत्न्या दारिका अभिहिता-त्वया कालं ज्ञात्वा गन्तव्यमिति। सा कालं ज्ञात्वा गच्छति, शीघ्रं लभते। अन्याश्चिरयन्ति। ताभिः सा पृष्टा-तया समाख्यातम्। ता अपि तया सार्धं गन्तुमारब्धाः। ता अपि शीघ्रं प्रतिलभन्ते। ताः स्वामिनीभिरुक्ताः-किमत्र कारणमिदानीं शीघ्रमागच्छथेति। ताः कथयन्ति-आरोग्यं ज्येष्ठभविकाया भवतु। यदा तस्या दारिका गता भवति, तदा लभ्यते। वयं तया सार्धं गच्छाम इति। ताः संजातामर्षाः कथयन्ति- एवं हि तेषां भवति येषां दासीपुत्राः कुलेष्वैश्वर्यं वशे वर्तयन्तीति। यावदपरेण समयेन भविलो भवत्रातो भवनन्दी च सहिताः समग्राः संमोदमाना महासमुद्रात् संसिद्धयानपात्रा आगताः। भविलेन पत्नी पृष्टा-भद्रे, शोभनं पूर्णेन प्रतिपालिता त्वमिति ? सा कथयति- यथा भ्रात्रा पुत्रेण वेति। ते अन्येऽपि स्वामिभ्यां पृष्टे कथयतः-एवं हि तेषां भवति, येषां दासीपुत्राः कुलेष्वैश्वर्यं वशे वर्तयन्तीति। तौ संलक्षयतः-सुहृद्भेदकाः स्त्रियो भवन्तीति। यावदपरेण समयेन काशिकवस्त्रावारी उद्धाटिता। तत्समनन्तरं भविलस्य पुत्रो गतः। स पूर्णेन काशिकवस्त्रयुगेनाच्छादितः। अन्याभ्यां दृष्ट्वा स्वपुत्राः प्रेषिता यावत् काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्धाटिता। ते च दैवयोगात् संप्राप्ताः। ते पूर्णेन फुट्टकैर्वस्त्रैराच्छादिताः। ते दृष्ट्वा स्वामिनोः कथयतः-दृष्टं युवाभ्यामपरेषां काशिकवस्त्राणि दीयन्ते, परेषां फुट्टकानीति। ताभ्यामनुसंज्ञप्तिर्दत्ता। किमेतदेव भविष्यति ? नूनं काशिकवस्त्रावारी घट्टिता, फुट्टकवस्त्रावारी उद्धाटितेति। यावदपरेण समयेन शर्करावारी उद्धटिता। भविलस्य च पुत्रो गतः। तेन शर्कराखो(मो)दको लब्धः। तं दृष्ट्वा अन्याभ्यां स्वपुत्राः प्रेषिताः। ते दैवयोगाद् गुडावार्यामुद्धाटितायां गताः। तैर्गुडो लब्धः। ताभिस्तं दृष्ट्वा स्वामिनौ तथा तथा भग्नौ यथा गृहविभागं कर्तुमारब्धौ। तौ परस्परं संजल्पं कुरुतः-सर्वथा विनष्टा वयम्, गृहं भाजयामेति। एकः कथयति-ज्येष्ठतरं शब्दयामः। एकः कथयति-विचारयामस्तावत् कथं भाजयामेति। तौ स्वबुद्ध्या विचारयतः। एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः। यदि ज्येष्ठतरो गृहगतं क्षेत्रगतं च ग्रहीष्यति, शक्नुमो वयमावारीगतेन देशान्तरगतेन चात्मानं संधारयितुम्। अथावारीगतं देशान्तरगतं च ग्रहीष्यति, तथापि वयं शक्नुमो गृहगतेन क्षेत्रगतेन चात्मानं संधारयितुम्, पूर्णकस्य च मर्यादाबन्धं कर्तुमिति। तावेवं संजल्पं कृत्वा भविलस्य सकाशं गतौ। भ्रातः,विनष्टा वयं भाजयामो गृहमिति। स कथयति-सुपरीक्षितं कर्तव्यम्, गृहभेदिकाः स्त्रियो भवन्तीति। तौ कथयतः-प्रत्यक्षीकृतमस्माभिः, भाजयाभेति। स कथयति-यद्येवम्, आहूयन्तां कुलानीति। तौ कथयतः-पूर्वमेवास्माभिर्भाजितम्। एकस्य गृहगतं क्षेत्रगतं च, एकस्यावारीगतं देशान्तरगतं च, एकस्य पूर्णकः। स कथयति-पूर्णस्य प्रत्यंशं नानुप्रयच्छथ ? तौ कथयतः - दासीपुत्रः सः। कस्तस्य प्रत्यंशं दद्यात् ? अपि तु स एवास्माभिर्भाजितः। यदि तवाभिप्रेतं तमेव गृहाणेति। स संलक्षयति-अहं पित्रा अभिहितः-सर्वस्वमपि ते परित्यज्य पूर्णो ग्रहीतव्य इति। गृह्णामि पूर्णमिति विदित्वा कथयति -एवं भवतु मम पूर्णकेति। यस्य गृहगतं क्षेत्रगतं च, स त्वरमाणो गृहं गत्वा कथयति - ज्येष्ठभविके निर्गच्छ। सा निर्गता। मा भूयः प्रवेक्ष्यसि। कस्यार्थाय ? अस्माभिर्भाजितं गृहम्। यस्यावारीगतं देशान्तरगतं च, सोऽपि त्वरमाण आवारीं गत्वा कथयति-पूर्णक अवतरेति। सोऽवतीर्णः। मा भूयोऽभिरोक्ष्यसि। किं कारणम् ? अस्माभिर्भाजितम्। यावत् भविलपत्नी पूर्णकेन सार्धं ज्ञातिगृहं संप्रस्थिता। दारका बुभुक्षिता रोदितुमारब्धाः। सा कथयति-पूर्ण, दारकाणां पूर्वभक्षिकामनुप्रयच्छेति। स कथयति-कार्षापणं प्रयच्छ। सा कथयति-त्वया इयतीभिः सुवर्णलक्षाभिर्व्यवहृतम्, दारकाणां पूर्वभक्षिकापि नास्ति ? पूर्णः कथयति-किमहं जाने युष्माकं गृहे ईदृशीयमवस्था भविष्यतीति। यदि मया ज्ञातमभविष्यत्, मया अनेकाः सुवर्णलक्षाः संहारिता अभविष्यन्। धर्मतैषा स्त्रिय आरकूटाकार्षापणान् वस्त्रान्ते बध्नन्ति। तयारकूटमाषको दत्तः-पूर्वभक्षिकामानयेति। स तमादाय वीथीं संप्रस्थितः। अन्यतमश्च पुरुषः समुद्रवेलाप्रेरितानां काष्ठानां भारमादाय शीतेनाभिद्रुतो वेपमान आगच्छति। स तेन दृष्टः पृष्टश्च-भोः पुरुष, कस्मादेवं वेपसे ? स कथयति- अहमपि न जाने। मया चायं भारक उत्क्षिप्तो भवति, मम चेदृशी समवस्था। स दारुपरीक्षायां कृतावी। स तत् काष्ठं निरीक्षितुमारब्धः। पश्यति तत्र गोशीर्षचन्दनम्। स तेनाभिहितः -भो पुरुष, कियता मूल्येन दीयते ? पञ्चभिः कार्षापणशतैः। तेन तं काष्ठभारं गृहीत्वा तद्गोशीर्षचन्दनमपनीय वीथीं गत्वा करपत्रिकया चतस्रः खण्डिकाः कृताः। तच्चूर्णकस्यार्थं कार्षापणसहस्रेण विक्रीतं वर्तते। ततस्तस्य पुरुषस्य पञ्चकार्षापणशतानि दत्तानि। उक्तं च - एनं काष्ठभारकममुष्मिन् गृहे भविलपत्नी तिष्ठति तत्र नय, वक्तव्या पूर्णेन प्रेषितेति। तेनासौ नीतो यथावृत्तं चारोचितम्। सा उरसि प्रहारं दत्त्वा कथयति -यद्यसावर्थात्परिभ्रष्टः, किं प्रज्ञयापि परिभ्रष्टः ? पक्कमानयेति पाचनं प्रेषितम्। तदेव नास्ति यत् पक्तव्यमिति।पूर्णेन शेषकतिपयकार्षापणैर्दासदासीगोमहिषीवस्त्राणि जीवितोपकरणानि पक्कमादायागत्य दम्पत्योरुपनामितवान्। तेन कुटुम्बं संतोषितम्॥



