Digital Sanskrit Buddhist Canon

औपपादुक इति ८६

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
औपपादुक इति ८६।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां देवेषु त्रयस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे मातुर्जनित्र्या धर्मं देशयत्यन्येषां च देवानाम्। तेन खलु समयेनायुष्मान्महामौद्गल्यायनः श्रावस्त्यां वर्षा उपगतो जेतवने ऽनाथपिण्डदस्यारामे। अथ चतस्रः पर्षदो येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रात्ता महामौद्गल्यायनपादौ शिरसा वन्दित्वा एकात्ते निषणाः। चतस्रः पर्षद आयुष्मान्महामौद्गल्यायनो धर्मकथया संदर्शयति <समादापयति> समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ चतस्रः पर्षद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मान्महामौद्गल्यायनस्तेनाञ्जलिं प्रणमय्यायुष्मत्तं महामौद्गल्यायनमिदमवोचन्। कच्चित्ते भदत्त महामौद्गल्यायन श्रुतं कुत्र भगवानेतर्हि वर्षा उपगत इति॥

महामौद्गल्यायन आह। श्रुतं मे भवत्तो भगवान्देवेषु त्रयस्त्रिंशेषु वर्षा उपगतः पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे मातुर्जनित्र्या धर्मं देशयत्यन्येषां च देवानां त्रयस्त्रिंशा<ना>मिति॥ अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य भाषितमभिनन्द्यानुमोद्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रात्ताः॥



अथ चतस्रः पर्षदस्त्रयाणां वार्षिकाणामत्ययाद्येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रात्ताः। उपसंक्रम्यायुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकात्ते निषण्णाः। चतस्रः पर्षद आयुष्मान्महामौद्गल्यायनो धर्म्यया कथया संप्रदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्। अथ चतस्रः पर्षद उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येनायुष्मान्महामौद्गल्यायनस्तेनाञ्जलिं प्रणमय्यायुष्मत्तं महामौद्गल्यायनमिदमवोचन्। यत्खलु भदत्तमहामौद्गल्यायनो जानायाच्चिरदृष्टो ऽस्माभिर्भगवान्परितृषिताः स्मो वयं भगवतो दर्शनेन इछामो वयं भगवत्तं द्रष्टुम्। सचेद्भदत्तमहामौद्गल्यायनस्यागुरु साधु भदत्तमहामौद्गल्यायनो येन भगवांस्तेनोपसंक्रामेत्। उपसंक्रम्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्वाल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च <स्पर्शविहारतां च> एवं च वद। जम्बूद्वीपे भदत्त चनस्रः पर्षद आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुः। नास्ति खलु भदत्त जम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर्वा अनुभावो <वा> येन जम्बूद्वीपका मनुष्या देवांस्त्रयस्त्रिंशानभिरोहेयुर्भगवत्तं दर्शनायोपसंक्रमणाय पर्युपासनाय। अस्ति खलु देवानां त्रयस्त्रिंशानां तद्रूपा ऋद्धिश्चानुभावश्च येन देवास्त्रयस्त्रिंशा जम्बूद्वीपमवतरेयुर्भगवत्तं दर्शनायोपसंक्रमणाय पर्युपासनाय। साधु भगवान्देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपमवतरेदनुकम्पामुपादायेति॥ अधिवासयत्यायुष्मान्महामौद्गल्यायनश्चतसृणां पर्षदां तूष्णीभावेन। अथ चतस्रः पर्षद आयुष्मतो महामौद्गल्यायनस्य तूष्णीभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वोत्थायासनेभ्यः प्रक्रात्ताः॥



अथायुष्मान्महामौद्गल्यायनो ऽचिरप्रक्रात्ताश्चतस्रः पर्षदो विदित्वा तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते तद्यथा बलवान्पुरुषः संकुञ्चितं वा बाहुं प्रसारयेत्प्रसारितं वा संकुञ्चयेदेवमेवायुष्मान्महामौद्गल्यायनः श्रावस्त्यामत्तर्हितो देवेषु त्रयस्त्रिंशेषु प्रत्यष्ठात्पाण्डुकम्बलशिलायां पारिजातस्य कोविदारस्य नातिदूरे॥ तेन खलु समयेन भगवान<नेकशताया देवपर्षदो धर्म देशयति। अद्राक्षीच्च महामौद्गल्यायनो भगवत्तम> नेकशताया देवपर्षदः पुरस्तान्निषणं धर्मं देशयत्तं दृष्ट्वा च पुनः स्मितं प्राविरकार्षीत्। इहापि भगवानाकीर्णो विहरति तद्यथा जम्बूद्वीपे चतसृभिः पर्षद्भिरिति॥ अथ भगवानायुष्मतो महामौद्गल्यायनस्य चेतसा चित्तमाज्ञायायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। न खलु मौद्गल्यायन स्वैरत्वमे<षां> अपि तु यदा मे एवं भवति आगच्छत्त्विति तदा आगच्छत्ति यदा मे एवं भवति गच्छत्त्विति तदा गच्छत्ति। इति मे चेतसा चित्तमाज्ञाय आगच्छत्ति च गच्छत्ति च॥



