Digital Sanskrit Buddhist Canon

कुवलयेति ७५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
कुवलयेति ७५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। तेन खलु समये <न> राजगृहे नगरे गिरिवल्गुसमागमो नाम पर्व प्रत्युपस्थितम्। तत्र सर्वेभ्यः षड्भ्यो महानगरेभ्यो जनकायस्संनिपतति॥ यावद्दक्षिणापथान्नटाचार्य आगतः। तस्य दुहिता कुवलया नामाभिनूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता।

सा नूपयौवनारोग्यमदमत्ता। यदा रङ्गमध्यमवतरति तदा सर्वप्रेक्षकैः सोत्कण्ठैरुद्वीक्ष्यते ये चाप्रतिसंख्यानबहुलास्तेषां मनांस्याकर्षति॥ तत्र यदा पर्व प्रत्युपस्थितं भवति तदा पूरणप्रभृतयः <स>पर्षत्का उपसंक्रामत्ति॥ ततः कुवलया दारिका जनकायमुवाच। अस्ति भवत्तो राजगृहे नगरे कश्चिन्मनुष्यभूतो यो मे नूपेण समो विशिष्टतरो वेति॥ जनकायेनोक्ता। अस्ति श्रमणो गौतमः सपरिवार इति॥ कुवलयोवाच। किमसौ मनुष्यभूतो ऽथदेव इति॥ मनुष्यभूतः स तु सर्वज्ञ इति॥