अत्रान्तरे सौर्पारकीयो राजा दाहज्वरेण विक्लवीभूतः। तस्य वैद्यैर्गोशीर्षचन्दनमुपा दिष्टम्। ततोऽमात्या गोशीर्षचन्दनं समन्वेषयितुमारब्धाः। तैर्वीथ्यां पारंपर्येण श्रुतम्। ते पूर्णस्य सकाशं गत्वा कथयन्ति - तवास्ति गोशीर्षचन्दनम् ? स आह-अस्ति। ते ऊचुः-कियता मूल्येन दीयते ? स आह-कार्षापणसहस्रेण। तैः कार्षापणसहस्रेण गृहीत्वा राज्ञः प्रलेपो दत्तः, स्वस्थीभूतः। राजा संलक्षयति-कीदृशोऽसौ यस्य गृहे गोशीर्षचन्दनं नास्ति। राजा पृच्छति-कुत एतत्? देव पूर्णात्। आहूयतां पूर्वकः। स दूतेन गत्वा उक्तः-पूर्ण, देवस्त्वां शब्दापयतीति। स विचारयितुमारब्धः-किमर्थं मां राजा शब्दापयति ? स संलक्षयति-गोशीर्षचन्दनेनासौ राजा स्वस्थीभूतः। तदर्थं मां शब्दायति। सर्वथा गोशीर्षचन्दनमादाय गन्तव्यम्। स गोशीर्षचन्दनस्य तिस्रो गण्डिका वस्त्रेण पिधायैकं पाणिना गृहीत्वा राज्ञः सकाशं गतः। राज्ञा पृष्टः-पूर्ण, अस्ति किंचिद् गोशीर्षचन्दनम्। स कथयति-देव इदमस्ति। किमस्य मूल्यम् ? देव सुवर्णलक्षाः। अपरमस्ति ? देव अस्ति। तेन तास्तिस्रो गण्डिका दर्शिताः। राज्ञामात्यानामाज्ञा दत्ता-पूर्णस्य चतस्रः सुवर्णलक्षाः प्रयच्छतेति। पूर्णः कथयति-देव, तिस्रो दीयन्ताम्। एकगण्डिका देवस्य प्राभृतमिति। ततस्तस्य तिस्रो दत्ताः। राजा कथयति-पूर्ण, परितुष्टोऽहम्। वद किं ते वरमनुप्रयच्छामीति। पूर्णः कथयति-यदि मे देवः परितुष्टो देवस्य विजतेऽपरिभूतो वसेयमिति। राज्ञा अमात्यानामाज्ञा दत्ता-भवन्तः, अद्याग्रेण कुमाराणामाज्ञा देया न त्वेवं पूर्णस्येति। यावन्महासमुद्रात् पञ्चमात्राणि वणिक्शतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानि। वणिग्ग्रामेण क्रियाकारः कृतः-न केनचिदस्माकं समस्तानां निर्गत्यैकाकिना वणिजां सकाशमुपसंक्रमितव्यम्। गण एव संभूय भाण्डं ग्रहीष्यतीति। अपरे कथयन्ति- पूर्णमपि शब्दापयामः। अन्ये कथयन्ति- किं तस्य कृपणस्यास्ति यः शब्दायत इति। तेन खलु समयेन पूर्णो बहिर्निर्गतः। तेन श्रुतं महासमुद्रात् पञ्च वणिक्छतानि संसिद्धयानपात्राणि सूर्पारकं नगरमनुप्राप्तानीति। सोऽप्रविश्यैव नगरं तेषां सकाशमुपसंक्रान्तः। पृच्छति-भवन्तः, किमिदं द्रव्यमिति ? ते कथयन्ति-इदं चेदं चेति। किं मूल्यम् ? ते कथयन्ति-सार्थवाह, दूरमपि परमपि गत्वा त्वमेव प्रष्टव्यः। यद्यप्येवं तथापि उच्यतां मूल्यम्। तैरष्टादश सुवर्णलक्षा मूल्यमुपदिष्टम्। स कथयति-भवन्तस्तिस्रो लक्षा अवद्रंगं गृह्णीत, ममैतत्। पण्यमवशिष्टं दास्यामि। तथा भवतु। तेन तिस्रो लक्षा आनाय्य दत्ताः। स्वमुद्रालक्षितं च कृत्वा प्रक्रान्तः। ततो वणिग्ग्रामेणावचरकाः पुरुषाः प्रेषिताः-पश्यत किं द्रव्यमिति। तैर्गत्वा पृष्टाः-किं द्रव्यम् ? इदं चेदं च। अस्माकमपि पूर्णानि कोशकोष्ठागाराणि तिष्ठन्ति। पूर्णानि वा भवन्तु मा वा। अपि विक्रीतम्। कस्यान्तिके ? पूर्णस्य। प्रभूतमासादयिष्यथ पूर्णस्यान्तिकाद् विक्रीय। ते कथयन्ति-यत्तेनावद्रङ्गे दत्तं तद् यूयं मूल्येऽपि न दास्यथ। किं तेनावद्रङ्गे दत्तम् ? तिस्रः सुवर्णलक्षाः। सुमुषितास्तेन भ्रातरः कृताः। तैरागत्य वणिग्ग्रामस्यारोचितम्। तत्पण्यं विक्रीतम्। कस्यान्तिके ? पूर्णस्य। प्रभूतमासादयिष्यन्ति पूर्णस्यान्तिके विक्त्रीय। यत्तेनावद्रङ्गे दत्तं तद्यूयं मूल्येऽपि न दास्यथ। किं तेनावद्रङ्गे दत्तम् ? तिस्रः सुवर्णलक्षाः। सुमुषितास्तेन ते भ्रातरः कृताः। स तैराहूयोक्तः-पूर्ण वणिग्ग्रामेण क्रियाकारः कृतः-न केनचिदेकाकिना ग्रहीतव्यम्। वणिग्ग्राम एव ग्रहीष्यतीत्येव। कस्मात्ते गृहीतम् ? स कथयति-भवन्तः, यदा युष्माभिः क्रियाकारः कृतस्तदा किमहं न शब्दितो मम भ्राता वा ? युष्माभिरेव क्रियाकारः कृतो यूयमेव पालयत। ततो वणिग्ग्रामेण संजातामर्षेण षष्टेः कार्षापणानामर्थायातपे धारितः। राज्ञः पौरुषेयैर्दृष्टः। तै राज्ञे आरोचितम्। राजा कथयति-भवन्तः, शब्दयतैतान्। तैः शब्दिताः। कथयति राजा-भवन्तः, कस्यार्थे युष्माभिः पूर्ण आतपे विधारितः ? ते कथयन्ति- देव वणिग्ग्रामेण क्रियाकारः कृतो न केनचिदेकाकिना पण्यं ग्रहीतव्यमिति। तदनेनैकाकिना गृहीतम्। पूर्णः कथयति-देव, समनुयुज्यन्तां यदैभिः क्रियाकारः कृतस्तदा किमहमेभिः शब्दितो मम भ्राता वा ? ते कथयन्ति-देव नेति। राजा कथयति- भवन्तः, शोभनं पूर्णः कथयति-स तैर्व्रीडितैर्मुक्तः। यावदपरेण समयेन राज्ञस्तेन द्रव्येण प्रयोजनमुत्पन्नम्। तेन वणिग्ग्राम आहूयोक्तः-भवन्तः, ममामुकेन द्रव्येण प्रयोजनम्। अनुप्रयच्छतेति। ते कथयन्ति-देव पूर्णस्यास्ति। राजा कथयति- भवन्तः, नाहं तस्याज्ञां ददामि। यूयमेव तस्यान्तिकात् क्रीत्वानुप्रयच्छत। तैः पूर्णस्य दूतः प्रेषितः-वणिग्ग्रामः शब्दयतीति। स कथयति- नाहमागच्छामि। ते वणिग्ग्रामाः सर्व एव संभूय तस्य निवेशनं गत्वा द्वारि स्थित्वा तैर्दूतः प्रेषितः। पूर्ण, निर्गच्छ वणिग्ग्रामो द्वारि तिष्ठतीति। स साहंकारः कामकारमदत्त्वा निर्गतः। वणिग्ग्रामः कथयति- सार्थवाह यथाक्रीतकं पण्यमनुप्रयच्छ। स कथयति-अतिवाणिजकोऽहं यदि यथाकृतं पण्यमनुप्रयच्छामीति। ते कथयन्ति-सार्थवाह, द्विगुणमूल्येन दत्तम्। पञ्चदश लक्षाणि तेषां वणिज्यं दत्तमवशिष्टं स्वगृहं प्रवेशितम्। स संलक्षयति-किं शक्यमवश्यायबिन्दुना कुम्भं पूरयितुम्? महासमुद्रमवतरामीति। तेन सूर्पारके नगरे घण्टावघोषणं कारितम् -शृण्वन्तु भवन्तः सौर्पारकीया वणिजः। पूर्णः सार्थवाहो महासमुद्रमवतरति। यो युष्माकमुत्सहते पूर्णेन सार्थवाहेन सार्धमशुल्केनागुल्मेनातरपण्येन महासमुद्रमवतर्तुं स महासमुद्रगमनीयं पण्यं समुदानयत्विति। पञ्चमात्रैर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। ततः पूर्णः सार्थवाहः कृतकुतूहलमङ्गलस्वस्त्ययनः पञ्चवणिक्शतपरिवारो महासमुद्रमवतीर्णः। स संसिद्धयानपात्रश्च प्रत्यागतः। एवं यावत् षट्कृत्वः। सामन्तकेन शब्दो विश्रुतः। पूर्णः षट्कृत्वो महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागत इति। श्रावस्तेया वणिजः पण्यमादाय सूर्पारकं नगरं गताः। ते मार्गश्रमं प्रतिविनोद्य येन पूर्णः सार्थवाहस्तेनोपसंक्रान्ताः। उपसंक्रम्य कथयन्ति-सार्थवाह महासमुद्रमवतरामेति। स कथयति-भवन्तः, अस्ति कश्चिद्युष्माभिर्दृष्टः श्रुतो वा षट्कृत्वो महासमुद्रात्संसिद्धयानपात्रागतः सप्तमं वारमवतरन् ? ते कथयन्ति-पूर्ण, वयं त्वामुद्दिश्य दूरादागताः। यदि नावतरसि, त्वमेव प्रमाणमिति। स संलक्षयति -किं चाप्यहं धनेनानर्थी तथाप्येषामर्थायावतरामीति। स तैः सार्धं महासमुद्रं संप्रस्थितः। ते रात्र्याः प्रत्यूषसमये उदानात् पारायणात् सत्यदृशः स्थविरगाथाः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं कुर्वन्ति। तेन ते श्रुताः। स कथयति- भवन्तः, शोभनानि गीतानि गायथ। ते कथयन्ति-सार्थवाह, नैतानि ? किंतु खल्वेतद्बुद्धवचनम्। स बुद्ध इत्यश्रुतपूर्वं शब्दं श्रुत्वा सर्वरोमकूपानि आहृष्टानि। स आदरजातः पृच्छति-भवन्तः, कोऽयं बुद्धनामेति। ते कथयन्ति-अस्ति श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात्केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितः। सोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः। स एष सार्थवाह बुद्धो नाम। कुत्र भवन्तः स भगवानेतर्हि विहरति ? सार्थवाह, श्रावस्त्यां जेतवनेऽनाथपिण्डदस्यारामे। स तं हृदि कृत्वा तैः सार्धं महासमुद्रमवतीर्णः संसिद्धयानपात्रश्च प्रत्यागतः। भ्रातास्य भविलः संलक्षयति-परिखिन्नोऽयं महासमुद्रगमनेन, निवेशोऽस्य कर्तव्य इति। स तेनोक्तः-भ्रातः, कथय कतरस्य धनिनः सार्थवाहस्य वा तवार्थाय दुहितरं प्रार्थयामीति। स कथयति- नाहं कामैरर्थी। यद्यनुजानासि, प्रव्रजामीति। स कथयति- यदास्माकं गृहे वार्ता नास्ति, तदा न प्रव्रजितः। इदानीं कामार्थं प्रव्रजसि। पूर्णः कथयति- भ्रातः, तदानीं न शोभते, इदानीं तु युक्तम्। स तेनावश्यं निर्बन्धं ज्ञात्वानुज्ञातः। स कथयति- भ्रातः, महासमुद्रो बह्वादीनवोऽल्पास्वादः। बहवोऽवतरन्ति, अल्पा व्युत्तिष्ठन्ति। सर्वथा न त्वया महासमुद्रमवतर्तव्यम्। न्यायोपार्जितं ते प्रभूतं धनमस्ति, एषां तु तव भ्रातॄणामन्यायोपार्जितम्। यद्येते कथयन्ति एकध्ये वसामेति, न वस्तव्यम्। इत्युक्त्वोपस्थायकमादाय श्रावस्तीं संप्रस्थितः। अनुपूर्वेण श्रावस्तीमनुप्राप्तः॥



