Digital Sanskrit Buddhist Canon

राष्ट्रपाल इति ९०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
राष्ट्रपाल इति ९०।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः स्थूलकोष्ठकमुपनिश्रित्य विहरति स्थूलकोष्ठकीये वनषण्डे। तेन खलु समयेन स्थूलकोष्ठके कौरव्यो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्ष चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्ठकमेकपुत्रमिव राज्यं पालयति। तस्य भ्रातृपुत्रो राष्ट्रपालो नाम्ना अभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य विनयकालमवेक्ष्य भगवान्पूर्वाह्ने निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतः स्थूलकोष्ठकं पिण्डाय प्रविष्टः। ददर्श राष्ट्रपालो बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके चित्तं प्रसन्नम्। स प्रसादजातो भगवतः पादयोर्निपत्य प्रव्रज्यां याचते॥ ततस्तं भगवानाह। वत्स अनुज्ञातो ऽसि मातापितृभ्यामिति॥ राष्ट्रपालः कथयति। नो भदत्तेति॥ भगवानाह। न हि वत्स तथागता वा तथागतश्रावका वा अननुज्ञातं मातापितृभ्यां प्रव्राजयत्त्युपसंपादयत्ति चेति॥



ततो राष्ट्रपालो मातापित्रोः सकाशमुपसंक्रात्तः। उपसंक्रम्य बुद्धस्य वर्णं भाषते। दृष्टो मया भगवाञ्छाक्यमुनिः सम्यक्संबुद्धः स्फीतं चक्रवर्तिराज्यमपहाय प्रव्रजितः षष्टिं चात्तःपुरसहस्राणि मुण्डः सङ्घाटिप्रावृतो ऽस्मिन्नेव स्थूलकोष्ठके पिण्डपातमटति। तदर्ह<तो>युवां मामनुज्ञातुं यदहं तं भगवत्तं प्रव्रजितमनुप्रव्रजेयमिति॥ ततो ऽस्य मातापितरौ नानुजानीतः॥



ततस्तेनैको भक्तच्छेदः कृतः। द्वौ त्रयो वा यावच्छङ्भक्तच्छेदाः कृताः॥ अथ राष्ट्रपालस्य मातापितरौ येन राष्ट्रपालो गृहपति<पुत्र>स्तेनोपसंक्रात्तौ। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमिदमवोचताम्। यत्खलु तात राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं तात राष्ट्रपाल निषद्य कामांश्च परिभुङ्ग्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्।



अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ ज्ञातीनुद्योजयतः। अङ्ग तावज्ज्ञातयस्तातं राष्ट्रपालमुत्थापयत॥ अथ राष्ट्रपालस्य गृहपतिपुत्रस्य ज्ञातयो येन राष्ट्रपालो गृहपतिपुत्रस्तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमेवमवोचन्। यत्खलु तात राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं तात राष्ट्रपाल निषद्य कामांश्च परिभुङ्न्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्॥



अथ राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यकानुद्योजयतः। अङ्ग तावत्कुमारास्तातं राष्ट्रपालमुत्थापयत॥ अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका येन राष्ट्रपालो गृहपतिपुत्रस्तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालं गृहपतिपुत्रमिदमवोचन्। यत्खलु सौम्य राष्ट्रपाल जानीयास्त्वं हि सुकुमारः सुखैषी न त्वं जानको दुःखस्य। दुष्करं ब्रह्मचर्यं दुष्करं प्राविवेक्यं दुरभिरममेकत्वं दुरभिसंबोधान्यरण्यवनप्रस्थानि प्रात्तानि शयनासनान्यध्यावस्तुम्। इहैव त्वं सौम्य राष्ट्रपाल निषद्य कामांश्च परिभुङ्न्व दानानि च देहि पुण्यानि च कुरु॥ एवमुक्ते राष्ट्रपालो गृहपतिपुत्रस्तूष्णीम्॥



अथ राष्ट्रपालस्य गृहपतिपुत्रस्य वयस्यका यन राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितरौ तेनोपसंक्रात्ताः। उपसंक्रम्य राष्ट्रपालस्य गृहपतिपुत्रस्य मातापितराविदमवोचन्। अम्ब तातानुजानीतं सौम्यं राष्ट्रपालं प्रव्रजितुं सम्यगेव श्रद्धया अगारादनगारिकां किं मृतेन करिष्यथ। सचेत्तातः प्रव्रज्यायामभिरंस्यते जीवत्तमेनं द्रक्ष्यध्वे सचेन्नाभिरमते कान्या पुत्रस्य गतिरन्यत्र मातापितरावेव॥ एवमावां कुमारकास्तातं राष्ट्रपालमनुजानीयावः सचेत्प्रव्रज्योपदर्शिष्य * * * * * * * * * * * * * * * * * * * * * * * *



