Digital Sanskrit Buddhist Canon

यशोमित्र इति ८५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Yaśomitra iti 85
यशोमित्र इति ८५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमस्सार्थवाह आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति॥ तेन खलु समयेन दुर्भिक्षमभूत्कृच्छ्रम्। कात्तारदुर्लम्भः पिण्डको याचनकेन। नैमित्तिकैश्च निर्दिष्टं देवो न वर्षिष्यतीति॥ यावत्सार्थवाहपत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वाङ्गोपतः। यत्र च दिवसे दारको जातस्तत्रैव दिवसे ऽनावृष्टिर्भग्ना। तस्य यशसा सर्वा श्रावस्ती आपूरिता॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य समत्ताद्यशो विसृतं तस्माद्भवतु दारकस्य यशोमित्र इति नामेति॥ यशोमित्रो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥



यदा यशोमित्रो महान्संवृत्तस्तदा जेतवनं निर्गतः केनचिदेव करणीयेन। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्गममिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चास्य प्रसादो जातः। प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्य भगवता तादृशी संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणगुणदर्शी भूत्वा मातापितरावनुज्ञाप्य भगवच्छासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः। तस्य दंष्ट्राभ्यामष्टाङ्गोपेतं पानीयं प्रस्रवति येनास्य तृषा न बाधते। यदा निदाघकाले भिक्षवस्तृषार्ताः पानकस्यार्थे सङ्घमवतरत्ति तदाप्यसौ नावतरति॥ ततो ऽस्य सुप्रेमका भिक्षवः पृच्छत्ति केन हेतुना भवतस्तृषा न बाधत इति॥ स कथयति। ममैताभ्यां दंष्ट्राभ्यामष्टाङ्गोपेतं पानीयं प्रस्रवति येन न मे तृषा बाधत इति॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त यशोमित्रेण कर्माणि कृतानि येनाभिनूपो दर्शनीयः प्रासादिकः दंष्ट्रात्तराच्चाष्टङ्गोपेतं पानीयं प्रस्रवति प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। यशोमित्रेणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। यशोमित्रेण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतान्युपचितानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्यस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> वाराणसीं नगरीमुपनिश्रित्य विहरति ऋषिपतने मृगदावे। यावदन्यतरः श्रेष्ठिपुत्रो ऽन्यतरस्य वृद्धभिक्षोः सकाशे प्रव्रजितः। सो ऽलसो नेच्छति सम<या>चारिकां चरितुम्। ततः सब्रह्मचारिभिः स्थविरस्योपस्थापको दत्तः। स उपस्थापकमात्मानं मत्वा वृद्धतराणां भिक्षूणां सकाशादुपस्थानं स्वीकरोति। तस्याकुशलमूलान्यपर्यत्तानि॥



यावदपरेण समयेन ग्लान्यं पतितः। स्थविरेणास्य वैद्योपदेशाद्धृतं पानाय दत्तम्। स रात्रौ तृषा त्रासितः स्वकं कमण्डलुकमुपगृह्य पानीयं पास्यामीति पश्यति निरुदकम्। एवमाचार्योपाध्यायानाम्। यावत्साङ्घिकं पानीयमण्डपमवतीर्णः। तदपि निरुदकं पश्यति। यावन्नदीचारिकामवतीर्णः। सापि निरुदका संवृत्ता॥ स उद्विग्नः स्वकानां सब्रह्मचारिणामुद्वेजनार्थं श्रद्धादेयस्य च गुरुत्वसंदर्शनार्थं नदीचारिकायाः पारे वृक्षः तत्र शाटकं बद्ध्वा समभिनूढः स्वकर्माणि ममेत्यवेत्य कर्मप्रतिसरणावस्थितः॥ यावद्द्वितीये दिवसे प्रभातायां रजन्यामेतद्वृत्तात्तं सब्रह्मचारिणामारोचयति। ततो ऽस्य <स>ब्रह्मचारिणः प्रेतकरणं श्रुत्वोद्विग्ना इतश्चामुतश्चारोचयितुमारब्धाः॥ ततो ऽस्य उपाध्यायेन पानीयमुपनामितम्। तदपि न पश्यति। तेनापि संविग्नेन भगवतः काश्यपस्य निवेदितम्। भगवता काश्यपेनोक्तो गण्डीराकोट्यतामिति॥ तत उपधिवारिकेण गण्डीराकोटिता। बुद्धप्रमुखो भिक्षुसङ्घः संनिपतितः॥



एष वृत्तात्तो वाराणस्यां नगर्यां समत्ततो विसृतः। ततो ऽनेकानि प्राणिशतसहस्राणि संनिपतितानि॥ यावदुपाध्यायेन वृद्धात्ते निषादयित्वा उदकपूर्णा कुण्डिका दत्ता। वत्सैतत्पानीयं सङ्घे चारयेति॥ स प्रत्यक्षफलदर्शी तेनैव संवेगेन बुद्धे भगवति श्रावकेषु च प्रसादमुत्पाद्य तीव्रेणाशयेन तदुदकं सङ्घे चारितवान्। ततो भगवता तस्यानुग्रहार्थं गजभुजसदृशं बाहुमभिप्रसार्य भीतानामाश्वासनकरेण <करेण>तदुदकं गृहीतं महाश्रावकैश्च न च क्षीयते। यावत्सर्वसङ्घे चारितं तदापि च क्षीयते॥ तदत्यद्भुतं देवमनुष्यावर्जनकरं प्रातिहार्यं दृष्ट्वानेकैः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्। तस्यापि संताने ऽकुशलमूलानि प्रतिसंहृतानि॥ यदा तस्माद्ग्लान्याद्युत्थितस्तदा तेन बुद्धप्रमुखो भिक्षुसङ्घः पानीयेनाल्पोत्सुकः कृतः। द्वादश वर्षसहस्राणि तेन सङ्घे पानीयं चारितम्। यावन्मरणकालसमये प्रणिधानं कृतवान्। अनेनाहं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च यो ऽसौ भगवता काश्यपेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं मानववर्षशतायुषि प्रजायां शाक्यमुनिर्नाम तथागतो ऽर्हन्सम्यक्संबुद्धस्तमहमारागयेयं मा विरागयेयं दंष्ट्रात्तराच्च मे ऽष्टाङ्गोपेतं पानीयं निर्गच्छेदिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन भिक्षुरासीदयं सः। यत्तेन <द्वादश> वर्षसहस्राणि सङ्घे पानीयं चारितं प्रणिधानं च कृतं तेनेह जन्मनि दंष्ट्रात्तरादष्टाङ्गोपेतं पानीयं निर्गच्छति। तेनैव हेतुनार्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project