Digital Sanskrit Buddhist Canon

श्रीमतीति ५४

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
श्रीमतीति ५४।



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घो राजगृहमुपनिश्रित्य विहरति वेणुवने कलन्दकनिवापे। राजगृहे नगरे राजा बिम्बिसारो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च प्रशात्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नमखिलमकण्टकमेकपुत्रकमिव राज्यं पालयति॥ यदा राज्ञा बिम्बिसारेण भगवतः सकाशात्सत्यानि दृष्टानि तदा रात्रिं भगवत्तमुपसंक्रामति सार्धमत्तः- पुरेण॥ अथ राजा बिम्बिसारो <ऽपरे>ण समयेन संप्राप्ते वसत्तकालसमये संपुष्पितेषु पादपेष हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकनिर्घोषिते वनषण्डे देव्या सहात्तःपुरपरिवृत उद्यानभूमिं निर्गतः। तत्र चात्तः पुरिकाभी राजा विज्ञप्तो देव वयं न शक्नुमो ऽहन्यहनि भगवत्तमुपसंक्रमितुं तत्साधु देवो ऽस्मिन्नत्तःपुरे तथागतस्य केशनखस्तूपं प्रतिष्ठापयेद्यत्र वयमसकृत्पुष्पैर्गन्धैर्माल्यैर्विलेपनैश्छत्त्रैर्ध्वजैः पताकाभिः पूजां कुर्यामेति॥ यावद्राज्ञा बिम्बिसारेण भगवान्विज्ञप्तो दीयतामस्मभ्यं केशनखं येन वयं तथागतस्तूपमत्तःपुरमध्ये प्रतिष्ठापयाम इति। यावद्भगवता केशनखं दत्तम्॥ राज्ञा बिम्बिसारेण महता सत्कारेणात्तःपुरसहायेन तथागतस्य केशनखस्तूपो ऽत्तःपुरमध्ये प्रतिष्ठापितः तत्र चात्तः पुरे ऽत्तःपुरिका दीपधूपपुष्पगन्धमाल्यविलेपनैरभ्यर्चनं कुर्वत्ति॥



यदा पुना राज्ञा ऽजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्यवरोपितः स्वयं च राज्यं प्रतिपन्नः तदा भगवच्छासने सर्वदेयधर्माः समुच्छिन्नाः क्रियाकारश्च कारितो न केनचित्तथागतस्तूपे काराः कर्तव्या इति॥ यदा पञ्चदश्यां प्रव्रारणा संवृत्ता तदा तत्र केशनखस्तूपे न कश्चित्संमार्जनं दीपधूपपुष्पदानं वा कुरुते। ततो ऽत्तःपुरिकाः केशनखस्तूपं तथाविधं राजानं च बिम्बिसारमनुस्मृत्य करुणकरुणं रोदितुमारब्धाः हा कष्टं धर्मराजवियोगाद्वयं पुण्यात्प्रहीणा इति॥ तत्र च श्रीमती नामात्तःपुरिका। सा स्वकं जीवितमगणयित्वा बुद्धगुणांश्चानुस्मृत्य केशनखस्तूपं संमृज्य दीपमालामकार्षीत्॥ यावदजातशत्रुरुपरिप्रासादतलगतस्तमुदारमवभासं दृष्ट्वा पप्रच्छ किमिदमिति। यावदन्यया कथितं श्रीमत्या केशनखस्तूपे दीपमाला कृतेति॥ ततः श्रीमतीमाहूय कथयति। किमर्थं राजशासनमतिक्रमसीति॥ सा कथयति। यद्यपि मया तव शासनमतिक्रात्तं किं तु धर्मराजस्य मया बिम्बिसारस्य शासनं नातिक्रात्तमिति॥ ततस्तेन कुपितेन चक्रं क्षिप्त्वा जीविताद्यवरोपिता। सा भगवति प्रसन्नचित्ता कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना॥



