Digital Sanskrit Buddhist Canon

कप्फिण इति ८८

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Kapphiṇa iti 88
कप्फिण इति ८८।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु समयेन दक्षिणापथे कल्पो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः। तस्य जातौ जातिमहं कृत्वा कप्फिण इति नामधेयं व्यवस्थापितम्। कप्फिणो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। यस्मिन्नेव दिवसे कप्फिणः कुमारो जातस्तस्मिन्नेव दिवसे अष्टादशानाममात्यसहस्राणां पुत्रा जाताः सर्वे महानग्नाः। तेषां प्रतिनूपाणि नामानि व्यवस्थापितानि॥



यद्राजा कल्पः कालधर्मेण संयुक्तस्तस्यात्ययात्कप्फिणः कुमारो राज्ये प्रतिष्ठितः तानि चाष्टादशामात्य<पुत्र>सहस्राणि सर्वाण्यमात्यत्वे नियुक्तानि॥ अथापरेण समयेन राजा महाकप्फिणो ऽष्टादशामात्यसहस्रपरिवृतो मृगवधाय निर्गतः। पुरस्तात्पृष्ठतश्च सर्वबलौघमवलोक्यामात्यानामन्त्रयते। अस्ति भवत्तः कस्यचिदेवंनूपो बलौधस्तद्यथा ममैवैतर्हीति॥ ततः प्रियवादिभिरमात्यैरभिहितम्। देव नान्यस्य कस्यचिदिति॥ अथ मध्यदेशाद्वणिजो दक्षिणापथं गताः। तै राज्ञो महाकप्फिणस्य प्राभृतमुपनीतम्। राज्ञा उक्ता भो वणिजः कस्तत्र राजेति॥ वणिजः कथयत्ति। देव केचिद्देशा गणाधीनाः केचिद्राजाधीना इति॥ यावद्राज्ञा महाकप्फिणेन श्रावस्त्यादिषु षट्सु महानगरेषु दूतसंप्रेषणं कृतम्। यद्युत्थिता भवथ नोपवेष्टव्यं शीघ्रमागत्तव्यमन्यथा व उत्तमेन दण्डेन समनुशासिष्यामीति॥ एतद्वचनमुपश्रुत्य षण्महानगरवासिनो राजानो भीतास्त्रस्ताः संविग्ना आहृष्टरोमकूपाः संगम्य समागम्य एकसमूहेन श्रावस्तीमनुप्राप्ताः। ततो भगवत्सकाशं गताः। तैस्स वृत्तात्तो भगवतो विस्तरेण निवेदितः। भगवता ते समाश्वासिता उक्ताश्च स दूतो मत्सकाशमानेतव्य इति॥ ततस्तैर्दूतस्य निवेदितम्। अस्त्यस्माकं राजाधिराजस्तं तावत्पश्येति॥



ततो भगवता दूतागमनमवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानामिव सुदर्शनं नगरम्। अत्र चत्वारो महाराजानो दौवारिकाः स्थापिता ऐरावतसदृशा हस्तिनो बालाहकसदृशा अश्वा नन्दीघोषसदृशा रथा व्याडयक्षसदृशा मनुष्याः स्वयं च भगवता चक्रवर्तिवेषो निर्मितः सप्ततालोद्गतं च सिंहासनं यत्र भगवान्निषणः। ततो दूतस्तथाविधां शोभां दृष्ट्वा परं विस्मयमापन्नः॥ ततो भगवता लेखं लेखयित्वा स दूतो ऽभिहितः। कप्फिणो मद्वचनाद्वक्तव्यो लेखवाचनसमकालमेव यद्युत्थितो भवसि नोपवेष्टव्यं शीघ्रमागत्तव्यम्। अथवा नागच्छसि अहमेव महता बलौधेन सार्धमागमिष्यामीति॥ ततो दूतेन गत्वा राज्ञो महाकप्फिणस्य लेखं वाचिकं च यत्संदिष्टं तत्सर्वं निवेदितम्॥



