Digital Sanskrit Buddhist Canon

१ कोटिकर्णावदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 1 koṭikarṇāvadānam
॥ दिव्यावदानम्॥



ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः।



१ कोटिकर्णावदानम्।



बुद्धो भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। अस्मात् परान्तके वासवग्रामे बलसेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात् कुलात् कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनायाचते आरामदेवतां वनदेवतां शृङ्गाटकदेवतां बलिप्रतिग्राहिकां देवताम्। सहजां सहधर्मिकां नित्यानुबद्धामपि देवतामायाचते। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यत्, एकैकस्य पुत्रसहस्रमभविष्यत् तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश्च। कतमेषां त्रयाणाम् ? मातापितरौ रक्तौ भवतः संनिपतितौ, माता कल्या भवति ऋतुमती, गन्धर्वः प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश्च। स चैवमायाचनपरस्तिष्ठति॥



अन्यतमश्च सत्त्वश्चरमभविकश्च हितैषी गृहीतमोक्षमार्गान्तोन्मुखो न निर्वाणे बहिर्मुखः संसारादनर्थिकः सर्वभवगतिव्युपपत्तिपराङ्मुखोऽन्तिमदेहधारी अन्यतमात् सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रान्तः। पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च ? रक्तं पुरुषं जानाति, विरक्तं जानाति। कालं जानाति, ऋतुं जानाति। गर्भमवक्रान्तं जानाति। यस्य सकाशाद् गर्भमवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति, दक्षिणं कुक्षिं निश्रित्य तिष्ठति। सचेद्दारिका भवति, वामं कुक्षिं निश्रित्य तिष्ठति। सा आत्तमनात्तमनाः स्वामिन आरोचयति-दिष्टया आर्यपुत्र वर्धस्व। आपन्नसत्त्वास्मि संवृत्ता। यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति, नियतं दारको भविष्यति। सोऽपि आत्तमनात्तमना उदानं उदानयति-अप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्। जातो मे स्यान्नावजातः। कृत्यानि मे कुर्वीत। भृतः प्रतिबिभृयात्। दायाद्यं प्रतिपद्येत। कुलवंशो मे चिरस्थितिको भविष्यति। अस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा दक्षिणामादेशयिष्यति- इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां च तां विदित्वा उपरिप्रासादतलगतामयन्त्रितां धारयति शीते शीतोपकरणैरुष्ण उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारैर्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुरकटुकषायविवर्जितैराहौरः, हारार्धहारविभूषितगात्रीं अप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठम(न)वतरन्तीमुप(मध?)रिमां भूमिम्। न चास्या अमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय। सा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूता। दारको जातः। अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णविशालललाटः संगतभ्रूरुत्तुङ्गनासो रत्नप्रत्युप्तिकया कर्णिकया आमुक्तयालंकृतः। बलसेनेन गृहपतिना रत्नपरीक्षका आहूयोक्ताः। भवन्तः, रत्नानां मूल्यं कुरुत इति। न शक्यते रत्नानां मूल्यं कर्तुमिति। धर्मता यस्य न शक्यते मूल्यं कर्तुं तस्य कोटिमूल्यं क्रियते। ते कथयन्ति-गृहपते, अस्य रत्नस्य कोटिर्मूल्यमिति। तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकानि एकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति- किं भवतु दारकस्य नामेति। अयं दारकः कोटिमूल्यया रत्नप्रत्युप्तिकया आमुक्तया जातः, श्रवणेषु च नक्षत्रेषु। भवतु दारकस्य श्रोणः कोटिकर्ण इति नाम। यस्मिन्नेव दिवसे श्रोणः कोटिकर्णो जातः, तस्मिन्नेव दिवसे बलसेनस्य गृहपतेर्द्वौ प्रेष्यदारकौ जातौ। तेनैकस्य दासक इति नामधेयं व्यवस्थापितम्, अपरस्य पालक इति। श्रोणः कोटिकर्णोऽष्टाभ्यो धात्रीभ्योऽनुप्रदत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्याम्। सोऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः। आशु वर्धते ह्रदस्थमिव पङ्कजम्॥



स यदा महान् संवृत्तस्तदा लिप्यां उपन्यस्तः, संख्यायां गणनायां मुद्रायामुद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां रत्नपरीक्षायाम्। सोऽष्टासु परीक्षासूद्धटको वाचकः पण्डितः पटुप्रचारः संवृत्तः। तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्। त्रीणि अन्तःपुराणि प्रत्युपस्थापितानि ज्येष्ठकं मध्यमं कनीयसम्। स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति। बलसेनो गृहपतिर्नित्यमेव कृषिकर्मान्ते उद्युक्तः। स कोटिकर्णस्तं पितरं पश्यति नित्यं कृषिकर्मान्ते उद्युक्तम्। स कथयति- तात, कस्यार्थे त्वं नित्यमेव कृषिकर्मान्ते उद्युक्तः ? स कथयति-पुत्र, यथा त्वमुपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडसि रमसि परिचारयसि, यद्यहमपि एवमेव क्रीडेयं रमेयं परिचारयेयम्, नचिरादेवास्माकं भोगास्तनुत्वं परिक्षयं पर्यादायं गच्छेयुः। स संलक्षयति- ममैवार्थं चोदना क्रियते। स कथयति-तात यद्येवम्, गच्छामि, महासमुद्रमवतरामि। पिता कथयति- पुत्र तावन्तं मे रत्नजातमस्ति। यदि त्वं तिलतण्डुलकोलकुलत्थन्यायेन रत्नानि परिभोक्ष्यसे, तथापि मे रत्नानां परिक्षयो न स्यात्। स कथयति- तात अनुजानीहि माम्, पण्यमादाय महासमुद्रमवतरामीति। बलसेनेन तस्यावश्यं निर्बन्धं ज्ञात्वानुज्ञातः। बलसेनेन गृहपतिना वासवग्रामके घण्टावघोषणं कृतम्-यो युष्माकमुत्सहते श्रोणेन कोटिकर्णेन सार्थवाहेन सार्धमशुक्लेनातरपण्येन महासमुद्रमवतर्तुम्, स महासमुद्रगमनीयं पण्यं समुदानयतु। पञ्चभिर्वणिक्शतैर्महासमुद्रगमनीयं पण्यं समुदानीतम्। बलसेनो नाम गृहपतिः संलक्षयतिकीदृशेन यानेन श्रोणः कोटिकर्णो यास्यति? स संलक्षयति-सचेद् हस्तिभिः, हस्तिनः सुकुमारा दुर्भराश्च, अश्वा अपि सुकुमारा दुर्भराश्च, गर्दभाः स्मृतिमन्तः सुकुमाराश्च। गर्दभयानेन गच्छत्विति। स पित्रा आहूयोक्तः- पुत्र न त्वया सार्थस्य पुरस्ताद् गन्तव्यम्, नापि पृष्ठतः। यदि बलवांश्चौरो भवति, सार्थस्य पुरस्तान्निपतति। दुर्बलो भवति, पृष्ठतो निपतति। त्वया सार्थस्य मध्ये गन्तव्यम्। न च ते सार्थवाहे हते सार्थो वक्तव्यः। दासकपालकावपि उक्तौ-पुत्रौ, युवाभ्यां न केनचित् प्रकारेण श्रोणः कोटिकर्णो मोक्तव्य इति॥