तत्र काले देवसमितिरुपस्थिता। अथ श्रीमती देवकन्या समत्तयोजनं दिव्यप्रभामण्डलावभासिता देवसमितिमुपसंक्रात्ता। ततः शक्रो देवेन्द्रस्तमुदारमवभासं दिव्याञ्च प्रभां समत्तयोजनां दृष्ट्वा पप्रच्छ।



गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव।

गात्रश्रीरतुला कृतेयमिह ते देहात्प्रभा निःसृता।

वक्तं केन विबुद्धपद्मसदृशं चामीकराभं तव।

ब्रूहि त्वं मम देवते फलमिदं यत्कर्मजं भुज्यते॥



देवता प्राह।

त्रैलोक्यनाथं जगतः प्रदीपं निरीक्ष्य बुद्धं वरलक्षणाढ्यम्।

चकार दीपं वदतां वरस्य तमोनुदं क्लेशतमोनुदस्य॥

दृष्ट्वा प्रभां चन्द्रमरीचिवर्णां चकार भावेन मुनौ प्रसादम्।

प्रभाञ्च हर्षात्समुदीक्ष्य शास्तुः चक्रे प्रणामं वदतां वरस्य॥

तत्कर्मणः श्रिया देहं राजते ऽभ्यधिकं मम।

जलजेन्दुविशुद्धाभं वदनं कात्तदर्शनम्॥



शक्रः प्राह।

अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

यत्र न्यस्तं त्वया बीजमिष्टं स्वर्गोपपत्तये॥

को नार्चयेत्प्रवरकाञ्चनराशिगौरम्।

बुद्धं विशुद्धकमलायत<प>त्रनेत्रम्।

यत्राधिकारजनितानि वराङ्गनानाम्।

रेजुर्मुखानि कमलायतलोचनानि॥



धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नः केन कर्मणेति। सा पश्यति मनुष्येभ्यश्च्युता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना भगवतो ऽत्तिके चित्तमभिप्रसाद्येति॥ अथ श्रीमत्या देवकन्याया एतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासा भगवत्तं दर्शनायोपसं<क्रामेयं यन्न्वहमपर्युषितपरिवासा एव भगवत्तं दर्शनायोपसं>क्रामेयमिति॥ अथ श्रीमती देवकन्या दिव्यप्रभावभासपरिवेष्ठिता दिव्यानामुत्पलपद्मकुमुदपुण्डरीकमन्दारकाणामुत्सङ्गं पूरयित्वा सर्व वेणुवनं कलन्दकनिवापमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषण्णा धर्मश्रवणाय॥ अथ भगवाञ्छ्रीमत्या देवकन्याया आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा श्रीमत्या देवकन्यया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं प्राप्तम्॥



सा दृष्टसत्या त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णा च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनम्॥

अवनम्य ततः प्रलम्बहारा चरणौ द्वावभिवन्द्य जातहर्षा।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखी दिवं जगाम॥



अथ श्रीमती देवकन्या वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगविमुक्त इवातुरो यया विभूत्या भगवत्सकाशमागता तयैव विभूत्या स्वभवनं गता॥



भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्निमां रात्रिं ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला <भगवत्तं दर्शना>योपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि तु राज्ञो बिम्बिसारस्य श्रीमती नामात्तः पुरिका स्वजीवितमगणयित्वा बुद्धगुणांश्चानुस्मृत्य तथागतस्य केशनखस्तूपे दीपमालां कृतवती ततो राज्ञा ऽजातशत्रुणा कुपितेन जीविताद्यवरोपिता। सा ममात्तिके चित्तं प्रसाद्य कालगता प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्ना। सास्यां रात्रौ मत्सकाशमुपसंक्रात्ता तस्या मया धर्मो देशितः दृष्टसत्या च स्वभवनं गता। तस्मात्तर्हि भिक्षव एवं शिक्षितव्यं यच्छास्तारं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः शास्तारं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्रित्य विहरिष्याम इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project