Digital Sanskrit Buddhist Canon

दीर्घनख इति ९९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
दीर्घनख इति ९९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। तेन खलु समयेन नालदग्रामके तिष्यो नाम ब्राह्मणः। तेन शारी नाम दारिका माठरसकाशाल्लब्धा॥ यदा शारिपुत्रः शारीकुक्षिमवक्रात्तस्तदा भ्रात्रा सह<दीर्घनखेन विवादं> कुर्वत्ती निग्रहस्थानं प्रापयति। * * * * * * * * * * * *॥ ततो दीर्घनखेन दक्षिणापथं गत्वा बहूनि शास्त्राण्यधीतानि॥



यावत्क्रमेण शारिपुत्रो जातः। तेन द्विरष्टवर्षेणैन्द्रं व्याकरणमधीतं सर्ववादिनश्च निगृहीताः। सो ऽनुपूर्वेण भगवतः शासने प्रव्रजितः॥ यावद्दीर्घनखेन प्रव्राजकेन श्रुतम्। भागिनेयेन ते सर्वे तीर्थकरा निगृहीताः। इदानीं श्रमणगौतमस्य शिष्यत्वमभ्युपगत इति। श्रुत्वा चास्य महती परिभवसंज्ञा उत्पन्ना सर्वशास्त्रेषु चास्य अनैष्ठिकसंज्ञा उत्पन्ना। ततः क्रमशो राजगृहमनुप्राप्तः॥



तस्मिंश्च समये भगवान्प्रतिसंलयनाद्युत्थाय चतसृणां पर्षदां मधुरमधुरं धर्मं देशयति क्षौद्रं मध्विवानेडकं शारिपुत्रो ऽपि भगवतः पुरस्तात्स्थितो ऽभूद्यजनं गृहीत्वा भगवत्तं वीजयन्। अथ <ददर्श> दीर्घनखपरिव्राजको भगवत्तमर्धचन्द्राकारेणोपविष्टं धर्मं देशयत्तं शारिपुत्रं <च> व्यजनव्यग्रहस्तं भगवत्तं वीजयमानम्। दृष्ट्वा च पुनर्भगवत्तमिदमवोचत्। सर्वं मे भो गौतम न क्षमत इति॥ भगवानाह। एषापि ते अग्निवैश्यायन दृष्टिर्न क्षमते येयं दृष्टिः सर्वं मे न क्षमत इति॥ एषापि मे भो गौतम दृष्टिर्न क्षमते ये यं मे दृष्टिः सर्वं मे न क्षमत इति॥ अपि तु ते अग्निवैश्यायन एवं जानतो ऽस्याश्च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥ अपि मे भो गौतम एवं जानत एवं पश्यतो ऽस्याश्च दृष्टेः प्रहाणं भविष्यति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रितसंधिरनुपादान<म>प्रादुर्भावः॥ बहुजनेन ते अग्निवैश्यायन <न> संस्यदिष्यति। * * * * * * * * * * * * इम उच्यत्ते तनुभ्यस्तनुतराः। लोके त्रय इमे अग्निवैश्यायन दृष्टिसंनिश्रयाः॥ कतमे त्रयः॥ इहाग्निवैश्यायन एक एवंदृष्टिर्भवत्येवंवादी सर्वं <मे> क्षमत इति। पुनरपरमिहैक एवंदृष्टिर्भवत्येवंवादी सर्वं मे न क्षमत इति। पुनरपरमेक एवंदृष्टिर्भवत्येवंवादी एकं मे क्षमते एकं न मे क्षमत इति। तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमत इति इयं दृष्टिः संरागाय संवर्तते नासंरागाय संद्वेषाय नासंद्वेषाय संमोहाय नासंमोहाय संयोगाय नासंयोगाय <सं>क्लेश<आय न>व्यवदानाय <संचयाय ना>पचयाय अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते। तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे न क्षमत इति इयं दृष्टिरसंरागाय संवर्तते न संरागाय असंद्वेषाय <न संद्वेषाय> असंमोहाय <न संमोहाय> विसंयोगाय न संयोगाय व्यवदानाय न संक्लेशाय असंचयाय <न संचयाय> अ<न>भिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते। तत्र येयं दृष्टिरेकं मे क्षमते एकं मे न क्षमत इति यत्तावदस्य क्षमते तत्संरागाय संद्वेषाय संमोहाय संयोगाय संक्लेशाय न व्यवदानाय नापचयाय अभिनन्दनायोपादानाय अध्यवसानाय संवर्तते यदस्य न क्षमते तदसंरागाय संवर्तते न सं<रा>गाय असंद्वेषाय न संद्वेषाय असंमोहाय न संमोहाय असंयोगाय न संयोगाय व्यवदानाय न संक्लेशाय अपचयाय न संचयाय अनभिनन्दनायानुपादानाय अनध्यवसानाय संवर्तते॥।



तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चैवंदृष्टिः स्यामेवंवादी सर्वं मे क्षमते द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्च एवंदृष्टिरेवंवादी सर्वं मे न क्षमत इति यश्च एवंदृष्टिरेवंवादो एकं मे क्षमते एकं मे न क्षमत इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृजत्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥



<तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चेदेवंदृष्टिः स्यामेवंवादी सर्वं मे न क्षमत इति द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्च एवंदृष्टिरेवंवादी सर्वं मे क्षमत इति यश्च एवंदृष्टिरेवंवादी एकं मे क्षमते एकं मे न क्षमत इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृजत्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥>



तत्र श्रुतवानार्यश्रावक इदं प्रतिसंशिक्षते। अहं चेदेवंदृष्टिः स्यामेवंवादी एकं मे क्षमते एकं मे न क्षमत इति द्वाभ्यां मे सार्धं स्याद्विग्रहः स्याद्विवादः यश्चै<वंदृष्टिरेवंवादी सर्वं मे क्षमत इति यश्च एवंदृष्टिरे>वंवादी सर्वं मे न क्षमते इति। विग्रहे सति विवादो विवादे सति विहिंसा। इति स तां सविग्रहां सविवादां सविहिंसां च समनुपश्यन्निमां च दृष्टिं प्रतिनिसृ<ज>त्यन्यां च दृष्टिं नोपादत्ते। एवमस्याश्च दृष्टेः प्रहाणं भवति प्रतिनिसर्गो वात्तीभावः अन्यस्याश्च दृष्टेरप्रतिसंधिरनुपादानमप्रादुर्भावः॥



अयं खल्वग्निवैश्यायन कायो नूपी औदारिकश्चातुर्महाभूतिक <इति> आर्यश्रावकेण अभीक्ष्णमुदयव्ययानुदर्शिना विहर्तव्यं विरागानुदर्शिना प्रतिनिसर्गानुदर्शिना विहर्तव्यम्। यत्रार्यश्रावकस्य अभीक्ष्णमुदयव्ययानुदर्शिनो विहरतः यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानं तच्चास्य चित्तं न पर्यादाय तिष्ठति॥



तिस्र इमा अग्निवैश्यायन वेदनाः। कतमास्तिस्रः। सुखा दुःखा अदुःखासुखा च। यस्मिन्समये श्रुतवानार्यश्रावकः सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतो दुःखा च अदुःखासुखा च। सुखामेव च तस्मिन्समये आर्यश्रावको वेदनां वेदयते। सुखापि च वेदना अनित्या निरोधधर्मिणी। यस्मिन्समये आर्यश्रावको दुःखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतः सुखा अदुःखासुखा च। दुःखामेव <च> तस्मिन्समये आर्यश्रावको वेदनां वेदयते। दुःखापि वेदना अनित्या निरोधधर्मिणी। यस्मिन्समये आर्यश्रावको अदुःखासुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवतः सुखा दुःखा च। अदुःखासुखामेव च तस्मिन्समये आर्यश्रावको वेदनां वेदयते। अदुःखासुखापि वेदना अनित्या निरोधधर्मिणी। तस्यैवं भवति। इमा वेदनाः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभावा इति। इमा वेदना स्पर्शनिदानाः स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभावाः। तस्य स्पर्शस्य समुदयात्तास्ता वेदनाः समुदयत्ते तस्य स्पर्शस्य निरोधात्तास्ता वेदना निरुध्यत्ते व्युपशाम्यत्ति शोतीभवत्त्यस्तंगच्छत्ति। स यां काञ्चिद्वेदनां वेदय<ते> सुखां वा दुःखां वा अदुःखासुखां वा तासां वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानामीति तस्य वेद<ना>नां समुदयं चास्तंगमं चास्वादं चादीनवञ्च निःसरणं <च>यथाभूतं प्रजानत उत्पन्नासु वेदनास्वनित्यतानुदर्शी विहरति व्ययानुदर्शी विरागानुदर्शी निरोधानुदर्शी प्रतिसर्गानुदर्शी। स कायपर्यत्तिकां वेदनां वेदयमानः कायपर्यत्तिकां वेदनां <वेद>य इति यथाभूतं प्रजानाति। जीवितपर्यत्तिकां वेदनां वेदयमानो जीवितपर्यत्तिकां वेदनां वेदय इति यथाभूतं प्रजानाति। भेदाच्च कायस्योर्द्ध्व जीवितपर्यादानादिहैवास्य सर्वाणि वेदनानि अपरिशेषं निरुध्यत्ते अपरिशेषमस्तं परिक्षयं पर्यादानं गच्छत्ति। तस्यैवं भवति। सुखामपि वेदनां वेदयतो भेदः कायस्य भविष्यति एष एवात्तो दुःखस्य। दुःखामप्यदुःखासुखामपि वेदनां वेदयतो भेदः कायस्य भविष्यति एष एवात्तो दुःखस्य। स सुखामपि वेदनां वेदयते विसंयुक्तो वेदयते न संयुक्तः। दुःखामपि अदुःखासुखामपि वेदनां वेदयते विसंयुक्तो वेदयते न संयुक्तः। केन विसंयुक्तः। विसंयुक्तो रागेण द्वेषेण मोहेन विसंयुक्तो जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विसंयुक्तो दुःखादिति वदामि॥