ततः कप्फिणो राजा अष्टादशामात्यगणसहस्रपरिवृतो ऽनुपूर्वेण चञ्चूर्यमाणः श्रावस्तीमनुप्राप्तः। प्रातिसीमाश्च राजानो राजानं महाकप्फिणं प्रत्युद्गताः। तैर्महासत्कारेण नगरं प्रवेशितः। मार्गश्रमं प्रतिविनोद्य भगवतो निवेदितवत्तः॥ ततो भगवता तस्यागमनमवेत्य जेतवनं चतूरत्नमयं निर्मितं देवानामिव सुदर्शनं नगरं यत्र चत्वारो महाराजानो दौवारिका स्थापिता ऐरावतसदृशा हस्तिनो बालाहकसदृशा अश्वा नन्दीघोषसदृशा रथा व्याडयक्षसदृशा मनुष्याः स्वयं च भगवता चक्रवर्तिवेषो निर्मितस्सप्ततालोद्गतं च सिंहासनं सर्वं तथैव निर्मितम्। ततो राजा महाकप्फिणो जेतवनं प्रविष्टः। सहदर्शनादस्य यो नूपे नूपमद ऐश्वर्य ऐश्वर्यमदः स प्रतिविगतः। बलदर्पो ऽद्यापि प्रतिबाधत एव॥ ततो भगवता लौकिकं चित्तमुत्पादितम्। अहो बत शक्रो देवेन्द्र ऐन्द्रं धनुरादायागच्छत्विति। सहचित्तोत्पादाद्भगवतः शक्रो देवेन्द्रः सारथिवेषेण ऐन्द्रं धुनुरुपनामयति। भगवता महाकप्फिणास्योपनामितम्। तच्च राजा महाकप्फिण उत्क्रष्टुमपि न शक्नोति कुतः पुनरारोपयिष्यति॥ ततो भगवता सप्तायोभेर्यो निर्मिताः स्वयं च तद्वनुरर्धचन्द्राकारेणारोप्य शरः क्षिप्तो येन <ताः> सप्तायोभेर्यश्छिद्रीकृताः। ततः शब्दो निर्गतः।



आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने।

धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥

यो ह्यस्मिन्धर्मविनये अप्रमत्तश्चरिष्यति।

प्रहाय जातिसंसारं दुःखस्यात्तं करिष्यति॥



स च शब्दो यावदकनिष्ठान्देवान्गतः॥ ततो राज्ञः कप्फिणस्य यो ऽभूद्बलमदः स प्रतिविगतः। तस्य बुद्धिरुत्पन्ना किमिदमिति॥ ततो भगवान्‍राज्ञो महाकप्फिणस्य चित्तप्रकारमुपलक्ष्य राजवेषमत्तर्धाप्य इदं सूत्रमारब्धवान्॥



