Digital Sanskrit Buddhist Canon

विनूपेति ८०

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
विनूपेति ८०।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खल समये<न> प्रसेनजित्कौशलो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं पालयति। यावत्स राजा अन्यतमया देव्या सहक्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। सा अष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारिका जाता अष्टादशभिर्दौर्वर्णिकैरङ्गैः समन्वागता। तस्या जातौ जातिमहं कृत्वा विनूपेति नामधेयं व्यवस्थाप्यते॥ यदा क्रमेण महती संवृत्ता यदा यस्मै प्रदीयते स तां विनूपेति कृत्वा न प्रतिगृह्णाति॥



यावद्दक्षिणापथाद्रङ्गो नाम सार्थवाहो ऽभ्यागतो विस्तीर्णविभवः। ततो राज्ञः प्रसेनजितो बुद्धिरुत्पन्ना। अयं गङ्गसार्थवाह एतस्या दोषेष्वनभिज्ञो यन्न्वहमस्मै दास्यामीति॥ ततो राज्ञा रात्रौ संप्राप्तायां भग्ने चक्षुष्पथे गङ्गं दूतेनाह्वाप्य सा दारिका सर्वालङ्कारविभूषिता भार्यार्थे दत्ता॥ गङ्गाय गङ्गरस्था गङ्गरस्थेति संज्ञा प्रादुर्भूता॥



यावद्गङ्गेन सार्थवाहेन द्वितीये दिवसे प्रभातायां रजन्यां सा दारिका दृष्टा परमबीभत्सा। यां दृष्ट्वा राजापेक्षया न शक्रोत्यवमोक्तुं स्वगृहे धारयति॥



यावद्गङ्गः सार्थवाहः कस्मिंश्चित्पर्वण्युपस्थिते गोष्ठिकानां मध्यं गतः। गोष्ठिकैश्च क्रियाकारः कृतः सह भार्यया अमुकमुद्यानं यो न यास्यति स गोष्ठिकानां पञ्च पुराणशतानि दण्डमनुप्रदास्यतीति॥ ततो गङ्गः स्वगृहमागत्य शोकागारं प्रविश्य करे कपोलं कृत्वा चित्तापरो व्यवस्थितः। तस्य बुद्धिरुत्पन्ना। वरमहं दण्डं दद्यां न चाहमेतामेतेषां दर्शयेयं सहदर्शनाच्चावगीतो भविष्यामीति॥ अथ गङ्गो द्वारं बद्ध्वा पञ्च पुराणशतानि दण्डं गृहीत्वा गोष्ठिकानां मध्यं गतः॥ ततो दारिकाया महद्दौर्मनस्यमुत्पन्नम्। किं ममानेनैवंविधेन जीवितेन यत्र मे न च स्वामिचित्तं सुखितं न चाहं किमत्र प्राप्तकालमात्मानं घातयिष्यामीति॥ ततो रज्जुं गृहीत्वा अवरकं प्रविष्टा उद्बन्धनहेतोः॥



अत्रात्तरे नास्ति किञ्चिद्बुद्धानां भगवतामज्ञातमदृष्टमविदितमविज्ञातम्। धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानामेकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां पञ्चाङ्गविप्रहीणानां पञ्चगतिसमतिक्रात्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानामष्टाङ्गमार्गदेशिकानां नवानुपूर्वसमापत्तिकुशलानां दशबलबलिनां दशदिक्समापूर्णयशसां दशश<तवश>वर्तिप्रतिविशिष्टानां त्री रात्रेस्त्रिर्दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते। को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कमहमपायादुद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं कस्यानवरोपितानि कुशलमूलान्यवरोपयेयं कस्यावरोपितानि परिपाचयेयं कस्य परिपक्कानि विमोचयेयम्। आह च।



अप्येवातिक्रमेद्वेलां सागरो मकरालयः।

न तु वैनेयवत्सानां बुद्धो वेलामतिक्रमेत्॥



ततो भगवता जेतवनावस्थितेन कनकवर्णा प्रभा उत्सृष्टा यया तद्गृहं सूर्यसहस्रेणेवावभासितमृद्या चोपसंक्रम्य तद्गलादुद्बन्धनमवमुच्य दारिकां समाश्वासितवान्॥ षणां स्थानानामाश्चर्याद्भुतो लोके प्रादुर्भावः। तथागतस्य तथागतप्रवेदितस्य धर्मविनयस्य मनुष्यत्वस्य आर्यायतने प्रत्याजात<त्वस्ये>न्द्रियैरविकलत्वस्य कुशलधर्मच्छन्दकस्य आश्चर्याद्भुतो लोके प्रादुर्भावः॥ ततो भगवता तस्या दारिकायास्तथाविधा धर्मदेशना कृता यां श्रुत्वा विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। ततो लब्धप्रसादया भगवान्भक्तेन प्रतिपादितः पटेन चाच्छादितः। ततो दारिकाया अपगता अलक्ष्मीर्लक्ष्मीः प्रादुर्भूता देवकन्येव चीवरकमवभासमाना स्थिता। भगवानपि प्रक्रात्तः॥