श्रावस्त्यामुद्याने स्थितेन अनाथपिण्डदस्य गृहपतेर्दूतोऽनुप्रेषितः। तेन गत्वा अनाथपिण्डदस्य गृहपतेरारोचितम्-गृहपते, पूर्णः सार्थवाह उद्याने तिष्ठति गृहपतिं द्रष्टुकाम इति। अनाथपिण्डदः गॄहपतिः संलक्षयति-नूनं जलयानेन खिन्न इदानीं स्थलयानेनागतः। ततः पृच्छति-भोः पुरुष, कियत्प्रभूतं पण्यमानीतम्। स कथयति- कुतोऽस्य पण्यम् ? उपस्थायकद्वितीयः। स चाहं च। अनाथपिण्डदः संलक्षयति- न मम प्रतिरूपं यदहं प्रधानपुरुषमसत्कारेण प्रवेशयेयमिति। स तेन महता सत्कारेण प्रवेशित उद्वर्तितः स्नापितो भोजितः। स्वैरालापेणावस्थितयोरनाथपिण्डदः पृच्छति-सार्थवाह, किमागमनप्रयोजनम् ? अपूर्वेण गृहपते इच्छामि स्वाख्याते धर्मविनये प्रव्रज्या मुपसंपदं भिक्षुभावमिति। ततोऽनाथपिण्डदो गृहपतिः पूर्वं कायमभ्युन्नमय्य दक्षिणं बाहुं प्रसार्योदानमुदानयति-अहो बुद्धः। अहो धर्मः। अहो संघस्य स्वाख्यातता। यत्रेदानीमीदृशाः प्रधानपुरुषा विस्तीर्णस्वजनबन्धुवर्गमपहाय स्फीतानि च कोशकोष्ठागाराणि आकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावमिति। ततोऽनाथपिण्डदो गृहपतिः पूर्णं सार्थवाहमादाय येन भगवांस्तेनोपसंक्रान्तः। तेन खलु समयेन भगवाननेकशताया भिक्षुपरिषदः पुरस्तान्निषण्णो धर्मं देशयति। अद्राक्षीद् भगवाननाथपिण्डदं गृहपतिं सप्राभृतमागच्छन्तम्। दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म-एष भिक्षवोऽनाथपिण्डदो गृहपतिः सप्राभृत आगच्छति। नास्ति तथागतस्यैवंविधः प्राभृतो यथा वैनेयप्राभृत इति। ततोऽनाथपिण्डदो गृहपतिर्भगवतः पादाभिवन्दनं कृत्वा पूर्णेन सार्थवाहेन सार्धमेकान्ते निषण्णः। एकान्तनिषण्णोऽनाथपिण्डदो गृहपतिर्भगवन्तमिदमवोचत् -अयं भदन्त पूर्णः सार्थवाह आकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। तं भगवान् प्रव्राजयतु उपसंपादयेदनुकम्पामुपादायेति। अधिवासयति भगवाननाथपिण्डदस्य गॄहपतेस्तूष्णीभावेन। ततो भगवान् पूर्णं सार्थवाहमामन्त्रयते-एहि भिक्षो चर ब्रह्मचर्यमिति। स भगवतो वाचावसाने मुण्डः संवृत्तः संघाटिप्रावृतः पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मश्रुर्वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेनावस्थितः।





एहीति चोक्तः स तथागतेन

मुण्डश्च संघाटिपरीतदेहः।

सद्यः प्रशान्तेन्द्रिय एव तस्थौ

एवं स्थितो बुद्धमनोरथेन॥४॥



अथापरेण समयेनायुष्मान् पूर्णो येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्। एकान्ते स्थित आयुष्मान् पूर्णो भगवन्तमिदमवोचत्-साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतोऽन्तिकात् संक्षिप्तेन धर्मं श्रुत्वैको व्यपकृष्टोऽप्रमत्त आतापी प्रहितात्मा विहरेयम्। यदर्थं कुलपुत्राः केशश्मश्रूणि अवतार्य काषायाणि वस्त्राणि आच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजन्ति, तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्टधर्मे स्वयमभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रव्रजयेयम्-क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति। एवमुक्ते भगवानायुष्मन्तं पूर्णमिदमवोचत्- साधु पूर्ण, साधु खलु त्वं पूर्ण यस्त्वमेवं वदसि-साधु मे भगवांस्तथा संक्षिप्तेन धर्मं देशयतु पूर्ववद्यावन्नापरमस्माद् भवं प्रजानामीति। तेन हि पूर्ण शृणु, साधु न सुष्ठु च मनसि कुरु, भाषिष्ये॥



