Digital Sanskrit Buddhist Canon

विनूप इति ९७

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
विनूप इति ९७।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ * * * अन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां <वा> नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। जातमात्रस्य सर्वशरीरं विकृतिस्फुटं प्रवृत्तम्। दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर्दोषवर्णकैः समन्वागतः स दारको भूतः। तस्य मातापितरौ सर्वाङ्गं दुर्वर्णं दुर्दर्शनं विकृतनूपं दृष्ट्वा चित्तापरौ <व्यव>स्थितौ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं नाम भवतु दारकस्य। ज्ञातय ऊचुः। यस्मादयं जातमात्र एवं विकृतनूपस्तस्माद्भवतु दार<क>स्य विनूप इति नाम॥



यदा महान्संवृत्तस्तदा तस्य लज्जया महान्संकोचो जातः। कुत्रान्यत्र गमिष्यामि क्क तिष्ठामि। इति विचार्य सुजीर्णोद्यानं जगाम॥ अथ भगवान्महाश्रावकपरिवृतः सुजीर्णोद्यानं गतः। स भगवत्तं दृष्ट्वा जेह्रीयमाण इतश्चामुतश्च पलायितुमारब्धः। ततो भगवता ऋद्या तथाधिष्ठितो यन्न शक्नोति पलायितुम्। ततो भगवान्सह श्रावकैर्निरोधसमापत्तिं समापन्नः। ततो निरोधाद्युत्थाय विनूपमात्मानं निर्मितवान् निर्माय शरावं भोजनपूर्णमादाय विनूपमागतं दृष्ट्वा हर्षजात आमन्त्रितवान्। एहि सहायक कुत आगमिष्यते तिष्ठ उभावपि सहितौ वत्स्याव इति। ततो ऽस्य भगवता भोजनं दत्तं प्रीणितेन्द्रियश्च संवृत्तः॥ ततो भगवता आत्मा स्ववेषेण स्थापितः। ततो विनूपो बुद्धं भगवत्तं दृष्ट्वा कथयति। अभिनूपतरस्त्वमिदानीं संवृत्तः कस्य कर्मणः प्रभावादिति॥ भगवानाह। विद्या मे अस्ति चित्तप्रसादजननी नाम्ना तस्या एष प्रभाव इति॥ ततस्तेन भगवतो ऽत्तिके चित्तं प्रसादितं तेषां च महाश्रावकाणामालयसमापन्नानाम्। ततो ऽस्य लक्ष्मीः प्रादुर्भूता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त विनूपेण कर्माणि कृतानि येनैवं दुर्वर्णो दुर्दर्शनो ऽष्टादशभिर्दौर्वर्णिकदोषैः समन्वागतः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। विनूपेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। विनूपेणैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पुष्यो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। सो ऽपरेण समयेनान्यतमां राजधानीमुपनिश्रित्य विहरति। अथ पुष्यः सम्यक्संबुद्धः समन्वाहर्तुं प्रवृत्तः। पश्यति तस्मिन्काले द्वौ बोधिसत्त्वौ संनिकृष्टौ भगवाञ्छाक्यमुनिमैत्रेयश्च। मैत्रेयस्य <स्व>संततिः परिपक्का शास्तुर्वैनेया <अ>परिपक्काः शाक्यमुनेस्तु स्वसंततिरपरिपक्का वैनेयाः परिपक्काः॥ अथ पुष्यः सम्यक्संबुद्धः शाक्यमुनेर्बोधिसत्त्वस्य संततिपरिपाचनार्थं हिमवत्तं पर्वतमभिरुह्य रत्नगुहां प्रविश्य पर्यङ्कं बद्ध्वा तेजोधातुं समापन्नः। तस्मिंश्च <काले> शाक्यमुनिर्बोधिसत्त्वः फलमूलानामर्थे हिमवत्तं पर्वतमभिनूढः। स इतस्ततश्चञ्चूर्यमाणो ददर्श पुष्यं सम्यक्संबुद्धं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकम्। सहदर्शनाच्चानेन तथाविधं चित्तसमाधानं समासादितं यदेकपादेन सप्त रात्रिंदिवानि एकया गाथया स्तुतवान्।



न दिवि भुवि वा नास्मिँल्लोके न वैश्रवणालये।

न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा।

चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम।

पुरुषवृषभास्त्यन्यस्तुल्यो महाश्रमणस्तव॥



अथ पुष्यः सम्यक्संबुद्धः परिपक्कसंततिं शाक्यमुनिं बोधिसत्त्वं दृष्ट्वा साधुकारमदात्। साधु साधु सत्पुरुष।

अनेन बलवीर्येण संपन्नेन द्विजोत्तम।

नव कल्पाः परावृत्ताः संस्तुत्याद्य तथागतम्॥



ततो भगवान्महेशाख्या<भिर्देवता>भिः परिवृतस्तस्यां गुहायां स्थितः। तत्र गुहानिवासिनी देवता अल्पेशाख्यत्वान्न शक्नोति तां गुहां समभिरोढुम्। ततो विकृतनयना भूत्वा भगवत्तं भीषयते। यदा सुचिरमपि भीषयमाणा न शक्नोति भगवतो ऽपकारं कर्तुं तदा तया प्रसादो लब्धः शोभनो ऽयमृषिः सिद्धव्रतश्चेति। ततः सा उदारं नूपमभिनिर्माय भगवतः पादयोर्निपत्य क्षमापयित्वा पिण्डकेन प्रतिपादितवती॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गुहानिवासिनी देवता बभूवायं विनूपः सः। तस्य कर्मणो विपाकेन संसारे ऽनत्तं दुःखमनुभूतवान्। इदानीमपि तेनैव हेतुना विनूपः संवृत्तः। यदनेन पश्चाच्चित्तं प्रसादितं तेनास्यापगता<लक्ष्मी>र्लक्ष्मीः प्रादुर्भूता प्रव्रज्य चार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project