अथ राष्ट्रपालो गृहपतिपुत्रो ऽनुपूर्वेण कायस्य स्थामं च बलं च संजनय्य येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवत्पादौ शिरसा वन्दित्वैकात्ते ऽस्थात्। एकात्ते स्थितो राष्ट्रपालो गृहपतिपुत्रो भगवत्तमिदमवोचत्। अनुज्ञातो ऽस्मि भगवन्मातापितृभ्याम्। लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यम्॥ लब्धवान्राष्ट्रपालो <गृहपति>पुत्रः स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावम्॥ स एवं प्रव्रजितः सन्निदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतवान्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। तत्र भगवान्भिक्षूनामन्त्रयते स्म। एषो ऽग्रो मे भिक्षवो भिक्षूणां मम श्रावकाणां* * * * यदुत राष्ट्रपालो भिक्षुरिति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त राष्ट्रपालेन कर्माणि कृतानि येनाढ्ये राजकुले प्रत्याजात इति अभिनूपो दर्शनीयः प्रासादिकः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। राष्ट्रपालेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। राष्ट्रपालेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। <न> भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि विदेहराजः सपरि<वारः> परचक्रवित्रासितो ऽटवीमनुप्राप्तः। स मध्याह्ने तीक्ष्णसूर्यरश्मिपरितापितः सबलौघ इतश्चामुतश्च परिभ्रमति मार्गं च नासादयति॥ असति च बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य॥ यावदन्यतरः प्रत्येकबुद्धस्तस्मिन्कात्तारमार्गे प्रतिवसति। तेन कारुण्यमुत्पाद्य तस्य विदेहराजस्य मार्गो व्यपदिष्टः पानीयह्रदश्च दर्शितो येन स राजा इष्टेन जीवितेनाच्छादितः॥ ततो राज्ञा प्रसादजातेन स्वनगरमानीय त्रैमास्यं सर्वोपकरणैरुपस्थितः। परिनिर्वृतस्य चास्य शरीरस्तूपं कारयामास प्रणिधानं च कृतवान्। अहमप्येवंविधानां गुणानां लाभी स्यां प्रतिविशिष्टतरं च शास्तारमारागयेयं मा विरागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवायं स राष्ट्रपालः। अपराण्यपि राष्ट्रपालेन कर्माणि कृतान्युपचितानि। अस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे॥ तेन खलु समयेन वाराणस्यां नगर्या कृकी राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति। तस्य कनीयान्पुत्र ऋषिपतनं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य भगवतो ऽत्तिके चित्तमभिप्रसन्नम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णो धर्मश्रवणाय। ततो ऽस्य भगवता काश्यपेन धर्मो देशितः। तेन प्रसादजातेन भगवान्काश्यपः सपरिवार उपस्थितः शरणगमनशिक्षापदानि गृहीतानि परिनिर्वृतस्य च स्तूपे कनीयाञ्छत्रमारोपित<वान्>॥



किं मन्यध्वे भिक्षवो यो ऽसौ राजपुत्रो ऽयमेवासौ राष्ट्रपालस्तेन कालेन तेन समयेन। अपराण्यपि राष्ट्रपालेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यामन्यतमो मूलिको ब्राह्मणः। स मूलानामर्थे ऽन्यतमं पर्वतमभिनूढः। तेन तत्र पर्यटता वनात्ते ग्लानः प्रत्येकबुद्धो दृष्टः। ततस्तेन प्रसादजातेन तस्योपस्थानं कृतम्। यदा ग्लान्याद्युत्थितस्तदा पिण्डकेन प्रतिपाद्य प्रणिधानं कृतम्। अहमप्येवंविधानां लाभी स्यां प्रतिविशिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन मूलिको ब्राह्मणो अयमेवासौ राष्ट्रपालः। तस्य कर्मणो विपाकेन संसारे न कदाचिद्दुःखमनुभूतवानिदानीमप्याढ्ये राजकुले प्रत्याजातो ऽभिनूपो दर्शनीयः प्रासादिकः। तेनैव हेतुनार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project