ततो गोष्ठिकानां बुद्धिरुत्पन्ना। नूनमस्य भार्या परमदर्शनीया संवृत्ता स एष ईर्ष्याप्रकृतिर्दण्डमुत्सहते दातुं न च तां दर्शयितुमिच्छति यन्नु वयमेनं विरुद्धैर्मद्यैः पाययित्वा ताडमादाय गृहमस्य गत्वा भार्यां पश्येमेति॥ ततस्तैस्तं घनघनेन विरुद्धमद्येन पानेन क्षीवं कृत्वा ताडमपहृत्य गृहं गत्वा द्वारमवमुच्य दारिका दृष्टा। ततो दृष्ट्वा परं विस्मयमुपगताश्चित्तयत्ति। स्थाने ऽसौ न दर्शयत्यस्माकमिति॥ ततस्ते पुनरागत्य मद्यवशात्सुप्तमुत्थाप्योचुः। लाभास्ते गङ्ग सुलब्धा यस्य ते एवंविधा दर्शनीया दारिकेति॥ ततो गङ्गो भूयस्या मात्रया दुःखी दुर्मनाः संवृत्तः। दण्डः स्व<यं> मया दत्तो ऽहं चावगीतो जात इति॥ ततो दुर्मनाः स्वगृहमागतः। द्वारमवमुच्य तां भार्यां दृष्टवान्वनदेवतामिव कुसुमितमध्ये ऽतीव विभ्राजमानाम्। ततः पृच्छति भद्रे किमेतत्। किं कृतो नूपविशेष इति॥ ततस्तया यथावृतं स्वामिने समाख्यातम्। श्रुत्वा तेनापि भगवति श्रद्धा प्रतिलब्धा॥



यावदसौ दारिका क्रमेण भर्तारमनुज्ञाप्य भगवच्छासने प्रव्रजिता। तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या <च> संवृत्ता॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। किं भदत्त गङ्गरस्थया कर्म कृतं येनाढ्ये कुले जाता किं कर्म कृतं येन विनूपा संवृत्ता प्रव्रज्य चार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। गङ्गरस्थयैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितान्यवश्यंभावीनि। गङ्गरस्थया कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमा श्रेष्ठिभार्या चण्डा रभसा कर्कशा। असति बुद्धानामुत्पादे प्रत्येकबुद्धा लोक उत्पद्यत्ते हीनदीनानुकम्पकाः प्रात्तशयनासनभक्ता एकदक्षिणीया लोकस्य। यावदन्यतरः प्रत्येकबुद्धस्तद्गृहं प्रविष्टो विनूपः। स तया बहु परिभाष्य गृहान्निष्कासितः केनायं विनूपो मम गृहे प्रवेशित इति। ततः प्रत्येकबुद्धस्तस्यानुग्रहार्थं विततपक्ष इव हंसराजो गगणतलमभ्युद्गम्य विचित्राणि <प्रातिहार्याणि> विदर्शयितुमारब्धः। ततः श्रेष्ठिभार्यया विप्रतिसारजातया* * * * *॥ यावदसौ क्षमितः पिण्डकेन <प्रतिपादितश्च> प्रणिधानं <च>कृतम्। यन्मया प्रत्येकबुद्धः परिभाषितो मा अस्य कर्मणो विपाकमनुभवेयमेवंविधानां च धर्माणां लाभिनी स्यां प्रतिविशिष्टतरं<च>शास्तारमारागयेयमिति॥



किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या इयमसौ गङ्गरस्था। यदनया प्रत्येकबुद्धः पिण्डकेन प्रतिपादितस्तस्य कर्मणो विपाकेनाढ्ये राजकुले प्रत्यागता। यद्विनूपाववादेन समुदाचर्य गृहान्निष्कासितस्तेन विनूपा संवृत्ता। भूयः काश्यपे भगवति प्रव्रजिता आसीत्। तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलमायतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं कृतं ब्रह्मचर्यवासश्च परिपालितः। तेनेदानीमर्हत्त्वं साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project