Digital Sanskrit Buddhist Canon

भद्रिक इति ८९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
भद्रिक इति ८९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥



यदा भगवान्षड्वर्षाभिसंबुद्धो द्वादशवर्षनिर्गतः कपिलवस्तु अनुप्राप्तस्तदा द्रोणोदनामृतोदनप्रमुखैरनेकैः शाक्यसहस्रैः सत्यदर्शनं कृतं स्थापयित्वा राजानं शुद्धोदनम्॥ ततो राजा शुद्धोदनस्तां पुत्रशोभां दृष्ट्वा परं विस्मयमापन्नः। तस्य बुद्धिरुत्पन्ना। यदि मे पुत्रो न प्रव्रजितो ऽभविष्यत्सो ऽयमभविष्यद्राजा चक्रवर्ती चतुरत्तविजेता धार्मिको धर्मराजः। स एतर्हि जटिलप्रव्रजितपरिवारो न शोभते। यन्न्वहं शाक्यकुलेभ्य एकैकं प्रव्राजयेयमिति॥ ततो राज्ञा शुद्धोदनेन नगरे घण्टावघोषणं कारितं सर्वशाक्यैः संन्निपत्तव्यमिति। ततः सर्वशाक्येषु संनिपतितेषु राजा शुद्धोदनः कथयति। शृण्वत्तु भवत्तः शाक्या यदि सर्वार्थसिद्धः कुमारो न प्रव्रजितो ऽभविष्यद्युष्माभिरेवोपस्थानं कृतमभविष्यत्। तदिदानीमस्य प्रव्रजितस्य एकैकेन कुलपुरुषेण शाक्येनोपस्थायकेन प्रव्रजितव्यमिति॥ ततो भद्रिकानिरुद्धरेवतदेवदत्तप्रभृतीनि पञ्च कुमारशतानि <प्रव्रजितानि>॥ तेषामुपालिर्नाम कल्पक उपस्थापकस्तान्प्रव्रजितान्दृष्ट्वा रोदितुमारब्धः॥ ततः शाक्यैः पृष्टः। किमर्थमुपाले रुद्यत इति॥ स करुणदीनविलम्बितैरक्षरैरुवाच। यूयं प्रव्रजिताः को ममेदानीं भक्ताच्छादनेन परिपालनं करिष्यतीति॥ ततः शाक्या ऊचुः। तेन ह्युपाले पटकं प्रसारयेति॥ तेन पटकः प्रसारितः। ततः शाक्यैः शरीरावलग्नानां हारार्धहारमणिमुक्तावैडूर्यकेयूराङ्गुलीयकानां महात्राशिः कृतः॥ तत उपालेः कल्पकस्य तान्दृष्ट्वा विचित्रं चालङ्कारमभिवीक्ष्य योनिशो मनसिकार उत्पन्नः। इमे तावच्छाक्याः कुलनूपयौवनवत्तो ऽत्तःपुराणि इमं चालङ्कारं खेटवटुत्सृज्य प्रव्रजिताः किमुताहमल्पविभव <इम>मल<ङ्कारं> गृहं नेष्यामि। अलमनेन। यन्न्वहमेताननुप्रव्रजेयमिति॥ अथोपालिः कल्पको येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादयोर्निपत्य भगवत्तमिदमवोचत्। यदि भगवन्मादृशानां प्रव्रज्यास्ति लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतो ऽत्तिके ब्रह्मचर्यमिति। ततो भगवता एहिभिक्षुकया प्रव्राजितः॥



ततो भद्रिकप्रमुखाणि पञ्च शाक्यशता<नि> भिक्षुवेषधारीणि बुद्धप्रमुखस्य भिक्षुसङ्घस्य प्रणामं कर्तुं प्रवृत्तानि। ते उपालिं ज्ञात्वा कुलनूपविभवान्वितत्वान्नेच्छत्त्युपालेः प्रणामं कर्तुम्॥ तत्र भगवानायुष्मत्तं भद्रिकमामन्त्रयते। भद्रिक कर्तव्यो ऽस्य प्रणामो यस्मादिदं मामकं शासनं न कुलनूपयौवनैश्वर्यचातुर्वर्ण्यविशुद्धिमपेक्षत इति॥ ततो मूलनिकृत्ता इव द्रुमा भद्रिकप्रमुखाणि पञ्च शाक्यशतानि धर्मतामवलम्ब्य पादयोर्निपतितानि। तेषां पादवन्दनसमकालमेवेयं महापृथिवी षड्विकारं प्रकम्पिता॥