अथायुष्मान्महामौद्गल्यायनो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकात्ते निषणः। <एकात्तनिषण> आयुष्मान्मौद्गल्यायनः सर्वां देवपर्षदमवलोक्य भगवत्तमिदमवोचत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्ति आर्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥ अथ भगवानायुष्मतो महामौद्गल्यायनस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतन्मौद्गल्यायन एवमेवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषणा संनिपतिता। सत्त्य स्यां देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्ति आर्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥



अथ शक्रो देवानामिन्द्रो भगवत आयुष्मतश्च महामौद्गल्यायनस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतद्भदत्तमहामौद्गल्यायन एवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे सत्त्यार्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्नाः॥



अथान्यतमो देवपुत्रो भगवत आयुष्मतश्च महामौद्गल्यायनस्य शक्रस्य <च> देवानामिन्द्रस्य भाषितमनुवर्णयन्नायुष्मत्तं महामौद्गल्यायनमिदमवोचत्। एवमेतद्भदत्तमहामौद्गल्यायन एवमेतत्। विचित्रा बतेयं देवपर्षत्संनिषण्णा संनिपतिता। सत्त्यस्यां देवपर्षदि देवता या बुद्धे ऽवेत्य प्रसादेन समन्वागताः कायस्य भेदादिहोपपन्नाः। सत्ति धर्मे सत्ति सङ्घे। * * * * वयमार्यकात्तैः शीलैः समन्वागताः कायस्य भेदादिहोपपन्ना इति॥



तत्रानेकानि देव<ताश>तानि अनेकानि देवतासहस्राण्यनेकानि देवताशतसहस्राणि भगवतः पुरस्तात्प्रत्येकं प्रत्येकं स्रोतापत्तिफलं साक्षात्कृत्य तत्रैवात्तर्हितानि॥



अथायुष्मान्महामौद्गल्यायनः प्रविविक्तां देवपर्षदं विदित्वा एकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवत्तमिदमवोचत्। जम्बूद्वीपे भदत्त चतस्रः पर्षदो भगवतः पादौ शिरसा वन्दत्ते अल्पाबाधतां च पृच्छत्त्यल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च॥ भगवानाह। सुखिनो मौद्गल्यायन भवत्तु जम्बूद्वीपे चतस्रः पर्षदस्त्वं च॥ महामौद्गल्यायन आह। जम्बूद्वीपे भदत्त चतस्रः पर्षद आकाङ्क्षत्ति भगवतो दर्शनमेवं चाहुः। नास्ति भदत्त जाम्बूद्वीपकानां मनुष्याणां तद्रूपा ऋद्धिर्वा अनुभावो वा येन जाम्बूद्वीपका मनुष्या देवांस्त्रयस्त्रिंशानभिरोहेयुर्भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। अस्ति तु भदत्त देवानां त्रयस्त्रिंशानां तद्रूपा ऋद्धिश्चानुभावश्च येन देवास्त्रयस्त्रिंशा जम्बूद्वीपमवतरेयुर्भगवत्तं दर्शनायोपसंक्रमितुं पर्युपासनाय। साधु भगवान्देवेभ्यस्त्रयस्त्रिंशेभ्यो ऽवतरेदनुकम्पामुपादाय॥ भगवानाह। तेन हि त्वं गच्छ मौद्गल्यायन जम्बूद्वीपं गत्वा <च> चतसृणां पर्षदामारोचय। अवतरिष्यति भवत्तो भगवानितस्सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदम्बरमूल इति॥