सन्ति पूर्ण चक्षुर्विज्ञेयानि रूपाणीष्टकानि कान्तानि प्रियाणि मनापानि कामोपसंहितानि रञ्जनीयानि। तानि चेद्भिक्षुर्दृष्ट्वाभिनन्दति अभिवदति अध्यवस्यति अध्यवसाय तिष्ठति, तानि अभिनन्दतोऽभिवदतोऽध्यवसतोऽध्यवसाय तिष्ठत आनन्दी भवति। आनन्द्या नन्दीसौमनस्यं भवति। नन्दीसौमनस्ये सति सरागो भवति। नन्दीसरागे सति नन्दीसरागसंयोजनं भवति। नन्दीसरागसंयोजनसंयुक्तः पूर्ण भिक्षुरारान्निर्वाणस्योच्यते। सन्ति पूर्ण श्रोत्रविज्ञेयाः शब्दाः, घ्राणविज्ञेया गन्धाः, जिह्वाविज्ञेया रसाः, कायविज्ञेयानि स्प्रष्टव्यानि, मनोविज्ञेया धर्मा इष्टाः कान्ताः प्रिया मनापाः कामोपसंहिता रञ्जनीयाः। तांश्च भिक्षुर्दृष्ट्वा पूर्ववद् यावदारान्निर्वाणस्येति उच्यते। सन्ति तु पूर्ण चक्षुर्विज्ञेयानि रूपाणि इष्टानि कान्तानि प्रियाणि मनापानि पूर्ववद् यावत् शुक्लपक्षेणान्तिके निर्वाणस्येति उच्यते। अनेन त्वं पूर्ण मया संक्षिप्तेनाववादेन चोदितः। कुत्रेच्छसि वस्तुं कुत्रेच्छसि वासं कल्पयितुम् ? अनेनाहं भदन्त भगवता संक्षिप्तेनाववादेन चोदित इच्छामि श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु जनपदेषु वासं कल्पयितुम्। चण्डाः पूर्ण श्रोणापरान्तका मनुष्या रभसाः कर्कशा आक्रोशका रोषकाः परिभाषकाः। सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्या संमुखं पापिकया असत्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ते कथं भविष्यति ? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः संमुखं पापिकया असत्यया परुषया वाचा आक्रोक्ष्यन्ति रोषयिष्यन्ति परिभाषिष्यन्ते, तस्य ममैवं भविष्यति- भद्रका बत श्रोणापरान्तका मनुष्याः, स्निग्धका बत श्रोणापरान्तका मनुष्याः, ये मां संमुखं पापिकया असत्यया परुषया वाचा आक्रोशन्ति रोषयन्ति परिभाषन्ते। नो तु पाणिना वा लोष्टेन वा प्रहरन्तीति। चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववत् यावत् परिभाषकाः। सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति ? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः पाणिना वा लोष्टेन वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति-भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां पाणिना वा लोष्टेन वा प्रहरन्ति, नो तु दण्डेन वा शस्त्रेण वा प्रहरन्तीति। चण्डाः पूर्ण श्रोणापरान्तका मनुष्याः पूर्ववद् यावत् परिभाषकाः। सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ते कथं भविष्यति ? सचेन्मां भदन्त श्रोणापरान्तका मनुष्या दण्डेन वा शस्त्रेण वा प्रहरिष्यन्ति, तस्य ममैवं भविष्यति- भद्रका बत श्रोणापरान्तका मनुष्याः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मां दण्डेन वा शस्त्रेण वा प्रहरन्ति, नो तु सर्वेण सर्वं जीविताद् व्यपरोपयन्ति। चण्डाः पूर्ण श्रोणापरान्तका मनुष्या यावत् परिभाषकाः। सचेत् त्वां पूर्ण श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद् व्यपरोपयिष्यन्ति, तस्य ते कथं भविष्यति ? सचेन्मां भदन्त श्रोणापरान्तका मनुष्याः सर्वेण सर्वं जीविताद् व्यपरोपयिष्यन्ति, तस्य मे एवं भविष्यति-सन्ति भगवतः श्रावका ये अनेन पूतिकायेनार्दीयमाना जेह्रीयन्ते, विजुगुप्समानाः शस्त्रमपि आधारयन्ति, विषमपि भक्षयन्ति, रज्ज्वा बद्धा अपि म्रियन्ते, प्रपातादपि प्रपतन्त्यपि। भद्रका बत श्रोणापरान्तका मनुष्यकाः, स्नेहका बत श्रोणापरान्तका मनुष्याः, ये मामस्मात् पूतिकलेवरादल्पकृच्छ्रेण परिमोचयन्तीति। साधु साधु पूर्ण, शक्यस्त्वं पूर्ण अनेन क्षान्तिसौरभ्येन समन्वागतः श्रोणापरान्तकेषु जनपदेषु वस्तुं श्रोणापरान्तकेषु वासं कल्पयितुम्। गच्छ त्वं पूर्ण, मुक्तो मोचय, तीर्णस्तारय, आश्वस्त आश्वासय, परिनिर्वृतः परिनिर्वापयेति।



अथायुष्मान् पूर्णो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात् प्रक्रान्तः। अथायुष्मान् पूर्णस्तस्या एव रात्रेरत्ययात् पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपात्रः प्रतिक्रान्तः। यथापरिभुक्तशयनासनं प्रतिसमय्य समादाय पात्रचीवरं येन श्रोणापरान्तका जनपदास्तेन चारिकां चरन् श्रोणापरान्तकान् जनपदाननुप्राप्तः। अथायुष्मान् पूर्णः पूर्वाह्णे निवास्य पात्रचीवरमादाय श्रोणापरान्तकं पिण्डाय प्राविक्षत्। अन्यतमश्च लुब्धको धनुष्पाणिर्मृगयां निर्गच्छति। तेन दृष्टः। स संलक्षयति-अमङ्गलोऽयं मुण्डकः श्रमणको मया दृष्ट इति विदित्वा आ कर्णाद् धनुः पूरयित्वा येनायुष्मान् पूर्णस्तेन प्रधावितः। स आयुष्मता पूर्णेन दृष्टः। दृष्ट्वा चोत्तरासङ्गं विवर्त्य कथयति-भद्रमुख, अस्य दुष्पूरस्यार्थे प्रविशामि, अत्र प्रहरेति। गाथां च भाषते -



यस्यार्थे गहने चरन्ति विहगा गच्छन्ति बन्धं मृगाः

संग्रामे शरशक्तितोमरधरा नश्यन्त्यजस्रं नराः।

दीना दुर्दिनचारिणश्च कृपणा मत्स्या ग्रसन्त्यायसम्

अस्यार्थे उदरस्य पापकलिले दूरादिहाभ्यागतः॥५॥ इति॥



स संलक्षयति-अयं प्रव्रजित ईदृशेन क्षान्तिसौरभ्येन समन्वागतः। किमस्य प्रहरामीति मत्वा अभिप्रसन्नः। ततोऽस्यायुष्मता पूर्णेन धर्मो देशितः, शरणगमनशिक्षापदेशेषु च प्रतिष्ठापितः। अन्यानि च पञ्चोपासकशतानि कृतानि पञ्चोपासिकाशतानि। पञ्चविहारशतानि कारितानि, अनेकानि च मञ्चपीठवृषिकोच्चकबिम्बोपधानचतुरस्रकशतानि अनुप्रदापितानि। तस्यैव च त्रिमासस्यात्ययात् तिस्रो विद्याः कायेन साक्षात्कृताः। अर्हन् संवृत्तः। त्रैधातुकवीतरागः यावत् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः॥



यावदपरेण समयेन दारुकर्णिभ्रात्रोर्भोगास्तनुत्वं परिक्षयं पर्यादानं गताः। तौ कथयतः-गतोऽसौ अस्माकं गृहात् कालकर्णिप्रख्यः। आगच्छ, एकध्ये प्रतिवसामः। स कथयति-कतरोऽसौ कालकर्णिप्रख्यः ? तौ कथयतः-पूर्णकश्रीः। सा मम गृहान्निष्क्रान्ता। नासौ कालकर्णिप्रख्यः। तौ कथयतः-श्रीर्वा भवतु कालकर्णी वा, आगच्छ एकध्ये प्रतिवसामः। स कथयति- युवयोरन्यायोपार्जितं धनम्, मम न्यायोपार्जितम्। नाहं युवाभ्यां सार्धमेकध्ये वासं कल्पयामीति। तौ कथयतः-तेन दासीपुत्रेण महासमुद्रमवतीर्यावतीर्य भोगाः समुदानीता येन त्वं भुञ्जानो विकत्थसे। कुतस्तव सामर्थ्यं महासमुद्रमवतर्तुमिति। स ताभ्यां मानं ग्राहितः। स संलक्षयति-अहमपि महासमुद्रमवतरामि। पूर्ववत् यावन्महासमुद्रमवतीर्णः। यावत्तद्वहनं वायुना गोशीर्षचन्दनवनमनुप्रेरितम्। कर्णधारः कथयति-भवन्तः, यत्तत् श्रूयते गोशीर्षचन्दनवनमिति, इदं तत्। गृह्णन्तु अत्र यत्सारमिति। तेन खलु समयेन गोशीर्षचन्दनवनं महेश्वरस्य यक्षस्य परिग्रहोऽभूत्। स च यक्षाणां यक्षसमितिं गतः। ततो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वोढुमारब्धानि। अद्राक्षीदप्रियाख्यो यो यक्षो गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहतः। दृष्ट्वा च येन महेश्वरो यक्षः, तेनोपसंक्रान्तः। उपसंक्रम्य महेश्वरं यक्षमिदमवोचत्-यत् खलु ग्रामणीर्जानीया गोशीर्षचन्दनवने पञ्चमात्राणि कुठारशतानि वहन्ति। यत्ते कृत्यं वा करणीयं वा तत्कुरुष्वेति। अथ महेश्वरो यक्षो यक्षाणां समितिमसमितिं कृत्वा संजातामर्षो महान्तं कालिकावातभयं संजन्य येन गोशीर्षचन्दनवनं तेन संप्रस्थितः। कर्णधारेणारोचितम्-शृण्वन्तु भवन्तो जाम्बुद्वीपका वणिजः-यत्तत् श्रूयते महाकालिकावातभयमिति, इदं तत्। किं मन्यध्वमिति ? ततस्ते वणिजो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपा देवतायाचनं कर्तुमारब्धाः।



