Digital Sanskrit Buddhist Canon

गुप्तिक इति ९६

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Guptika iti 96
गुप्तिक इति ९६।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदा भगवता स्तवकर्णिकनिमन्त्रितेन सौपारके नगरे महाजनविनेयाकर्षणं कृतं तदा सर्वः सौपारकनिवासी जनकायो बुद्धनिम्नो धर्मप्रवणः सङ्घप्राग्भारो व्यवस्थितः। सौपारके नगरे ऽन्यतमो गृहपतिराढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातः। जातमात्रस्य सर्वशरीरं पिटकैः स्फुटं संवृत्तम्। यदा ते पिटकाः स्फुटितास्तदा एकघनो मांसपिण्डः संस्थितः पूयशोणितं चास्य शरीरात्प्रघरन्महद्दौर्गन्धं जनयति॥ ततो ऽस्य पिता ऐश्वर्यबलाधानेन द्रव्यमन्त्त्रौषधिपरिचारकसमेतः स्वयमेवा<र>ब्धश्चिकित्सां कर्तुं न चासौ व्याधिरुपशमं गच्छति कर्मबलाधानप्राप्तत्वात्। स स्वशरीरं तथा विक्षतमपत्राप्य परिगृहीतं वस्त्रैर्गोपायति। तस्य गुप्तिक इति नाम कृतम्॥ यावद्गुप्तिको दारको महान्संवृत्तस्तस्य वयस्यकाः सहजातकाः श्रावस्त्याः सौपारकनगरमनुप्राप्ताः। ततस्तैः पितुरस्य कथ्यते। तात यद्येष श्रावस्तीं नीयते शक्येतास्माद्याधेः परिमोचयितुं यस्मात्तत्र सत्ति वैद्यभैषजादयः सुलभा इति॥



ततः पित्रा तद्वचनमुपश्रुत्य प्रभूतानि रत्नानि परिचारकांश्च दत्त्वा श्रावस्तीमनुप्रेषितः। सो ऽनुपूर्वेण वयस्यकसहायः श्रावस्तीमनुप्राप्तः। तत्राप्यस्य कर्मजो व्याधिः सत्यपि वैद्यद्रव्यौषधिपरिचारकबाहुल्ये न शक्यते चिकित्सितुम्॥ यावदसावपरेण समयेन जेतवनं निर्गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। तस्मै भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा पञ्चोपादानस्कन्धा रोगतो गण्डतः शल्यतो ऽधतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतश्च देशिताः। स संस्कारानित्यतां विदित्वा भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभ<लोभ>सत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। ते ऽप्यस्य सहजातकास्तेनैव संवेगेन प्रव्रजिताः॥



ते येनायुष्मान्गुप्तिकस्तेनोपसंक्रात्ताः। उपसंक्रम्यायुष्मत्तं गुप्तिकमिदमवोचन्। किमायुष्मन्गुप्तिक प्रलोपधर्म किं वा अत्र लोके ऽप्रलोपधर्म॥ <नूप>मायुष्मत्तः प्रलोपधर्म तस्य निरोधान्निर्वाणमप्रलोपधर्म। वेदना संज्ञा संस्कारा विज्ञानमायुष्मत्तः प्रलोपधर्म तस्य निरोधान्निर्वाणमप्रलोपधर्म। किं मन्यध्वे आयुष्मत्तः। नूपं नित्यं वा अनित्यं वा॥ अनित्यमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं वा तन्न वा दुःखम्॥ दुःखमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं विपरिणामधर्म सत्यमपि तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम एषो ऽहमस्मि एष मे आत्मेत्येवमेतत्॥ नो आयुष्मन्गुप्तिक॥ किं मन्यध्वे आयुष्मत्तः। वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा॥ अनित्यमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखम्॥ दुःखमिदमायुष्मन्गुप्तिक॥ यत्पुनरनित्यं दुःखं विपरिणामधर्म अपि तच्छ्रुतवानार्यश्रावक आत्मत उपगच्छेदेतन्मम एषो ऽहमस्म्येष मे आत्मेति। नो आयुष्मन्गुप्तिक॥ तस्मात्तर्ह्यायुष्मत्तो यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं <वा> बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वात्तिके तत्सर्वं नैतन्मम नैषो ऽहमस्मि नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्॥ या काचिद्वेदना संज्ञा संस्कारा यत्किञ्चिद्विज्ञानमतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे यद्वात्तिके तत्सर्वं नैतन्मम नैषो ऽहमस्मि नैष मे आत्मेत्येवमेतद्यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्। एवंदर्शी आयुष्मत्तः श्रुतवानार्यश्रावको नूपादपि निर्विद्यते वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानादपि निर्विणो विरज्यते विरक्तो विमुच्यते। विमुक्तमेवं ज्ञानदर्शनं भवति क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नापर<म>स्माद्भवं प्रजानामीति॥