तत्रायुष्मता भद्रिकेण युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। स च महात्मा हीनदीनानुकम्पी॥ सो ऽपरेण समयेन पूर्वाह्ने निवास्य पात्रचीवरमादाय श्रावस्तीं गोचराय प्रस्थितः। यावदन्यतरचण्डालकठिनं पिण्डाय प्रविष्टः॥ तेन खलु समयेन राजा प्रसेनजित्कौशल एकपुण्डरीकं हस्तिनागमभिरुह्य दीर्घेण चारायणेन सारथिना भगवतो दर्शनाय संप्रस्थितः। ददर्श राजा प्रसेनजित्कौशलो भद्रिकं शात्तेन्द्रियं शात्तमानसं परमेण च चित्तदमव्युपशमनसमन्वागतं पांसुकूलप्रावृतं लूहं पिण्डपातं गृहीत्वा तस्माच्चण्डालकठिनान्निर्गच्छत्तं दृष्ट्वा च पुनर्दीर्घं चारायणं सारथिमामन्त्रयते। स्यादयं चारायण भद्रिको भिक्षुः॥ एवं यथा वदसि॥ इति श्रुत्वा राजा प्रसेनजित्कौशलः संमोहमापन्नः पृथिव्यां मूर्छितः पतितः। ततो जलपरिषेकप्रत्यागतप्राणचेतसो लब्धमानसश्चारायणेन सारथिनोत्थापितः॥



ततो राजा भगवत्सकाशमुपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा भगवत्तमुवाच। भगवन्नद्भुतं मे दृष्टम्। असौ भद्रिकः शाक्यराजः पांसुकूलप्रावृतो लूहं पिण्डपातं गृहीत्वा देवमनुष्यावर्जनकरेणातिप्रशात्तेनेर्यापथेन पिण्डपातमादाय चण्डालकठिनान्निर्गतः। तस्य ममैतदभवत्। आश्चर्यं यावत्सुविनीतं भगवच्छासनं यत्र नामैवंविधाः कुमाराः सुखैधिता एवंविनीतप्रचाराः संवृत्ता इति॥ भगवानाह। अपरमपि महाराज भद्रिकस्याश्चर्यं शृणु। अयं महाराज भद्रिको ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा त्रिरुदानयति। अहो बत सौख्यम्। यदहमप्रव्रजितः सन्‍राजकुलमध्यगतो ऽमात्यनैगमजानपदसुसंरक्षितः प्राकारपरिखाद्वारस्तूपाभिनिगूढः परिशङ्कितहृदयः संविग्नः समत्ततः शङ्की निद्रां नासादयामि सो ऽहमेतर्हि निरपेक्षः काये जीविते च सुखं यत्रतत्रस्थो विहरामीति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त भद्रिकेण पूर्वमन्यासु जातिषु कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिक आढ्ये राजकूले प्रत्याजातः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। भद्रिकेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। भद्रिकेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः कोट्टमल्लकः क्षुत्क्षामपरिगतशरीर इतश्चामुतश्चान्वाहिण्डते। यावदन्यतरा दारिका पूपलिका आदाय गच्छति। ततस्तेन कोट्टमल्लकेन सा दारिका पूपलिकानामर्थे अभिभूता। ततो बलादेकां पूपलिकामादाय त[तस्त]तः पलायितुमारब्धः। सा चास्य दारिका पृष्ठतः समनुबद्धैव। ततो ऽसौ कोट्टमल्लकः सहसा नदीचारिकामुत्तीर्णः॥ असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। तदान्यतरः प्रत्येकबुद्धस्तस्य कोट्टमल्लकस्याग्रतः स्थितः। ततः कोट्टमल्लस्य तं प्रत्येकबुद्धं शात्तेर्यापथं दृष्ट्वा महान्प्रसादो जातः। तेन स्वं व्यसनमगणय्य प्रत्येकबुद्धाय पूपलिका प्रतिपादिता। तस्य विप्रहर्षसंजननार्थं विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुमारब्धः। ततः कोट्टमल्लकस्तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वा मूलनिकृत्त इव द्रुमः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। यन्मे सिद्धव्रतो दक्षिणीयः पूपलिकया प्रतिपादितो ऽनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्रोच्चकुलीनः स्यामेवंविधानां च धर्माणां लाभी स्यां प्रति<वि>शिष्टतरं चातः शास्तारमारागयेयं मा विरागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन कोट्टमल्लको ऽयमसौ भद्रिकः। यत्तेन प्रत्येकबुद्धः पूपलिकया प्रतिपादितस्तस्य कर्मणो विपाकेनाढ्ये शाक्ये प्रत्यागतः॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यावासः प्रतिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project