Digital Sanskrit Buddhist Canon

संगीतिरिति १००

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
संगीतिरिति १००।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चित्तो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कुशिनगर्यां विहरति मल्लानामुपवर्तने यमकशालवने॥ अथ भगवांस्तदेव परिनिर्वाणकालसमये आयुष्मत्तमानन्दमामन्त्रयते स्म। प्रज्ञापयानन्द तथागतस्यात्तरेण यम<क>शालयोरुत्तराशिरसं मञ्चमद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति। एवं भदत्तेत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चं प्रज्ञप्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। प्रज्ञप्तो भदत्त तथागतस्यात्तरेण यमकशालयोरुत्तराशिरसं मञ्चः॥ अथ भगवान्येन मञ्चस्तेनोपसंक्रात्तः। उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादं पादेनोपधायालोकसंज्ञी स्मृतः संप्रजानन्निर्वाणसंज्ञामेव मनसि कुर्वन्निति॥



तत्र भगवान्नात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः। समनत्तरपरिनिर्वृते बुद्धे भगवति अत्यर्थं तस्मिन्समये महापृथिवीचालो ऽभूदुल्कापा<ता> दिशोदाहा अत्तरीक्षे देवदुन्दुभयो नदत्ति॥ समनत्तरपरिनिर्वृते बुद्धे भगवति उभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैरवाकिरताम्॥ समनत्तरपरिनिर्वृत्ते भगवत्यन्यतरो भिक्षुस्तस्यां वेलायां गाथां भाषते।



सुन्दरौ खल्विमौ शालवन<स्या>स्य द्रुमोत्तमौ।

यदवाकिरतां पुष्पैः शास्तारं परिनिर्वृतम्॥



समनत्तरपरिनिर्वृते बुद्धे भगवति शक्रो देवेन्द्रो गाथां भाषते।

अनित्या बत संस्कारा उत्पादव्ययधर्मिणः।

उत्पद्य हि निरुध्यत्ते तेषां व्युपशमस्सुखमिति॥



समनत्तरपरिनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर्गाथां भाषते।

सर्वभूतानि लोके ऽस्मिन्निक्षेप्स्यत्ति समुच्छ्रयम्।

एवंविधो यत्र शास्ता लोकेष्वप्रतिपुद्गलः।

तथागतबलप्राप्तः चक्षुष्मान्परिनिर्वृतः॥

समनत्तरपरिनिर्वृते बुद्धे भगवति आयुष्माननिरुद्धो गाथा भाषते।

स्थिता आश्वासप्रश्वासा स्थिरचित्तस्य तायिनः।

आनिज्यां शात्तिमागम्य चक्षुष्मान्परिनिर्वृतः॥

तदाभवद्भीषणकं तदाभूद्रोमहर्षणम्।

सर्वाकारबलोपेतः शास्ता कालं यदाकरोत्॥

असंलीनेन चित्तेन वेदना अधिवासयन्।

प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस इति॥



सप्ताहपरिनिर्वृते बुद्धे भगवति आयुष्मानानन्दो भगवतश्चितां प्रदक्षिणीकुर्वन्गाथां भाषते।

येन कायरतनेन नायको

ब्रह्मलोकमगमन्महर्द्धिकः।

दह्यते स्म त<नु>जेन तेजसा

पञ्चभिर्युगशतैः स वेष्ठितः॥

सहस्रमात्रेण हि चीवराणाम्

बुद्धस्य कायः परिवेष्ठितो ऽभूत्।

द्वेचीवरे तत्र तु नैव दग्धे

अभ्यत्तरं बाह्यमथ द्वितीयम्॥



वषर्शतपरिनिर्वृते बुद्धे भगवति पाटलिपुत्रे नगरे राजाशोको राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं पालयति। यावदपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः कुणालसदृशाभ्यां नेत्राभ्याम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातमात्रस्य कुणालसदृशे नेत्रे तस्माद्भवतु दारकस्य कुणाल इति नामेति॥ कुणालो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। ततस्तं सर्वालङ्कारविभूषितं राजा उत्सङ्गेन कृत्वा पुनः पुनः प्रेक्ष्य नूपसम्पदा प्रहर्षित उवाच। असदृशी मे पुत्रो लोके नूपेणेति॥



तत्र च समये गान्धारे पुष्पभेरोत्सो नाम ग्रामः। तत्रान्यतमस्य गृहपतेः पुत्रो जातो ऽतिक्रात्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णम्। जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पसंपन्नं च महदुद्यानं जङ्गमं च। यत्र यत्र कुमारो गच्छति तत्र तत्र च पुष्किरिणी उद्यानं च प्रादुर्भवति। तस्य सुन्दर इति नामधेयं व्यवस्थापितम्॥