दशबलसमन्वागतो भिक्षवस्तथागतो ऽर्हन्सम्यक्संबुद्धश्च<तु>र्वैशारद्यविशारद उदारमार्षभं स्थानं प्रतिजानीते ब्रह्मचर्यं प्रवर्तयति पर्षदि सम्यक्सिंहनादं नदति। यदुतास्मिन्सतीदं भवत्यस्योत्पा<दा>दिदमुत्पद्यते। यदुता ऽविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामनूपम्। नामनूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्। उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवत्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति॥ यदुतास्मिन्नसतीदं न भवति अस्य निरोधादिदं निरुध्यते। यदुताविद्यानिरोधात्संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञाननिरोधः। विज्ञाननिरोधान्नामनूपनिरोधः। नामनूपनिरोधात्षडायतननिरोधः। षडायतननिरोधात्स्पर्शनिरोधः। स्पर्शनिरोधाद्वेदनानिरोधः। वेदनानिरोधात्तृष्णानिरोधः। तृष्णानिरोधादुपादाननिरोधः। उपादाननिरोधाद्भवनिरोधः। भवनिरोधाज्जातिनिरोधः। जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपाया<सा> निरुध्यत्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति॥ स्वाख्यातो मे भिक्षवो धर्म उत्तानो विवृतश्छिन्नप्लोतिको यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशितः। एवं स्वाख्याते मे धर्म उत्ताने विवृते छिन्नप्लोतिके यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशिते यावदलमेव भिक्षवः श्रद्धाप्रव्रजितेन कुलपुत्रेण अलं योगाय अलमप्रमादाय अलं शास्तुः शासने योगमापत्तुं कामं त्वक्स्नाय्वस्थ्यवतिष्ठतां परिशुष्यतु शरीरान्मांसशोणितम्। अथ च पुनर्यत्तदारब्धवीर्येण प्राप्तव्यं स्थामवता वीर्यवतोत्साहिना दृढपराक्रमेणानिक्षिप्तधुरेण कुशलेषु धर्मेषु तद्वहना<द>नुप्राप्ता न वीर्यस्य स्रंसनं भविष्यति॥ तत्कस्य हेतोः। दुःखं हि कुसीदो विहरति व्यवकीर्णः पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैर्महतश्चार्थस्य परिहाणिर्भवति। आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैः सांक्लेशिकैः पौनर्भविकैः सज्वरैर्दुःखविपाकैरायत्यां जातिजरामरणीयैर्महतश्चार्थस्य पारिपूरिर्भवति॥ मण्डपेयमिदं प्रवचनं यदुत शास्ता च संमुखीभूतो धर्मश्च देश्यत औपशमिकः पारिनिर्वाणिकः संबोधिगामी सुगतप्रवेदितः। तस्मात्तर्हि भिक्षव आत्मार्थं च समनुपश्यद्भिः परार्थं चोभयार्थं चेदं प्रतिसंशिक्षितव्यम्। कच्चिन्नः प्रव्रज्या अमोघा भविष्यति सफला सुखोदया सुखविपाका येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारांस्तेषां च ते काराः कृताः कच्चिदत्यर्थमहाफला भविष्यत्ति महानुशंसा महाद्युतयो महावैस्तारा इत्येवं वो भिक्षवः शिक्षितव्यम्॥



अस्मिन्खलु धर्मपर्याये भाष्यमाणे राज्ञा महाकप्फिणेन अष्टादशामात्यगणसहस्रपरिवारेण विंशतिशिखरसुमद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ततो दृष्टसत्यो भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमाने <न व्यायच्छमाने>नेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त कप्फिणेन कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिको ऽष्टादशामात्यगणसहस्रपरिवारो महानग्नबलः प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कप्फिणेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। कप्फिणेन कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्येकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति बन्धुमतीयके दावे॥ यावदन्यतमेन सार्थवाहेन महासमुद्रात्प्रभूतानि रत्नान्यानीतानि। विपश्यी सम्यक्संबुद्धः सश्रावकसङ्घस्त्रैमास्यं भक्तेनोपनिमन्त्त्रितः विहारं च कारयित्वा चातुर्दिशाय भिक्षुसङ्घाय निर्यातित<वान्॥



किं मन्यध्वे भिक्षवो> यो ऽसौ सार्थवाह एष एवासौ कप्फिणो राजा तेन कालेन तेन समयेन। यदनेन विपश्यी सम्यक्संबुद्धः सश्रावकसङ्घस्त्रैमास्यं स्वात्तर्गृहे भक्तेनोपनिमन्त्रितः विहारं च कारयित्वा चातुर्दिशाय भिक्षुसङ्घाय निर्यातिता* * * * *॥ अपराण्यपि भिक्षवः कप्फिणेन कर्माणि कृतान्युपचितानि। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां महानगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं धार्मिको धर्मराजो धर्मेण राज्यं कारयति। सो ऽपरेण समयेन संप्राप्ते वसत्तकालसमये संपुष्पिते<षु>पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे अष्टादशामात्यगणसहस्रपरिवृत उद्यानं निर्गतः। तेन तत्रोद्याने ग्लानः प्रत्येकबुद्धो दृष्टः। स तेन सांप्रेयभोजनेन त्रैमास्यमुपस्थितः परिनिर्वृतस्य च शरीरस्तूपं कारयित्वा अमात्यगणसहायेन तैलाभिषेको दत्तः। तेन सपरिवारो महानग्नबलाधानेन संवृत्तः॥ भूयः काश्यपे भगवति प्रव्रजितो बभूव। तत्रानेनेन्द्रियपरिपाकः कृतः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति <हि>भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षाव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project