Digital Sanskrit Buddhist Canon

शोभित इति ८७

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
शोभित इति ८७।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णम्। तस्य जन्मन्यनेकान्यद्भुतानि प्रादुर्भूतानि यैः कपिलवस्तु नगरं समत्ततः शोभितम्। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जन्मनि कपिलवस्तु नगरं समत्ततः शोभितं तस्मादस्य भवतु शोभित इति नामेति॥ शोभितो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां <द्वाभ्यां> क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्त<प्तोत्त>प्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥



स यदा महान्संवृत्तस्तदा न्यग्रोधारामं गतो भगवतो दर्शनाय। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसादितम्। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवताशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा शोभितेन दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो मातापितरावनुज्ञाप्यं भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त शोभितेन कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिको ऽतिक्रात्तो मानुषवर्णमसंप्राप्तश्च दिव्यं वर्णं जन्मनि चास्यानेकानि अद्भुतानि प्रादुर्भूतानि यैः कपिलवस्तु नगरं समत्ततः शोभितम्॥ भगवानाह। शोभितेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। शोभितेनैवकर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यतीति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां <बुद्धो > भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति। तस्य शोभेन राज्ञा केशनखस्तूपः प्रतिष्ठापितः॥ यावत्कस्मिंश्चित्पर्वणि प्रत्युपस्थिते गोष्ठिका स्तूपसमीपं गताः। तैस्तं स्तूपं दृष्ट्वा प्रसादजातैः पुष्पारोपणं कर्तुमारब्धम्। तत्रैको गोष्ठिकः कथयत्यहं न करोमि मम विभवो नास्तीति। स तैश्च गोष्ठिकमध्यान्निष्कासितः। तस्य विप्रतिसारो जातः। तेन विचित्रपुष्पसंग्रहं कृत्वा तस्मिन्नेव स्तूपे पुष्पारोपणं कृतम्॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गोष्ठिक आसीद्येन विप्रतिसारजातेन क्रकुच्छन्दस्य केशनखस्तूपे पुष्पारोपणं कृतमयमसौ शोभितः। अन्यान्यपि हि भिक्षवः शोभितेन कर्माणि कृतान्युपचितानि॥ भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः श्रेष्ठी। तेन ग्लानः प्रत्येकबुद्धो दृष्टः। ततः प्रसादजातेन पादयोर्निपत्य पिण्डकेन प्रतिपादितः पटेन चाच्छादितः॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन श्रेष्ठी अयं शोभितः। भूयः काश्यपे भगवति दरिद्रो ऽभूत्काष्ठहारकः। स काष्ठानामर्थे पर्वतदरों प्रविष्टः। तेन स्तूपो दृष्टस्तत्र च स्तूपाङ्गणे तृणानि जातानि। ततस्तेन प्रसादजातेन तृणान्युत्पाट्य संमार्जनीं गृहीत्वा स्तूपाङ्गणं च संमृष्टम्। ततः पादयोर्निपत्य प्रणिधानं कर्तुमारब्धः। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन चाभिनूपः स्यां दर्शनीयः प्रासादिकः अनागतांश्च बुद्धानारागयेयं मा विरागयेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन काष्ठहारक आसीदयमेवासौ शोभितः। यदनेन स्तूपाङ्गणं संमृष्टं तेन यत्र यत्र जातस्तत्र तत्राभिनूपो दर्शनीयः प्रासादिकः संवृत्तः। तेनैव हेतुनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project