Digital Sanskrit Buddhist Canon

सूर्य इति ६९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Sūrya iti 69
सूर्य इति ६९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्मनुष्यैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः कपिलवस्तुनि विहरति न्यग्रोधारामे। कपिलवस्तुन्यन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिनूपो दर्शनीयः प्रासादिको महेशाक्यः शिरसि मणिरत्नयुक्तः। * * * *॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य दारकस्य शिरसि मणिरत्नं प्रादुर्भूतं तस्य मणिरत्नस्य प्रभया सर्वं गृहमवभासितं सूर्यस्येव तस्मादस्य सूर्यो नाम भवतु इति॥ सूर्यो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्यामंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्। सो ऽष्टाभिर्धात्रीभिरुन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशु वर्धते ह्रदस्थमिव पङ्कजम्। स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस्त्यागरुचिः प्रदानकौशलो महति त्यागे वर्तते॥



यावदपरेण समयेन सूर्यो दारको न्यग्रोधारामं गतः। अथासौ ददर्श बुद्धं भगवत्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतमशीत्या चानुव्यञ्जनैर्विराजितगात्रं व्यामप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं जङ्ग<म>मिव रत्नपर्वतं समत्ततो भद्रकं सहदर्शनाच्चानेन भगवतो ऽत्तिके चित्तं प्रसाद्य स्वशिरसि मणिरत्नसुद्धृत्य भगवत उपनामितम्। ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। ततो भगवता सूर्यस्यानुकम्पामुपादाय तन्मणिरत्नमुपगृह्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन सूर्येण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्। स दृष्टसत्यो दानप्रदानानि दत्त्वा श्रमणब्राह्मणवनीपकान्दुःखितान्सत्त्वान्संतर्पयित्वा मातापितरावनुज्ञाप्य भगवतः शासने प्रव्रजितः। तेन युज्यमानेन घटमानेन व्यायच्छमानेनेदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतम्। अर्हन्संवृत्तस्त्रैधातुकवीतरागः। समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभ<सत्कार>पराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश्च संवृत्तः॥



भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कानि भदत्त सूर्येण दारकेण कर्माणि कृतानि येन शिरसि मणिरत्नं जातं येन च महेशाख्यो ऽर्हत्त्वं च प्राप्तमिति॥ भगवानाह। सूर्येणैव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योधवत्प्रत्युपस्थितान्यवश्यभावीनि। सूर्येण कर्माणि कृतान्युपचितानि को ऽन्यः प्रत्यनुभविष्यति। न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यत्ते नाब्धातौ न तेजोधातौ न वायुधातावपि तूपात्तेष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यत्ते शुभान्यशुभानि च।



न प्रणश्यत्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलत्ति खलु देहिनाम्॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एक<न>वते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। <स> बन्धुमतीं राजधानीमुपनिश्रित्य विहरति। यावद्विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस्तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समत्तयोजनश्चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशमुच्चत्वेन यत्रानेकानि प्राणिशतसहस्राणि कारान्कृत्वा स्वर्गमोक्षपरायणानि भवत्ति। तत्र स्तूपमहो वर्तते। श्राद्धा ब्राह्मणगृहपतयो विचित्रैर्गन्धमाल्यविलेपनैश्छत्रैर्ध्वजैः पताकाभिः पूजां कुर्वत्ति॥ यावदपरेण पुरुषेण राज्ञः सकाशाद्यूतं क्रीडतः सूर्यावभासं मणिरत्नं निर्जितम्। ततस्तेन प्रसादजातेन विपश्यिनश्चैत्ये वर्षास्थाल्यां समारोपितम्। ततः पादयोर्निपत्य प्रणिधानं कृतम्। अनेनाहं कुशलेन चित्तोत्पादेन देयधर्मपरित्यागेन चैवंविधानां गुणानां लाभी स्यामेवंविधं शास्तारमारागयेयं मा विरागयेयमेवंविधेन चूडायां बद्धेन मातुः कुक्षेर्निर्गच्छेयमिति॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन अक्षधूर्त आसीदयं स सूर्यः। यत्तेन विपश्यिनः स्तूपे रत्नं समारोपितं तेनास्य शिरसि मणिरत्नं प्रादुर्भूतं तेनैव हेतुना अभिनूपो दर्शनीयः प्रासादिको ऽर्हत्त्वं च साक्षात्कृतम्। इति हि भिक्षव एकात्तकृष्णानां <कर्मणा>मेकात्तकृष्णो विपाक एकात्तशुक्लानामेकात्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस्तस्मात्तर्हि भिक्षव एकात्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि चैकात्तशुक्लेष्वेव कर्मस्वाभोगः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project