अथापरेण समयेन श्रोणः कोटिकर्णः कृतकौतुकमङ्गलस्वस्त्ययनो मातुः सकाशमुपसंक्रम्य पादयोर्निपत्य कथयति-अम्ब गच्छामि, अवलोकिता भव, महासमुद्रमवतरामि। सा रुदितुमारब्धा। स कथयति-अम्ब कस्माद् रोदसि। माता साश्रुदुर्दिनवदना कथयति-पुत्र, कदाचिदहं पुत्रकं पुनरपि जीवन्तं द्रक्ष्यामीति। स संलक्षयति- अहं मङ्गलैः संप्रस्थितः। इयमीदृशममङ्गलमभिधत्ते। स रुषितः कथयति-अम्ब, अहं कृतकौतूहलमङ्गलस्वस्त्ययनो महासमुद्रं संप्रस्थितः। त्वं चेदृशान्यमङ्गलानि करोषि। अपायान् किं न पश्यसीति। सा कथयति-पुत्र, खरं ते वाक्कर्म निश्चारितम्। अत्ययमत्ययतो देशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। सा तेनात्ययमत्ययतो क्षमापिता। अथ श्रोणः कोटिकर्णः कृतकौतूहलमङ्गलस्वस्त्ययनः शकटैर्भारैर्मोटैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं समुद्रगमनीयं पण्यमारोप्य महासमुद्रं संप्रस्थितः। सोऽनुपूर्वेण ग्रामनगरनिगमपल्लिपत्तनेषु चञ्चूर्यमाणो महासमुद्रतटमनुप्राप्तः। निपुणतः सामुद्रं यानपात्रं प्रतिपाद्य महासमुद्रमवतीर्णो धनहारकः। सोऽनुगुणेन वायुना रत्नद्वीपमनुप्राप्तः। तेन तत्रोपपरीक्ष्योपपरीक्ष्य रत्नानां तद् वहनं पूरितम् तद्यथा तिलतण्डुलकोलकुलत्थानाम्। सोऽनुगुणेन वायुना संसिद्धयानपात्रो जम्बुद्वीपमनुप्राप्तः। स सार्थस्तस्मिन्नेव समुद्रतीरे आवासितः। असौ श्रोणः कोटिकर्णोऽपि सार्थवाहो दासकपालकावादाय सार्थमध्यादेकान्तेऽपक्रम्य आयं व्ययं च तुलयितुमारब्धः। पश्चात् तेनासौ दासकोऽभिहितः- दासक, पश्य सार्थः किं करोतीति। स गतः। यावत् पश्यति स्थोरां लर्दयन्तं सार्थम्। सोऽपि स्थोरां लर्दयितुमारब्धः। दासकः संलक्षयति- पालकः सार्थवाहं शब्दापयिष्यति। पालकोऽपि संलक्षयति- दासकः सार्थवाहं शब्दापयिष्यतीति। स सार्थः सरात्रिमेव स्थोरां लर्दयित्वा संप्रस्थितः। सोऽपि गाढनिद्रावष्टब्धः शयितः। स सार्थस्तावद् गतो यावत्प्रभातम्। ते कथयन्ति-भवन्तः, क्क सार्थवाहः? पुरस्ताद् गच्छति। पुरस्ताद् गत्वा पृच्छन्ति-क्क सार्थवाहः? पृष्ठत आगच्छति। पृष्ठतो गत्वा पृच्छन्ति-क्क सार्थवाहः? मध्ये गच्छति। मध्ये गत्वा पृच्छन्ति। यावत् तत्रापि नास्ति। दासकः कथयति-मम बुद्धिरुत्पन्ना-पालकः सार्थवाहं शब्दापयिष्यति। पालकोऽपि कथयति-मम बुद्धिरुत्पन्ना-दासकः सार्थवाहं शब्दापयिष्यति। भवन्तः, न शोभनं कृतं यदस्माभिः सार्थवाहश्छोरितः। आगच्छत, निवर्तामः। ते कथयन्ति-भवन्तः, यदि वयं निवर्तिष्यामः, सर्व एवानयेन व्यसनमापत्स्यामः। आगच्छत, क्रियाकारं तावत् कुर्मः-तावन्न केनचिच्छ्रोणस्य कोटिकर्णस्य मातापितृभ्यामारोचयितव्यं यावद् भाण्डं प्रतिशामितं भवति। ते क्रियाकारं कृत्वा गताः। श्रोणस्य कोटिकर्णस्य मातापितृभ्यां श्रुतम्-श्रोणः कोटिकर्णोऽभ्यागत इति। तौ प्रत्युद्गतौ। क्क सार्थवाहः ? मध्ये आगच्छति। मध्ये गत्वा पृच्छतः- क्क सार्थवाह इति। ते कथयन्ति-पृष्ठत आगच्छति। पृष्ठतो गत्वा पृच्छतः-क्क सार्थवाहः? पुरस्ताद् गच्छतीति। तैस्तावदाकुलीकृतौ यावद् भाण्डं प्रतिशामितम्। पश्चात् ते कथयन्ति-अम्ब विस्मृतोऽस्माभिः सार्थवाह इति। ताभ्यामेक आगत्य कथयति- अयं श्रोणः कोटिकर्णोऽभ्यागत इति। तस्य तावभिसारं दत्त्वा प्रत्यद्गतौ न पश्यतः। अपर आगत्य कथयति- अम्ब, दिष्ट्या वर्धस्व, अयं श्रोणः कोटिकर्णोऽभ्यागत इति। तस्य तावभिसारं दत्त्वा प्रत्युद्गतौ न पश्यतः। तौ न कस्यचित् पुनरपि श्रद्दधातुमारब्धौ। ताभ्यामुद्यानेषु स्वकसभादेवकुलेषु छत्राणि व्यजनानि कलशानि उपानहानि चाक्षराणि अभिलिखितानि दत्तानि स्थापितानि- यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघु आगमय, क्षिप्रमागमय। अथ च्युतः कालगतः, तस्यैव गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै। तौ शोकेन रुदन्तावन्धीभूतौ॥





श्रोणः कोटिकर्णः सार्थवाहोऽपि सूर्यांशुभिः स्पृष्ट आतापितः प्रतिविबुद्धो यावत् सार्थं न पश्यति नान्यत्र गर्दभयानमेव। स तं गर्दभयानमभिरुह्य संप्रस्थितः। रात्रौ च वातेन प्रवायता वालुकया मार्गो व्यपोढः पिथितः। ते च गर्दभाः स्मृतिमन्तो गन्धमाघ्रायाघ्राय शनैर्मन्दमन्दं संप्रस्थिताः। सार्थवाहः संलक्षयति-कस्मादेते शनैर्मन्दमन्दं गच्छन्तीति कृत्वा प्रतोदयष्ट्या ताडिताः। ते संभ्रान्ता आकुलीभूताः स्मृतिभ्रष्टा उन्मार्गेण संप्रस्थिताः, यावदन्यतमाशाटवीं प्रविष्टाः। ते तृषार्ता विह्वलवदना जिह्वां निर्नामय्य गच्छन्ति। तान् दृष्ट्वा तस्य कारुण्यमुत्पन्नम्। स संलक्षयति-यदि एतान् नोत्स्रक्ष्यामि, अनयेन व्यसनमापत्स्ये। कोऽसौ निर्घृणहृदयस्त्यक्तपरलोकश्च य एषां प्रतोदयष्टिं काये निपातयिष्यति ? तेन त उत्सृष्टाः-अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत अनवमर्दितानि, पानीयानि पिबत अनाविलानि, चतुर्दिशं च शीतला वायवो वान्त्विति। स तानुत्सृज्य पद्भ्यां संप्रस्थितः। यावत् पश्यति आयसं नगरमुच्चं च प्रगृहीतं च। तत्र द्वारे पुरुषस्तिष्ठति कालो रौद्रश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः। स तस्य सकाशमुपसंक्रान्तः। उपसंक्रम्य तं पुरुषं पृच्छति-अस्ति अत्र भोः पुरुष पानीयमिति। स तूष्णीं व्यवस्थितः। भूयस्तेन पृष्टः-अस्त्यत्र नगरे पानीयमिति। भूयोऽपि स तूष्णीं व्यवस्थितः। तेन सार्थवाहेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दो निश्चारितः। यावत् पञ्चमात्रैः प्रेतसहस्रैर्दग्धस्थूणासदृशैरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः श्रोणः कोटिकर्णः। ते कथयन्ति-सार्थवाह कारुणिकस्त्वम्। अस्माकं तृषार्तानां पानीयमनुप्रयच्छ। स कथयति-भवन्तः, अहमपि पानीयमेव मृगयामि। कुतोऽहं युष्माकं पानीयमनुप्रयच्छामीति ? ते कथयन्ति-सार्थवाह, प्रेतनगरमिदम्, कुतोऽत्र पानीयम् ? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात्पानीयं पानीयमिति शब्दः श्रुतः। स कथयति- के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाः ? श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः। नाभिश्रद्दधास्यसि। अहं भवन्तः प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये ? ते गाथां भाषन्ते-



