Digital Sanskrit Buddhist Canon

स्थविर इति ९२

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
स्थविर इति ९२।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे॥ अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। <तस्य > क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता न प्रसूयते। यावद्भूयस्तयैव सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः। स प्रथमगर्भो यथावस्थित एव मातुरुदरे॥ यावत्तस्याः क्रमशो दश पुत्रा जाताः। स प्रथमगर्भो मातुरुदरस्थ एव॥ यावदसौ गृहपतिपत्नी ग्लान्यपतिता। सा उपस्थीयते मूलगण्डपत्त्रपुष्पफलभैषज्येन न चासौ व्याधिरुपशमं गच्छति। यदा चास्या मरणात्तिकी वेदना प्रादुर्भूता नचिरेण कालं करिष्यतीति तदा तया स्वामी उक्तः। यत्खल्वार्यपुत्र जानीया ममात्र प्रथमगर्भो ऽवतिष्ठते। यदाहं मृता भवामि तदा दक्षिणपार्श्वं शस्त्रेण घातयित्वा ततः प्रथमस्थितं दारकमुद्धरेथा इत्युक्त्वा।



सर्वे क्षयात्ता निचयाः पतनात्ताः समुच्छ्रयाः।

संयोगा विप्रयोगान्<ता> मरणात्तं हि जीवितम्॥



इत्युक्त्वा कालधर्मेण संयुक्ता॥



तस्याः कालगताया नीलपीतलोहितावदातैर्वस्त्रैः शिविकामलङ्कृत्य शीतवनं श्मशानं नीत्वा जीविको वैद्यराज आहूतः। एष च शब्दो राजगृहे नगरे समत्ततो विसृतः। एवममुकस्त्रिया इयत्ति वर्षाणि गर्भ स्थितस्तस्याश्चान्ये दश पुत्रा जाता न चासौ प्रथमतरमवस्थितो गर्भो निर्गतः। अद्य जीविको वैद्यराजः शस्त्रेण मृताया उदरं घातयित्वा तं प्रथमस्थितं दारकमुद्धरिष्यतीति। तं शब्दं श्रुत्वा कुतूहलाद्बहूनि प्राणिशतसहस्राणि शीतवनश्मशाने संनिपतितानि पूरणप्रभृतयश्च षट् छास्तृप्रतिज्ञाः॥ तत्र भगवानायुष्मत्तमानन्दमामन्त्रयते। गच्छानन्द भिक्षूणां कथय भगवान् श्मशानचारिकां गत्तुकामो यो ऽद्भुतानि द्रष्टुकामः स आगच्छत्विति॥ यावद्भगवानाज्ञातकौण्डिन्यबाष्पमहानामानिरुद्वशारिपुत्रमौद्गल्यायनकाश्यपानन्दरेवतप्रभृतिभिर्महाश्रावकैः परिवृतः शीतवनश्मशानं गतो जनकायेन च भगवत्तं दृष्ट्वा विवरं कृतम्॥ तत्र जीविकेन तस्याः स्त्रिया दक्षिणः कुक्षिः पाटितः। ततः स्वयमेव निर्गतो बलिपलितचिताङ्गः परिजीर्णशरीरावयवः परिणतेन्द्रियः कृशो ऽल्पस्थामो निर्गतमात्रश्च तं जनकायमवलोक्य वाचं निश्चारयति स्म। मा भवत्तो गुरुषु गरुस्थानीयेषु मातापितृष्वाचार्योपाध्यायेषु खरां वाचं निश्चारयत मा हैवंविधामवस्थामनुभविष्यथ। यदहमामाशयपक्काश<य>योर्मध्ये षष्टि वर्षाण्युषितः। इत्युक्त्वा तूष्णीमवस्थितः॥ तत्र भगवान्भिक्षूनामन्त्रयते स्म। तृप्यत भिक्षवः सर्वभवोपपत्तिभ्यस्तृप्यत सर्वभवोपपत्त्युपकरणेभ्यो यत्र नाम चरमभविकस्य सत्त्वस्येयमवस्था॥ तत्र भगवांस्तं दारकमामन्त्रयते। स्थविरको ऽसि दारक॥ स्थविरको ऽहं भगवन्॥ स्थविरको ऽसि दारक॥ <स्थविरको ऽस्मि सुगत>॥ स्थविरक इति संज्ञा जाता॥ ततो भगवता तदधिष्ठाना तथाविधा धर्मदेशना कृता यां श्रुत्वा संविग्नैर्बहुभिः सत्त्वशतैर्महान्विशेषो ऽधिगतः॥



