Digital Sanskrit Buddhist Canon

चन्द्र इति ५२

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
चन्द्र इति ५२



बुद्धो भगवान्सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर्धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर्देवैर्नागैर्यक्षैरसुरैर्गरुडैः किन्नरैर्महोरगैरिति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसङ्घः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे। श्रावस्त्यामन्यतमः कर्षको ब्राह्मणः। तेन सदृशात्कुलात्कलत्रमानीतम्। स तया सार्धं क्रीडति रमते परिचारयति। तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता। साष्टानां वा नवानां वा मासानामत्ययात्प्रसूता। दारको जातो ऽभिनूपो दर्शनीयः प्रासादिकः सर्वजनमनोनयनप्रह्लादनकरः। तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते किं भवतु दारकस्य नामेति। ज्ञातय ऊचुः। यस्मादस्य जातौ सर्वलोकानां नयनप्रह्लादनं तस्माद्भवतु अस्य दारकस्य चन्द्र इति नामेति। स च तेन ब्राह्मणेन कृच्छ्रेण लब्धो न चास्यान्यः पुत्रो न दुहिता॥



स उन्नीतो वर्धितो महान्संवृत्तः। स सर्वलोकप्रह्लादनकरत्वाद्बाह्मणगृहपतिभिः कृत्स्नं नगरमन्वाहिण्ड्यत इति स ब्राह्मणस्तस्मिन्भूयस्या मात्रया ऽध्यवसितो नित्यमेव क्रमस्थानशय्यासु संरक्षणपरो ऽवतिष्ठते॥ तस्य च ब्राह्मणस्यानाथपिण्डदसमीपे गृहम्। अथ स ब्राह्मणदारको ऽनाथपिण्डदसंसर्गाज्जेतवनं गत्वा बुद्धवचनं शृणोति। तेन भगवच्छासने प्रसादः प्रतिलब्धः॥ स चाल्पायुष्कः कालं कृत्वा प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः॥



धर्मता खलु देवपुत्रस्य वा देवकन्याया वाचिरोपपन्नस्य त्रीणि चित्तान्युत्पद्यत्ते कुतश्च्युतः कुत्रोपपन्नश्च केन कर्मणेति। पश्यति मनुष्येभ्यश्च्युतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नो भगवतो ऽत्तिके चित्तमभिप्रसाद्येति। अथ ब्राह्मणपूर्विणो देवपुत्रस्यैतदभवत्। न मम प्रतिनूपं स्याद्यदहं पर्युषितपरिवासो भगवत्तं दर्शनायोपसंक्रामेयं यन्न्वहमपर्युषितपरिवास एव भगवत्तं दर्शनायोपसंक्रामेयमिति। अथ ब्राह्मणपूर्वको देवपुत्रश्चलविमलकुण्डलधरो हारार्धहारविराजितगात्रो मणिरत्नविचित्रचूडः कुङ्कुमतमालपत्रस्पृक्कादिसंसृष्टगात्रस्तस्यामेव रात्रौ दिव्यानामुत्पलकुमुदपुण्डरीकमन्दारकाणां पुष्पाणामुत्सङ्गं पूरयित्वा सर्वजेतवनमुदारेणावभासेनावभास्य भगवत्तं पुष्पैरवकीर्य भगवतः पुरस्तान्निषणो धर्मश्रवणाय। अथ भगवान्ब्राह्मणपूर्वकस्य देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्यां श्रुत्वा ब्राह्मणपूर्वकेण देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोतआपत्तिफलं प्राप्तम्। स दृष्टसत्यस्त्रिरुदानमुदानयति। इदमस्माकं भदत्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर्नेष्टेन स्वजनबन्धुवर्गेण न पूर्वप्रेतैर्न श्रमणब्राह्मणैर्यद्भगवतास्माकं कृतम्। उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वताः पिहितान्यपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि प्रतिष्ठापिताः स्मो देवमनुष्येषु। आह च।



तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।

अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥

त्वदाश्रयाच्चाप्तमपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः।

प्राप्तं च शात्तं पदमार्यकात्तं तीर्णश्च दुःखार्णवपारमस्मि॥

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय।

भवसहस्रसुदुर्लभदर्शन सफलमद्य मुने तव दर्शनमिति॥

अवनम्य ततः प्रलम्बहारश्चरणौ द्वावभिवन्द्य जातहर्षः।

परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम॥



अथ ब्राह्मणपूर्वको देवपुत्रो वणिगिव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया हि विभूत्या भगवत्सकाशमागतस्तयैव विभूत्या स्वभवनं गतः॥



भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्ता विहरत्ति। तैर्दृष्टो भगवतो ऽत्तिके उदारो ऽवभासः। यं दृष्ट्वा संदिग्धा भगवत्तं पप्रच्छुः। किं भगवन्नस्यां रात्र्यां भगवत्तं दर्शनाय ब्रह्मा सहाम्पतिः शक्रो देवेन्द्रश्चत्वारो लोकपाला उपसंक्रात्ताः॥ भगवानाह। न भिक्षवो ब्रह्मा सहाम्पतिर्न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रात्ता अपि यो ऽसावेकपुत्रको ऽस्य ब्राह्मणस्य पुत्रो ऽल्पायुष्कः कालगतः <स>ममात्तिके चित्तमभिप्रसाद्य प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नः। सो ऽस्यां रात्रौ मत्सकाशमुपसंक्रात्तस्तस्य मया धर्मो देशितो दृष्टसत्यश्च स्वभवनं गतः॥