आक्रोशका रोषका वयं मत्सरिणः कुटुकुञ्चका वयम्।

दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥१॥



श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्। अस्ति कश्चित् त्वया दृष्टः प्रेतनगरं प्रविष्टः स्वस्तिक्षेमाभ्यां निर्गच्छन् ? स संप्रस्थितः यावत् तेनासौ पुरुषो दृष्टः। तेनोक्तः-भद्रमुख, अहो बत त्वया ममारोचितं स्यात् यथेदं प्रेतनगरमिति, नाहमत्र प्रविष्टः स्याम्। स तेनोक्तः-श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्, येन त्वं प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां निर्गतः । स संप्रस्थितः। यावदपरं पश्यति आयसं नगरमुच्चं च प्रगृहीतं च। तत्रापि द्वारे पुरुषस्तिष्ठति कालश्चण्डो लोहिताक्ष उद्विद्धपिण्डो लोहलगुडव्यग्रहस्तः। स तस्य सकाशमुपसंक्रान्तः। उपसंक्रम्यैवमाह-भोः पुरुष, अस्ति अत्र नगरे पानीयम् ? स तूष्णीं व्यवस्थितः। भूयस्तेन पृष्टः- भोः पुरुषः, अस्ति अत्र नगरे पानीयम् ? स तूष्णीं व्यवस्थितः। तेन तत्र प्रविश्य पानीयं पानीयम् इति शब्दः कृतः। अनेकैः प्रेतसहस्रैर्दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैरनुपरिवारितः। श्रोण कारुणिकस्त्वम्। अस्माकं तृषार्तानां पानीयमनुप्रयच्छ। स कथयति-अहमपि भवन्तः पानीयमेव मृगयामि। कुतोऽहं युष्माकं पानीयं ददामीति ? ते कथयन्ति- श्रोण, प्रेतनगरमिदम्। कुतोऽत्र पानीयम् ? अद्यास्माभिर्द्वादशभिर्वर्षैस्त्वत्सकाशात् पानीयं पानीयमिति शब्दः श्रुतः। स चाह-के यूयं भवन्तः, केन वा कर्मणा इहोपपन्नाः ? त ऊचुः-श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्याः। नाभिश्रद्दधास्यसि। स चाह-अहं भवन्तः प्रत्यक्षदर्शी। कस्मान्नाभिश्रद्दधास्ये ? ते गाथां भाषन्ते -



आरोग्यमदेन मत्तका ये धनभोगमदेन मत्तकाः।

दानं च न दत्तमण्वपि येन वयं पितृलोकमागताः॥२॥



श्रोण गच्छ, पुण्यकर्मा त्वम्। अस्ति कश्चित् त्वया दृष्टः श्रुतः स प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन्निर्गच्छन् ? स संप्रस्थितः। यावत् तेनासौ पुरुषो दृष्टः। स तेनोक्तः-भद्रमुख, अहो बत यदि त्वया ममारोचितं स्याद् यथेदं प्रेतनगरमिति, नैवाहमत्र प्रविष्टः स्याम्। स कथयति-श्रोण गच्छ, पुण्यमहेशाख्यस्त्वम्। अस्ति कश्चित् त्वया दृष्टः श्रुतो वा प्रेतनगरं प्रविश्य स्वस्तिक्षेमाभ्यां जीवन् निर्गच्छन् ? स संप्रस्थितः। यावत् पश्यति सूर्यस्यास्तगमनकाले विमानम्, चतस्रोऽप्सरसः अभिरूपाः प्रासादिका दर्शनीयाः। एकः पुरुषोऽभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्ताभिः सार्धं क्रीडति रमते परिचारयति। स तैर्दूरत एव दृष्टः। ते तं प्रत्यवभाषितुमारब्धाः। स्वागतं श्रोण, मासि तृषितो बुभुक्षितो वा ? स संलक्षयति-नूनं देवोऽयं वा नागो वा यक्षो वा भविष्यति। आह च-आर्य तृषितोऽस्मि, बुभुक्षितोऽस्मि। स तैः स्नापितो भोजितः। स तस्मिन् विमाने तावत् स्थितो यावत् सूर्यस्याभ्युद्गमनकालसमयः। स तेनोक्तः- श्रोण अवतरस्व, आदीनवोऽत्र भविष्यति। सोऽवतीर्य एकान्ते व्यवस्थितः। ततः पश्चात् सूर्यस्याभ्युद्गमनकालसमये तद्विमानमन्तर्हितम्। ता अपि अप्सरसोऽन्तर्हिताश्च। चत्वारः श्यामशबलाः कुर्कुराः प्रादुर्भूताः। तैस्तं पुरुषमवमूर्धकं पातयित्वा तावत् पृष्ठवंशानुत्पाट्योत्पाट्य भक्षितो यावत् सूर्यस्यास्तगमनकालसमयः। ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्, ता अप्सरसः प्रादुर्भूताः। स च पुरुषस्ताभिः सार्धं क्रीडति रमते परिचारयति। स तेषां सकाशमुपसंक्रम्य कथयति- के यूयम्, केन च कर्मणा इहोपपन्नाः ? ते प्रोचुः -श्रोण दुष्कुहका जाम्बूद्वीपका मनुष्याः। नाभिश्रद्दधास्यसि। स चाह- अहं प्रत्यक्षदर्शी, कथं नाभिश्रद्दधास्ये ? श्रोण, अहं वासवग्रामके औरभ्रक आसीत्। उरभ्रान् प्रघात्य प्रघात्य मांसं विक्रीय जीविकां कल्पयामि। आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति- भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः। विरम त्वमस्मात् पापकादसद्धर्मात्। नाहं तस्य वचनेन विरमामि। भूयो भूयः स मां विच्छन्दयति-भद्रमुख, अनिष्टोऽस्य कर्मणो फलविपाकः। विरम त्वमस्मात् पापकादसद्धर्मात्। तथापि अहं न प्रतिविरमामि। स मां पृच्छति-भद्रमुख, किं त्वमेतानुरभ्रान् दिवा प्रघातयसि आहोस्विदू रात्रौ? मयोक्तः- आर्य दिवा, प्रघातयामीति। स कथयति-भद्रमुख, रात्रौ शीलसमादानं किं न गृह्णासि। मया तस्यान्तिकाद् रात्रौ शीलसमादानं गृहीतम्। यत्तद् रात्रौ शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दिव्यं सुखं प्रत्यनुभवामि। यन्मया दिवा उरभ्राः प्रघातिताः, तस्य कर्मणो विपाकेन दिवा एवंविधं दुःखं प्रत्यनुभवामि। गाथां च भाषते-