अस्मिन्खलु धर्मपर्याये भाष्यमाणे तेषां सहजातकानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त गुप्तिकेन कर्माणि कृतानि येनास्य शरीरमेवं बीभत्सव्याधिबहुलं दुर्गन्धं संवृत्तं किं कर्म कृतं येन तीक्ष्णनिशितबुद्धिः संवृत्तः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। गुप्तिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गुप्तिकेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तजोधोतौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी। स द्वितीयश्रेष्ठिना सार्धं विरुद्धः॥ ततस्तेन राजा प्रभूतं धनं दत्त्वा विज्ञापितः। देव अयं श्रेष्ठी <अ>पराधिकः क्रियतामस्य दण्डनिग्रह इति॥ ततो<रा>ज्ञा तस्यैवानुज्ञातः। तेनासौ स्वगृहमानीय लताभिस्ताडितः। ततो रुधिरावसिक्तशरीरस्य प्रभूतं तीक्ष्णं च विषचूर्णं दत्त्वोप्तं येनास्य तच्छरीरमेकधनं मांसपिण्डवदवस्थितम्॥ ततस्तस्य श्रेष्ठिनो वयस्यकैः श्रुतं यथा तेनैवंविधं कर्म कृतमिति। ततस्तैः समेतैर्भूत्वा * * यैरुपकरणविशेषैस्तस्माद्याधेः परिमोचितः॥ ततो ऽसौ तेनैव च संवेगेन गृहान्निष्क्रम्य प्रव्रजितः। तेना<ना>चार्यकेण सप्तत्रिंशद्बोधिपक्ष्यान्धर्मान्भावयित्वा प्रत्येका बोधिः साक्षात्कृता॥ ततो ऽस्य चित्तमुत्पन्नं बह्वनेन श्रेष्ठिना मत्संतापादपुण्यं प्रसूतम् यन्न्वहमेनं गत्वा संवेजयेयमिति॥ ततस्तस्याग्रतो गत्वा उपरि विहायसमभ्युद्गम्य विचित्राणि प्रतिहार्याणि विदर्शयितुमारब्धः। आशु पृथग्जनानामृद्धिरावर्जनकरी। स मूलनिकृत्त इव द्रुमः पादयोर्निपत्य कृतकरपुटो भगवत्तं विज्ञापयति। अवतरावतर महादक्षिणीय कृतापराधो ऽहं तवात्तिके त्वामेव निश्रित्य पुनः प्रत्युपस्थास्यामीति। तेनासौ प्रत्येकबुद्धः क्षमापयित्वा पिण्डकेन प्रतिपाद्य पटेनाच्छादितः <प्रणिधानं च कृतम्>। यन्मया क्रोधाभिभूतेन तवापराधः कृतः मा अस्य कर्मणो विपाकं प्रत्यनुभवेयम्। यन्मया सत्कारः कृतो ऽनेनैवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी आसीदयं स गुप्तिकः। तस्य कर्मणः प्रभावात्पञ्च जन्मशतानि कशाभिस्ताड्यमानः कालं कृतवान्। तेनैव हेतुना अयमेवंविध आश्रय आसादितः। भूयः काश्यपे भगवति सहजातकैर्वयस्यकैस्सार्धं प्रव्रजित आसीत्। तत्रैभिर्ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project