शिववरुणकुबेरशक्रब्रह्माद्या

सुरमनुजोरगयक्षदानवेन्द्राः।

व्यसनमतिभयं वयं प्रपन्नाः

विगतभया हि भवन्तु नोऽद्य नाथाः॥६॥



केचिन्नमस्यन्ति शचीपतिं नराः

ब्रह्माणमन्ये हरिशंकरावपि।

भूम्याश्रितान् वृक्षवनाश्रितांश्च

त्राणार्थिनो वातपिशाचदस्थाः (यक्षाः ?)॥७॥



दारुकर्णी अल्पोत्सुकस्तिष्ठति। वणिजः कथयन्ति-सार्थवाह, वयं कृच्छ्रसंकटसंबाध-प्राप्ताः। किमर्थमल्पोत्सुकस्तिष्ठसीति ? स कथयति-भवन्तः, अहं भ्रात्रा अभिहितः-महासमुद्रोऽल्पास्वादो बह्वादीनवः। तृष्णान्धा बहवोऽवतरन्ति, स्वल्पा व्युत्थास्यन्ति। न त्वया केनचित् प्रकारेण महासमुद्रमवतर्तव्यमिति। सोऽहं तस्य वचनमवचनं कृत्वा महासमुद्रमवतीर्णः। किमिदानीं करोमि ? कस्तव भ्राता ? पूर्णः। वणिजः कथयन्ति-भवन्तः, स एवार्यपूर्णः पुण्यमहेशाख्यः। तमेव शरणं प्रपद्याम इति। तैरेकस्वरेण सर्वैरेवं नादो मुक्तः - नमस्तस्मै आर्याय पूर्णाय, नमो नमस्तस्मै आर्याय पूर्णायेति। अथ या देवता आयुष्मती पूर्णेऽभिप्रसन्ना, सा येनायुष्मान् पूर्णस्तेनोपसंक्रान्ता। उपसंक्रम्य आयुष्मन्तं पूर्णमिदमवोचत्-आर्य, भ्राता ते कृच्छ्रसंकटसंबाधप्राप्तः, समन्वाहरेति। तेन समन्वाहृतम्। तत आयुष्मान् पूर्णस्तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते श्रोणापरान्तकेऽन्तर्हितो महासमुद्रे वहनसीमायां पर्यङ्कं बद्ध्वा अवस्थितः। ततोऽसौ कालिकावातः सुमेरुप्रत्याहत इव प्रतिनिवृत्तः। अथ महेश्वरो यक्षः संलक्षयति-पूर्वं यत् किंचिद्वहनं कालिकावातेन स्पृश्यते, तत्तूलपिचुवत् क्षिप्यते विशीर्यते च। इदानीं को योगो येन कालिकावातः सुमेरुप्रत्याहत इव प्रतिनिवृत्तः ? स इतश्चामुतश्च प्रत्यवेक्षितुमारब्धो यावत् पश्यति आयुष्मन्तं पूर्णं वहनसीमायां पर्यङ्कं बद्ध्वावस्थितम्। दृष्ट्वा च पुनः कथयति- आर्य पूर्ण, किं विहेठयसीति ? आयुष्मान् पूर्णः कथयति-जराधर्मोऽहम्। किं मामेवं विहेठयसि ? यदि मयेदृशा गुणगणा नाधिगताः स्युर्भ्राता मे त्वया नामावशेषः कृतः स्यात्। महेश्वरो यक्षः कथयति- आर्य इदं गोशीर्षचन्दनवनं राज्ञश्चक्रवर्तिनोऽर्थाय धार्यते। किं मन्यसे ग्रामणीः किं वरं राजा चक्रवर्ती उत तथागतोऽर्हन् सम्यक्संबुद्धः ? किं आर्य भगवान् लोक उत्पन्नः ? उत्पन्नः। यदि एवं यदपरिपूर्णं तत्परिपूर्यताम्। ततस्ते वणिजो गतप्रत्यागतप्राणा आयुष्मति पूर्णे चित्तमभिप्रसाद्य तद्वहनं गोशीर्षचन्दनस्य पूरयित्वा संप्रस्थिताः। अनुपूर्वेण सूर्पारकं नगरमनुप्राप्ताः॥



तत आयुष्मान् पूर्णो भ्रातुः कथयति-यस्य नाम्ना वहनं संसिद्धयानपात्रमागच्छति, तत्तस्य गम्यं भवति। त्वमेषां वणिजां रत्नसंविभागं कुरु। अहमनेन गोशीर्षचन्दनेन भगवतोऽर्थाय चन्दनमालं प्रासादं कारयामीति। तेन तेषां वणिजां रत्नैः संविभागः कृतः। तत आयुष्मान् पूर्णो गोशीर्षचन्दनेन प्रासादं मापयितुमारब्धः। तेन शिल्पानाहूयोक्ताः-भवन्तः, किं दिवसे दिवसे पञ्च कार्षापणशतानि गृह्णीध्वमाहोस्वित् गोशीर्षचन्दनचूर्णस्य बिडालपदम् ? ते कथयन्ति - आर्य गोशीर्षचन्दनचूर्णस्य बिडालपदम्। यावत् अल्पीयसा कालेन चन्दनमालः प्रासादः कृतः। राजा कथयति-भवन्तः, शोभनं प्रासादम्। सर्वजातकृतनिष्ठितः संवृत्तः। यत्तत्र संकलिका चूर्णं चावशिष्टम्, तत् पिष्ट्वा तत्रैव प्रलेपो दत्तः। ते च भ्रातरः परस्परं सर्वे क्षमिता उक्ताश्च-बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयत। आर्य, कुत्र भगवान् ? श्रावस्त्याम्। कियद्दूरमितः श्रावस्ती ? सातिरेकं योजनशतम्। राजानं तावदवलोकयामः। एवं कुरुत। ते राज्ञः सकाशमुपसंक्रान्ताः। उपसंक्रम्य शिरसा प्रणामं कृत्वा कथयन्ति-देव, इच्छामो वयं बुद्धप्रमुखं भिक्षुसंघमुपनिमन्त्र्य भोजयितुम्। देवोऽस्माकं साहाय्यं कल्पयतु। राजा कथयति-ततः शोभनम्। तथा भवतु। कल्पयामि। तत आयुष्मान् पूर्णः शरणपृष्ठमभिरुह्य जेतवनाभिमुखं स्थित्वा उभे जानुमण्डले पृथिव्यां प्रतिष्ठाप्य पुष्पाणि क्षिप्त्वा धूपं संचार्य आरामिकेन च सौवर्णभृङ्गारं ग्राहयित्वा आराधितुं प्रवृत्तः।



विशुद्धशील सुविशुद्धबुद्धे

भक्ताभिसारे सततार्थदर्शिन्।

अनाथभूतान् प्रसमीक्ष्य साधो

कृत्वा कृपामागमनं कुरुष्व॥८॥इति॥



ततस्तानि पुष्पाणि बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेनोपरि पुष्पमण्डपं कृत्वा जेतवने गत्वा वृद्धान्ते स्थितानि धूपोऽभ्रकूटवदुदकं वैदूर्यशलाकावत्। आयुष्मानानन्दो निमित्तकुशलः। स कृतकरपुटो भगवन्तं पप्रच्छ-कुतो भगवन् निमन्त्रणमागतम् ? सूर्पारकात् आनन्द नगरात्। कियद्दूरे भदन्त सूर्पारकं नगरम् ? सातिरेकं आनन्द योजनशतम्। गच्छामः? आनन्द, भिक्षूनारोचय-यो युष्माकमुत्सहते श्वः सूर्पारकं नगरं गत्वा भोक्तुम्, स शलाकां गृह्णातु इति। एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य शलाकां गृहीत्वा भगवतः पुरस्तात् स्थितः। भगवता शलाका गृहीता, स्थविरस्थविरैश्च भिक्षुभिः॥