तेन खलु समयेनायुष्माञ्छारिपुत्रो ऽर्धमासोपसंपन्नो भगवतः पृष्ठतः स्थितो ऽभूद्य जनं गृहीत्वा भगवत्तं वीजयम्। अथायुष्मतः शारिपुत्रस्यैतदभवत्। भगवांस्तेषां धर्माणां प्रहाणमेव वर्णयति विरागमेव निरोधमेव प्रतिनिःसर्गमेव वर्णयति। यन्न्वहं तेषां तेषां धर्माणां प्रहाणानुदर्शी विहरेयं विरागानुदर्शी निरोधानुदर्शी विहरेयं प्रतिनिःसर्गानुदर्शी विहरेयमिति॥ अथायुष्मतः शारिपुत्रस्यैषां धर्माणामनित्यतानुदर्शिनो विहरतो व्यपानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनो विहरतः अनुपादायास्रवेभ्यश्चित्तं विमुक्तं दीर्घनखस्य च परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥



अथ दीर्घनखः परिव्राजको दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्त्रशासने धर्मेषु वैशारद्यप्राप्त उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणामय्य भगवत्तमिदमवोचत्। लभेयाहं भदत्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यम्॥ लब्धवान्दीर्घनखपरिव्राजकः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्। एवं प्रव्रजितः स आयुष्मानेको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत्। एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्यदर्थं कुलपुत्राः केशश्मश्र्ववतार्य काषायाणि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजत्ति तदनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयमभिज्ञया साक्षात्कृत्वा प्रतिपद्य प्रवेदयते। क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापरमस्माद्भवं प्रजानामीति। आज्ञातवान्स आयुष्मानर्हन्बभूव सुविमुक्तचित्तः॥ तत्र भगवान्भिक्षूनामन्त्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां प्रतिसंवित्प्राप्तानां यदुत कोष्ठिलो भिक्षुरिति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त महाकोष्ठिलेन कर्माणि कृतान्युपचितानि येन महावादी संवृत्तः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कोष्ठिलेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। कोष्ठिलेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पञ्चमात्राणि तस्करशतानि सेनापतिप्रमुखाणि चौर्येण संप्रस्थितानि। यावत्ते चञ्चूर्यमाणा अन्यतमं खदिरवणमनुप्राप्ताः। यावत्सेनापतिनाभिहिताः। पश्यत यूयं कमलायताक्षः कश्चिदपरकीयो मनुष्यः संविद्यते येन वयं यक्षबलिं दत्त्वा प्रक्रामेमेति॥ तत्र च खदिरवने प्रत्येकबुद्धः प्रतिवसति। ततस्तैस्तस्करैः पर्यटद्भिर्दृष्ट्वा सेनापतिसकाशं नीतः। ततश्चौरसेनापतिना वध्यतामयमित्याज्ञा दत्ता। ततो ऽसौ प्रत्येकबुद्धस्तेषामनुग्रहार्थं विततपक्ष इव हंसराजः खगपथमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततः सेनापतिर्मूलनिकृत्त इव द्रुमः पादयोर्निपत्यात्ययं देशितवान्। पिण्डकेन प्रतिपाद्य प्रणिधानं कृतवान्। अहमप्येवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन चौरसेनापतिरयमेवासौ कोष्ठिलः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project