Digital Sanskrit Buddhist Canon

लेकुञ्चिक इति ९४

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
लेकुञ्चिक इति ९४।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमो ब्राह्मण आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रव<ण>धनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो दुर्वर्णो दुर्द<र्श>नो ऽवहोडिमको जातमात्रस्य चास्य मातुः स्तनाभ्यां क्षीरमत्तर्हितम्। यावत्तेन ब्राह्मणेन तस्यान्या धात्री आनीता। तस्या अपि क्षीरमत्तर्हितं तस्य दारकस्य कर्मविपाकतः यदास्य क्षीरसंभवः सर्वैरप्युपायैर्न संभवति तदासौ लेहेनोद्धृतः। तस्य लेकुञ्चिक इति नामधेयं कृतम्॥ सो ऽल्पेशाख्यो ऽल्पपुण्यश्च॥



यदा महान्संवृत्तस्तदा उदरपूरणमपि नासादयति। पश्यति च <भि>क्षून्सुनिवसितान्सुप्रावृतान्भ्रमरसदृशानि पात्राणि गृहीत्वा श्रावस्तीं पिण्डाय प्रविशतस्तांश्च पूर्णहस्तान्पूर्णपात्रान्प्रतिनिष्क्रामतः। तस्य दृष्ट्वा भगवच्छासने प्रव्रज्याभिलाष उत्पन्नः। स मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितो ऽप्युदरपूरणं नासादयति। तेन तेनैव संवेगेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



यावदसावपरेण समयेन भगवतो गन्धकुटीं संमार्जितुं प्रवृत्तः। स तां संमृज्य पात्रचीवरमादाय श्रावस्तीं पिण्डाय प्राविक्षत्। ततस्तेन प्रभूतः प्रणीतश्च पिण्डपात आसादितो येनास्य संतर्पितानीन्द्रियाणि महाभूतानि। ततस्तेन संतर्पितेन्द्रियेण कृत्स्नारात्रिर्ध्यानविमोक्षसमापत्तिभिरतिनामिता। ततो ऽस्य बुद्धिरुत्पन्ना। शोभनो ऽयमुपायो यन्न्वहं भिक्षुसङ्घं विज्ञापयेयमिति। तेन सर्व एव भिक्षुसङ्घो विज्ञापितः। अहं भदत्ताल्पपुण्यो यदा गन्धकुटीं संमृज्य पिण्डपातं प्रविशामि तदा तृप्तिं लभे। तन्मे सङ्घः कारुण्यं करोतु नान्येन भगवतो गन्धकुटी संम्राष्टव्येति॥ ततः सङ्घेन क्रियाकारः कृतो न केनचिद्भगवतो गन्धकुटी संम्राष्टव्येति। स विस्रब्धो गन्धकुटीं संमृज्य पश्चाच्छ्रावस्तीं पिण्डाय प्रविशति॥



तस्मिंश्च समये आयुष्माञ्छारद्वतीपुत्रः पञ्चशतपरिवारो जनपदे वर्षोषितः श्रावस्त्यामभ्यागतः। ततः शास्तुर्गौरवजातो गन्धकुटीं संमार्ष्टुमारब्धः। स आयुष्मता लेकुञ्चिकेन लक्षितः। तेनोच्यते। स्थविर उदरे मम प्रहारो दत्तो यत्ते गन्धकुटी संमृष्टेति॥ स्थविरः प्राह। कथमिति॥ लेकुञ्चिकः कथयति। स्थविर यदाहं गन्धकुटीं न संमार्जितवांस्तदा पिण्डपातं नासादयामीति॥ ततः स्थविरशारिपुत्रेणोक्तम्। यद्येवमहमन्यत्रनिमन्त्रितः अल्पोत्सुकस्त्वं भव अहं तत्र तुभ्यं पिण्डपातं दास्यामीति॥ ततः स्थविरशारिपुत्रः पञ्चशतपरिवारो निमन्त्रणकं प्रस्थितः। लेकुञ्चिको ऽपि तेनैव सार्धं संप्रस्थितः॥ यदा गृहपतेर्गृहसमीपं गतस्तदा लेकुञ्चिकस्य कर्मविपाकेन तस्मिन्गृहे महान्कलहः समुत्पन्नः। तत आयुष्मतो लेकुञ्चिकस्यैतदभवत्। समाल्पपुण्यतया तत्र कलहो जात इति। ततः प्रतिनिवृत्य विहारं गत्वा भक्तच्छेदमकरोत्॥ ततो द्वितीये दिवसे स्थविरशारिपुत्रेणोच्यते। किमर्थं त्वं न गत इति॥ तेनोक्तम्। स्थविरेण नावगतं ममाल्पपुण्यतया यादृशस्तत्र कलहो जात इति॥ ततः स्थविरशारिपुत्रेणान्यत्र दिवसे तं पुरस्कृत्य तद्गृहं प्रवेशितः। सङ्घमध्ये चोपविष्टस्य सतः <प्र>दक्षिणश्चाहारो दीयते। तत्र परिवेषकजनो विस्मरति। तेन सङ्घमध्ये द्वितीयो भक्तच्छेदः कृतः॥