यावत्क्रमेण कुमारो महान्संवृत्तः। ततो ऽपरेण समयेन पुष्पभेरोत्साद्वणिजः केनचिदेव करणीयेन पाटलिपुत्रं गताः। ते प्राभृतमादाय राज्ञः सकाशमुपगताः। ततः पादयोर्निपत्य प्राभृतं राज्ञे उपनमय्य पुरस्ताद्यवस्थिताः। ततो राजाशोकस्तेषां कुणालं दर्शयति। हम्भो वणिजः कदाचित्कुत्रचिद्भवद्भिः पर्यटद्भिरेवंविधं नूपविशेषयुक्तं दृष्टपूर्वमिति॥ ततस्ते वणिजः कृतकरपुटाः पादयोर्निपत्य अभयं मार्गयित्वा राजानमूचुः। अस्ति देवास्मदीये विषये सुन्दरो नाम कुमारो ऽतिक्रात्तो मानुषं वर्णमसंप्राप्तश्च दिव्यं वर्णं जन्मनि चास्य दिव्यगन्धोदकपरिपूर्ण रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पफलसमृद्धं च महदुद्यानं जङ्गमं यत्र यत्र च स कुमारो गच्छति तत्र तत्र पुष्किरिणी उद्यानं च प्रादुर्भवतीति। श्रुत्वा राजाशोकः परं विस्मयमापन्नः कुतूहलजातश्च दूतसंप्रेषणं कृतवान्। एष राजाशोक आगत्तुमिच्छति सुन्दरस्य कुमारस्य दर्शनहेतोः यद्वः कृत्यं वा करणीयं वा तत्कुरुध्वमिति॥ ततो महाजनकायो भीतो यदि राजा महासाधनेन इहागमिष्यति मा हैव कञ्चिदनर्थमुत्पादयिष्यतीति। ततः स कुमारो भद्रयानं योजयित्वा शतसहस्रं च मुक्ताहारं प्राभृतस्यार्थे दत्त्वाशोकस्य सकाशं प्रेषितः। सो ऽनुपूर्वेण चञ्चूर्यमाणः पाटलिपुत्रं नगरं प्राप्तः। शतसहस्रं च मुक्ताहारं गृहीत्वा राज्ञो ऽशोकस्य सकाशमनुप्राप्तः। राजाशोकश्च सहदर्शनात्सुन्दरस्य कुमारस्य नूपं शोभां वर्णं पुष्कलतां च दिव्यां पुष्किरिणीमुद्यानं च दृष्ट्वा परं विस्मयमुपगतः॥



ततो राजोशाकः स्थविरोपगुप्तस्य विस्मयजननार्थं सुन्दरं च कुमारमादाय कुक्कुटागारं गतः। तत्रोपगुप्तप्रमुखा<ण्य>ष्टादशार्हत्सहस्राणि निवसत्ति तद्विगुणाः शैक्षाः पृथग्जनकल्याणकाः। <ततः स> स्थविरस्य पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। स्थविरोपगुप्तेनास्य धर्मो देशितः॥ ततः कुमारः परिपक्कसंततिर्धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः। स राजानमशोकमनुज्ञाप्य स्थविरोपगुप्तस्य सकाशे प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



ततो राजाशोकः संदिग्धः स्थविरं पृच्छति। कानि भदत्त सुन्दरेण कर्माणि कृतानि येनास्यैवं<विधं> नूपं कानि पुनः कर्माणि येन दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्किरिणी प्रादुर्भूता पुष्पफलसमृर्द्धं च महदुद्यानं जङ्गमम्॥ स्थविरोपगुप्त आह। सुन्दरेणैव महाराज पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। सुन्दरेणैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं महाराज यदा भगवान्परिनिर्वृतस्तदा आयुष्मान्महाकाश्यपः पञ्चशतपरिवारो मगधेषु जनपदचारिकां चरन् धर्मसंगीतिं कर्तुकामः। यावदन्यतमेन दरिद्रकर्षकेण महान्भिक्षुसङ्घो दृष्टः शास्तृवियोगाच्छोकार्तो ऽध्वपरिश्रात्तो रजसावचूर्णितगात्रः। ततो ऽस्य कारुण्यमुत्पन्नम्। ततस्तेन काश्यपप्रमुखाणि पञ्च भिक्षुशतानि जेत्ताकस्रात्रेणोपनिमन्त्रितानि। ततस्तेन नानागन्धपरिभावितमुष्णोदकं कृत्वा ते भिक्षवः स्नापिताश्चीवरकाणि शोभितानि। प्रणीतेन चाहारेण संतर्प्य शरणगमनशिक्षापदानि दत्त्वा प्रणिधानं कृतम्। अस्मिन्नेव शाक्यमुनेः प्रवचने प्रव्रज्य चार्हत्त्वं प्राप्नुयामिति॥



किं मन्यसे महाराज यो ऽसौ तेन कालेन तेन समयेन दरिद्रकर्षको ऽयं स सुन्दरो भिक्षुः। यत्तेन भिक्षवो जेत्ताकस्नात्रेण स्नापितास्तेनास्यैवंविधो नूपविशेषः संवृत्तो दिव्यचन्दनोदकपरिपूर्णा रमणीया पुष्किरिणी पुष्पफलसमृद्धं च महदुद्यानं जङ्गमं प्राप्तम्। यत्तेन शरणगमनशिक्षापदानि <उपलब्धानि> तेनेह जन्मन्यर्हत्त्वं साक्षात्कृतम्। इति हि महाराज एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि महाराज एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं ते महाराज शिक्षितव्यम्॥



अथ राजाशोक आयुष्मतः स्थविरोपगुप्तस्य भाषितमभिनन्द्यानुमोद्य उत्थायासनात्प्रक्रात्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project