दिवसं परप्राणपीडको रात्रौ शीलगुणैः समन्वितः।

तस्यैतत्कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥३॥



श्रोण, गमिष्यसि त्वं वासवग्रामकम् ? गमिष्यामि। तत्र मम पुत्रः प्रतिवसति। स उरभ्रान् प्रघात्य प्रघात्य जीविकां कल्पयति। स त्वया वक्तव्यः-दृष्टस्ये मया पिता। कथयति-अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मात् पापकादसद्धर्मात्। भोः पुरुष, त्वमेवं कथयसि-दुष्कुहका जाम्बुद्वीपका मनुष्या इति। नाभिश्रद्दधास्यति। श्रोण, यदि न श्रद्दधास्यति, वक्तव्यस्तव पिता कथयति-अस्ति सूनाधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः। तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय। आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नाम्ना दक्षिणामादेशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। स संप्रस्थितः। यावत् सूर्यस्याभ्युद्गमनकालसमये पश्यति अपरं विमानम्। तत्र एका अप्सरा अभिरूपा दर्शनीया प्रासादिका, एकश्च पुरुष अभिरूपो दर्शनीयः प्रासादिकः अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनस्तया सार्धं क्रीडति रमते परिचारयति। स तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धः। स्वागतं श्रोण, मा तृषितोऽसि, मा बुभुक्षितोऽसि वा? स संलक्षयति-नूनमयं देवो वा नागो वा यक्षो वा भविष्यति। स कथयति- तृषितोऽस्मि बुभुक्षितश्च। स तेन स्नापितो भोजितः। स तस्मिन् विमाने तावत् स्थितः यावत् सूर्यस्यास्तंगमनकालसमयः। स तेनोक्तः- अवतरस्व, आदीनवोऽत्र भविष्यति। स दृष्टादीनवोऽवतीर्य एकान्तेऽवस्थितः। ततः पश्चात् सूर्यस्यास्तगमनकालसमये तद्विमानमन्तर्हितम्। सापि अप्सरा अन्तर्हिता। महती शतपदी प्रादुर्भूता। तया तस्य पुरुषस्य कायेन कायं सप्तकृत्वो वेष्टयित्वा तावदुपरिमस्तिष्कं भक्षयन्ती स्थिता, यावत् स एव सूर्यस्याभ्युद्गमनकालसमयः। ततः पश्चात् पुनरपि तद्विमानं प्रादुर्भूतम्। सापि अप्सराः प्रादुर्भूता। स च पुरुषोऽभिरूपो दर्शनीयः प्रासादिकस्तया सार्धं क्रीडति रमते परिचारयति। स तमुपसंक्रम्य पृच्छति-को भवान्, केन कर्मणा इहोपपन्नः ? स एवमाह-श्रोण, दुष्कुहका जाम्बूद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि। स कथयति-अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? स कथयति-यदि एवम्, अहं वासवग्रामके ब्राह्मण आसीत् पारदारिकः। आर्यश्च महाकात्यायनो ममानुकम्पया आगत्य कथयति- भद्रमुख, अनिष्टोऽस्य कर्मणः फलविपाकः। विरम त्वमस्मात् पापकादसद्धर्मात्। तस्य वचनादहं न प्रतिविरमामि। भूयो भूयः स मां विच्छन्दयति। तथैवाहं तस्मात् पापकादसद्धर्मान्न प्रतिविरमामि। स मां पृच्छति-भद्रमुख, परदारान् किं त्वं दिवा गच्छसि, आहोस्विद् रात्रौ ? स मयाभिहितः- आर्य रात्रौ। स कथयति - भद्रमुख, दिवा किं न शीलसमादानं गृह्णासि ? मया तस्यान्तिके दिवा शीलसमादानं गृहीतम्। यत्तन्मया आर्यस्य कात्यायनस्यान्तिकाद् दिवा शीलसमादानं गृहीतम्, तस्य कर्मणो विपाकेन दिवा एवंविधं दिव्यसुखं प्रत्यनुभवामि। यत्तद्रात्रौ परदाराभिगमनं कृतम्, तस्य कर्मणो विपाकेन रात्रावेवंविधं दुःखं प्रत्यनुभवामि। गाथां च भाषते-