यावदियं प्रवृत्तिः स्थविरानन्देन श्रुता। श्रुत्वा च लेकुञ्चिकमुवाच। तेन हि त्वमिहैव जेतवने तिष्ठाहं ते पिण्डपातमानेष्यामीति॥ स्थविरानन्दस्यैवंविधा स्मृतिः। यदा भगवतो ऽत्तिकादशीतिर्धर्मस्कन्धसहस्राण्युद्गृहीतानि* * * *। लेकुञ्चिकस्य च कर्मावरणेन स्थविरानन्देन विस्मृतम्। तत्रानेन तृतीयो भक्तच्छेदः कृतः। चतुर्थे दिवसे स्थविरा<नन्दे>नास्थां कृत्वा पिण्डपातो दत्तः सो ऽपि निर्गच्छतः श्वभिरपहृतः। तत्रानेन चतुर्थो भक्तच्छेदः कृतः।



पञ्चमे दिवसे स्थविरमौद्गल्यायनेन श्रुत्वा लेकुञ्चिकस्यार्थाय पिण्डपातं गृहीत्वा ऋद्द्या संप्रस्थितम्। लेकुञ्चिकस्य कर्मविपाकेन सुपर्णिना पक्षिराजेन पक्षैः पराहत्य महासमुद्रे पातितः। तत्रानेन पञ्चमो भक्तच्छेदः कृतः॥



षष्ठे दिवसे शारिपुत्रेण श्रुतम्। तस्यैतदभवत्। यन्न्वहं <लेकुञ्चिकस्य पिण्डपातं> * * * * * * * * * * *लेकुञ्चिकस्य कुटिकाद्वारे ऽवस्थितः। ततो लेकुञ्चिकस्य कर्मविपाकेन तदपि द्वारं शिलाभिरावृतम्। ततः शारिपुत्रेण ऋद्द्या मोक्ष्यामीति तत्पात्रं पृथिव्यां स्थापितम्। तदपि लेकुञ्चिकस्य कर्मविपाकेनाथाशीतिषु योजनसहस्रेषु काञ्चनमय्यां पृथिव्यामवस्थितम्। ततो ऽपि स्थविरशारिपुत्रेण ऋद्द्या समुद्धृत्य तत्पिण्डकं मुखद्वारश्लेषिते पिण्डपाते तस्य कर्मावरणेन तन्मुखमेकधनं संवृत्तम्। तत आयुष्माञ्छारिपुत्रो लेकुञ्चिकस्याभव्यतां ज्ञात्वा संविग्नस्तेन च भदत्तेन षड्भक्तच्छेदाः कृताः।