अथायुष्मान्महामौद्गल्यायनो भगवतः प्रतिश्रुत्य पादौ शिरसा वन्दित्वा तद्रूपं समाधिं संपन्नो यथा समाहिते चित्ते तद्यथा बलवान्पुरुषः संकुञ्चितं बाहुं प्रसारये<त्प्रसारितं वा संकुञ्चये>देवमेवायुष्मान्महामौद्गल्यायनो देवेषु त्रयस्त्रिंशेष्वत्तर्हितो जम्बूद्वीपे प्रत्यष्ठात्॥ अथायुष्मान्महामौद्गल्यायनो जम्बूद्वीपमागत्य चतसृणां पर्षदामारोचयति। अवतरिष्यति भवत्तो भगवानितः सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यो जम्बूद्वीपं सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूल इति॥



अवतीर्णो भगवांस्ततः सप्तमे दिवसे देवेभ्यस्त्रयस्त्रिंशेभ्यः सांकाश्ये नगरे आपज्जुरे दावे उदुम्बरमूले। यदा भगवान्सांकाश्यं नगरमवतीर्णस्तदानेकानि प्राणिशतसहस्राणि भगवतो दर्शनाय संनिपतितानि॥ तत्रोपपादुको भिक्षुः प्रादुर्भूतः। तेन भगवान्सश्रावकसङ्घस्ते च देवासुरगरुडकिन्नरमहोरगा भक्तेनोपनिमन्त्रिताः॥ यावद्गण्डीदेशनाकाले सहचित्तोत्पादाद्दिव्यान्यासनान्युदारपटाच्छादितानि प्रादुर्भूतानि दिव्यानि च भक्ष्यभोज्यानि। तत उपपादुकेन भगवान्दिव्येनाहारेण संतर्पितस्ते च देवासुरगरुडकिन्नरमहोरगाः सम्यगुपस्थिताः। ततो ऽस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वोपपादुकेन भिक्षुणा इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त उपपादुकेन कर्माणि कृतानि येनोपपादुकः संवृत्तः स<ह>चित्तोत्पादाच्चास्य यच्चित्तयति यत्प्रार्थयते तत्सर्वं समृध्यतीति॥ भगवानाह। उपपादुकेनैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। उपपादुकेनैव कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि अपि कल्पशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्येकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावदन्य<त>रस्मिन्ग्रामके ऽरण्यायतने पञ्च भिक्षवो वर्षा उपगताः। तत्रैकेन भिक्षुणा चतुर्णा भिक्षूणां वैयावृत्यं कृतम्। तैर्युज्यमानैर्घटमानैर्व्यायच्छमानैः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। पञ्चमेन पादयोर्निपत्य प्रणिधानं कृतम्। यथैभिर्मामागम्यार्हत्त्वं साक्षात्कृतमनेन मे कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च प्रव्रजितस्य उपकरणविशेषैरवैकल्यं स्यादिति॥



<किं मन्यध्वे भिक्षवः। यो ऽसौ तेन कालेन तेन समयेन वैयावृत्यं कृतवानयं स उपपादुक इति॥ भिक्षव ऊचुः।> किं कर्म कृतं येनोपपादुकः संवृत्तः॥ भगवानाह। भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि <अस्मिन्नेव भद्रके कल्पे> विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि तथागतो ऽर्हन्सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। तत्रान्यतरः श्रेष्ठी। तस्य भार्या प्रसवकाले दुःखवेदनाभिभूता आर्तस्वरा क्रन्दति। स तं शब्दं श्रुत्वा परं संवेगमापन्नः। स शोकागारं प्रविश्य करे कपोलं दत्त्वा चित्तापरो व्यवस्थितः। तस्य बुद्धिरुत्पन्ना। यन्न्वहं भगवच्छासने प्रव्रज्य प्रणिधानं कुर्या येन न कदाचिद्गर्भशय्यां प्रत्यनुभवामीति॥ स तेनैव संवेगेन भगवतः काश्यपस्य प्रवचने प्रव्रजितः। तेन प्रणिधानं कृतम्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यत्र यत्र जायेय तत्र तत्रोपपादुको भवेयं मा कदाचिद्गर्भशय्यां प्रत्यनुभवेयमिति॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सार्थवाह आसीदयं स उपपादुकः। यत्प्रणिधानं कृतं तेनोपपादुकः संवृत्तः। यत्तत्रानेनेन्द्रियाणि परिपाचितानि तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो <भगवतो> भाषितमभ्यनन्दन्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project