Digital Sanskrit Buddhist Canon

उपोषध इति ५९

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
उपोषध इति ५९।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिस्सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेन देवानां त्रयस्त्रिंशानामुपोषधो नाम देवपुत्रो ऽसकृदसकृद्भगवत्सकाशमुपसंक्रामति धर्मश्रवणाय॥ यावदपरेण समयेन उपोषधो नाम देवपुत्रः पञ्चशतपरिवारो येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकात्ते निषणो धर्मश्रवणाय॥ अथ भगवानुपोषधस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वोपोषधेन देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतापत्तिफलं साक्षात्कृतम्॥ स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥



ततो भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संविग्ना भगवत्तं पप्रच्छुः। किं भदत्त इमां रात्रिं भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः। भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु देवेषु त्रयस्त्रिंशेषूपोषधो नाम देवपुत्रः पञ्चशतपरिवारो मां दर्शनायोपसंक्रात्तस्तस्य मया धर्मो देशितो दृष्टसत्यश्च स स्वभवनं गत इति॥ भिक्षवस्संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। कुतो भदत्त उपोषधस्य देवपुत्रस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥ भगवानाह। इच्छथ यूयं भिक्षवः श्रोतुम्॥ एवं भदत्त॥ तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये॥



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्। स वाराणसीं नगरीमुप<नि>श्रित्य विहरति ऋषिपतने मृगदावे॥ यावदपरेण समयेन कृकी राजा भगवत्तं दर्शनायोपसंक्रामति पर्युपासनाय। यावद्द्वौ ब्राह्मणौ ऋषिपतनं गतौ केनचित्करणीयेन। ताभ्यां राजा दृष्टो महत्या राजऋद्या महता राजानुभावेन। तयो राज्याभिलाषो जातः। ताभ्यामन्यतम उपासकः पृष्टः। भो बुद्धोपासक किं कर्म कृत्वा यच्चित्तयति यत्प्रार्थयते तदस्य सर्वं समृध्यतीति॥ उपासकेनोक्तम्। यः परिशुद्धमष्टाङ्गसमन्वागतमुपवासमुपवसति यच्चित्तयति यत्प्रार्थयते त<द>स्य सर्वं समृध्यतीति॥ ततस्तौ ब्राह्मणौ आषाढस्य गृहपतेस्सकाशादष्टाङ्गसमन्वागतमुपवासमु<पलभ्यो>पोषितौ। तदैकेन परिशुद्धो रक्षितः। स कालं कृत्वा राज्ञः कृकेः पुत्रत्वमभ्युपग<तः>। तस्य सुजात इति नामधेयं व्यवस्थापितम्। स पितुरत्ययाद्राज्ये प्रतिष्ठापितः॥



द्वितीयेनोपवासः खण्डितः। स कालं कृत्वा नागेषूपपन्नः। तस्योपरि दिवसे <दिवसे सप्तकृत्वस्>तप्तवालुका निपतति यया सो ऽस्थिशेषः क्रियते॥ तस्यैतदभवत्। कस्येदं कर्मणः फलं कस्यायं कर्मणः फलविपाको येनाहमीदृशं दुःखमुनभवामीति। स पश्यत्यष्टाङ्गसमन्वागतं मे उपवासं समादाय शिक्षाशैथिल्यं कृतं येनाहमीदृशं महद्दुःखं प्रत्यनुभवामि येन पुनः समादाय रक्षितं तेन राज्यं प्रतिलब्धमिति। तस्यैतदभवत्। यन्न्वहमिदानीमपि तावदष्टाङ्गसमन्वागतमुपवासमुपवसेयमप्येव नाम नागयोनेर्मोक्षः स्यादिति॥ ततो नागवर्णमत्तर्धाप्य ब्राह्मणवर्णमात्मानमभिनिर्माय राज्ञः सकाशमुपसंक्रात्तः। उपसंक्रम्य जयेनायुषा च वर्धयित्वोवाच। अष्टाङ्गसमन्वागतेन मे महाराज उपवासे<न>प्रयोजनम्। तदर्हति देवो ऽष्टाङ्गसमन्वागतमुपवासं पर्येषितुम्। अथ न पर्येषसे नियतं देवस्य सप्तधा मूर्धानं स्फालयामि। इत्युक्ता तत्रैवात्तर्हितः॥ ततो राजा भीतस्त्रस्तसंविग्र आहृष्टरोमकूपो हिरण्यपिटकं ध्वजाग्रे बध्वा सर्वविजिते घण्टावघोषणं कारयामास। यो मे ऽष्टाङ्गसमन्वागतमुपवासं देशयिष्यति तस्यैतं हिरण्यपिटकं दास्यामि महता सत्कारेण सत्करिष्यामीति॥ यावदन्यतमा वृद्धा स्त्री पलगण्डदुहिता। तया राज्ञः स्तम्भो दर्शितः। अत्र मे स्तम्भे पिता असकृद्गन्धधूपपुष्पार्चनं कृतवान् तमुत्पाट्य प्रत्यवेक्षस्वेति॥ ततो राज्ञा पौरुषेयाणामाज्ञा दत्ता अयं स्तम्भ उत्पाट्यतामिति। ततो राजपुरुषै स्तम्भ उत्पाटितः। तस्याधस्तात्सुवर्णपत्त्राभिलिखितो ऽष्टाङ्गसमन्वागत उपवासो लब्धः स<ह> पञ्च चोपासकशिक्षापदानि सप्तत्रिंशच्च बोधिपक्ष्या धर्माः॥ ततो राज्ञा तस्य नागस्याष्टाङ्गसमन्वागत उपवासो लिखित्वा दत्त ऋषिपतननिवासिभिश्च द्वादशभिरृषिसहस्रैः सप्तत्रिंशद्बोधिपक्ष्या धर्माः प्रत्यक्षीकृताः। स च नागो ऽष्टाङ्गसमन्वागतमुपवासमुपोष्य स्थलमुद्गम्योत्सृष्टकायो ऽवस्थितः। सो ऽनाहारतां प्रतिपन्नः कालं कृत्वा पञ्चशतपरिवारः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। अतो भिक्षव उपोषधस्योत्पत्तिर्नामाभिनिर्वृत्तिश्चेति॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project