Digital Sanskrit Buddhist Canon

समुद्र इति ८१

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
नवमो वर्गः।



समुद्र इति ८१।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमस्सार्थवाहस्तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतो बुद्धिरुत्पन्ना यावदहं युवा तावद्वनसंचयं करोमि पश्चाद्वृद्धावस्थायां सुखं परिभोक्ष्ये इति॥ ततस्सार्थवाहः पञ्चवणिक्छतपरिवारो यानपात्रमादाय भार्यासहायो महासमुद्रमवतीर्णः॥ यावदस्य प्रजापती आपन्नसत्त्वा जाता। यावत्तत्रैव समुद्रमध्ये प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं यस्मात्समुद्रमध्ये जातस्तस्मात्समुद्र इति नाम॥ यावदसौ सार्थवाहः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रो महासमुद्रात्प्रत्यागतः॥



यदा समुद्रो दारको महान्संवृत्तस्तदा पित्रा सार्थवाहत्वे प्रतिष्ठाप्य पञ्चवणिक्छतपरिवारो महासमुद्रं संप्रेषितः। सो ऽनुपूर्वेण चञ्चूर्यमाणो ग्रामनगरनिगमराष्ट्रराजधानीपट्टनान्यवलोकयन्समुद्गतीरमनुप्राप्तः॥ स पञ्चभिः पुराणशतैर्वहनं भृत्वा पञ्च पौरुषेयान्गृहीत्वा आहारं नाविकं कैवर्तं कर्णधारं च <त्रिरपि> घण्टावघोषणं कृत्वा महासमुद्रमवतीर्णः॥ ततस्तेषां समुद्रमध्यगतानां कालिकावातेन तद्वहनमितश्चामुतश्च परिभ्राम्यते। समुद्रश्च सार्थवाहस्तीर्थिकाभिप्रसन्नः। सो ऽकालमृत्युभयभीतः षट् छास्तॄनायाचितुं प्रवृत्तः। तथापि तद्वहनं वायुना भ्राम्यत एव। यावदन्ये वणिजो देवतासहस्राण्यायाचितुं प्रवृत्ता आहुश्च।



शिववरुणकुबेरा वायुरग्निर्महेन्द्रो

भुवि च तुविमघो <यो> विश्वदेवो महर्षि।

र्वयामह मरणार्ता वः प्रपन्नाः स्म शीघ्रं

व्यसनमिदमुपेतं त्रातुमिच्छत्तु सार्थम्॥



ततस्तेषामेवमपि परिदेवमानानां नास्ति कश्चित्राता॥ यावत्तत्रान्यतम उपासक<ः स>मानूढः। स उवाच। किं वो भवत्तः षट् छास्तार अन्ये च देवताः करिष्यत्ति। बुद्धं भगवत्तं प्रत्यक्षदेवतं भावेन शरणं प्रपद्यध्वं स वस्त्राता भविष्यतीति। ततः समुद्रप्रमुखाणि पञ्च वणिक्छतानि एकरवेण भगवत्तं शरणं प्रपन्नानि॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवताम<ज्ञातम>दृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां <दशबलबलिनां> दशदिक्समापूर्णयशसां दशशतवंशवर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम<हम>पायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपव्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



यावद्भगवता जेतवनावस्थितेन सूर्यसहस्रातिरेकप्रभाः कनकवर्णा मरीचय उत्सृष्टा यैस्ते वणिजः समत्तादवभासिताः कल्पसहस्रपरिभाविताश्चांशव उत्सृष्टा यैः प्रह्लादिताः कालिकावातश्च प्रत्यागतः॥



यावत्समुद्रः स्वस्तिक्षेमाभ्यां संसिद्धयानपात्रः प्रत्यागतस्तेनैव मरणसंवेगेन दानप्रदानानि दत्त्वा बन्धुजनं समाश्वास्य श्रमणब्राह्मणकृपणवनीपकान्संतर्प्य पञ्चवणिक्छतपरिवारो भगवच्छासने प्रव्रजितः॥ तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः।



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि व्यसनात्परित्रातानि अत्यत्तनिष्ठे <च> निर्वाणे प्रतिष्ठापितानीति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमानि समुद्रप्रमुखानि पञ्च वणिक्छतानि इष्टेन जीवितेनाच्छादितानि व्यसनात्परित्रातानि अत्यत्तनिष्ठे च निर्वाणे प्रतिष्ठापितानि। यत्तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः इमे वणिजः परित्रातास्तच्छृणुत साधु च सुष्ठु च मनसि कुरु<त> भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वन्य<न्य>तमस्मिन्समुद्रतीरे पञ्चाभिज्ञ ऋषिः प्रतिवसति कष्टतपा मूलफलाम्बुभक्तो ऽजिनवल्कलवासी अग्निहोत्रकः। स च कारुणिको महात्मा धर्मकामः प्रजावत्सलो व्यसनगतानां परित्राता॥ यावद्वाराणस्यां पञ्च वणिक्छतानि समुद्रमवतर्तुकामानि। तान्यनुपूर्वेण चञ्चूर्यमाणानि समुद्रतीरमनुप्राप्तानि। तमृषिं दृष्ट्वा प्रसादजातानि पादयोर्निपत्य विज्ञापयितुमारब्धानि। यद्यस्माकं भगवन्समुद्रमध्यगतानां किञ्चिद्यसनमुत्पद्येत भगवता तावदेते परित्रातव्या इति। तेनाधिवासितमेवं भवत्विति॥ ततस्ते वणिजो रत्रान्यादाय जम्बुद्वीपाभिमुखाः संप्रस्थिताः। यावत्कालिकया राक्षस्या संत्रासितुमारब्धाः। ततस्तेन ऋषिणा परित्राताः॥ ततः संसिद्वयानपात्राः प्रत्यागता ऋषिसमीपमुपगम्योचुः। भो महर्षे अनेन दुष्करेण व्यवसायेन कारुण्यभावाच्च किं प्रार्थयस इति॥ तेनोक्तम्। अन्धे लोके ऽनायके बुद्धो भूयासमतीर्णानां सत्त्वानां तारयिता अमुक्तानां मोचयिता अनाश्वस्तानामाश्वासयिता अपरिनिर्वृतानां परिनिर्वापयितेति॥ तैरुक्तम्। यदा त्वं बुद्धो भवेस्तदास्मानपि समन्वाहरेथा इति॥ ऋषिराह। एवमस्त्विति॥



किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिरासीदहं सः। ये ते वणिज इमे ते समुद्रप्रमुखास्तदाप्येते मया परित्राताः। भूयः काश्यपे भगवति प्रव्रजिता बभूवुः। तत्रैभिरिन्द्रियपरिपाकः कृतस्तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि <च> एकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project