स च दश वर्षाणि गृहागारमध्यास्य सप्ततिवर्षो भगवच्छासने प्रव्रजितः। गृध्रकूटे पर्वते पञ्चविंशत्या भिक्षुभिः सार्धं वर्षा उपगतः। तत्र सङ्घस्थविरेण क्रियाकारं कारितो न केनचित्पृथग्जनेन प्रचारयितव्यमिति॥ त्रयाणां मासानामत्ययाच्चतुर्विंशत्या भिक्षुभिरर्हत्त्वं प्राप्तं स्थविर एकः पृथग्जन एव। ततः सङ्घस्थविरेण प्रचारणायां वर्तमानायां सुबहु परिभाष्य गणमध्यान्निष्कासितः। स शस्त्रमादाय कुटिं प्रविश्य रुदन्बहुविधं परिदेवते। आह च।



आदीप्तं काननं सर्वं पर्वता पि पलीकृता।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

शात्ता गिरिनदीशब्दाः परीत्तसलिलोदकाः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

एते ह्यण्डजाः पक्षिणो विरता मन्दघोषकाः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

पाण्डुपत्त्रं वनं ह्येतच्छीर्णपत्त्रो वनस्पतिः।

अथेदं पापकं चित्तमद्यापि न विमुच्यते॥

शस्त्रमाराधयिष्यामि को न्वर्थो जीवितेन मे।

कथं पृथग्जनो भूत्वा शास्तारमुपसंक्रम इति॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दश<बल>बलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



यावद्भगवता समन्वाहृत्य ऋद्या चोपसंक्रम्य तथाविधा धर्मदेशना कृता यां श्रुत्वा आयुष्मता स्थविरकेण इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



तत स्थविरो ऽर्हत्त्वप्राप्तः समन्वाहर्तुं प्रवृत्तः। ममापि कश्चिद्विनेय इति। पश्यति पञ्चमात्राणि वणिक्छतानि कालिकावातवित्रासितानि अपायाद्यसनाभिमुखानि। मया तस्माद्भयात्परित्रातव्यानीति तेन मम विनेया भविष्यत्तीति। ततः स्थविरकेण ऋद्या गत्वा तस्माद्भयात्परित्राताः॥ ततः प्रसादजाताः सर्व एव प्रव्रजिता मनसिकारश्चैष दत्तः। तैः सर्वैरेव युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं तेषां च गुणेषु न कश्चित्प्रत्यक्षः। षड्वर्गिका अवध्यायितुं प्रवृत्ताः। महल्लेन भूत्वा पञ्च सार्धंविहारिणां शतानि उपस्थापितानि। एते ऽप्येवमेव विनीता भविष्यत्तीति॥



