Digital Sanskrit Buddhist Canon

गङ्गिक इति ९८

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
गङ्गिक इति ९८।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो वाराणसीं नगरीमुपनिश्रित्य विहरति। ऋषिपतने मृगदावे। वाराणस्यामन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता। स करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता। ममात्ययात्सर्वस्वापतेयमपुत्रकमिति कृत्वा राजविधेयं भविष्यतीति। स श्रमणब्राह्मणनैमित्तिकसुहृत्संबन्धिबान्धवैरुच्यते देवताराधनं कुरुष्वेति। सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते। तद्यथारामदेवताश्चत्वरदेवताः शृङ्गाटकदेवताः सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते स्म। अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायत्ते दुहितरश्चेति। तच्च नैवम्। यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चक्रवर्तिनः। अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्च। कतमेषां त्रयाणाम्। मातापितरौ रक्तौ भवतः संनिपतितौ माता च कल्या भवति ऋतुमती गन्धर्वश्च प्रत्युपस्थितो भवति। एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायत्ते दुहितरश्चेति॥



स चैवमायाचनपरस्तिष्ठत्यन्यतमश्च सत्त्वो ऽन्यतमस्मात्सत्त्वनिकायाच्च्युत्वा तस्य प्रजापत्याः कुक्षिमवक्रात्तः। पञ्चावेणिका धर्मा एकत्ये पण्डितजातीये मातृग्रामे। कतमे पञ्च। रक्तं पुरुषं जानाति विरक्तं जानाति। कालं जानाति ऋतुं जानाति। गर्भभवक्रात्तं जानाति। यस्य सकाशाद्गर्भो ऽवक्रामति तं जानाति। दारकं जानाति दारिकां जानाति। सचेद्दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति सचेद्दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति॥ सा आत्तमना<त्तमनाः> स्वामिन आरोचयति। दिष्टार्यपुत्र वर्धसे आपन्नसत्त्वास्मि संवृत्ता यथा च मे दक्षिणं कुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति। सो ऽप्यात्तमनात्तमनाः पूर्वकायमत्युन्नमय्य दक्षिणं बाहुमभिप्रसार्यीदानमुदानपत्यप्येवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयं जातो मे स्यान्नावजातः कृत्यानि मे कुर्वीत भृतः प्रति<बि>भृयाद्दायाद्यं <प्रतिपद्ये>त कुलवंशो मे चिरस्थितिकः स्यादस्माकं चाप्यतीतकालगतानामल्पं वा प्रभूतं वा दानानि दत्त्वा पुण्यानि कृत्वा मम नाम्ना दक्षिणामादेक्ष्यते। इदं तयोर्यत्रतत्रोपपन्नयोर्गच्छतोरनुगच्छत्विति। आपन्नसत्त्वां चैनां विदित्वा उपरिप्रासादतलगतामयत्त्रितां धारयति शीते शीतोपकरणैरुष्णे उष्णोपकरणैर्वैद्यप्रज्ञप्तैराहारै<र्नातितिक्तैर्नात्यम्लैर्नातिलवणैर्नातिमधुरैर्नातिकटुकैर्नातिकषायैस्तिक्ताम्ललवणमधुर-कटुककषायविवर्जितैराहारै>र्हारार्धहारविभूषितगात्रीमप्सरसमिव नन्दनवनविचारिणीं मञ्चान्मञ्चं पीठात्पीठमनवतरत्तीमधरां भूमिम्। न चास्याः किञ्चिदमनोज्ञशब्दश्रवणं यावदेव गर्भस्य परिपाकाय॥ सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो अभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य जातौ जातिमहं कृत्वा गङ्गिक इति नाम कृतम्॥ गङ्गिको दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥



स च निर्भेदभागीयैः कुशलमूलैः समन्वागतो गृहावासे नाभिरमते। स मातापितरौ पादयोर्निपत्य विज्ञापयति। अम्ब तात अनुजानीतं मां भगवच्छासने प्रव्रजिष्यामीति। ततो ऽस्य मातापितरावेकपुत्रक इति कृत्वा नानुजानीतः॥ ततो गङ्गिकस्य बुद्धिरुत्पन्ना। दुर्लभो मनुष्यप्रतिलाभो दुर्लभश्च तथागतप्रादुर्भावस्तथेन्द्रियसंपदपि दुर्लभा को मे उपायो भवेद्यदहं भगवच्छासने प्रव्रजेयमिति॥ तस्यैतदभवत्। यन्न्वहं प्रणिधानं कृत्वा आ<त्मानमा>त्मना जीविताद्यपरोपयेयं यथा मनुष्यत्वमासाद्य लघु लघ्वेव प्रव्रजेयमिति। तेनैवं विचित्त्य विषं भक्षितं न च कालं करोति अग्रौ पतितः पर्वतादात्मानमुत्सृष्टवान् नद्यां चारकायां पतितस्तत्रापि कालं न करोति॥ तस्य बुद्धिरुत्पन्ना। क उपायः स्याद्येन कालं कुर्यामिति। तस्यैतदभवत्। सर्वथायं राजा अजातशत्रुश्चण्डो रभसः कर्कशः साहसिकश्च। यन्न्वहमस्य गृहे रात्रौ संधि छिन्द्यामिति॥ स राजगृहं नगरं गत्वा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे संधिमारब्धश्छेत्तुम्। ततो रक्षिभिर्जीवग्राहं गृहीत्वा राज्ञो ऽजातशत्रोरुपनीतः। अयं देव चौरो दुष्टो ऽपकारी च यो राजकुले रात्रौ संधिं छिन्दतीति॥ ततो राज्ञापराधिक इति कृत्वा वध्य उत्सृष्टः। ततो वध्यधातैर्नीलाम्बरवसनैः करवीरमालासक्तकण्ठेगुण उद्यतशस्त्रपाणिभी रथ्यावीथीचत्वरशृङ्गाटकेषु श्रावणामुखेष्वनुश्राव्य दक्षिणेन नगरद्वारेण निष्कास्य शीतवनं श्मशानं नीयते॥ स नीयमानस्तान्वध्यघातानाह। शीघ्रं शीघ्रं भवत्तो गच्छत्तु मा कदाचिद्राज्ञश्चित्तस्यान्यथात्वं स्यादिति॥ ततो वध्यधातैरेषा प्रवृत्ती राज्ञो निवेदिता। ततो राज्ञा प्रतिनिवर्त्य पृष्टः। को हेतुर्य<त्त्व>मिष्टं जीवितं परित्यक्तुमिच्छसीति। तेन स वृत्तात्तो विस्तरेण राज्ञे समाख्यातः॥ ततो राजा अजातशत्रुः कदम्बपुष्पवदाहृष्टरोमकूपः साश्रुकण्ठो रुदन्मुख उदानमुदानयति। अहो सुपरिपक्कास्य बुद्धिसंततिः स्ववगतः संसारदोषः सुप्रतिलब्धा श्रद्धासंपत् यत्र नामायं प्रव्रज्याहेतोरिदमिष्टं जीवितं परित्यक्तुं व्यवसितः॥ ततो राज्ञा समाश्वास्योक्तः। पुत्रक अहं प्रभुस्ते जीवितस्य गच्छेदानीं भगवच्छासने प्रव्रजेति। स राज्ञोत्सृष्टो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां श्रद्धाप्रव्रजितानां यदुत गङ्गिको वाराणसेयः श्रेष्ठिपुत्र इति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त गङ्गिकेन कर्माणि कृतानि येषां विपाकान्नाग्निः काये ऽवकाशति न विषं न च शस्त्रं नोदकेन कालं करोति अर्हत्त्वं चानेन प्राप्तम्॥ भगवानाह। गङ्गिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गङ्गिकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्मशानमोषको मातङ्गः। यावत्तेन पान्थान्हत्वा भाण्डमासादितम्। ततस्तस्य पृष्ठतस्तस्कराः प्रधाविताः। या<व>दन्यतमस्मिन् श्मशाने प्रत्येकबुद्धो निरोधसमापत्तिं समापन्नः। ततो ऽसौ श्मशानमोषको मातङ्गस्तस्य पुरस्ताद्भाण्डमपसृज्य तत्रैव निलीनः। ततस्ते तस्कराः प्रत्येकबुद्धं दृष्ट्वास्यारब्धाः क्षेप्तुं शस्त्रमग्निं च न चास्य चीवरकर्णकमपि शक्रुवत्ति चालयितुं यस्मादसौ निरोधसमाधिं समापन्नः॥ यदा ते तस्कराः श्रात्ताः प्रक्रात्तास्तदा स प्रत्येकबुद्धः क्रमेण समाधिव्युत्थितः। ततस्तेन श्मशानमोषकेण मातङ्गेन तं प्रत्येकबुद्धं पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्। अहमप्येवंविधानां गुणानां लाभी स्यां यथा चायमपरोपक्रम एवमहमपि यत्र यत्र जायेय तत्र तत्रापरो<प>क्रमः स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्मशानमोषको मातङ्गो ऽयं स गङ्गिकः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानां कर्मणामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project