रात्रौ परदारमूर्च्छितो दिवसं शीलगुणैः समन्वितः।

तस्यैतत् कर्मणः फलं ह्यनुभवामि कल्याणपापकम्॥४॥



श्रोण, गमिष्यसि त्वं वासवग्रामकम्। तत्र मम पुत्रो ब्राह्मणः पारदारिकः। स वक्तव्यः-दृष्टस्ते मया पिता। स कथयति-अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मात् पापकादसद्धर्मात्। भोः पुरुष, त्वमेवं कथयसि-दुष्कुहका जाम्बुद्वीपका मनुष्या इति। एतन्मे कः श्रद्दधास्यति ? श्रोण यन्न श्रद्दधास्यति, वक्तव्यः-तव पित्रा अग्निष्टोमस्याधस्तात् सुवर्णकलशः पूरयित्वा स्थापितः। तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय। आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय। अस्माकं च नाम्ना दक्षिणां देशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। स संप्रस्थितः। यावत् पश्यति विमानम्। तत्रैका स्त्री अभिरूपा दर्शनीया प्रासादिका अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपना। तस्याश्चतुर्षु पर्यङ्कपादकेषु चत्वारः प्रेता बद्धास्तिष्ठन्ति। सा तं दूरत एव दृष्ट्वा प्रत्यवभाषितुमारब्धा- श्रोण, स्वागतम्। मा तृषितोऽसि मा बुभुक्षितोऽसि वा ? स संलक्षयति-नूनं देवीयं वा नागी वा यक्षी वा भविष्यति। स कथयति-आर्ये, तृषितोऽस्मि बुभुक्षितोऽस्मि। तयासावुद्वर्तितः स्नापित आहारो दत्तः। उक्तं च - श्रोण, यदि एते किंचिन्मृगयन्ति, मा दास्यसीति उक्त्वा तेषां सत्त्वानां कर्मस्वकटां प्रत्यक्षीकर्तुकामा विमानं प्रविश्यावस्थिता। ते मृगयितुमारब्धाः-श्रोण कारुणिकस्त्वम्। बुभुक्षिता वयम्। अस्माकमनुप्रयच्छ। तेनैकस्य क्षिप्तम्-बुसप्लावी प्रादुर्भूता। अपरस्य क्षिप्तम्- अयोगुडं भक्षयितुमारब्धः। अपरस्य क्षिप्तम्-स्वमांसं भक्षयितुमारब्धः -अपरस्य क्षिप्तम्-पूयशोणितं प्रादुर्भूतम्। सा विस्रगन्धेन निर्गता। श्रोण निवारितस्त्वं मया। कस्मात् त्वयैषां दत्तम् ? किं मम कारुणिकया ? त्वमेव कारुणिकतरः। स कथयति-भगिनि, तवैते के भवन्ति ? सा कथयति- अयं मे स्वामी, अयं मे पुत्रः, इयं मे स्नुषा, इयं मे दासी। स आह-के यूयम्,केन वा कर्मणा इहोपपन्नाः ? तयोक्तम्- श्रोण, दुष्कुहका जाम्बुद्वीपका मनुष्या इति नाभिश्रद्दधास्यसि। अहं प्रत्यक्षदर्शी कस्मान्नाभिश्रद्दधास्ये ? सा कथयति-अहं वासवग्रामके ब्राह्मणी आसीत्। मया नक्षत्ररात्र्यां प्रत्युपस्थितायां प्रणीतमाहारं सज्जीकृतम्। आर्यमहाकात्यायनो ममानुकम्पया वासवग्रामके पिण्डाय प्राविक्षत्। स मया दृष्टः कायप्रासादिकश्चित्तप्रासादिकः। चित्तमभिप्रसन्नं दृष्ट्वा स मया प्रसादजातया पिण्डकेन प्रतिपादितः। तस्या मम बुद्धिरुत्पन्ना-स्वामिनमनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति। स स्नात्वा आगतः। मयोक्तम्-आर्यपुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः। स रुषितो यावद् ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डकं दत्तम् ? सोऽमर्षजातः कथयति-कस्मात् स मुण्डकः श्रमणको बुसप्लावीं न भक्षयतीति ? तस्य कर्मणो विपाकेनायं बुसप्लावीं भक्षयति। मम बुद्धिरुत्पन्ना-पुत्रमपि अनुमोदयामि, प्रामोद्यमुत्पादयिष्यतीति। सोऽपि मयोक्तः-पुत्र, अनुमोदस्व, मयार्यो महाकात्यायनः पिण्डकेन प्रतिपादितः। सोऽपि रुषितो यावद् ब्राह्मणानां न दीयते, ज्ञातीनां वा ज्ञातिपूजा न क्रियते, तावत्त्वया तस्मै मुण्डकाय श्रमणकायाग्रपिण्डं दत्तम् ? सोऽपि अमर्षजातः कथयति-कस्मात् स मुण्डकः श्रमणकोऽयोगुडं न भक्षयतीति ? तस्य कर्मणो विपाकेनायमयोगुडं भक्षयति। नक्षत्ररात्र्यां प्रत्युपस्थितायां मम ज्ञातयः प्रहेणकानि प्रेषयन्ति। तानि अहं स्नुषायाः समर्पयामि। सा प्रणीतानि प्रहेणकानि भक्षयित्वा मम लूहानि उपनामयति। अहं तेषां ज्ञातीनां संदिशामि- किं नु यूयं दुर्भिक्षे यथा लूहानि प्रहेणकानि प्रेषयत ? ते मम संदिशन्ति-न वयं लूहानि प्रेषयामः, अपि तु प्रणीतान्येव प्रहेणकानि प्रेषयामः। मया स्नुषाभिहिता- वधूके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वास्माकं लूहानि उपनामयसि ? सा कथयति - किं स्वमांसं न भक्षयति या त्वदीयानि प्रहेणकानि भक्षयतीति? इयं तस्य कर्मणो विपाकेन स्वमांसानि भक्षयति। नक्षत्ररात्र्यां प्रत्युपस्थितायां प्रणीतानि प्रहेणकानि दत्त्वा ज्ञातीनां प्रेषयामि। सा दारिका तानि प्रणीतानि प्रहेणकानि मार्गेऽन्तर्भक्षयित्वा तेषां लूहानि उपनामयति। ते मम संदिशन्ति- किं नु त्वं दुर्भिक्षे यथा लूहानि अस्माकं प्रहेणकानि प्रेषयसि ? अहं तेषां संदिशामि-नाहं लूहानि प्रेषयामि, अपि तु प्रणीतान्येवाहं प्रेषयामीति। मया दारिकाभिहिता-दारिके, मा त्वं प्रणीतानि प्रहेणकानि भक्षयित्वा तेषां लूहानि उपनामयसि। सा कथयति-किं नु पूयशोणितं न भक्षयति, या त्वदीयानि प्रहेणकानि भक्षयतीति ? तस्य कर्मणो विपाकेनेयं पूयशोणितं भक्षयति। मम बुद्धिरुत्पन्ना-तत्र प्रतिसंधिं गृह्णीयां यत्रैतान् सर्वान् स्वकं स्वकं कर्मफलं परिभुञ्जानान् पश्येयमिति। यया मयार्यमहाकात्यायनं पिण्डकेन प्रतिपाद्य प्रणीते त्रायस्त्रिंशे देवनिकाये उपपत्तव्यम्, साहं मिथ्याप्रणिधानवशात् प्रेतमहर्द्धिका संवृत्ता। श्रोण, गमिष्यसि त्वं वासवग्रामकम् ? तत्र मम दुहिता वेश्यं वाहयति। सा त्वया वक्तव्या-दृष्टास्ते मया पिता माता भ्राता भ्रातुर्जाया दासी। ते कथयन्ति-अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मादसद्धर्मात्। भगिनि, त्वमेव कथयसि-दुष्कुहका जाम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यन्ति। श्रोण, यदि न श्रद्दधास्यति, वक्तव्या- तव पौराणे पैतृके वासगृहे चत्वारो लोहसंघाटाः सुवर्णस्य पूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः। ते कथयन्ति-तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नाम्ना दक्षिणामादेशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। तेन तस्याः प्रतिज्ञातम्। एवं तस्य परिभ्रमतो द्वादश वर्षा अतिक्रान्ताः॥