अत्र चात्तरे स ब्राह्मणस्तमेकपुत्रकमिष्टं कात्तं प्रियं मनापं क्षात्तमप्रतिकूलं श्मशाने निर्हृत्योत्सङ्गे कृत्वा करुणकरुणं विलपन्कथयति हा पुत्रक हा एकपुत्रकेति। ज्ञातयः सुबह्वपि शोकविनोदनं कुर्वाणा न शक्रुवत्त्युत्थापयितुम्। स काककुररश्वसृगालगृध्रपरिवृतः प्रकीर्णकेशीभिः स्त्रीभिरनुगतो महाजनकायेन चोद्वीक्ष्यमाणस्तिष्ठति॥ ततो ऽस्य पुत्रो देवभूतः पितरं परिदेवमानं दृष्ट्वा कारुण्यादाकम्पितहृदयः पितुः शोकविनोदनार्थमृषिवेषधारिणमात्मानमभिनिर्माय श्मशानसमीपे पञ्चतपावस्थितः॥ अथ स ब्राह्मणस्तमृषिं पप्रच्छ। भो महर्षे अनेन तपसा किं प्रार्थयस इति॥ ऋषिराह। राज्यं प्रार्थये सौवर्णश्च मे रथः स्यान्नानारत्नविचित्रः सूर्यचन्द्रमसौ रथचक्रे स्यातां चत्वारश्च लोकपालाः पुरस्तान्नयेयुः सो ऽहं तं रथमभिरुह्येमां महापृथिवीमन्वाहिण्डेयेति॥ ब्राह्मणः कथयति।



यदि वर्षशतं पूर्ण तपिष्यसि निरत्तरम्।

न लप्स्यसे ऽपि तत्स्थानं परमतपसापि हीति॥

ऋषिः कथयति। त्वं च पु<नर>नेन मृतकुणपेनाशुचिना परमदुर्गन्धेन शवेन काष्ठभूतेन किं प्रार्थयस इति॥ ब्राह्मणः प्राह। प्रियो मे एकपुत्रकः कालगतस्तं प्रार्थय इति॥ ऋषिराह।

यदि वर्षशतं पूर्णं रोदिष्यसि निरत्तरम्।

न लप्स्यसे ऽपि तं पुत्रं रुदितेन हि किं तवेति॥



ततस्तस्य ब्राह्मणस्य भूतमृषिवचनमवगत्य प्रसादो जातः प्रसादजातश्चाह। कस्त्वमिति॥ तत ऋषिस्तं वेषमत्तर्धाप्य स्ववेषेण स्थित्वा पितरमाह। अहं ते स एकपुत्रको भगवतो ऽत्तिके चित्तं प्रसाद्य कालगतः प्रणीतेषु देवेषु त्रयस्त्रिंशेषूपपन्नस्तव शोकविनोदनार्थमिहागत एहि त्वं तात बुद्धं भगवत्तं शरणं गच्छ अप्येव त्वमपि संसारसमतिक्रामं कुर्या इति॥



अथ स ब्राह्मणो मृतशरीरमपहाय येन भगवांस्तेनोपसंक्रात्तः। उपसंक्रम्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषणो धर्मश्रवणाय। तस्मै भगवता चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा तेन ब्राह्मणेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा स्रोत आपत्तिफलं प्राप्तम्। स लब्धोदयो लब्धलाभो भगवतः पादौशिरसा वन्दित्वा भगवत्तं त्रिः प्रदक्षिणीकृत्य प्रक्रात्तः॥



ततो भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवत्तं पप्रच्छुः। पश्य भगवन्यावदनेन देवपुत्रेणायं पिता शोकं विनोद्य सत्यदर्शने प्रतिष्ठापित इति॥ भगवानाह। किमत्र भिक्षव आश्चर्यं यदनेनैतर्हि दृष्टसत्येन पिता परित्रातः। यत्त्वनेनातीते ऽध्वनि पृथग्जनेन सता यावत्त्रिरपि पिता जीविताद्यवरोप्यमाणः परित्रातः तच्छृणु<त साधु च> सुष्ठु च मनसि कुरुत भाषिष्ये।



भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यामन्यतमः पारदारिकः। तस्य पुत्रो भद्रः कल्याणाशयो ऽतीव लोकस्याभिमतः॥ यावदस्य पित्रा चौर्यं कृतम्। ततो राज्ञा वध्यतामित्याज्ञप्तम्। ततः पुत्रेण यावत्रिरपि राजानं विज्ञाप्य इष्टेन जीवितेनाच्छादितः॥



भगवानाह। किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन पारदारिक आसीदयं स ब्राह्मणः पारदारिकपुत्रो ऽयमेव ब्राह्मणदारकः॥



भिक्षव ऊचुः। किं कर्म कृतं येन पितापुत्राभ्यां सत्यदर्शनं कृतमिति॥ भगवानाह। काश्यपे सम्यक्संबुद्धे उपासकभूताभ्यां शरणगमनशिक्षापदग्रहणं कृतं तेनेदानीं सत्यदर्शनं कृतम्। तस्मात्तर्हि भिक्षवस्सर्वसंस्कारा अनित्याः सर्वधर्मा अनात्मानः शात्तं निर्वाणमिति निर्वाणे यत्नः करणीय इत्येवं वो भिक्षवः शिक्षितव्यम्॥



इदमवोचद्भगवानात्तमनसस्ते भिक्षवो ऽन्ये च देवासुरकिन्नरगरुडमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project