ततस्तद्वचनमुपश्रुत्य कुवलया सर्वालङ्कारभूषिता भगवत्सकाशमुपसंक्रात्ता। उपसंक्रम्य भगवतः पुरस्तात्स्थित्वा नृत्यति गायति वादयते स्त्रीलिङ्गानि स्त्रीचिह्नानि स्त्रीनिमित्तानि चोपदर्शयति। ये सरागा भिक्षवस्ते तया संभ्रामिताः॥ ततो भगवान्‍रागबहुलानां भिक्षूणां विनयनार्थं कुवलयायाश्च नूपयौवनमदापनयनार्थं तद्रूपानृद्यभिसंस्कारानभिसंस्कृतवान्येन कुवलया जीर्णा बृद्धा पलितशिरस्का खण्डदत्ता कुब्जगोपानसीवक्रा निर्मिता। तत्कालसमनत्तरमेव कुवलयाया आत्मानं बीभत्समभिवीक्ष्य यो ऽसौ नूपयौवनमदः स प्रतिविगतः रागबहुलाश्च भिक्षवः संविग्नाः॥ ततः कुवलया अपगतमदा भगवतः पादौ शिरसा वन्दित्वा भगवत्तं विज्ञापितवती। साधु मे भगवांस्तथा धर्मं देशयतु यथाहमस्मात्पूतिकडेवरादल्पकृच्छ्रेण परिमुच्येयेति॥ अथ भगवान्कुवलयायास्तेषां चावीतरागाणां भिक्षूणामाशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तथाविधां धर्मदेशनां कृतवान्यां श्रुत्वा कैश्चिद्विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेणं भित्त्वा स्रोतापत्तिफलं साक्षात्कृतं कैश्चित्सकृदागामिफलं कैश्चिदनागामिफलं कैश्चित्प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतं कुवलयापि लब्धप्रसादा भगवत्सकाशे प्रव्रजिता॥ तया युज्यमानया घटमानया व्यायच्छमानया इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्। अर्हत्ती संवृत्ता त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्या च संवृत्ता। तैरपि नटैस्तेन संवेगेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। आश्चर्यं भदत्त यद्भगवता कुवलया नटदारिका नूपयौवनमदमत्ता जरया संवेज्य यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापिता इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदिदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञज्ञानज्ञेयवशिप्राप्तेन कुवलया दारिका नूपयौवनमदमत्ता जरया संवेज्य यावदत्यत्तनिष्ठे निर्वाणे प्रतिष्ठापिता। यत्तु मयातीते ऽध्वनि सरागे<ण>सद्वेषेण समोहेनापरिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः कुवलया दारिका संवेज्य पञ्चसु व्रतप्रदेशेषु प्रतिष्ठापिता तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं प्रियमिवैकपुत्रकं राज्यं कारयति। यावदसौ राजा देव्या सह क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः कालात्तरेण देवी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाट उच्चघोषणः संगतभ्रूस्तूङ्गनासस्सर्वाङ्गप्रत्यङ्गोपेतः॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य पिता काशिराजो ऽयं चाभिनूपो दर्शनीयः प्रासादिकस्तस्माद्भवतु दारकस्य काशिसुन्दर इति नाम॥ काशिसुन्दरो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्॥ यदा महान्संवृत्तस्तदा यौवराज्ये ऽभिषिक्तः॥ सो ऽनेकदोषदुष्टमनर्थमूलं राजत्वं विदित्वा ऋषिषु प्रव्रजितः। स च हिमवत्कन्दरे प्रतिवसति फलमूलाम्बुभक्तो ऽजिनवल्कलधारी अग्निहोत्रिकः॥ यावदपरेण समयेन फलानाम<र्थम>न्यतरं पर्वतकन्दरमुनप्रवृत्तः॥ यावत्तत्र किन्नरदारिका ऋषिकुमारं दृष्ट्वा संरक्ता नृत्यति गायति वादयति स्त्रीचिह्नानि स्त्रीनिमित्तानि स्त्रीविक्रीडितान्युपदर्शयति॥ यावत्काशिसुन्दरेण ऋषिणा तस्या दारिकाया धर्मदेशना दत्ता। जीर्णासि भगिनि प्रथमस्ते स्वरो मधुरः स्निग्धश्च पश्चिमस्ते जर्जरीभूत इति। ततस्तेन तस्या धर्मदेशना कृता यां श्रुत्वा किन्नरकन्याया यो ऽभूद्रूपमदः स प्रतिविगतः। तया प्रसादजातया प्रणिधानं कृतम्। यस्मिन्समये ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येथास्तदा ते ऽहं श्राविका स्यामिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिकुमारो बभूवाहं सः। किन्नरकन्या इयमेव कुवलया। भिक्षवो बुद्धं भगवत्तं पृच्छत्ति। कानि भदत्त कुवलयया कर्माणि कृतानि येनाभिनूपा दर्शनीया प्रासादिका संवृत्ता कानि कर्माणि कृतानि येनार्हत्त्वं साक्षात्कृतमिति॥ भगवानाह। कुवलययैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यंभावीनि। कुवल<य>या कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स शोभावतीं राजधानीमुपनिश्रित्य विहरति॥ यावद्दक्षिणापथादन्यतरो नटाचार्य आगतः। तत्र शोभेन राज्ञा भगवतः सकाशात्सत्यदर्शनं कृत्वा नटाचार्याणामाज्ञा दत्ता बौद्धं नाटकं मम पुरस्तान्नाटयितव्यमिति। तैराज्ञा शिरसि प्रतिगृहीता एवं भदत्तेति॥ ततः सर्वनटैर्बौद्धं नाटकं विचार्य मुनिनिर्जितं कृतम्। यावद्राज्ञो ऽमात्यगणपरिवृ<तस्य पुर>तो नटा नाटयितुमारब्धाः। तत्र नटाचार्यः स्वयमेव बुद्धवेषेणावतीर्णः परिशिष्टा नटा भिक्षुवेषेण। ततो राज्ञा हृष्टतुष्टप्रमुदितेन नटाचार्यप्रमुखो नटगणो महता धनस्कन्धेनाच्छादितः॥ ततस्ते भगवच्छासने लब्धप्रसादा दानप्रदानानि दत्त्वा सम्यक्प्रणिधानं चक्रुः। अनेन वयं कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च अनागतान्बुद्धानारागयेम मा विरागयेमेति॥



किं मन्यध्वे भिक्षवो ये ते नटा इमे ते कुवलयाप्रमुखा यदेभिस्तत्र प्रणिधानं कृतं तेनेदानीमर्हत्त्वं साक्षात्कृतम। इति हि भिक्षव एकात्तकृष्णानां कर्मणामेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project