तेन खलु समयेनायुष्मान् पूर्णः कुण्डोपधानीयकः स्थविरः प्रज्ञाविमुक्तः तस्यामेव परिषदि संनिषण्णोऽभूत्। संनिपतितः। सोऽपि शलाकां गृहीतुमारब्धः। तमायुष्मानानन्दो गाथया प्रत्यभाषत-



नैतद्भोक्तव्यमायुष्मन् कोशलाधिपतेर्गृहे।

अगारे वा सुजातस्य मृगारभवनेऽथवा॥९॥



साधिकं योजनशतं सूर्पारकमितः पुरम्।

ऋद्धिभिर्यत्र गन्तव्यं तूष्णी त्वं भव पूर्णक॥१०॥ इति॥



स प्रज्ञाविमुक्तः। तेन ऋद्धिर्नोत्पादिता। तस्यैतदभवत्-येन मया सकलं क्लेशगणं वान्तं छर्दितं त्यक्तं प्रतिनिःसृष्टम्, सोऽहं तीर्थिकसाधारणायां ऋद्ध्यां विषण्णः। तेन वीर्यमास्थाय ऋद्धिमुत्पाद्य यावदायुष्मानानन्दः तृतीयस्थविरस्य शलाकां न ददाति, तावत् तेन गजभुजसदृशं बाहुमभिप्रसार्य शलाका गृहीता। ततो गाथां भाषते -



न वपुष्मत्तया श्रुतेन वा न बलात्कारगुणैश्च गौतम।

प्रबलैरपि वाङ्भनोरथैः षडभिज्ञत्वमिहाधिगम्यते॥११॥



शमशीलविपश्यनाबलैर्विविधैर्ध्यानबलैः परीक्षिताः।

जरया हि निपीडितयौवनाः षडभिज्ञा हि भवन्ति मद्विधाः॥१२॥ इति॥



तत्र भगवान् भिक्षूनामन्त्रयते स्म-एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां चैत्यशलाकाग्रहणे। तत्प्रथमतः शलाकां गृह्णतां यदुत पूर्णः कुण्डोपधानीयकः स्थविरः। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते-गच्छ आनन्द भिक्षूणामारोचय। किं चापि उक्तं मया-प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यं विवृतपापैरिति, अपि तु तीर्थिकावस्तब्धं तन्नगरम्। यो वो यस्या ऋद्धेर्लाभी, तेन तया तत्र सूर्पारकं नगरं गत्वा भोक्तव्यमिति। एवं भदन्तेति आयुष्मानानन्दो भगवतः प्रतिश्रुत्य भिक्षूणामारोचयति-आयुष्मन्तः, भगवानेवमाह-किं चापि उक्तं मया प्रतिच्छन्नकल्याणैर्वो भिक्षवो विहर्तव्यमिति पूर्ववत् यावत् गत्वा भोक्तव्यमिति। ततः सूर्पारकराज्ञा सूर्पारकनगरमपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं नानाविधसुरभिधूपघटिकासमलंकृतमामुक्तपट्टदामकलापं नानापुष्पाभिकीर्णं रमणीयम्। सूर्पारकस्य नगरस्याष्टादश द्वाराणि। तस्यापि राज्ञः सप्तदश पुत्राः। प्रत्येकमेकैकस्मिन् द्वारे परमया विभूत्या राजपुत्रा व्यवस्थिताः। मूलद्वारे च महता राजानुभावेन सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी च व्यवस्थितः। यावत् पत्रचारिका ऋद्ध्या हरितचारिका भाजनचारिकाश्चागताः। तान् दृष्ट्वा राजा कथयति-भदन्त पूर्ण, किं भगवानागतः ? आयुष्मान पूर्णः कथयति-महाराज पत्रचारिका हरितचारिका भाजनचारिकाश्चैते, न तावत् भगवान्। यावत् स्थविरस्थविरा भिक्षवोऽनेकविधाभिर्ध्यानसमापत्तिभिः संप्राप्ताः। पुनरपि पृच्छति-भदन्त पूर्ण, किं भगवानागतः ? आयुष्मान् पूर्णः कथयति-महाराज न भगवान्, अपि तु खलु स्थविरस्थविरा एव ते भिक्षव इति। अथान्यतमोपासकस्तस्यां वेलायां गाथां भाषते-



सिंहव्याघ्रगजाश्वनागवृषभानाश्रित्य केचित् शुभान्

केचिद्रत्नविमानपर्वततरूंश्चित्रान् रथांश्चोज्ज्वलान्।

अन्ये तोयधरा इवाम्बरतले विद्युल्लतालंकृता

ऋद्ध्या देवपुरीमिव प्रमुदिता गन्तुं समभ्युद्यताः॥१३॥



गां भित्त्वा ह्युत्पतन्त्येके पतन्त्यन्त्ये नभस्तलात्।

आसने निर्मिताश्चैके पश्य ऋद्धिमतां बलम्॥ १४॥ इति॥



ततो भगवान् बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य प्रज्ञप्त एवासने निषण्णः। यावद् भगवता गन्धकुट्यां साभिसंस्कारं पादो न्यस्तः, षड्विकारः पृथिवीकम्पो जातः-इयं महापृथिवी चलति संचलति संप्रचलति। व्यधति प्रव्यधति संप्रव्यधति। पूर्वदिग्भाग उन्नमति, पश्चिमोऽवनमति। पश्चिम उन्नमति, पूर्वोऽवनमति। दक्षिण उन्नमति, उत्तरोऽवनमति। उत्तर उन्नमति, दक्षिणोऽवनमति। अन्त उन्नमति, मध्योऽवनमति। मध्य उन्नमति, अन्तोऽवनमति। राजा आयुष्मन्तं पूर्णं पृच्छति-आर्य पूर्ण, किमेतत् ? स कथयति- महाराज, भगवता गन्धकुट्यां साभिसंस्कारः पादो न्यस्तः, तेन षड्विकारः पृथिवीकम्पो जातः। ततो भगवता कनकमरीचिवर्णप्रभा उत्सृष्टा यया जम्बुद्वीपो विलीनकनकावभासः संवृत्तः। पुनरपि राजा विस्मयोत्फुल्ललोचनः पृच्छति-आर्य पूर्ण, इदं किम् ? स कथयति-महाराज भगवता कनकमरीचिवर्णप्रभा उत्सृष्टेति॥



ततो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः पञ्चभिरर्हच्छान्तैः सार्धं सूर्पारकाभिमुखः संप्रस्थितः। अथ या जेतवननिवासिनी देवता, सा बकुलशाखां गृहीत्वा भगवतश्छायां कुर्वन्ती पृष्ठतः संप्रस्थिता। तस्या भगवता आशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधकी धर्मदेशना कृता, यां श्रुत्वा तया देवतया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। यावदन्यतमस्मिन् प्रदेशे पञ्चमात्राणि घरिणीशतानि प्रतिवसन्ति। अद्राक्षुस्ता बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतमशीत्यानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समन्ततो भद्रकम्। सहदर्शनाच्च तासां भगवति महाप्रसाद उत्पन्नः। धर्मतैषा-न तथा द्वादशवर्षाभ्यस्तः शमथश्चित्तस्य कल्यतां जनयति अपुत्रस्य च पुत्रलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलहेतुकस्य सत्त्वस्य तत्प्रथमतो बुद्धदर्शनम्। ततो भगवांस्तासां विनयकालमवेक्ष्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। ता अपि भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः। ततो भगवता तासामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा यावत् स्रोतआपत्तिफलं साक्षात्कृतम्। ता दृष्टसत्याः त्रिरुदानमुदानयन्ति-इदमस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा नेष्टस्वजनबन्धुवर्गेण न देवताभिर्न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद् भगवतास्माकं तत्कृतम्। उच्छोषिता रुधिराश्रुसमुद्राः, लङ्घिता अस्थिपर्वताः, पिहितान्यपायद्वाराणि, प्रतिष्ठापिता वयं देवमनुष्येषु अतिक्रान्तातिक्रान्ताः। एता वयं भगवतं शरणं गच्छामो धर्मं च भिक्षुसंघं च। उपासिकाश्चास्मान् भगवान् धारयतु। तत उत्थायासनात् येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन् - अहो बत भगवानस्माकं किंचिदत्र प्रयच्छेत् यत्र वयं कारां करिष्यामः। ततो भगवता ऋद्ध्या केशनखमुत्सृष्टम्। ताभिर्भगवतः केशनखस्तूपः प्रतिष्ठापितः। ततस्तया जेतवननिवासिन्या तस्मिन् स्तूपे यष्टयां सा बकुलशाखारोपिता। भगवांश्चोक्तः -भगवन्, अहमस्मिन् स्तूपे कारां कुर्वन्ती तिष्ठामीति। सा तत्रैव आस्थिता। तत्र केचित् घरिणीस्तूप इति संजानते, केचित् बकुलमेधीति, यमद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते। ततो भगवान् संप्रस्थितः॥