ततः सप्तमे दिवसे आयुष्माँल्लेकुञ्चिकः सत्त्वानामुद्वेजनार्थं कर्मणां चाविप्रणाशसंदर्शनार्थं कर्मबलोद्भावनार्थं च भस्मना पात्रं पूरयित्वा बुद्धप्रमुखस्य भिक्षुसङ्घस्य पुरस्तान्निषद्य उदकेनालोड्य पीत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः॥ तमभिवीक्ष्य भिक्षवः संविग्नास्तस्य शरीरे शरीरपूजां कृत्वा संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त लेकुञ्चिकेन कर्माणि कृतानि येनार्हत्त्वप्राप्तो ऽपि षड्भक्तच्छेदान्कृत्वा सप्तमे दिवसे निरुपधिशेषे निर्वाणधातौ परिनिर्वृत इति॥ भगवानाह। लेकुञ्चिकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। लेकुञ्चिकेन कर्माणि कृतानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमा गृहपतिपत्नी श्राद्धा भद्रा कल्याणाशया। सा अभीक्ष्णं श्रमणब्राह्मणकृपणवनीपकपाचनकेभ्यो दानानि ददाति॥ तस्या अपरेण समयेन भर्ता कालगतः। यावदस्याः पुत्रः स्वगृहे स्वामी संवृत्तः। स च मत्सरी <कुटु>कुञ्चक आगृहीतपरिष्कारः काकाय बलिं न प्रदातुं व्यवस्यति। स श्रमणब्राह्मणकृपणवनीपकान्दृष्ट्वा चित्तं प्रदूषयति। तस्य माता तेनैव पूर्वक्रमेण <श्रमण>ब्राह्मणकृपणवनीपकेभ्यो दानप्रदानान्यनुप्रयच्छति। तस्याः पुत्रो मात्सर्याभिभूतः कथयति। अम्ब न मे रोच्यते मा दानमनुप्रयच्छेति॥ सा कथयति। पुत्रक इह कुले एष कुलधर्म इति॥ ततस्तेन पृथग्भक्तेन स्थापिता। तथाप्यसावुपार्धाद्दानमनुप्रयच्छत्युपार्धमात्मना परिभुङ्क्ते॥ ततस्तेन मात्सर्याभिभूतेन क्रोधेनावृतबुद्धिना भूयो निवार्यत एव। यदा सर्वावस्थायां न शक्रोति वारयितुं तदा मातरमुवाच। अम्ब किञ्चित्करणीयमस्त्यववरकं प्रविशेति॥ सा ऋजुस्वभावतया अववरकं प्रविष्टा। ततस्तेन द्वारं बद्ध्वा एकं भक्तच्छेदं कारिता॥ सा कथयति। पुत्र बुभुक्षितास्मीति। ततस्तेन खरं वाक्कर्म निश्चारितं भस्म खादेति॥ यावत्तेनासौ कृच्छ्रसंकटसंबाधप्राप्ता सकरुणकरुणं विक्रोशमाना षड्भक्तच्छेदान्कारिता तथापि न प्रतिमुक्ता कालगता। तदास्य मात्सर्येणावृतस्य मातृवियोगाद्विप्रतिसारो जातः॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिपुत्रो ऽयं स लेकुञ्चिकः। यदनेन मातुरपकारः कृतस्तस्य कर्मणो विपाकेन कल्पमवीचौ महानरक उत्पन्नः। तेनैव हेतुना इदानीमप्यर्हत्त्वप्राप्तः षड्भक्तच्छेदान्कृत्वा भस्मादनाहार एव परिनिर्वृतः। अन्यान्यपि भिक्षवो लेकुञ्चिकेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमो ब्राह्मणो देवतार्चिकः सर्वेषां वाराणसेयानां ब्राह्मणगृहपतीनां सत्कृतो गुरुकृतो मानितः पूजितो ऽभिमतश्च सर्वजनस्य॥ धर्मता चैषा यदसति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतमः प्रत्येकबुद्धो वाराणसीं पिण्डाय प्रविष्टस्स च तत्र पूर्णहस्तः पूर्णपात्रो निर्गच्छति। तेन ब्राह्मणेन दृष्टः। तस्य मात्सर्यमुत्पन्नम्। कथयत्यानय यावत्पात्रं पश्यामीति। असमन्वाहृत्य च श्रावकप्रत्येकबुद्धानां ज्ञानदर्शनं न प्रवर्तत इति। तेन भदत्तेनोपनामितम्। ततस्तेन पृथिव्यामुत्सृज्य पादेनाभिमृदितम्। ततस्तेन प्रत्येकबुद्धेन भक्तच्छेदः कृतः। न च तस्य ब्राह्मणस्य विप्रतिसारो जातः॥



किं मन्यध्वे भिक्षवो यो ऽसौ ब्राह्मणो ऽयमेवासौ लेकुञ्चिकः। भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन ब्रह्मचर्यवासः परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानामेकात्तकृष्णो विपाक एकात्तशुक्लानां कर्मणामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project