तयोक्तः-श्रोण, गमिष्यसि त्वं वासवग्रामकम् ? भगिनि, गमिष्यामि। स तस्मिन्नेव विमाने उषितः। तया तेषामेव प्रेतानामाज्ञा दत्ता-भवन्तो गच्छत, श्रोणं कोटिकर्णं सुप्तमेव वासवग्रामके पैतृके उद्याने स्थापयित्वा आगच्छत। स तैर्वासवग्रामके पैतृके उद्याने स्थापितः। स प्रतिविबुद्धो यावत् पश्यति घण्टाछत्राणि व्यजनानि, अक्षराणि लिखितानि- यदि तावच्छ्रोणः कोटिकर्णो जीवति, लघ्वागमनाय, क्षिप्रमागमनाय, च्युतः कालगतो गत्युपपत्तिस्थानात् स्थानान्तरविशेषतायै। स संलक्षयति-यदि अहं मातापितृभ्यां मृत एव गृहीतः, कस्माद्भूयोऽहं गृहं प्रविशामि ? गच्छामि, आर्य महाकात्यायनस्यान्तिकात् प्रव्रजामीति। अथ श्रोणः कोटिकर्णो येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तः। अद्राक्षीदायुष्मान् महाकात्यायनः श्रोणं कोटिकर्णं दूरादेव। दृष्ट्वा च पुनः श्रोणं कोटिकर्णमिदमवोचत्-एहि श्रोण, स्वागतं ते। दृष्टस्ते श्रोण अयं लोकः परश्च लोकः ? स कथयति-दृष्टो भदन्त महाकात्यायन। लभेयाहं भदन्त महाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। चरेयमहं भवतोऽन्तिके ब्रह्मचर्यम्। स आर्येणोक्तः - श्रोण, तां तावत् पूर्विकां प्रतिज्ञां परिपूरय। यथागृहीतान् संदेशान् समर्पयेति। स तस्यौरभ्रिकस्य सकाशमुपसंक्रान्तः। भद्रमुख, दृष्टस्ते पिता मया। स कथयति-अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मादसद्धर्मात्। भोः पुरुष, अद्य मम पितुर्द्वादशवर्षाणि कालगतस्य। अस्ति कश्चिद् दृष्टः परलोकात् पुनरागच्छन् ? भद्रमुख, एषोऽहमागतः। नासौ श्रद्दधाति। भद्रमुख, यदि न श्रद्दधासि, स तव पिता कथयति- अस्ति सूनाधस्तात् सुवर्णस्य कलशः। पूर्णस्तिष्ठति। तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय। आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नाम्ना दक्षिणामादेशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। स संलक्षयति- न कदाचिदेवं मया श्रुतपूर्वम्। पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्। तेन गत्वा खनितम्। यावत् तत् सर्वं तत् तथैव। तेनाभिश्रद्दधातम्। ततः पश्चात् स पारदारिकस्य सकाशमुपसंक्रान्तः। उपसंक्रम्य कथयति- भद्रमुख, दृष्टस्ते मया पिता। स कथयति-अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मात् पापकादसद्धर्मात्। स कथयति - भोः पुरुष, अद्य मम पितुर्द्वादश वर्षाणि कालं गतस्य। अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनरागच्छन् ? भद्रमुख, एषोऽहमागतः। नासौ श्रद्दधाति। स चाह- भद्रमुख, सचेन्नाभिश्रद्दधासि, तव पित्रा अग्निष्टोमस्याधस्तात् सुवर्णस्य कलशः पूरयित्वा स्थापितः। स कथयति-तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नाम्ना दक्षिणामादेशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। स संलक्षयति-न कदाचिदेतन्मया श्रुतपूर्वम्। पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्। तेन गत्वा खनितम्। यावत् तत्सर्वं तत्तथैव। तेनाभिश्रद्दधातम्। स तस्या वेश्यायाः सकाशमुपसंक्रान्तः। उपसंक्रम्य कथयति- भगिनि, दृष्टास्ते मया माता पिता भ्राता भ्रातुर्जाया दासी। ते कथयन्ति- अनिष्टोऽस्य कर्मणः फलविपाकः। विरमास्मात् पापकादसद्धर्मात्। सा कथयति-भोः पुरुषः, मम मातापित्रोर्द्वादश वर्षाणि कालगतयोः। अस्ति कश्चित् त्वया दृष्टः परलोकं गत्वा पुनरागच्छन् ? स कथयति-एषोऽहमागतः। सा न श्रद्दधाति। स कथयति- भगिनि, सचेन्नाभिश्रद्दधासि, तव पौराणे पैतृके वासगृहे चतस्रः लोहसंघाटाः सुवर्णपूर्णास्तिष्ठन्ति, मध्ये च सौवर्णदण्डकमण्डलुः। ते कथयन्ति- तमुद्धृत्यात्मानं सम्यक्सुखेन प्रीणय, आर्यं च महाकात्यायनं कालेन कालं पिण्डकेन प्रतिपादय, अस्माकं च नाम्ना दक्षिणामादेशय। अप्येवैतत् कर्म तनुत्वं परिक्षयं पर्यादानं गच्छेत्। सा संलक्षयति- न कदाचिन्मया श्रुतपूर्वम्। पश्यामि, सचेद् भूतं भविष्यति, सर्वमेतत् सत्यम्। तया गत्वा खनितम्। यावत् तत् सर्वं तत्तथैव। तयाभिश्रद्दधातम्। श्रोणः कोटिकर्णः संलक्षयति- सर्वोऽयं लोकः सुवर्णस्य श्रद्दधाति, न तु कश्चिन्मम श्रद्धया गच्छतीति। तेन वैपुष्पितम्। शिशुत्वे सुवर्णेन दशना बद्धाः। तयासौ प्रत्यभिज्ञातः। स्यादार्यः श्रोणः कोटिकर्ण एव ते भगिनीजनः संजानते(?)। तया गत्वा तस्य मातापितृभ्यामारोचितम्। अम्ब तात कोटिकर्णोऽभ्यागत इति। अनेकैस्तेषामारोचितम्। ते न कस्यचित् श्रद्धया गच्छन्ति। ते कथयन्ति- पुत्रि त्वमप्यस्माकमुत्प्रासयसि। यावदसौ स्वयमेव गतः। तेन द्वारकोष्ठके स्थित्वोत्काशनशब्दः कृतः। हिरण्यस्वरोऽसौ महात्मा। तस्य शब्देन सर्वं गृहमापूरितम्। स तैः स्वरेण प्रत्यभिज्ञातः। ते कण्ठे परिष्वज्य रुदितुमारब्धौ। तेषां बाष्पेण पटलानि स्फुटितानि। द्रष्टुमारब्धौ। स कथयति-अम्ब तात अनुजानीध्वम्। प्रव्रजिष्यामि सम्यगेव श्रद्धया अगारादनगारिकाम्। तौ कथयतः-पुत्र आवां त्वदीयेन शोकेन रुदन्तावन्धीभूतौ। इदानीं त्वामेवागम्य चक्षुः प्रतिलब्धम्। यावदावां जीवामः, तावन्न प्रव्रजितव्यम्। यदा कालं करिष्यामः, तदा प्रव्रजिष्यसि। तेनायुष्मतो महाकात्यायनस्यान्तिकाद्धर्मं श्रुत्वा स्रोतापत्तिफलं साक्षात्कृतम्, मातापितरौ च शरणगमनशिक्षापदेषु प्रतिष्ठापितौ। आगमचतुष्टयमधीतम्, सकृदागामिफलं साक्षात्कृतम्। मातापितरौ सत्येषु प्रतिष्ठापितौ॥



अपरेण समयेन तस्य मातापितरौ कालगतौ। स तं धनजातं दीनानाथकृपणेभ्यो दत्त्वा दरिद्रानदरिद्रान् कृत्वा येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्तः। उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वा एकान्तेऽस्थात्। एकान्ते स्थितः श्रोणः कोटिकर्ण आयुष्मन्तं महाकात्यायनमिदमवोचत्-लभेयाहमार्यमहाकात्यायन स्वाख्याते धर्मविनये प्रव्रज्याम्,. यावच्चरेयाहं भगवतोऽन्तिके ब्रह्मचर्यम्। स आयुष्मता महाकात्यायनेन प्रव्रजितः। तेन प्रव्रज्य मातृकाधीता, अनागामिफलं साक्षात्कृतम्। अस्मात् परान्तकेषु जनपदेष्वल्पभिक्षुकम्। कृच्छ्रेण देशवर्गो गणः परिपूर्यते। स त्रैमासीं श्रामणेरो धारितः। धर्मता खलु यथा बुद्धानां भगवतां श्रावकाणां द्वौ संनिपातौ भवतः। यच्चाषाढ्यां वर्षोपनायिकायां यच्च कार्तिक्यां पूर्णमास्याम्। तत्र ये आषाढ्यां वर्षोपनायिकायां संनिपतन्ति, ते तांस्तानुद्देशयोगमनसिकारानुद्गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगच्छन्ति। ये कार्तिक्यां पौर्णमास्यां संनिपतन्ति, ते यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति सूत्रस्य विनयस्य मातृकायाः। एवमेव महाश्रावकाणामपि। अथ ये आयुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका भिक्षवः तांस्तानुद्देशयोगमनसिकारविशेषान् गृह्य पर्यवाप्य तासु तासु ग्रामनगरनिगमराष्ट्रराजधानीषु वर्षामुपगताः, ते त्रयाणां वार्षिकाणां मासानामत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येनायुष्मान् महाकात्यायनस्तेनोपसंक्रान्ताः। उपसंक्रम्यायुष्मतो महाकात्यायनस्य पादौ शिरसा वन्दित्वैकान्ते निष्पण्णाः। एकान्ते निषद्य यथाधिगतमारोचयन्ति, उत्तरे च परिपृच्छन्ति। देशवर्गो गणः परिपूर्णः। स तेनोपसंपादितः। तेन तृतीयपिटकमधीतम्। सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन् संवृत्तः त्रैधातुकवीतरागो यावद् अभिवाद्यश्च संवृत्तः॥