यावदन्यस्मिन्नाश्रमपदे पञ्च ऋषिशतानि प्रतिवसन्ति। तत्तेषामाश्रमपदं पुष्पफलसलिलसंपन्नम्। ते तेन मदेन मत्ता न किंचिन्मन्यन्ते। ततो भगवांस्तेषां विनयकालमवेक्ष्य तदाश्रमपदमुपसंक्रान्तः। उपसंक्रम्य तस्मादाश्रमपदात् पुष्पफलमृद्ध्या शामितम्, सलिलं शोषितम्, हरितशाड्वलं कृष्णं स्थण्डिलानि पातितानि। ततस्ते ऋषयः करे कपोलं दत्त्वा चिन्तापरा व्यवस्थिताः। ततो भगवता अभिहिताः-महर्षयः, किमर्थं चिन्तापरास्तिष्ठतेति। ते कथयन्ति-भगवंस्त्वं द्विपादकं पुण्यक्षेत्रमिह प्रविष्टोऽस्माकं चेदृशी समवस्था। भगवानाह-किम् ? ते कथयन्ति-भगवन्, पुष्पफलसलिलसंपन्नमाश्रमपदं विनष्टं यथापौराणं भवतु। भवतु इत्याह भगवान्। ततो भगवता ऋद्धिः प्रस्रब्धा, यथापौराणं संवृत्तम्। ततस्ते परं विस्मयमुपगता भगवति चित्तमभिप्रसादयामासुः। ततो भगवता तेषामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैः पञ्चभिरृषिशतैरनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता। ततो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचन् - लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेम वयं भगवतोऽन्तिके ब्रह्मचर्यम्। ततस्ते भगवता एहिभिक्षुकया आभाषिताः-एत भिक्षवश्चरत ब्रह्मचर्यमिति। भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटिप्रावृताः पात्रकर-व्यग्रहस्ताः सप्ताहावरोपितकेशश्मश्रवो वर्षशतोपसंपन्नस्य भिक्षोरीर्यापथेन अवस्थिताः।



एहीति चोक्ता हि तथागतेन

मुण्डाश्च संघाटिपरीतदेहाः।

सद्यः प्रशान्तेन्द्रिया एव तस्थु-

रेवं स्थिता बुद्धमनोरथेन॥१५॥



तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैरिदमेव पञ्चगण्डकं पूर्ववत् यावदभिवाद्याश्च संवृत्ताः। यस्तेषां ऋषिरववादकः स कथयति - भगवन्, मया अनेन वेषेण महाजनकायो विप्रलब्धः। तं यावदभिप्रसादयामि पश्चात् प्रव्रजिष्यामीति। ततो भगवान् पञ्चभिरृषिशतैः पूर्वकैश्च पञ्चभिर्भिक्षुःशतैरर्धचन्द्राकारोपगूढस्तत एव ऋद्ध्या उपरि विहायसा प्रक्रान्तोऽनुपूर्वेण मुसलकं पर्वतमनुप्राप्तः। तेन खलु समयेन मुसलके पर्वते वक्कली नाम ऋषिः प्रतिवसति। अद्राक्षीत् स ऋषिर्भगवन्तं दूरादेव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतं पूर्ववत् यावत् समन्ततो भद्रकम्। सहदर्शनाच्चानेन भगवतोऽन्तिके चित्तमभिप्रसादितम्। स प्रसादजातश्चिन्तयति-यन्न्वहं पर्वतादवतीर्य भगवन्तं दर्शनायोपसंक्रमिष्यामि। भगवान् वैनेयापेक्षया अतिक्रमिष्यति। यन्न्वहमात्मानं पर्वतान्मुञ्चेयमिति। तेन पर्वतादात्मा मुक्तः। असंमोषधर्माणो बुद्धा भगवन्तः। भगवता ऋद्ध्या प्रतीष्टः। ततोऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा वक्कलिना अनागामिफलं साक्षात्कृतम्, ऋद्धिश्चाभिनिर्हृता। ततो भगवन्तमिदमवोचत् - लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं पूर्ववत् यावत् भगवता एहिभिक्षुकया प्रव्राजितो यावदेवं स्थितो बुद्धमनोरथेन॥



तत्र भगवान् भिक्षूनामन्त्रयते स्म - एषोऽग्रो मे भिक्षवो भिक्षूणां मम श्रद्धाधिमुक्तानां यदुत वक्कली भिक्षुरिति। ततो भगवान् भिक्षुसहस्रपरिवृतो विचित्राणि प्रातिहार्याणि कुर्वन् सूर्पारकं नगरमनुप्राप्तः। भगवान् संलक्षयति- यदि एकेन द्वारेण प्रविशामि, अपरेषां भविष्यति अन्यथात्वम्। यन्न्वहं ऋद्ध्यैव प्रविशेयमिति। तत ऋद्ध्या उपरि विहायसा मध्ये सूर्पारकस्य नगरस्यावतीर्णः। ततः सूर्पारकाधिपती राजा आयुष्मान् पूर्णो दारुकर्णी स्तवकर्णी त्रपुकर्णी ते च सप्तदश पुत्राः स्वकस्वकेन परिवारेण येन भगवांस्तेनोपसंक्रान्ताः, अनेकानि च प्राणिशतसहस्राणि। ततो भगवाननेकैः प्राणिशतसहस्रैरनुगम्यमानो येन चन्दनमालः प्रासादः तेनोपसंक्रान्तः। उपसंक्रम्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। स जनकायो भगवन्तमपश्यन् चन्दनमालं प्रासादं भेत्तुमारब्धः। भगवान् संलक्षयति- यदि चन्दनमालः प्रासादो भेत्स्यते, दातॄणां पुण्यान्तरायो भविष्यति। यन्न्वहमेनं स्फटिकमयं निर्मिनुयामिति। स भगवता स्फटिकमयो निर्मितः। ततो भगवता तस्याः परिषद आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता, यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर्महान् विशेषोऽधिगतः। कैश्चिन्मोक्षभागीयानि कुशलमूलानि उत्पादितानि, कैश्चिन्निर्वेधभागीयानि, कैश्चित् स्रोतआपत्तिफलं साक्षात्कृतम्, कैश्चित् सकृदागामिफलम्, कैश्चिदनागामिफलम्, कैश्चित् सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्, कैश्चित् श्रावकबोधौ चित्तान्युत्पादितानि, कैश्चित् प्रत्येकबोधौ,कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि। यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता॥