तत आयुष्मानानन्दः सब्रह्मचारिवत्सलः परानुग्रहप्रवृत्त आयुष्मत्तं स्थविरकनामानमुद्भावयितुकामो येनायुष्मान्स्थविरनामा तेनोपसंक्रात्तः। उपसंक्रम्यायुष्मता स्थविरेण स्थविरनाम्ना भिक्षुणा सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकात्ते निषणः। एकात्ते निषण आयुष्मानानन्दः स्थविरं स्थविरकनामानमिदमवोचत्। पृच्छेम वयमायुष्मत्तं स्थविरं स्थविरकनामानं कञ्चिदेव प्रदेशं सचेदवकाशं कुर्याः प्रश्नस्य व्याकरणाय॥ आयुष्मन्नानन्द श्रुत्वा ते वेदयिष्ये॥ अरण्यगतेनायुष्मन्स्थविर भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्माभीक्ष्णं मनसिकर्तव्याः॥ [आह] अरण्यगतेनायुष्मन्नानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मावभीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथ स्थविर आसेवितो भावितो बहुलीकृतः कमर्थं प्रत्यनुभविष्यति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आयुष्मन्नानन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता भाविता बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमायुष्मन्नानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र स्थविर कतमे धातवः॥ यश्चायुष्मन्नानन्द प्रहाणधातु<र्यश्च विरागधातुर्य>श्च निरोधधातुः॥ कस्य नु स्थविर प्रहाणात्प्रहाणधातुरित्युच्यते <कस्य विरागाद्विरागधातुरित्युच्यते> कस्य निरोधान्निरोधधातुरित्युच्यते॥ सर्वसंस्काराणामायुष्मन्नानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरा<गाद्विरा>गधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते॥



अथायुष्मानानन्द स्थविरस्य स्थविरकनाम्नो भिक्षोर्भाषितमभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रात्तः। उपसंक्रम्य पञ्च भिक्षुशतानीदमवोचत्। अरण्यगतेनायुष्मत्तो भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः॥ अरण्यगतेनायुष्मन्नानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मावभीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथ आयुष्मत्त आसेवितो <भावितो> बहुलीकृतः कमर्थं प्रत्यनुभवति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आयुष्मन्नानन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता <भाविता> बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमायुष्मन्नानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र आयुष्मत्तः कतमे धातवः॥ यश्चायुष्मन्नानन्द प्रहाणधातुर्यश्च विरागधातुर्यश्च निरोधधातुः॥ कस्य न्वायुष्मत्तः प्रहाणात्प्रहाणधातुरित्युच्यते कस्य विरागाद्विरागधातुरित्युच्यते कस्य निरोधान्निरोधधातुरित्युच्यते॥ सर्वसंस्काराणामायुष्मन्नानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरागाद्विरागधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते।



आयुष्मानानन्दः पञ्चानां भिक्षुशतानां भाषितमभिनन्द्यानुमोद्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्तस्थित आयुष्मानानन्दो भगवत्तमिदमवोचत्। अरण्यगतेन भदत्त भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन कतमे धर्मा अभीक्ष्णं मनसिकर्तव्याः॥ अरण्यगतेनानन्द भिक्षुणा वृक्षमूलगतेन शून्यागारगतेन द्वौ धर्मा<व>भीक्ष्णं मनसिकर्तव्यौ शमथश्च विपश्यना च॥ शमथो भदत्त आसेवितो भावितो बहुलीकृतः कमर्थं प्रत्यनुभवति विपश्यना आसेविता भाविता बहुलीकृता कमर्थं प्रत्यनुभवति॥ शमथ आनन्द आसेवितो भावितो बहुलीकृतो विपश्यनामागम्य विमुच्यते विपश्यना आसेविता भाविता बहुलीकृता शमथमागम्य विमुच्यते। शमथविपश्यनापरिभावितमानन्द श्रुतवत आर्यश्रावकस्य चित्तं धातुशो विमुच्यते॥ तत्र भदत्त कतमे धातवः॥ यश्चानन्द प्रहाणधातुर्यश्च <विरागधातुर्यश्च> निरोधधातुः॥ कस्य नु भदत्त प्रहाणात्प्रहाणधातुरित्युच्यते कस्य विरागाद्विरागधातुरित्युच्यते कस्य निरोधान्निरोधधातुरित्युच्यते॥ भगवानाह। सर्वसंस्काराणामानन्द प्रहाणात्प्रहाणधातुरित्युच्यते सर्वसंस्काराणां विरागाद्विरागधातुरित्युच्यते सर्वसंस्काराणां निरोधान्निरोधधातुरित्युच्यते॥ आश्चर्यं भदत्त यावच्छास्तुः श्रावकाणां चार्थेनार्थः पदेन पदं व्यञ्जनेन व्यञ्जनं <सं>स्यन्दते समेति यदुताग्रपदैः। तत्कस्य हेतोः। इहाहं भदत्त येन स्थविरः स्थविरकनामा भिक्षुस्तेनोपसंक्रात्त उपसंक्रम्य स्थविरं स्थविरकनामानं भिक्षुमेतमेवार्थमेभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टवांस्तेन मम एष एवार्थ एभिः पदैरेर्भिव्यञ्जनैः प्रश्नं पृष्टेन व्याकृतस्तद्यथैतर्हि भगवता। सो ऽहमायुष्मतः स्थविरस्य स्थविरनाम्नो भिक्षोर्भाषितमभिनन्द्यानुमोद्य येन पञ्च भिक्षुशतानि तेनोपसंक्रात्त उपसंक्रम्य पञ्च भिक्षुशता<न्ये>तमेवार्थमेभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टवांस्तैरपि मम एष एवार्थ एभिः पदैरेभिर्व्यञ्जनैः प्रश्रं पृष्टैर्व्याकृतस्तद्यथैतर्हि भगवता। तदिदं भदत्त आश्चर्यं यावच्छास्तुः श्रावकाणां चार्थेनार्थः पदेन पदं व्यञ्जनेन व्यञ्जनं संस्यन्दते समेति यदुताग्रपदैः॥