अथायुष्मतो महाकात्यायनस्य सार्धंविहार्यन्तेवासिका आयुष्मन्तं महाकात्यायनं यावत्तावत् पर्युपास्यायुष्मन्तं महाकात्यायनमिदवमोचन्- दृष्टोऽस्माभिरुपाध्यायः पर्युपासितश्च। गच्छामो वयम्, भगवन्तं पर्युपासिष्यामहे। स चाह-वत्सा एवं कुरुध्वम्। द्रष्टव्या एव पर्युपासितव्या एव हि तथागता अर्हन्तः सम्यक्संबुद्धाः। तेन खलु पुनः समयेन श्रोणः कोटिकर्णस्तस्यामेव पर्षदि संनिषण्णोऽभूत् संनिपतितः। अथायुष्मान् श्रोणः कोटिकर्ण उत्थायासनाद् एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येनायुष्मान् महाकात्यायनस्तेनाञ्जलिं कृत्वा प्रणम्यायुष्मन्तं महाकात्यायनमिदमवोचत्-दृष्टो मयोपाध्यायानुभावेन स भगवान् धर्मकायेन, नो तु रूपकायेन। गच्छामि उपाध्याय, रूपकायेनापि तं भगवन्तं द्रक्ष्यामि। स आह-एवं वत्स कुरुष्व। दुर्लभदर्शना हि वत्स तथागता अर्हन्तः सम्यक्संबुद्धाः तद्यथा औदुम्बरपुष्पम्। अस्माकं च वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधतां च यावत् सुखस्पर्शविहारतां च। पञ्च प्रश्नांश्च पृच्छ- अस्मात् परान्तकेषु भदन्त जनपदेषु अल्पभिक्षुकम्। कृच्छ्रेण दशवर्गगणः परिपूर्यते। तत्रास्माभिः कथं प्रतिपत्तव्यम् ? खरा भूमी गोकण्टका धानाः। अस्माकमपरान्तकेषु जनपदेषु इदमेवंरूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म गोचर्म च्छागचर्म। तदन्येषु जनपदेषु इदमेवंरूपमास्तरणं प्रत्यास्तरणं तद्यथा एरको मरेको जन्दुरको मन्दुरकः। एवमेवास्मात् परान्तकेषु जनपदेष्विदमेवंरूपमास्तरणं प्रत्यास्तरणं तद्यथा अविचर्म पूर्ववत्। उदकस्तब्धिका मनुष्याः स्नातोपविचाराः। भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासंप्राप्तानि कस्यैतानि नैःसर्गिकानि। अधिवासयति आयुष्माञ्छ्रोणः कोटिकर्ण आयुष्मतो महाकात्यायनस्य तूष्णीभावेन। अथायुष्माञ्छ्रोणः कोटिकर्णः तस्या एव रात्रेरत्ययात् पूर्वाह्णे निवास्य पात्रचीवरमादाय वासवग्रामकं पिण्डाय प्राविक्षत्। यावदनुपूर्वेण श्रावस्तीमनुप्राप्तः। अथायुष्माञ्छ्रोणः कोटिकर्णः पात्रचीवरं प्रतिसामय्य पादौ प्रक्षाल्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्यैकान्ते निषण्णः। तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-गच्छ आनन्द तथागतस्य श्रोणस्य च कोटिकर्णस्यैकविहारे मञ्चं प्रज्ञापय। एवं भदन्तेति आयुष्मानानन्दस्तथागतस्य श्रोणस्य च कोटिकर्णस्य यावत् प्रज्ञाप्य येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवन्तमिदमवोचत्-प्रज्ञप्तो भदन्त तथागतस्य श्रोणस्य च कोटिकर्णस्यैकविहारे मञ्चो यस्येदानीं भगवान् कालं मन्यते। अथ भगवान् येन श्रोणस्य कोटिकर्णस्य विहारस्तेनोपसंक्रान्तः, यावद्विहारं प्रविश्य निषण्णः। यावत् पश्यति स्मृतिं प्रतिमुखमुपस्थाप्य। अथायुष्मानपि श्रोणः कोटिकर्णो बहिर्विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य निषण्णः पर्यङ्कमाभुज्य यावत् प्रतिमुखं स्मृतिमुपस्थाप्य। तां खलु रात्रिं भगवान् आयुष्मांश्च श्रोणः कोटिकर्ण आर्येण तूष्णीभावेनाधिवासितवान्। अथ भगवान् रात्र्याः प्रत्यूषसमये आयुष्मन्तं श्रोणं कोटिकर्णमामन्त्रयते स्मप्रतिभातु ते श्रोण धर्मो यो मया स्वयमभिज्ञायाभिसंबुध्याख्यातः। अथायुष्मान् श्रोणो भगवता कृतावकाशः अस्मात् परान्तिकया गुप्तिकया उदानात् पारायणात् सत्यदृष्टः शैलगाथा मुनिगाथा अर्थवर्गीयाणि च सूत्राणि विस्तरेण स्वरेण स्वाध्यायं करोति। अथ भगवाञ्छ्रोणस्य कोटिकर्णस्य कथापर्यवसानं विदित्वा आयुष्मन्तं श्रोणं कोटिकर्णमिदमवोचत्-साधु साधु श्रोण, मधुरस्ते धर्मो भाषितः प्रणीतश्च, यो मया स्वयमभिज्ञायाभिसंबुध्याख्यातः। अथायुष्मतः श्रोणस्य कोटिकर्णस्यैतदभवत्-अयं मे कालो भगवत उपाध्यायस्य वचसारोचयितुमिति विदित्वोत्थायासनाद् यावद् भगवन्तं प्रणम्येदमवोचत्-अस्मात् परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकात्यायनः प्रतिवसति, यो मे उपाध्यायः। स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत् स्पर्शविहारतां च। पञ्च च प्रश्नान् पृच्छति विस्तरेणोच्चारयितव्यानि। अथ भगवाञ्च्छ्रोणं कोटिकर्णमिदमवोचत्-अकालं ते श्रोण प्रश्नव्याकरणाय। संघमेलकः तत्र कालो भविष्यति प्रश्नस्य व्याकरणाय। अथ भगवान् काल्यमेवोत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः। अथायुष्माञ्च्छ्रोणः कोटिकर्णो येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्तेऽस्थात्। एकान्तस्थितो भगवन्तमिदमवोचत्-अस्मात् परान्तकेषु जनपदेषु वासवग्रामके भदन्तमहाकात्यायनः प्रतिवसति, यो मे उपाध्यायः। स भगवतः पादौ शिरसा वन्दते अल्पाबाधतां च पृच्छति यावत् स्पर्शविहारतां च। पञ्च च प्रश्नानि विस्तरेणोच्चारयितव्यानि यथापूर्वमुक्तानि यावत् कस्य नैःसर्गिकानि। भगवानाह-तस्मादनुजानामि। प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसंपदा, सदा स्नातः, एकपलाशिके उपानहे धारयितव्ये न द्विपुटां न त्रिपुटाम्। सा चेत् क्षयधर्मिणी भवति, तां त्यक्त्वा पुनर्नवा ग्रहीतव्या। भिक्षुर्भिक्षोश्चीवरकानि प्रेषयति इतश्च्युतानि तत्रासंप्राप्तानि न कस्यचिन्नैःसर्गिकाणि। आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति-यदुक्तं भदन्त भगवता प्रत्यन्तिमेषु जनपदेषु विनयधरपञ्चमेनोपसंपदम्, तत्र कतमोऽन्तः कतमः प्रत्यन्तः ? पूर्वेणोपालि पुण्डवर्धनं नाम नगरम्, तस्य पूर्वेण पुण्डकक्षो नाम पर्वतः, ततः परेण प्रत्यन्तः। दक्षिणेन शरावती नाम नगरी, तस्याः परेण सरावती नाम नदी, सोऽन्तः, ततः परेण प्रत्यन्तः। पश्चिमेन स्थूणोपस्थूणकौ ब्राह्मणग्रामकौ, सोऽन्तः, ततः परेण प्रत्यन्तः। उत्तरेण उशीरगिरिः सोऽन्तः, ततः परेण प्रत्यन्तः॥



किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतमिति विस्तरः। भगवानाह-भूतपूर्वं यावत् काश्यपो नाम तथागतोऽर्हन् सम्यक्संबुद्धो भगवान् शास्ता लोक उत्पन्नः। तेन खलु समयेन वाराणस्यां द्वौ जायापतिकौ। ताभ्यां काश्यपस्य सम्यक्संबुद्धस्यान्तिके शरणगमनशिक्षापदानि उद्गृहीतानि। यदा काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा कृकिना चतूरत्नमयं चैत्यं कारितं समन्ताद्योजनमुच्चत्वेन। तेन तत्र खण्डस्फुटप्रतिसंस्करणाय ये पूर्वनगरद्वारे करप्रत्याया उत्तिष्ठन्ते, ते तस्मिन् स्तूपेऽनुप्रदत्ताः। यदा कृकी राजा कालगतः, तस्य पुत्रः सुजातो नाम्ना स राज्ये प्रतिष्ठापितः। तस्यामात्यैः स्तोकाः करप्रत्याया उपनामिताः। सोऽमात्यानामन्त्रयते-किंकारणमस्माकं भवद्भिः स्तोककरप्रत्याया उपनामिताः ? किमस्माकं विजिते करप्रत्याया नोत्तिष्ठन्ते ? ते कथयन्ति - देव, कुतः करप्रत्याया उत्तिष्ठन्ते? ये देव पूर्वद्वारे करप्रत्यायास्ते वृद्धराज्ञा स्तूपे खण्डस्फुटप्रतिसंस्कारकरणाय प्रज्ञापिताः। यदि देवोऽनुजानीयात्, ते वयं तान् करप्रत्यायान् समुच्छिन्दामः। स कथयति-भवन्तः, यन्मम पित्रा कृतम्, देवकृतं न तु ब्रह्मकृतं तत्। ते संलक्षयन्ति-यदि देवोऽनुजानीते, वयं तथा करिष्यामो यथा स्वयमेव ते करप्रत्याया नोत्थास्यन्ति। तैः स द्वारे बद्ध्वा स्थापितः। न भूयः करप्रत्याया उत्तिष्ठन्ते। तस्मिन् स्तूपे चटितकानि प्रादुर्भूतानि। तौ जायापती वृद्धीभूतौ तत्रैव स्तूपे परिकर्म कुर्वाणौ तिष्ठतः। उत्तरापथात् सार्थवाहः पण्यमादाय वाराणसीमनुप्रातः। तेनासौ दृष्टः स्तूपः। चटितस्फुटितकः प्रादुर्भूतः। स दृष्ट्वा पृच्छति-अम्ब तात कस्यैष स्तूप इति। तौ कथयतः -काश्यपस्य सम्यक्संबुद्धस्य। केन कारितः ? कृकिना राज्ञा। न तेन राज्ञास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारकरणाय किंचित् प्रज्ञाप्तम्? तौ कथयतः -प्रज्ञाप्तम्। ये पूर्वनगरद्वारे करप्रत्यायास्तेऽस्मिन् स्तूपे खण्डस्फुटप्रतिसंस्करणाय निर्यातिताः। कृकी राजा कालगतः। तस्य पुत्रः सुजातो नाम, स राज्ये प्रतिष्ठितः। तेन ते करप्रत्यायाः समुच्छिन्नाः। तेनास्मिन् स्तूपे चटितस्फुटितकानि प्रादुर्भूतानि। तस्य रत्नकर्णिका कर्णे आमुक्तिका। तेन सा रत्नकर्णिकावतार्य तयोर्दत्ता। अम्ब तात अनया कर्णिकयास्मिन् स्तूपे खण्डस्फुटप्रतिसंस्कारं कुरुतमिति। यावदहं पण्यं विसर्जयित्वा आगच्छामि। ततः पश्चाद् भूयोऽपि दास्यामि। तैस्तां विक्रीय तस्मिन् स्तूपे खण्डस्फुटितप्रतिसंस्कारः कृतः। अपरमुत्सर्पितम्। अथापरेण समयेन सार्थवाहः पण्यं विसर्जयित्वा आगतः। तेन स दृष्टः स्तूपोऽसेचनकदर्शनः। दृष्ट्वा च भूयस्या मात्रयाभिप्रसन्नः। स प्रसादजातः पृच्छति-अम्ब तात युष्माभिः किंचिदुद्धारिकृतम्। तौ कथयतः- पुत्र नास्माभिः किंचिदुद्धारिकृतम्। किं त्वपरमुत्सर्पितं तिष्ठति। तेन प्रसादजातेन यत्तत्रावशिष्टम् अपरं च दत्त्वा महतीं पूजां कृत्वा प्रणिधानं च कृतम्- अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेयम्। एवंविधानां च धर्माणां लाभी स्याम्। एवंविधमेव शास्तारमारागयेयं मा विरागयेयमिति। किं मन्यध्वे भिक्षवः योऽसौ सार्थवाहः, एष एवासौ श्रोणः कोटिकर्णः। यदनेन काश्यपस्य सम्यक्संबुद्धस्य स्तूपे कारां कृत्वा प्रणिधानं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः। मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अहमनेन काश्यपेन सम्यक्संबुद्धेन सार्धं समजवः समबलः समधुरः समसामान्यप्राप्तः शास्ता आरागितो न विरागितः। इति भिक्षव एकान्तकृष्णानामेकान्तकृष्णो विपाकः, एकान्तशुक्लानां धर्माणामेकान्तशुक्लो विपाकः, व्यतिमिश्राणां व्यतिमिश्रः। तस्मात्तर्हि भिक्षव एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्वेव कर्मस्वाभोगः करणीयः। इत्येवं वो भिक्षवः शिक्षितव्यम्॥



भिक्षव ऊचुः-किं भदन्त आयुष्मता श्रोणेन कोटिकर्णेन कर्म कृतं यस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्ट्वाः ? भगवानाह -यदनेन मातुरन्तिके खरवाक्कर्म निश्चारितम्, तस्य कर्मणो विपाकेन दृष्ट एव धर्मे अपाया दृष्ट्वा इति॥



इदमवोचद्भगवान्। आत्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥



इति श्रीदिव्यावदाने कोटिकर्णावदानं प्रथमम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project