Digital Sanskrit Buddhist Canon

वस्त्रमिति ५५

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
वस्त्रमिति ५५।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे॥ यदानाथपिण्डदेन गृहपतिना बुद्धप्रमुखाय भिक्षुसङ्घाय जेतवनं निर्यातितं क्रमेण<च> कोटिशतं भगवच्छासने दत्तं तदा तस्य बुद्धिरभवत्। किमत्राश्चर्यं यदहं दानानि ददामि पुण्यानि वा करोमि यन्न्वहं दरिद्रजनानुग्रहार्थं श्रावस्तीनिवासिनो जनकायाच्छन्दकभिक्षणं कृत्वा भगवत्तं सश्रावकसङ्घमुपतिष्ठेयम्। एवं मे महाजनानुग्रहः कृतो भविष्यति बहु चानेन पुण्यं प्रसूतं भविष्यतीति॥ ततो ऽनाथपिण्डदेन गृहपतिना एष वृत्तात्तो राज्ञे निवेदितः। राज्ञा सर्वस्यां श्रावस्त्यां घण्टावघोषणं कारितम्। शृण्वत्तु भवत्तः श्रावस्तीनिवासिनः पौरा अद्य सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर्हस्तिस्कन्धाभिनूढस्तथागतस्य सश्रावकसङ्घर्स्याथाय च्छन्दकभिक्षणं कर्तुकामः। यस्य वो यन्मात्रं परित्यक्तं तदनुप्रदातव्यमिति॥ यावत्सप्तमे दिवसे ऽनाथपिण्डदो गृहपतिर्हस्तिस्कन्धाधिनूढस्तथागतस्य सश्रावकसङ्घस्यार्थाय च्छन्दकभिक्षणं कर्तुं प्रवृत्तः। तत्र येषां यन्मात्रो विभवस्ते तन्मात्रं दातुं प्रवृत्ताः। केचिद्वारं प्रयच्छत्ति केचित्कटकं केचित्केयूरं केचिज्जातनूपमालां केचिदङ्गुलिमुद्रां केचिन्मुक्ताहारं केचिद्विरण्यं केचित्सुवर्णं केचिदत्तशः कार्षापणम्। गृहपतिरपि परानुग्रहार्थं प्रतिगृह्णाति॥



यावदन्यतमा स्त्री परमदरिद्रा। तया त्रिभिर्मासैः कृच्छ्रेण पटक उपार्जितः। सा तं पटकं प्रावृत्य वीथीमवतीर्णा ऽनाथपिण्डदश्च तया दूरत एवागच्छन्छङ्खपटहैर्वाद्यमानैरवलोकि<तः।> तयान्यतम उपासकः पृष्टः। यदि तावदयं गृहपतिराढ्यो महाधनो महाभोगो ऽत्त<र्भूमौ> निगूढान्यपि निधानानि पश्यति कस्मादयं परकुलेभ्यो भैक्ष्यमटतीति॥ सा उपासकेनोक्ता। परानुग्रहार्थं ये ऽसमर्था भगवत्तं सश्रावकसङ्घं भोजयितुं तेषामर्थे ऽनुग्रहं करोति कथं बहवः समेता भगवत्तं प्रतिपादयेयुरिति॥ ततस्तस्या दारिकाया बुद्धिरुत्पन्ना ऽहं तावदकृतपुण्या न मे शक्तिरस्ति यदहमेकाकिनी भगवत्तं सश्रावकसङ्घं भोजनेन प्रतिपादयेयं यन्न्वहमत्र किञ्चिदनुप्रदद्यामिति॥ सा स्वकं विभवमवलोकयत्ती न किञ्चित्पश्यति ऋते पटकात्। सा चित्तयितुं प्रवृत्ता यद्यहमिहस्थैव पटकं प्रदास्यामि नग्ना भविष्यामि यन्न्वहं शरणपृष्ठमभिरुह्य पटकं क्षिपेयमिति॥ ततः सा शरणपृष्ठमभिरुह्य स्वशरीरात्पटकमवनीयानाथपिण्डदस्योपरि क्षिप्त<वती। सा> गृहपतिना संलक्षिता नूनमस्या एष एव विभवो यदनया शरणसंस्थया क्षिप्तमिति॥ तेन स्वपौरुषेयाणामाज्ञानुप्रदत्ता गच्छत्तु भवत्तो ऽवलोकयत्तु केनायं पटकः क्षिप्त इति। तैरवलोकिता यावदुत्कुटुका निषण। ततस्तैः पृष्टा तया चोक्तं यो मे विभव आसीत्स मे भगवद्रुणानुकीर्तनं प्रतिश्रुत्य दारिद्रभयभीतया तथागतप्रमुखे भिक्षुसङ्घे दत्त इति॥ ततस्तैरनाथपिण्डदाय निवेदितम्। ततो ऽनाथपिण्डदेन गृहपतिना परमविस्मयजातेन सा दारिका विचित्रैर्वस्त्रैराभरणैश्चाच्छादिता॥ सा चाल्पायुष्का कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। उपपन्नमात्रायास्तस्यास्तथाविधानि वस्त्राणि प्रादुर्भूतानि न कस्यचिदन्यस्य देवपुत्रस्य वा देवकन्याया वा॥



धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपसंपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतः पटकप्रदानादिति॥ ततो वस्त्रदायिका देवकन्या चलविमलकुण्डलधरा हारार्धहारविभूषितगात्री मणिरत्नविचित्रचूडा कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्री तामेव रात्रिं दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वं जेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय। अथ भगवान्पटकप्रदायिकाया देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा पटप्रदायिकाया देवकन्याया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं साक्षात्कृतम्॥ सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णा च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥



अथ पटप्रदायिका देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥



भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके <उदारो ऽवभासः।> यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्रौ भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ताः। या दरिद्रदारिका ऽनाथपिण्डदस्य गृहपतेश्छन्दकभिक्षणं कुर्वाणस्य पटं दत्त्वा कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना सा इमां रात्रिं मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितः सा प्रसादजाता प्रक्रात्ता दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यद्बुद्धधर्मसङ्घेषु कारान्करिष्यामो नापकारानित्येवं वो भिक्षवः शिक्षितव्यम्।



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project