कं पुनस्त्वमानन्द स्थविरकं भिक्षुं संजानीयाः॥ स्थविरको भदत्त भिक्षुरर्हन्क्षीणास्रवः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः। तान्यपि भिक्षुशतानि सर्वाण्यर्हत्ति क्षीणास्रवाणि कृतकृत्यानि कृतकरणीयान्यपहृतभाराण्यनुप्राप्तस्वकार्थानि परिक्षीणभवसंयोजनानि सम्यगाज्ञासुविमुक्तचित्तानि॥



यदा भगवता आयुष्मदानन्देन स्थविरकस्ते च भिक्षव उद्भाविताः प्रकाशिताश्च तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त स्थविरकेण कर्माणि कृतान्युपचितानि येन षष्टि वर्षाणि मातुः कुक्षावुषितः कानि कर्माणि कृतानि येन धन्धः संवृत्तः परमधन्धः प्रव्रज्य चार्हत्त्वं साक्षात्कृतम्॥ भगवानाह। स्थविरकेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। स्थविरकेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तत्रान्यतरः श्रेष्ठिपुत्रः स्थविरसकाशे प्रव्रजितः। स च स्थविरो ऽर्हन् स रागविप्रहीणः॥ यावत्तत्र देशे पर्व प्रत्युपस्थितम्॥ ततस्तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ स्थविर आह। वत्साद्यापि प्रग एव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ द्विरपि <त्रिरपि> तरुणभिक्षुणा स्थविर उत्थाप्यते। उत्तिष्ठ गोचरग्रामं गमिष्याव इति॥ द्विरपि त्रिरपि स्थविर आह। वत्साद्यापि प्रग एव गच्छ तावत्कुशलपक्षं प्रतिजागृहीति॥ ततस्तेन तरुणभिक्षुणा आहारगृध्रेण खरं वाक्कर्म निश्चारितम्॥ * * * * * * * * * * * *॥



* * * * तस्य कर्मणो विपाकेन षष्टि वर्षसहस्राणि मातुः कुक्षावुषितः। यदभूद्धर्ममात्सर्यं तेन दुःप्रज्ञः कृच्छ्रेणेन्द्रियाणि परिपाचितानि। यदनेन तत्र पठितं स्वाध्यायितं स्कन्धकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। तस्मात्तर्हि भिक्षवो वाग्दुश्चरितप्रहाणाय व्यायत्तव्यम्। एते दोषा न भविष्यत्ति <ये> स्थविरकस्य पृथग्जनभूतस्य एष एव गुणगणो भविष्यति यस्तस्यैवार्हत्त्वं प्राप्तस्येत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project