अथ दारुकर्णी स्तवकर्णी त्रपुकर्णी च प्रणीतं खादनीयं भोजनीयं समुदानीय आसनानि प्रज्ञाप्य भगवतो दूतेन कालमारोचयन्ति-समयो भदन्त, सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति। तेन खलु समयेन कृष्णगौतमकौ नागराजौ महासमुद्रे प्रतिवसतः। तौ संलक्षयतः- भगवान् सूर्पारके नगरे धर्मं देशयति। गच्छावः, धर्मं श्रोष्याव इति। ततस्तौ पञ्चनागशतपरिवारौ पञ्चनदीशतानि संजन्य सूर्पारकं नगरं संप्रस्थितौ। असंमोषधर्माणो बुद्धा भगवन्तः। भगवान् संलक्षयति-इमौ कृष्णगौतमौ नागराजौ यदि सूर्पारकं नगरमागमिष्यतः, अगोचरीकरिष्यतः। तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते- प्रतिगृहाण महामौद्गल्यायन तथागतस्यात्ययिकपिण्डपातम्। तत्कस्य हेतोः ? पञ्च मे मौद्गल्यायन आत्ययिकपिण्डपाताः। कतमे पञ्च ? आगन्तुकस्य गमिकस्य ग्लानस्य ग्लानोपस्थायकस्योपधिवारिकस्य च। अस्मिंस्त्वर्थे भगवानुपाधौ वर्तते। अथ भगवान् मौद्गल्यायनसहायो येन कृष्णगौतमकौ नागराजौ तेनोपसंक्रान्तः। उपसंक्रम्य कथयति-समन्वाहरत नागेन्द्रौ सूर्पारकं नगरमगोचरीभविष्यति। तौ कथयतः-तादृशेन भदन्त प्रसादेन वयमागता यन्न शक्यमस्माभिः कुन्तपिपीलिकस्यापि प्राणिनः पीडामुत्पादयितुं प्रागेव सूर्पारकनगरनिवासिनो जनकायस्येति। ततो भगवता कृष्णगौतमकयोर्नागराजयोस्तादृशो धर्मो देशितो यं श्रुत्वा बुद्धं शरणं गतौ, धर्मं संघं च शरणं गतौ, शिक्षापदानि च गृहीतानि। भगवान् भक्तकृत्यं कर्तुमारब्धः। एकैको नागः संलक्षयति-अहो बत भगवान् मम पानीयं पिबतु इति। भगवान् संलक्षयति - यदि एकस्यैव पानीयं पास्यामि, एषां भविष्यति अन्यथात्वम्। उपायसंविधानं कर्तव्यमिति। तत्र भगवानायुष्मन्तं महामौद्गल्यायनमामन्त्रयते -गच्छ मौद्गल्यायन, यत्र पञ्चानां नदीशतानां संभेदः, तस्मादुदकस्य पात्रपूरमानय। एवं भदन्तेति आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य यत्र पञ्चानां नदीशतानां संभेदस्तत्रोदकस्य पात्रपूरमादाय येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवत उदकस्य पात्रपूरमुपनामयति। भगवता गृहीत्वा परिभुक्तम्। आयुष्मान् महामौद्गल्यायनः संलक्षयति- पूर्वमुक्तं भगवता- दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ आप्यायकौ पोषकौ संवर्धकौ स्तन्यस्य दातारौ चित्रस्य जम्बुद्वीपस्य दर्शयितारौ। एकेनांशेन पुत्रो मातरं द्वितीयेन पितरं पूर्णवर्षशतं परिचरेत्, यद्वा अस्यां महापृथिव्यां मणयो मुक्ता वैदूर्यशङ्खशिलाप्रवालं रजतं जातरूपमश्मगर्भो मुसारगल्वो लोहितिका दक्षिणावर्त इति, एवंरूपे वा विविधैश्वर्याधिपत्ये प्रतिष्ठापयेत्, नेयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वा। यस्तु असावश्राद्धं मातापितरं श्रद्धासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, दुःशीलं शीलसंपदि, मत्सरिणं त्यागसंपदि, दुष्प्रज्ञं प्रज्ञासंपदि समादापयति विनयति निवेशयति प्रतिष्ठापयति, इयता पुत्रेण मातापित्रोः कृतं वा स्यादुपकृतं वेति। मया च मातुर्न कश्चिदुपकारः कृतः। यदहं समन्वाहरेयं कुत्र मे माता उपपन्नेति। समन्वाहर्तुं संवृत्तः पश्यति मरीचिके लोकधातौ उपपन्ना। स संलक्षयति-कस्य विनेया ? पश्यति भगवतः। तस्यैतदभवत्-दूरं वयमिहागताः। यन्न्वहमेतमर्थं भगवतो निवेदयेयमिति भगवन्तमिदमवोचत्-उक्तं भदन्त भगवता पूर्वम् -दुष्करकारकौ हि भिक्षवः पुत्रस्य मातापितरौ इति। तन्मम माता मरीचिके लोकधातौ उपपन्ना, सा च भगवतो विनेया। तदर्हति भगवान् तां विनेतुमनुकम्पामुपादायेति। भगवान् कथयति- मौद्गल्यायन, कस्य ऋद्ध्या गच्छामः ? भगवन् मदीयया। ततो भगवानायुष्मांश्च महामौद्गल्यायनः सुमेरुमूर्ध्नि पादान् स्थापयन्तौ संप्रस्थितौ। सप्तमे दिवसे मरीचिकं लोकधातुमनुप्राप्तः। अद्राक्षीत् सा भद्रकन्या आयुष्मन्तं महामौद्गल्यायनं दूरादेव। दृष्ट्वा च पुनः ससंभ्रमात् तत्सकाशमुपसंक्रम्य कथयति-चिराद्बत पुत्रकं पश्यामीति। ततो जनकायः कथयति- भदन्तोऽयं प्रव्रजितो वृद्धः। इयं च कन्या। कथमस्य माता भवतीति ? आयुष्मान् मौद्गल्यायनः कथयति - भवन्तः, मम इमे स्कन्धा अन्याः संवृद्धाः। तेन ममेयं मातेति। ततो भगवता तस्या भद्रकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तया भद्रकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। सा दृष्टसत्या त्रिरुदानमुदानयति पूर्ववत् यावत् प्रतिष्ठापिता देवमनुष्येषु। आह च -



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषदुष्टः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गं च मयोपलब्धम्॥१६॥



त्वदाश्रयाच्चाप्तमपेतदोषं ममाद्य शुद्धं सुविशुद्धचक्षुः।

प्राप्तं च कान्तं पदमार्यकान्तं तीर्णा च दुःखार्णवपारमस्मि॥ १७॥



जगति दैत्यनरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥१८॥



अतिक्रान्ताहं भदन्त अतिक्रान्ता। एषाहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च। उपासिकां च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतां शरणं गतामभिप्रसन्नाम्। अधिवासयतु मे भगवानद्य पिण्डपातेन सार्धमार्यमहामौद्गल्यायनेनेति। अधिवासयति भगवान् तस्या भद्रकन्यायास्तूष्णीभावेन। अथ सा भद्रकन्या भगवन्तमायुष्मन्तं च महामौद्गल्यायनं सुखोपनिषण्णं विदित्वा शुचिना प्रणीतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं नीचतरमासनं गृहीत्वा भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। भगवता तस्या धर्मो देशितः। आयुष्मान् महामौद्गल्यायनो भगवतः पात्रग्राहकः पात्रं निर्यातयति। भगवता अभिहितः -मौद्गल्यायन गच्छामः। गच्छामो भगवन्। कस्य ऋद्ध्या? तथागतस्य भगवतः। यदि एवम्, समन्वाहर जेतवनम्। आगताः स्मो भगवन्, आगताः। मौद्गल्यायनस्ततो विस्मयावर्जितमतिः कथयति - किं नामेयं भगवन् ऋद्धिः ? मनोजवा मौद्गल्यायन। न मया भदन्त विज्ञातमेवं गम्भीरमेवं गम्भीरा बुद्धधर्मा इति। यदि विज्ञातमभविष्यत्, तिलशोऽपि मे संचूर्णितशरीरेणानुत्तरायाः सम्यक्संबोधेश्चित्तं व्यावर्तितमभविष्यत्। इदानीं किं करोमि दग्धेन्धन इति॥



ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः - किं भदन्त आयुष्मता पूर्णेन कर्म कृतं येनाढ्ये महाधने महाभोगे कुले जातः, किं कर्म कृतं येन दास्याः कुक्षौ उपपन्नः, प्रव्रज्य च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम् ? भगवानाह - पूर्णेन भिक्षवो भिक्षुणा कर्माणि कृतानि उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत्प्रत्युपस्थितानि अवश्यंभावीनि। पूर्णेन कर्माणि कृतानि उपचितानि। कोऽन्यः प्रत्यनुभविष्यति ? न भिक्षवः कर्माणि कृतानि उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यन्ते शुभान्यशुभानि च।



न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥१९॥



भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां मनुष्याणां च। बुद्धो भगवान् वाराणसीं नगरीमुपनिश्रित्य विहरति। तस्यायं शासने प्रव्रजितः। त्रिपिटकसंघस्य च धर्मवैयावृत्यं करोति। यावदन्यतमस्यार्हत उपधिवारः प्राप्तः। स विहारं संमार्ष्टुमारब्धः। वायुनेतश्चामुतश्च संकारो नीयते। स संलक्षयति - तिष्ठतु तावद् यावद्वायुरुपशमं गच्छतीति। वैयावृत्यकरेणासंमृष्टो विहारो दृष्टः। तेन तीव्रेण पर्यवस्थानेन खरवाक्कर्म निश्चारितम्- कस्य दासीपुत्रस्योपधिवार इति। तेन अर्हता श्रुतम्। स संलक्षयति - पर्यवस्थितोऽयम्। तिष्ठतु तावत्। पश्चात् संज्ञापयिष्यामीति। यदा अस्य पर्यवस्थानं विगतं तदा तस्य सकाशमुपसंक्रम्य कथयति-जानीषे त्वं कोऽहमिति ? स कथयति-जाने त्वं काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितोऽहमपीति। स कथयति-यद्यप्येवं तथापि तु यन्मया प्रव्रज्य चरणीयं तत्कृतमहं सकलबन्धनाबद्धः। खरं ते वाक्कर्म निश्चारितम्। अत्ययमत्ययतो देशय। अप्येवैतत्कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेदिति। तेनात्ययमत्ययतो देशितम्। यत्तेन नरक उपपद्य दासीपुत्रेण भवितव्यम्, तन्नरके नोपपन्नः। पञ्च तु जन्मशतानि दास्याः कुक्षौ उपपन्नः। यावदेतर्ह्यपि चरमे भवे दास्या एव कुक्षौ उपपन्नः। यत् संघस्योपस्थानं कृतम्, तेनाढ्ये महाधने महाभोगे कुले जातः। यत्तत्र पठितं स्वाध्यायितं स्कन्धकौशलं च कृतम्, तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्निति॥

इति श्रीदिव्यावदाने पूर्णावदानं द्वितीयम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project